नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ

भेदज्ञानिनोपदिष्टा मतिः साक्षात्काराय भवति

उपनिषत्

नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।

यां त्वमापः सत्यधृतिर्बतासि त्वाङ् नो भूयान्नचिकेतः प्रष्टा ॥ १.२.९ ॥

भाष्यम्

('जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान् ।

तदनुव्रताश्च ये केचित्तेषां ज्ञानं न जायते ।। "

इति ब्रह्मवैवर्ते ॥ १.२.९ ॥ )

श्रीव्यासतीर्थ:

न तर्हि ब्रह्मज्ञानोपाय इत्यतोऽतर्क्यमित्युक्तं विवृण्वन्नुपायमाह- नैषेति ॥ अपनेया सम्पादयितुं शक्या । अन्येन भेदज्ञानिना । सत्यधृतिरचाल्यधैर्यवान् ।।१.२.९।।

वामनपण्डिताचार्य:

तस्मादेषा भगवद्विषया मतिस्तर्केण न प्रापणीया । नाप्यपनेतुं शक्या । किन्तु जीवपरयोः केवलभेदज्ञानिना प्रोक्तैव सुज्ञानाय भवेत् । अत्र पुनःजीवानां चैव " इति ब्रह्मवैवर्तवचनं प्रमाणमाह ।। १.२.९ ।।

श्रीवादिराजतीर्थ:

वादि - " नैषा तर्केण मतिरापनेया' इत्यत्र आ अपेत्युपसर्गद्वयात् " इण् गतौ " इति धातोश्च एषा मतिरानेया अपनेया च नेत्यर्थः ।अन्येन भेदज्ञानिना" इत्यत्र श्रोतुरन्यः प्रवक्तेति सर्वजनसिद्धम् एवमप्यन्येनैव प्रोक्तेति वदन् विषयेण विषयिणमुपलक्षयन् तावदप्रधाननिर्देशस्यापि ‘“द्व्येकयोर्द्विवचनैकवचने’’(सि. कौ. १८६ ) इत्यादौ बहुलमुपलम्भादद्वैतोप- देष्टृकुसमयिव्यावर्तनाय जीवेशयोरन्यत्वज्ञानवतेत्यर्थमभिप्रैतीति ज्ञेयम् ।।

।।१.२.९ ।।

श्रीवेदेशतीर्थखण्डार्थ:

तदेव विवृणोति - नैषेति ॥ आ अपेति विरुद्धार्थकोपसर्गयोः क्रमेण सम्बन्धः । एषा ब्रह्मविषया मतिस्तर्केण केवलानुमानेन आनेया उत्पाद्या अपनेया निराकार्या च न भवति । तस्य प्रतिपक्षादिग्रस्तत्वेना- प्रमाणत्वात् । आगमानुकूलतर्कश्चागमव्याख्यात्रभावेन न निश्चायक इति भावः । तर्हि भगवज्ज्ञानोपायाभावेन मोक्षाभावाच्छास्त्रवैयर्थ्यमेव स्यादित्यत आह- प्रोक्तेति ॥ हे प्रेष्ठ प्रीतिविषय नचिकेतः अन्येनैव अन्यो भगवानन्योऽहमिति ज्ञानवान् यो भेदज्ञानी तेनैव प्रोक्ता वेदप्रवचनोत्पादिता मतिः सुज्ञानाय साक्षात्काराय भवति । एषा मतिरित्युक्ता मतिः केत्यत आह- यामिति ॥ त्वं यां मतिमापः प्राप्तवानसि एषेति पूर्वेणान्वयः । तस्मात् हे नचिकेतः त्वं सत्यधृतिरचाल्यधैर्यवानसि । बतेत्यास्वादने । अतस्त्वादृक् प्रष्टा नो भूयान्न भविष्यतीत्यर्थः ।। १.२.९ ॥

श्रीवरदतीर्थखण्डार्थ:

वरद. खं- यां त्वमाप इति ॥ त्वं यां भगवद्विषयां मतिमापः प्राप्तवानसि सा मतिस्तर्केणापनेया न भवतीत्यर्थः । सत्यधृतिः समीचीन धैर्यवानसि || ।। १.२.९ ।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

अतर्क्यमित्युक्तं विवृण्वन् ब्रह्मज्ञानोपायमाह - नैषेति ॥ एषा ब्रह्मगोचरा मतिः तर्केण, आ अपेति पदच्छेदः, आनेया अपनेया च न भवति ।किन्त्वन्येन ब्रह्मणोऽन्योऽहमिति जानता प्रोक्ता मतिः तदुपदेशजन्या बुद्धिः सुज्ञानाय सम्यज्ज्ञानाय भवति । हे प्रेष्ठ प्रियतमेति सम्बोधनम्, हे नचिकेतः यां मतिं त्वमापः, आप्नु त्र्याप्तौ लुङ्, प्राप्तवानसि एषा मतिरिति पूर्वेणान्वयः । त्वं सत्यधृतिः आचाल्यधैर्यवानसि बतेत्याश्चर्ये । नानाप्रकारेण प्रलोभितोऽपि ब्रह्मस्वरूपमतिविषये धैर्यं न मुक्तवानसि इत्येतदाश्चर्यमिति भावः । नः अस्मान् प्रष्टा पृच्छकः त्वादृक् नो भूयात् न भवेन्न स्यादेवेति || ॥१.२.९ ।।