शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका

ज्ञानिनां चरमशरीरनिष्क्रमणप्रकारकथनम्

उपनिषत्

शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति ॥ २.३.१६ ॥

श्रीव्यासतीर्थ:

व्या- एवं मोक्षबोधिकां ब्रह्मविद्यां निरूप्य ज्ञानिनश्चरमदेहान्निष्क्रमणे अवश्यं पूर्वं ध्येयं मार्गमाह- शतमित्यादिना ॥ २.३.१६ ।।

वामनपण्डिताचार्य:

एवं तावद्देवादीनां लिङ्गशरीरभङ्गात्मको मोक्ष उक्तः । अथ मानुषदेहिनां तद्देहादुत्क्रमणप्रकारमाह- शतं चेति ॥ तया शताधिकया नाड्या | भगवदनुग्रहेण स्थूलदेहादुत्क्रम्य अर्चिरादिमार्गेण ऊर्ध्वं गच्छन् उक्तप्रकारेण लिङ्गभङ्गादमृतत्वमेति ॥ २.३.१६॥

श्रीवेदेशतीर्थखण्डार्थ:

अमृतत्वप्राप्तिस्तु ब्रह्मनाड्योत्क्रमण एव भवति नान्यथेत्याह- शतमिति ॥ शतचैका च हृदयस्य नाड्यः सन्ति । तासां मध्ये एका प्रधाना नाडी हृदयमारभ्य मूर्धानमभिनिःसृता । तया नाड्या ऊर्ध्वमायन्नमृतत्वं मोक्षमेति । 'अन्या नाड्यो विष्वगुत्क्रमणे, तादर्थ्य सप्तमी, लोकान्तर- गमनार्थं भवन्तीत्यर्थः ।।२.३.१६।।

श्रीवरदतीर्थखण्डार्थ:

वरद. खं- ज्ञानिनां मोक्षः कदा भवतीत्यत उच्यते- शतश्चैका चेत्यादि ॥ यदा ब्रह्मनाड्या उत्क्रमणं तदा मोक्षः । अन्यदा नेति परिहाराभिप्रायः ।। ।।२.३.१६।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

एवं मोक्षहेतुब्रह्मविद्यामुक्त्वा ज्ञानिनः चरमदेहान्निष्क्रमणेऽवश्यं पूर्वं ध्येयमार्गमाह- शतमित्यादिना || हृदयस्य हृदयसम्बन्धिन्यो नाड्यः शतं चैका च एकोत्तरशतं नाड्यो भवन्ति । तासां मध्ये एका नाडी मूर्धानमभि प्रति निस्सृता तावत्पर्यन्तं गता । तया शतोत्तरया सुषुम्नाख्यया ऊर्ध्वं गच्छन् अमृतत्वमेति । अन्याश्च शतं नाड्यः विष्वगुत्क्रमणे लोकान्तरगमनार्थं भवन्ति । सुषुम्नामार्गे ज्ञानिनां ध्येय इति भावः । तदाह सूत्रकारः ं ‘“गत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया" ( ब्र. सू. ४-२ - १७) इति ।। २.३.१६ ।।