येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान्

नचिकेतसा जीवनियामकभगवत्स्वरूपविषयकप्रश्नः

उपनिषत्

येन रूपं रसं गन्धं शब्दान् स्पर्शांश्च मैथुनान् ।

एतेनैव विजानाति किमत्र परिशिष्यते । एतद् वै तत् ।। २.१.३ ।।

भाष्यम्

इदं गुह्यं ब्रह्म प्रवक्ष्यामि । यथा मरणं प्राप्य जीवो भवति तच्च प्रवक्ष्यामि जीवेश्वरभेदज्ञापनाय । यः कर्मफलभोक्ता सुप्त्यादिमान् स जीवः । यः प्रलयादिषु जीवेषु सुप्तेषु जागर्ति स विष्णुः परं ब्रह्मेत्यर्थः । न हि जीवस्य योन्यादिगमनं ब्रह्म । जीवाद्भेदेन ज्ञातं हि ब्रह्म यथावज्ज्ञातं भवति ॥

श्रीव्यासतीर्थ:

अविलम्बेन तत्त्वं निरूपयेति पुनः पृच्छति येनेति ॥ येनैवैतेन संसारे रूपादीन् विजानाति, तदेतदत्र मोक्षेऽपि नियामकं परिशिष्यते किमिति प्रश्नवाक्यार्थः । यदेतन्नियामकं मोक्षेऽपि परिशिष्यते किमिति पृष्टं तदेतन्मोक्षेऽपि परिशिष्यते वै इति परिहारमाह- एतद्वै तदिति । २.१.३ ॥

व्या.भा- ‘“हन्त त इदं प्रवक्ष्यामि " इत्येतत्पूर्वत्र सम्बध्यत इत्याशयवान् आत्मा जीवो मरणं प्राप्य यथा यद्भवति तद्ब्रह्मेत्यन्यथाप्रतीतिं निवारयन् व्याचष्टे - इदमिति ॥ जीवस्य मरणानन्तरं यद्भवति तच्च वक्ष्यामीति किमर्थमपृष्टार्थप्रतिज्ञा क्रियत इत्यत आह- जीव इति ॥ मुमुक्षोर्जीवेश्वर- वैलक्षण्यज्ञानमावश्यकम् । तज्ज्ञापनायापृष्टार्थप्रतिज्ञा कृतेत्यर्थः । जीवेश्वर- भेदज्ञापनाय प्रतिज्ञा चेदुत्तरत्र तयोर्वैधर्म्याक्तिः स्यादिति वदतः तटस्थस्योक्तं वैधर्म्यमित्याह- य इति ।। यः कर्मफलभोक्तेतियोनिमन्ये प्रपद्यन्तेइत्यस्यार्थः । ‘“य एषु सुप्तेषु" इत्यस्यार्थः यः प्रलयादिष्विति । आत्मा मरणं प्राप्य यथा यद्भवति तद्ब्रह्मेति कस्मान्न स्यादित्यत आह- नहीति ॥ ननु जीवेश्वरभेदज्ञापनञ्च किमर्थम् । येन तत्प्रतिज्ञा सार्थकेत्यत आह- जीवादिति ॥ त्वया यथावद्ब्रह्म ज्ञातव्यमित्यादावुपस्कर्तव्यम् । अतः प्रतिज्ञा सार्थकेति वाक्यशेषः ॥२.१.३॥

वामनपण्डिताचार्य:

