अन्यच्छ्रेयोऽन्यदुतेव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः

॥ अथ प्रथमाध्यायस्य द्वितीया वल्ली ॥

श्रेयसः प्रेयसश्च विवेकः

उपनिषत्

अन्यच्छ्रेयोऽन्यदुतेव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः ।

तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते ॥ १.२.१।।

श्रीव्यासतीर्थ:

ब्यास- दीयमानमपि पुत्रादिकं प्रेयोऽपरनामानं परित्यज्य श्रेयोऽपरनाम्न ब्रह्मविद्यां अभ्यर्थयमानं प्रशंसितुं श्रेयसः प्रेयसः सकाशात्को विशेषः येन तदभ्यर्थयमानः प्रशस्यत इत्यतः श्रेयसो मोचकत्वात्प्रेयसो बन्धकत्वादित्याह- अन्यदित्यादिना ।। इवशब्देन जानतां श्रेयःप्रेयसोरेकत्वं सूचयति । अन्यत्वमेव दर्शयति - ते उभे नानार्थे भिन्नप्रयोजन इति ।। सिनीतः बध्नीतः । " षिञ् बन्धने" इति धातोः । प्रेय एव बन्धकत्वेन निरूपितम् - अर्थादिति

।। १.२.१।।

वामनपण्डिताचार्य:

अथ यमो नचिकेतसो निष्ठातिशयं दृष्ट्वाऽत्यन्तं सन्तुष्टस्तमभीष्ट- वरदानयोग्यं भन्वानस्तमेवाधिकं प्रशंसति - अन्यच्छ्रेय इत्यादिवाक्यैः ॥ श्रेयश्च प्रेयश्चेत्युक्ते अत्यन्तान्योन्यविरुद्धलक्षणे विरुद्धार्थप्रदे च । तस्मादेते पुरुषं योग्यायोग्यप्रवृत्त्योरेत्र सिनीतः बध्नीतः । " षिञ् बन्धनेइति धातोः । यस्तयोर्मध्ये योग्यप्रवृत्तिकं श्रेय आदत्ते तस्य साधु भवति प्रशस्तं मोक्षफलं भवति । अन्यस्तु साधुप्रयोजनेन हीयते ।। १.२.१ ।

वादि - " अन्यदुतेव प्रेयः" इत्यत्र प्रेय उत प्रेयश्च अतिशयेन प्रीतिविषयं धनवनितादिकं वस्तु अन्यदेवेति सम्बन्धः । इवेति वदता वस्तुगत्या वैराग्यवतां ज्ञानिनां ब्रह्मादीनां धनादिकमपि विष्णुप्रीतिकरयजनाद्युपयोगीति श्रेयस्येवान्तर्भावात्तस्य न पार्थक्यमिति सूचयति । अत एव ते उभे नानार्थे भिन्नप्रयोजने । उक्तरीत्या प्रेयसोऽपि श्रेयस्येवान्तर्भाव इत्यजानन्तं प्रेयसा उदरभरणाद्यैहिकफलमेव साधनीयमिति निश्चयवन्तं च पुरुषं सिनीतः बध्नीतः । यत एवं प्रेयसि पृथगादरवान् श्रेयस्साधनाध्ययनाध्यापनादिसत्कर्मापि भृतकाध्ययनादिना स्वोदरपूरणायैवोपयुक्ते, किं बहुना, साक्षान्मोक्षोपयोगि देवालयगृहिगेहादौ क्रियमाणं विष्णुपूजनमपि स्वोदरभरणार्थमेवोपकरोति, तस्मात् " असतीसङ्गदोषेण सति च मतिविभ्रमः" इतिवदुभयोरपि बन्धकत्वमिति भावः ।। १.२.१ ।।

श्रीवेदेशतीर्थखण्डार्थ:

