यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति

भगवत्स्वरूपेषु भेदाभेदचिन्तनमनर्थप्रदम्

उपनिषत्

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति ।। २.१.१४ ॥

भाष्यम्

पर्वतेषु दुर्गे शिखरे वृष्टमधो विधावति । एवं विष्णोर्धर्मान् पृथक् पश्यन्नन्धन्तमो विधावति ॥२.१.१४ ॥

श्रीव्यासतीर्थ:

भगवद्गुणानां भगवता भेदाभेददिर्शनोऽनर्थमाह- यथोदकमिति ॥

व्या.भा- ‘“यथोदकम्’” इति वाक्यमन्वयाप्रतीतेः व्याचष्टे- पर्वतेष्विति ॥ शिखरे वृष्टमुदकं यथेति पूरणीयम् । एवं विष्णोः धर्मान् ततः पृथक् पश्यन् तानेव पृथग्दृष्टान् तानन्वेव अनन्तरमेव अध इति च पूरणीयम् ॥२.१.१४॥

वामनपण्डिताचार्य:

यथोदकमित्येतद् व्याख्याति - पर्वतेष्विति ॥ अत्युच्चतया दुरारोहतया दुर्गमिति विवक्षितम् । तानेवानु विष्णुधर्मान् पृथग्दृष्टानन्वेव । तथा दृष्ट्यनन्तरमेवेत्यर्थः ।। २.१.१४ ।।

श्रीवादिराजतीर्थ:

"एवं धर्मान् पृथक्पश्यन् तानेवानुविधावति" इत्यत्र एवं पूर्वोक्तमिथ्याज्ञानिवत् धर्मान् पृथक् पश्यन् पुरुषस्तान्मिथ्याबोधाननु अनुसृत्य विधावति विविधतया अन्धन्तमसि धावति । कलिमारभ्य मनुष्याधमपर्यन्तं मिथ्याज्ञानेऽपि तारतम्यसद्भावादन्धन्तमसि तारतम्येन दुःखमनुभवतीति भावः । मिथ्याज्ञानमतिदृढं चेदन्धे तमस्येव धावति । मिश्रजीववददृढं चेत्, कदाचिदस्ति कदाचिन्नास्ति चेत् अधमजीवाद्विलक्षणं मध्यमगतौ धावति ।

अधुना मुक्तजीवानां ब्रह्मण्यैक्यमिति मतं स्पष्टं निषेद्धुमाह- यथोदकमिति ।। यथा शुद्धमुदकं शुद्धे आसिक्तं तादृगेव भवति । नतु तदेव भवति । पङ्किलोदकस्य तादृशत्वाभावाच्छुद्धमित्युक्तम् । प्रत्यक्षत एव वृद्धेः दृश्यमानत्वात् ब्रह्मकमण्डलुस्थगङ्गागोदाकावेर्युदकानां मेलनेऽपि भेददर्शनाच्च । एवं विजानतो मुनेरात्मा स्वमी चतुर्मुखात्मा मुख्यप्राणः लिङ्गशरीरभङ्गेन स्वयमपि शुद्धः सन् शुद्धे ब्रह्मणि सायुज्यमोक्षभोक्तृतया शुद्धे ब्रह्मणि संसक्तोऽपि तादृगेव भवति । नतु तदेव भवति । तत्रापिऋचां त्वः पोषमास्ते” (ऋ.सं. १०.७१.११) इत्यादिना भेददर्शनात् । अथवा विजानतो मुनेः, जात्येकवचनम्, आत्मा स्वरूपमपि लिङ्गदेहभङ्गानन्तरं शुद्धे ब्रह्मणि विमिश्रमपि तादृगेव भवति नतु तदेव भवतीत्यर्थः ।।२.१.१४॥

श्रीवेदेशतीर्थ:

एवं धर्मान् इति वाक्यस्योक्ततात्पर्यकत्वाप्रतीतेः कथमेतदित्यतः ‘“यथोदकम्’” इति दृष्टान्तवाक्यव्याख्यानपूर्वकं तद्व्याचष्टे - पर्वतेष्वति ॥ अनंन धर्मदर्शिनामनर्थोक्त्या धर्मनिषेध एवात्राभिप्रेत इत्यसदित्युक्तं भवति । पृथगित्यस्य वैयर्थ्यापातात् ॥२.१.१४ ॥

श्रीवेदेशतीर्थखण्डार्थ:

ननु ‘“मृत्योः स मृत्युं गच्छति" इत्यनेन भगवदवयवादीनां भगवता परस्परञ्च भेदाभेद एव निषिध्यते । नतु भेदः । तद्दर्शिनामनर्थानुक्तेः । अतोनेह नाना’” इति कथं भेदाभाव उक्त इत्यतो भेददर्शिनामप्यनर्थं वक्तुं

प्रतिजानीते - यथेति ॥ यथा पर्वतेषु दुर्गे शिखरे वृष्टमुदकं अधो विधावति । एवं विष्णोः धर्मान् पृथक् विष्णुना परस्परच भेदेन पश्यन् तानेव पृथग्दृष्टधर्मानिव धर्मपार्थक्यदर्शनानन्तरमेवेति यावत् । विधावति अन्धन्तम इत्यर्थः ।।२.१.१४।।

श्रीवरदतीर्थ:

वरद-मृत्योस्स मृत्युमाप्नोति" इत्यत्रानर्थकथनेन गुणक्रियादीनां भगवता भेदाभेद एव निषिद्धयते । नतु गुणादीनां भगवत्प्रतियोगिकभेददर्शने कश्चिदनर्थ उक्तः । अतो गुणादीनां भगवता भेद एवेत्ययं पक्षः साधीयानेवेति कस्यचिच्छङ्का स्यात्तन्निवर्तयितुं " एवं धर्मान्इति तृतीयानर्थकथनमित्यर्थः । एवं ‘“एवं धर्मान्’” इत्यस्य सङ्गतिमुक्त्वा अथ तद्व्याचष्टे - पर्वतेष्विति ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

किञ्चनेति वाक्यशेषे नानेति नानाशब्देन भेदस्य, इव शब्देन तद्विरुद्धस्याभेदस्य प्रतीत्या भेदाभेददर्शिन एवानर्थोक्तेर्भेददर्शिनस्तदनुक्तेः भेद एवास्तु धर्माणामित्यतो धर्माणां भेदज्ञाने अनर्थं स्पष्टयति- यथेति ॥ पर्वतेषु दुर्गे ऊर्ध्वभागे शिखरे बृष्टमुदकं यथा अधो विविधतया धावति गच्छति एवं विष्णोर्धर्मान् पृथक् आश्रयादन्योन्यं वा भेदेन पश्यन् जानन् तानेव भेदेन दृष्टाननु तद्दर्शनानन्तरमेव विधावति तमः प्राप्नोति ।। २.१.१४ ।।