यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः
मिथ्याज्ञानादिग्रन्थिप्रभेदोऽपि भगवत्प्रसादादेव
उपनिषत्
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥ २.३.१५ ॥
भाष्यम्
मिथ्याज्ञानग्रन्थिभिस्तु नितरां मुच्यते यदा ।
तदाऽमृतत्वमेवैति तदर्थं चानुशासनम् ।। २.३.१५ ।।
श्रीव्यासतीर्थ:
व्या- हार्दकामत्यागश्च कदा भवतीत्याकाङ्क्षायां तत्कारणाविद्याहङ्कार- कर्मणां हृदयग्रन्थीनां यदा प्रहाणिर्भवति तदेत्याह- यदेति ॥ तद्व्याचष्टे- मिथ्येति ॥ अनुशासनं निष्कामकर्म श्रवणमननध्यानकर्तव्यताप्रतिपादकं शास्त्रम् ।। २.३.१५ ॥
वामनपण्डिताचार्य:
हृदयग्रन्थयः मिथ्याज्ञानग्रन्थयः । अमृतत्वार्थमेव वेदानुशासनम् । नामृतस्य विधिबन्धः || २.३.१५ ॥
श्रीवादिराजतीर्थ:
"हृदयस्येह ग्रन्थयः" इत्यत्र ऐक्यनिर्गुणत्वनिराकारत्वादिमिथ्या- ज्ञानग्रन्थयः ।। २.३.१५ ॥
श्रीवेदेशतीर्थ:
“यदा सर्वे प्रभिद्यन्ते इति मन्त्रं व्याचष्टे - मिथ्याज्ञानेति ॥ अनुशासनं वेदान्तोपदेशः एतावत् एतावन्मात्रम् । नत्वधिकमस्तीत्या- शङ्कनीयमिति व्याख्यानमसत् । वेदान्तोपदेशस्यैतावन्मात्रत्वे इतरवेदान्त- प्रवृत्तिवैयर्थ्यादिति भावेनैतावदनुशासनमित्येतद्व्याचष्टे - तदर्थमिति ॥ मिथ्याज्ञानग्रन्थिनिरासार्थमनुशासनम् । निष्कामकर्मश्रवणमनननिदिध्यासन- कर्तव्यताप्रतिपादकं शास्त्रमित्यर्थः ।। २.३.१५ ॥
श्रीवेदेशतीर्थखण्डार्थ:
हार्दसर्वकामत्यागोऽपि तद्धेतुमिथ्याज्ञानग्रन्थिप्रभेद एव भवतीति भावेनाह - यदेति । यद्वा भगवत्प्रसादेनापि किं भवति । मोक्ष इति चेन्न । अनेकविषयकामानां प्रतिबन्धकानां सत्त्वेनामृतत्त्वायोगादित्यत आह- देति ॥ अथापि मिथ्याज्ञानाश्रयाविद्याहङ्कारकर्मणां प्रतिबन्धकानां सत्त्वात् कथं मोक्ष इत्यत आह- यदेति ॥ इह शरीरे वर्तमानाः हृदयस्य हृदयनस्य हृत्स्थस्य मिथ्याज्ञानस्य ग्रन्थयः आश्रयाः कारणीभूता इति यावत् । अविद्याहङ्कारकर्माणि यदा प्रभिद्यन्ते नितरां भिद्यन्ते । अथ तदैव मर्त्योऽमृतो भवति । मोक्षमेव स्तौति - एतावदिति । एतदर्थमेव सर्ववेदानु- शासनं प्रवृत्तम् । ‘‘तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत” (अनु.२.२. १६४ ) इत्युक्तेरिति भावः ।। २.३.१५ ।।
श्रीवरदतीर्थ:
वरद- ननु हृदयस्य परमसूक्ष्मवस्तुत्वात् कथं तस्य ग्रन्थयो भवन्तीत्यतः संशयत्रिपर्ययादय एव तस्य ग्रन्थयो नान्य इत्याह- मिथ्याज्ञानेति ॥ ॥२.३.१५ ॥
श्रीवरदतीर्थखण्डार्थ:
भगवज्ज्ञानेन अज्ञानविपर्यादिहृदयग्रन्थिनिवृत्तिरपि भवतीत्याह- देति ॥ एतावदनुशासनमिति । एतावदर्थं सर्वशास्त्राणामनुशासनं शिक्षेति विष्णुप्रसादेनाज्ञानविपर्यादिनिवृत्ती मोक्षो भवेदिति यतोऽतः सर्वैरपि वेदस्तस्य गुणोत्कर्षं ज्ञात्वा तत्प्रसादमापादयेदिति । एतदर्थं शास्त्राणामनुशासनमित्यर्थः ॥२.३.१५।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
हृदयगतसर्वकामत्यागः कदेत्यतः तत्कारणाविद्याहङ्कारकर्मणां हृदयग्रन्थीनां यदा त्यागः तदेत्याह- यदेति । इह मानुषदेहे हृदयस्य सर्वे ग्रन्थयो हृदयस्थाविद्यादिग्रन्थयो यदा प्रभिद्यन्ते अपयन्ति अथ तदा सर्वकामप्रहाणेन मर्त्यः अमृतो मुक्तो भवति । एतावदनुशासनं निष्कामकर्म- श्रवणमननध्यानकर्तव्योक्तिपरं शास्त्रमेतावत् ।। २.३.१५