दीयमानमपि पुत्रादिकं परित्यज्य ब्रह्मविद्यामर्थयमानं नचिकेतसं स्तोतुं तदुभयस्वरूपमाह- अन्यदिति ॥ अत्र श्रेय इति ब्रह्मविद्योच्यते । निःश्रेयससाधनत्वात् । प्रेय इति प्रीतिविषयपुत्रादिकाम्यमुच्यते । उतशब्दश्चशब्दार्थः । इवशब्दोऽवधारणार्थः । श्रेयोऽन्यद्विलक्षणमेव प्रेयस इति शेषः । प्रेयश्च श्रेयसोऽन्यदेव । जानतां श्रेयः प्रेयसोरेकत्वं सूचयितुं वा इवशब्दः । कथं श्रेयःप्रेयसोः परस्परवैलक्षण्यमित्यत आह- ते उभे इति ॥ ते उभे श्रेयः प्रेयसी नानार्थे मोक्षतदितराख्यविलक्षणप्रयोजनविषये पुरुषं जीवं सिनीतः बध्नीतः । ‘‘षिञ् बन्धने" इति धातोः । किं तत इत्यतस्तदुभय- माददानस्य फलमाह - तयोरिति ॥ तयोः श्रेयः प्रेयसोर्मध्ये यः पुरुषः श्रेय एत्रादत्ते तस्य साधु भद्रं मोक्षाख्यं भवतीत्यर्थः । य उ यश्च प्रेय एव वृणीते स अर्थात् मोक्षाख्यप्रयोजनात् हीयते हीनो भवति ।। १.२.१ ।।

I

वरद. खं- एवं नचिकेतसो विषयाभिलाषाराहित्यादयं ब्रह्मविद्यायोग्य इति भावेन विषयकामनायुक्तस्य तद्रहितस्य च फलं निरूपयति यमः- अन्यदिति ॥ श्रेयः प्रेयसः सकाशात् अन्यत् विलक्षणम् । एवं प्रेयश्च श्रेयसः अन्यत् विलक्षणम् । कथं श्रेयः प्रेयसोः परस्परं वैलक्षण्यमित्यत उच्यते - ते उभे इति ॥

श्रेयःप्रेयसी नानार्थे भिन्नप्रयोजने । पुरुषं जीवं सिनीतः बध्नीतः आश्रित्य वर्तत इति यावत् । तयोः श्रेयसः प्रेयसः मध्ये यः पुरुषः श्रेय एवादत्ते नतु प्रेयस्तस्य पुरुषस्य साधु भवति भद्रं भवति । य उपासकः पुरुषः प्रेयः प्रियसाधनविषयादिकमेव वृणीते सोऽर्थात् मोक्षादिप्रयोजनात् हीनो भवति

श्रीराघवेन्द्रतीर्थखण्डार्थ:

दीयमानमपि पुत्रादिकामं हित्वा ब्रह्मविद्यां याचमानः त्वं प्रशस्तोऽसीति तं " स त्वं प्रियान्" इत्यादिना प्रशंसितुं ब्रह्मविद्याया मोचकत्वम्, पुत्रादिकामस्य बन्धकत्वम्, तद्भाजोः स्तुतिनिन्दे, ज्ञाज्ञयोः स्थिती च सार्धमन्त्रद्वयेनाऽह यमः - अन्यदित्यादिना ॥ श्रेयः प्रशस्ततमं ब्रह्मज्ञानम् । अन्यत्, प्रेयः उत प्रियतमं दारापत्यादि काम्यमानं वस्त्वपि अन्यदिव, इति च जानतां दारापत्यादिरूपप्रेयसोऽपि सद्धर्मद्वारा श्रेयस्त्वमेवेति सूचनाय इवशब्दः । द्वयोरन्योन्यत्वं नाम किमित्यतः ऐहिकामुष्मिक - सुखहेतुत्वं तदित्याह - ते उभे इति ॥ ते उभे नानार्थे भिन्नप्रयोजनके पुरुषं देहिनं सिनीतः बध्नीतः, ‘" षिञ् बन्धने " इति धातोः । पुरुषस्य द्वे प्रसक्ते इत्यर्थः । ततः किमित्यत आह- तयोरिति ॥ श्रेयः प्रेयसोर्मध्ये श्रेयः ब्रह्मविद्यां आददानस्य उपासीनस्य साधु भद्रं भवमोचनं भवति । य उ य= एव प्रेयः दारापत्यादिकामं वृणीते सोऽर्थात् परमपुरुषार्थात् हीयते हीनो भवति । भवपाश एव बद्धो भवतीत्यर्थः ।। १.२.१ ।

Load More