यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत
सोऽयं भूतभव्येशः ब्रह्मादीन् देवान् सृजति
उपनिषत्
यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद् वै तत् ।।२.१.६।।
भाष्यम्
'अम्मामभ्यश्च भूतेभ्यस्तपोनाम: शिवादपि ।
पूर्वं यो जनयामास पूर्वाजातं चतुर्मुखम् ॥
'स्वात्मानं च गुहासंस्थं सर्वभूतैः सहाभिभूः ।
यः पश्यति सदा विष्णुस्स एष हृदि संस्थितः ।।' इति च ॥
यथा " मुखादिन्द्रश्वाग्निश्व" इत्यादिना जाता एवेन्द्रादयः कश्यपात् पुनर्जायन्ते न तथा भगवतो ब्रह्मा । किन्त्वजातमेवाद्भ्यः पूर्वमजायत जनयामास । अजायतेति “ जज्ञे बहुज्ञम्” इतिवदन्तर्णीतणिच् ।। २.१.६ ॥
श्रीव्यासतीर्थ:
यः पूर्वमिति वाक्यं दुर्गमार्थत्वाद्व्याचष्टे - अम्मामभ्य इति ॥ गुहां प्रविश्येति वाक्यं योजनाप्रतीतेर्व्याचष्टे - स्वात्मानमिति । कस्मादपि पूर्वमजातं पूर्वाजातमिति सूचितमर्थं स्ववाक्येन विशदयति- यथेत्यादिना ।। यथेन्द्रादिजनकस्य कश्यपस्य न तेभ्य उत्तमत्वं न तथा विष्णोः ब्रह्मणः । तस्य पूर्वाजाततज्जनकत्वादुत्तमत्वमेवेति भावार्थः । अजायतेत्यस्य स्वयमुत्पन्न इत्यर्थत्वात् कथं जनयामासेति णिजर्थतया व्याख्येत्यतः प्रयोगदर्शनेनोप- पादयति- अजायतेति ॥ २.१.६ ।।
वामनपण्डिताचार्य:
सोऽयं भूतभव्येशो देवान् ब्रह्मादीनसृजदित्यभिप्रायेणाह - यः पूर्वमिति ॥ एतदभिप्रायं “ अम्नामभ्यश्च भूतेभ्यः" इत्यादिना महावराहवचनेन स्पष्टयति । ‘‘पञ्चम्यामाहुतावापः " ( छं. ५.२.११) इत्यादावम्नामकत्वं भूतानां प्रसिद्धम् ।
दशकल्पं तपश्रीर्णं रुद्रेण लवणार्णवे ।
त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ||" अनु. ३.४. ३७
'उग्रतपोनामा योग्यो रुद्रपदस्य यः " (अनु. ४.१.४) इत्यादिना महातपस्तप्त्वा धर्मधर्म्यभेदाच्च तपोनामकः शिवः । विष्णुना जायमानोऽपि तत्पूर्वमन्यस्मादजातत्वादजनामकश्चतुर्मुखः । “स्वात्मानं च" इत्यादिना ‘‘गुहां प्रविश्य’” इत्यादिवाक्यशेषं व्याख्याति । अभिभूः सर्वाधिकशक्तिः । पूर्वाजातजननं यथावद् व्युत्पादयति । यथैव इन्द्रादयः पूर्वं विष्णोर्जाता एव कश्यपाज्जायन्ते तथैव ब्रह्मापि पूर्वमन्यस्माज्जात एव विष्णोः पुनर्जायत इति न मन्तव्यम् । किन्त्वन्यस्मादजात एवायमस्माज्जायते । कुतः ? अजातमेव हि भगवान् अबादिभ्यः पूर्वमिमं जनयामास । " जज्ञे बहुज्ञम्” इत्यत्र जनयामासेत्यर्थो गम्यते, तद्वदत्राप्यविरोधः || २.१.६ ॥