अहो तर्हि ध्रुवफले प्रार्थनीयमुत्तमत्वं किं तदित्याकाङ्गायामाह - येन रूपमिति । अत्रायं विशेष: रूपरसादिज्ञापकत्वम्, स्वप्रादिप्रदर्शकत्वम्, जीवादत्यन्तभिन्नत्वम्, सूर्यादिनियन्तृत्वम्, स्वकीयरूपगुणक्रियादिभिरभिन्नत्वम्, भूतभव्येशानत्वं चेत्याद्यनेकधर्मविशिष्टं विवक्षितफलदमिति प्रथम उक्त्वा तदपि साक्षात् परमगुह्यं विष्ण्वाख्यं ब्रह्मैवेति धर्मिस्वरूपं पश्चादाह- हन्त त इदं प्रवक्ष्यामीत्यादिना || भाष्यकारभट्टारकस्तु एतद्वाक्यं पाश्चात्यमपि प्रथमतो व्याख्याय धर्मविधिवाक्यानि पश्चाद् व्याख्याति, धर्मिग्रहणपुरस्सरं धर्मग्रहणं सुखव्युत्पादनाय स्यादिति । इदं गुह्यमित्यादेर्भाष्यस्यार्थः " य इमं परमं गुह्यम्इति पूर्वप्रस्तुतो भगवानेव " हन्त त इदम्" इत्यत्र इदं ब्रह्म प्रकर्षेण वक्ष्यामीति प्रतिज्ञायते । सनातनं ध्रुवम् । तदेव ध्रुवफलं च । अयं जीवसङ्घो मरणममृतत्वं च ततः प्राप्य यत्प्रकारेण प्रवृत्तो भवति तत्प्रकारं च वक्ष्यामि । तदनुक्तौ जीवेश्वरभेदज्ञानासिद्धेः । तदसिद्धौ तज्ज्ञानस्य यथार्थत्वासिद्धेश्च । जीवेशयोः विरुद्धधर्मदर्शनात् स्वरूपभेदो निश्चेतव्य इत्याह- य इति ॥ योऽयं पारतन्त्र्येण सुखदुःखभोक्ता सुप्तिमोहादिमांश्च स जीवः ईशाद् भिन्नः । यः प्रळये प्रत्यहं च जीवेषु सुप्तेषु जागर्ति स विष्णुः । स एवं च परं ब्रह्म इति श्रुत्यभिप्रायः । नह्यत्यन्तविलक्षणयोरनयोरभेदसम्भवः । नन्वस्ति सालक्षण्यं जीवेशयोः यथाकर्मादिजननमित्यत आह- नहीति ॥ नहि जीवस्य योन्यादिगमनं ब्रह्मधर्मः । नापि नित्यजागरणं जीवधर्मः । अतो जीवाद् भेदेन ज्ञातमेव ब्रह्म यथावत् ज्ञातं भवति । अपरथा तज्ज्ञानस्य जीवज्ञानत्वप्रसङ्गात् । स च भेदः सव्येतरविषाणयोरिव न पृथक्त्वमात्रम् । किन्तु नियम्यनियामकभावलक्षणत्वेन विलक्षणतयेत्याह- येन रूपं रसं गन्धमित्यादिना ॥ येन रूपरसादिकं जीवो विशेषेण जानाति शब्दस्पर्शादि- कमपि एतेनैव विजानाति । किमत्र महति साम्पराये परिशिष्यत इति त्वत्प्रश्नस्येदमुत्तरम्, एतद् रूपादिज्ञापकं गुह्यं ब्रह्मैव तत् परिशिष्यमाणं हि ।।

श्रीवादिराजतीर्थ:

