ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः

द्वितीयाध्याये तृतीयावल्ली

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।

तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते ॥

तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १ ॥

सर्वोच्चो भगवान् विष्णुर्मूलं भूमिवदस्य तु ।

जगदाख्यस्य वृक्षस्य शाखा देवास्ततोऽधमाः ॥

वृक्षमूलं रमादेवी सोऽश्व आशुगतेर्हरिः ।

तद्व्याप्तत्वात् तदन्नत्वादश्वत्थोऽयं प्रकीर्तितः ॥

प्रवाहतस्त्वनादिश्च मुख्यतस्त्वमृतो हरिः ।

मुख्यामृतस्स एवैको जगन्नित्यं प्रवाहतः ॥

यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् ।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥

प्राणाख्ये तु हरौ सर्वमेजत्यस्माच्च निस्सृतम् ।

वज्रवद्भयदं चैव स्वधर्मस्यातिलङ्घने ॥ २ ॥

भयादस्याग्निस्तपति भयात् तपति सूर्यः ।

भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥

इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः ।

ततः स्वर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥

यथादर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव दृश्यते तथा गन्धर्वलोके । छायातपयोरिव ब्रह्मलोके ॥ ५ ॥

जीवे स्थितस्तु भगवान् दृश्यते ज्ञानदृष्टिभिः ।

आदर्शे मुखवत् सम्यङ् न तथा पितृलोकगः ॥

ततः किञ्चित् स्पष्टतया गान्धर्वे दृश्यते हरिः ।

अत्यातपे न छायायां यथैवाहनि दृश्यते ॥

स्पष्टं तथा ब्रह्मलोके दृश्यते पुरुषोत्तमः ॥ इति च ॥ ३-५ ॥

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।

सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥

अव्यक्तात् तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।

तं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥

पुनः इन्द्रियेभ्यः परं मनः इत्यादि देवतानां तारतम्यज्ञानपूर्वकं भगवतः सर्वोत्तमत्वज्ञान एव सर्ववाक्यानां महातात्पर्यमिति ज्ञापयितुम् ।

तारतम्यपरिज्ञानपूर्वकं सर्वतो हरेः ।

आधिक्ये सर्ववाक्यानां तात्पर्यं महदिष्यते ॥ इति च ॥ ६-७ ॥

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।

हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति ॥ ९ ॥

प्रादुर्भावानृते विष्णुमिन्द्रियैर्नैव पश्यति ।

प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ॥

तदैव मुच्यते योगी न दुष्टैरिन्द्रियैः क्वचित् ॥ इति च ॥ ९ ॥

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।

बुद्धिश्च न विचेष्टति तमाहुः परमां गतिम् ॥ १० ॥

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥

प्रभवाप्ययौ प्रति हि योगः । भगवतस्सकाशात् प्रभवाप्ययौ ॥ ९-११ ॥

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।

अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥

अधिकस्सतोऽयं भगवान् सर्वस्मादपि केशवः ।

अस्तीति नामकस्तस्माज्ज्ञातव्यस्स तथैव च ॥

अनाधिक्यं जानतां तु कथं स उपलभ्यते ।

प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम् ॥

तत्त्वभावस्ततो विष्णुस्तत्प्रसादात् तु तस्य हि ।

आधिक्यं ज्ञायते सत्तः प्रसादश्च तथाविदः ॥

अनादिकालादाधिक्यं सर्वस्माज्जानतो हरेः ।

पुनः पुनर्वृद्धिमेति तज्ज्ञानं हि भवे भवे ॥

येषामाधिक्यविज्ञानं नैव पूर्वं हरेर्भवेत् ।

तेषां पश्चाच्च नैव स्यादभिभूतं तु तत् पुनः ॥

व्यञ्जकाद् व्यक्तिमभ्येति तस्मात् तज्ज्ञानमुत्तमम् ॥ इति च ॥ १२-१३ ॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।

अथ मर्त्योऽमृतो भवत्यथ ब्रह्म समश्नुते ॥ १४ ॥

अन्तःकरणकामानां त्यागो व्यक्तिश्चिदात्मानाम् ।

कामानां तु तदा मुक्तो मृतिं नैवाभियास्यति ॥

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।

अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥ १५ ॥

मिथ्याज्ञानग्रन्थिभिस्तु नितरां मुच्यते यदा ।

तदाऽमृतत्वमेवैति तदर्थं चानुशासनम् ॥ १५ ॥

शतं चैका च हृदयस्य नाड्य स्तासां मूर्धानमभिनिःसृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति ॥ १६ ॥

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।

तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ॥

तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥

शरीरभूतो विष्णोस्तु जीवस्तद्वशगो यतः ।

अधिष्ठितश्च तेनैव विजानीयात् पृथक् ततः ॥

स्वाख्याच्छरीराज्जीवात् तु प्रवृहेद् विष्णुमव्ययम् ॥ इति च ॥

यस्यात्मा शरीरम् । य आत्मानमन्तरो यमयति इति च ।

जनानां हृदये इत्युक्तत्वाच्च जीवात् पृथग् हरिरिति सिद्धम् ॥

देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि ।

जीवस्य स तु विज्ञेयो जीवात् भेदेन मुक्तये ॥ इति च ॥

संसारिशरीरेणाभेदो वादिना केनापि नाङ्गीकृतः । न च लोकसिद्धः । जनानामिति भेदात् । न जीवोऽङ्गुष्ठमात्रः । अतो विष्णोर्जीवाद्भेद उक्तः ।

मृत्युप्रोक्तां नाचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।

ब्रह्म प्राप्तो विरजोऽभूद् विमृत्युः अन्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥

इति द्वितीयाध्याये तृतीयावल्ली समाप्ता॥

इति काठकोपनिषत् समाप्ता ॥

अतः सर्वोत्तमो विष्णुरिति सिद्धम् ॥

नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।

यस्याहमाप्त आप्तेभ्यो यो म आप्ततमः सदा ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं काठकोपनिषद्भाष्यं समाप्तम् ॥