तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्

भगवद्द्रष्टा हर्षशोकौ प्रजहाति

उपनिषत्

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।

अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ।। १.२.१२ ।

भाष्यम्

गह्वरे मुक्तजीवे स्थितम् ॥ १.२.१२ ॥

श्रीव्यासतीर्थ:

न केवलं त्वं अन्योऽपि तं दृष्ट्वा हर्षशोकौ जहातीत्याह- तमिति ।। अध्यात्मयोगो ध्यानयोगः । मत्वा ज्ञात्वा ॥ १.२.१२।।

व्या. भा- अतिविपिने स्थितमित्यन्यथाप्रतीतिं निवारयन्व्याचष्टे - गह्वर इति ॥ मुक्तस्य संसार्यगम्यत्वाद् गह्वरत्वम् ॥ १.२.१२ ॥

वामनपण्डिताचार्य:

उरुगांयस्याभयस्य पारत्वं यदुक्तं तदेव विशिनष्टि - तं दुर्दर्शमिति । सर्वपदार्थेषु गूढत्वेन अनुप्रविष्टम्, विशेषतो जीवानां हृदयगुहायां निहितम् । गहनेषु वरत्वाद् गह्वरो मुक्तजीवः । तस्मिन्नपि मुक्तनियामकत्वेन स्थितम् । गह्वरेषु प्रेतेषु तं मत्वा प्राकृतहर्षं शोकं च जहाति ।। १.२.१२ ।।

श्रीवेदेशतीर्थ:

गह्वरेष्ठंगह्वरे विषमे अनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम्इति व्याख्यानमसदिति भावेन तद्व्याचष्टे - गह्वर इति ॥ मुक्तजीवस्य शास्त्रं विना संसार्यगम्यत्वाद्गह्वरत्वम् । तस्य जीवपरत्वे दुर्दर्शत्वमनुपपन्नम् । तस्य ‘‘यत्तदद्रेश्यम्’(आ.उ.१.१.६ )अदृश्यत्वादिगुणको धर्मोक्तेः” (ब्र.सू. १.२.२१) इति ब्रह्मण्येव श्रवणात् । गुहानिहितत्वञ्च भगवत एवेत्युक्तम् । नच जीवज्ञानाद्धर्षशोकत्यागरूपो मोक्षः सम्भवतीति भावः ।। १.२.१२ ॥

श्रीवेदेशतीर्थखण्डार्थ:

वक्ष्यमाणरीत्या मुक्तनियामकभगवत्स्वरूपज्ञानेनैव मोक्षप्राप्तिः । सामान्यादग्निस्थभगन्रज्ज्ञानेऽपि वक्ष्यमाणरीत्या मुक्तनियामकभगवज्ज्ञानाभावे मोक्षासम्भवात् । अत एव तत्स्वरूपकथने ममातिकृच्छ्रतेति भावेन मुक्तस्थित भगवज्ज्ञानस्य मोक्षसाधनत्वमाह - तमिति ॥ धीरोऽधिकारी गह्वरे मुक्तजीवे तिष्ठतीति गह्वरेष्ठम् । तत्रापि गुहाहितं मुक्तजीवहद्गुहानिहितम् । अत एव गूढं गूढत्वमनुप्रविष्टं प्राप्तं अत एव दुर्दर्श पुराणं सनातनं अनाद्यनन्तकालेषु । मुक्तस्थत्वोपपादकमेतत् । देवं क्रीडादिगुणसम्पन्नं भगवन्तं भत्त्वा ध्यात्वा अध्यात्मयोगाधिगमेन अधिकश्चासावात्मा चाध्यात्मा स एव योगो मोक्षोपाय इत्यध्यात्मयोगस्तस्याधिगमस्तदपरोक्षज्ञानं तेन । अध्यात्मयोगो ध्यानयोगस्तज्जन्याधिगमेन वा । हर्षशोकौ जहाति ।। १.२.१२ ।।

श्रीवरदतीर्थ:

वरद- गह्वरेष्ठपदार्थस्य दुर्गमत्वात्तमाह- गह्वर इति । जनागम्यस्थानं हि गह्वरमित्युच्यते । लोके मुक्तजीवोऽप्यस्मदादिजनैरगम्यत्वात् गह्वरमुच्यते । तस्मिन् स्थितमित्यर्थः ।। १.२.१२ ।।

श्रीवरदतीर्थखण्डार्थ:

परमेश्वरज्ञाने सति किं फलं भवतीत्यत आह- तं दुर्दर्शमिति ॥ गूढं गूढत्वम् । अध्यात्मयोगाधिगमेनेति अधिकात्मविषयाष्टाङ्गयोगेन एतद्ब्रह्म श्रुत्वा सम्परिगृह्य सम्यगवधार्य ।। १.२.१२ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

न केवलं त्वमेव त्वदन्योऽपि तं दृष्ट्वा तृप्तो भवतीत्याह - तमिति ॥ दुर्दर्श अतिप्रयत्नेन ज्ञेयं गूढं अनभिव्यक्तम्, अनुप्रविष्टं प्रेरकतया सर्वजगदन्तः प्रविष्टम्, गुहाहितं सर्वप्राणिहृदयगुहायां हितं संस्थितम्, गह्वरेष्ठं मुक्तजीबे स्थितम्, संसार्यगम्यत्वात् मुक्ता मह्वरो ज्ञेयः, पुराणं पुरातनम्, अध्यात्मयोगेन ध्यानयोगेन जातोऽधिगमः, तेन देवं क्रीडादिगुणविशिष्टं मत्वा ज्ञात्वा धीरो हर्षशांक जहाति । यस्तु उक्तगुणविशिष्टं भगवन्तं ध्यानोपायेन ज्ञात्वा आस्तं स धीरः कामप्राप्त्यप्राप्तिभ्यां हर्षशोकयुक्तो न भवति । भगवज्ज्ञानेन तृप्तस्सन् परमानन्दभरित एवास्त इति भावः ॥ १.२.१२ ।।