श्रीवादिराजतीर्थ:
वादि - “ यः पूर्वं तपसो जातमद्भय:" इत्यत्र अद्भ्यः आ समन्ता- द्रक्षकत्वेनाप्पदवाच्येभ्यः पञ्चमहाभूतेभ्यः तपसः दिगम्बरत्वजटिलत्वादिना तपः प्रवर्तकाद्रुद्राच्च पूर्वमजातं प्राग् भगवदितरस्मात् कस्माचिदप्यजातं अभिनवपुत्रमित्यर्थः । ब्रह्माणमजायत अन्तर्णीतो णिच् । जनयामासेत्यर्थः । सकलजीवहृदयगुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिस्तैस्तैर्जीवैस्सह
व्यपश्यत ।। २.१.६ ॥
श्रीवेदेशतीर्थ:
“यः पूर्वं तपसो जातम्' इति मन्त्रस्य यो मुमुक्षुः पूर्वं तपसो ज्ञानरूपात् ब्रह्मणो जातं हिरण्यगर्भं किमपेक्षया पूर्वमित्यत आह- अभ्यः पूर्वमजायतेति ॥ यः अभ्यः भूतेभ्यः पूर्वमजायत । तं प्रथमजं सर्वप्राणिहृदयगुहां प्रविश्य तिष्ठन्तं भूतेभिर्भूतैः सह तिष्ठन्तं यः पश्यति एतद्वै तदिति व्याख्यानमसत् । एतद्वै तदिति वचनानुसारेण यः पूर्वमिति यच्छब्दस्य विष्णुपरत्वेन मुमुक्षुपरत्वाभावात् । नहि नचिकेतसा मुमुक्षुस्वरूपं पृष्टम् । तपश्शब्दस्य परब्रह्मपरत्वे एकस्य पूर्वमित्यस्य व्यर्थत्वाच्च । अभ्यः पूर्वं इत्येतावता पूर्तेः । अद्भ्यः पूर्वं जातमित्यन्वयोपपत्त्याऽजायतेत्यस्य व्यर्थत्वात् अयुक्तत्वाच्च । यच्छब्दाध्याहारेण योजनायां स एव दोषः । गुहाप्रविष्टत्वस्य विष्णुलिङ्गत्वस्योक्तत्वेन चतुर्मुखविशेषणत्वायोगाच्च । भूतानां हृदये अवस्थानाभावेन तैः सह तिष्ठन्तमित्युक्त्ययोगाच्च । पूर्वमेकस्य यच्छब्दस्य विद्यमानत्वेन यो भूतेभिरिति यच्छब्दस्य व्यर्थत्वात् प्रमाणविरोधाच्चेति भावेन वाक्यभेदमङ्गीकृत्य प्रमाणेन मन्त्रं व्याचष्टे - अम्नामभ्य इति ॥ ननु भूतानामनामकत्वं कथम् । अम्नाम्नो भूतविशेषवाचकत्वादिति चेन्न । पञ्चीकरणपक्षे भूतविशेषस्यापि सर्वभूतात्मकत्वेनाम्नाम्नः सर्वभूतवाचकत्वं ज्ञायते । भूतेभ्यः तदभिमानिभ्यः । शिवादपि अहङ्कारतत्त्वाभिमानिनः । अजायतेत्यस्यार्थो जनयामासेति । पूर्वाजातमित्युक्त्या नास्मत्पक्षे पूर्वशब्दस्य वैयर्थ्यमित्युक्तं भवति । चतुर्मुखमिति विशेष्योक्तिः । गुहां प्रविश्येत्येतत् चतुर्मुखपरमिति प्रतीतिनिरासाय व्याचष्टे - स्वात्मानञ्चेति ॥ अभिभवति सर्वानित्यभिभूः । सर्वभूतैः सह पश्यतीत्यन्वयः । एतद्वै तदित्यस्यार्थमाह- स एष इति ॥ तथाच जीवमन्तिकादित्युक्तजीवसमीपस्थभगवत्स्वरूप- प्रतिपादनायायं मन्त्रः प्रवृत्त इति भावः । नन्वेवं व्याख्यानेऽपि पूर्वमजातमिति विशेषणं व्यर्थम् । व्यावर्त्याभावात् । नहि कश्चित् पूर्वं जातः पुनर्जायते । येन तत्सार्थकं स्यात् । यः पूर्वमजातं चतुर्मुखं तपसोऽभ्यः पूर्वमजायतेत्यनन्वय- श्वेत्यत आह- यथेति ॥ इत्यादिना वाक्येन जाताः भगवन्मुखादिना जातत्वेनावगता इत्यर्थः । न तथा भगवतो ब्रह्मा पूर्वं जात एव जायते । ननु हिरण्यगर्भस्याभ्यः पूर्वं जननाङ्गीकारे "अभ्यः सम्भूतो हिरण्यगर्भः" ( म.ना.उ.१.१२) इति विरोध इति चेन्न । तद्वाक्यस्य ब्रह्माण्डान्तः- सृष्टिपरत्वात् । अस्य बाह्यसृष्ट्यपेक्षत्वादिति । अजायतेत्यस्य स्वयमुत्पन्न इत्यर्थत्वात् कथं जनयामासेति व्याख्यानमित्यतः अन्तर्णीतणिच्त्वान्नानुपपत्ति- रिति प्रयोगपूर्वमाह- अजायतेति ॥ " या प्राणेन संविशति' इति मन्त्रः प्रसिद्धादितिपर इत्यनुपपन्नम् । पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां त्रयाणामेव नचिकेतसा पृष्टत्वेनादितिकथनस्यासङ्गतत्वात् । अतो विष्णुपर एवायं मन्त्रः ।।
श्रीवेदेशतीर्थखण्डार्थ:
जीवस्यान्तिके विद्यमानं हृद्रतं भगवत्स्वरूपं कीदृशमित्या- काङ्क्षायां तत्स्वरूपं वक्तुं पुनः प्रतिजानीते-
जीवस्यान्तिके विद्यमानं भगवत्स्वरूपं एतद्वै यः पूर्वमजातं चतुर्मुखं तपसस्तपोनाम्नः शिवात् अभ्योऽनामकभूतेभ्यश्च पूर्वमजायत जनयामास । यश्च हृद्गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिर्भूतैः सह व्यपश्यत पश्यति । एतच्छब्दस्य पूर्वेणान्वयः ।। २.१.६।।
श्रीवरदतीर्थ:
वरद - “यः पूर्वं तपसो जातमभ्यः पूर्वमजायत" इत्येतद्व्याचष्टे- अम्मामभ्य इति ॥ पूर्वमजातमिति विशेषणस्य कृत्यमाह - यथेति ॥ अजायतेत्यस्य जनयामासेत्यर्थः कथमित्यत आह- अजायतेति ॥२.१.६॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
पुनर्भगवतो महिमोक्तिपूर्वकं त्वत्पृष्टमेवंरूपमिति बहुभिर्मन्त्रैराह - य इति ।। यो भगवान् अजातं पूर्वमजातं चतुर्मुखं तपसः तपोनामकाच्छिवात् पूर्वं अद्भ्यः अम्नामकेभ्यो भूतेभ्यश्च पूर्वमजायत अजनयत्, अन्तर्णीतणिच्, यो भगबान् गुहां हृदयगुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतेभिः भूतैस्सह व्यपश्यति विशेषेण पश्यति, अडागमः छान्दसः, एतद्वै तत् । यत् त्वया पृष्टं तत् एतद्वै उक्तगुणकं वै । अजातमिति विशेषणं तु भगवन्मुखाद्यवयवतो जाता एवेन्द्रादयः कश्यपात् पुनर्जायन्ते, न तथा भगवतो ब्रह्मा, किन्तु पूर्वमजात एव भगवतो जात इति वक्तुम् ।। २.१.६ ।।