वादि- अधुना यमेनोक्तं भगवतः सांसारिकजगन्नियामकत्वमनुवदन् प्रकृतप्रमेयं पृच्छति येनेति ॥ येन एतेन जगत्स्रष्टृत्वेन्द्रियप्रेरकत्वादिना कथितेनैतेन प्रत्यगात्मनैव रूपरसादिकं पश्यति तदिदमीश्वराख्यं स्वतन्त्रतत्त्वं अत्र मुक्तजीवे नियामकतया परशिष्यते किमिति प्रश्नः । अतिगोप्यत्वादस्य प्रमेयस्य सङ्क्षेपेणैवोत्तरमाह एतद्वै तदिति । एतत् सांसारिकसकलजीव- प्रवर्तकतयोक्तं ब्रह्म, हेतुगर्भमिदं विशेषणम्, संसारे स्वनियम्यं जीवं मुक्तौ स्वतन्त्रं कर्तुं कथं प्रेक्षावानीश्वरो यतत इति भावः, तद्वै मुक्तनियामकतया मुक्तावपि परिशिष्यमाणम् । वा इत्यनेन " उतामृतत्वस्येशानो यदनेनाति- रोहति” (ऋ.सं.१०.९०.२ ) इति श्रुतिप्रसिद्धिंसोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्” (भाग २.६.१७) इति स्मृतिप्रसिद्धिं च सूचयति । स्मृतिसमाख्यया श्रुतावन्नेनेति तृतीया द्वितीयार्थे । यद्यस्मात्कारणादन्न- मन्नोपजीविनं मर्त्यमतिरोहति संसारेऽतिक्रम्य वर्तते उत तस्मात् कारणात् अमृतत्वस्य मुक्तसमूहस्येशान इति श्रुतेरर्थः । संसारे जीवनियामको देवो मुक्तस्यापीशो भवेदेव । यथा प्रेक्षावान् राजा स्वभृत्यं कदाऽपि स्वसमं न कुरुते तथा संसारे सकलजीवेशो भगवानपि कथं मुक्तौ सत्यां तदीशानत्वं त्यजेदिति भावः ।। २.१.३ ।।

श्रीवेदेशतीर्थ:

मायावादिनो ह्यस्मिन्नध्याये जीवेशाभेद एव प्रतिपाद्यते ।य इदं मध्वदं वेदात्मानं जीवम्" इति सामानाधिकरण्यात् ।यदेवेह तदमुत्र" इत्यादेश्चेति वदन्ति । तदसत् ।

' हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।

यथा मरणं प्राप्यात्मा भवति गौतम ||

इत्युत्तरत्र जीवेशभेदस्यैवोक्तत्वेन तद्विरोधादिति भावेन तद्वाक्यमन्यथा- प्रतीतिनिरासाय व्याचष्टे- इदमिति ॥ "स्वप्नान्तं च’” इत्यतः पूर्वं ‘‘हन्त त इदं प्रवक्ष्यमि " इति प्रतिज्ञावाक्यं द्रष्टव्यमिति भावेनं तद्वाक्यव्याख्यानमत्र

क्रियत इत्यप्याहुः | जीवो मरणं प्राप्य यथा भवति तचेति सम्बन्धः । यद्यपि पूर्वं ‘“गुह्यं तत्परमं ब्रह्म म्रियमाणं शरीरिणम् । सम्प्राप्तमपिइति मरणशब्दं म्रियमाणपरमङ्गीकृत्यायं मन्त्रो भगवत्परतयैव व्याख्यातः । तथापि व्याख्यानान्तरमेतदित्यविरोधः । नन्विदं गुह्यं प्रवक्ष्यामीति प्रतिज्ञा असङ्गता । ब्रह्मस्वरूपस्य नचिकेतसाऽपृष्टत्वात् । जीवो मरणं प्राप्य यथा भवति तच्च प्रवक्ष्यामीति प्रतिज्ञात्वसङ्गतैव । नचिकेतसा जीवस्वरूपस्यापृष्टत्वादित्यत आह- जीवेश्वरेति ॥ जीवेश्वरभेदज्ञापनञ्च जीवेश्वरस्वरूपकथनं बिना न भवतीति भावः । ननु यद्यत्र जीवेश्वरभेदज्ञापनाय जीवेश्वरस्वरूपनिरूपणं प्रतिज्ञातं स्यात्तह्युत्तरत्र विरुद्धधर्मवत्तया तदुभयोक्तिः स्यादित्यतोऽस्त्येव तथा तदुभयोक्तिः ।

'योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।

स्थाणुमन्येऽनु संयन्ति यथाकर्म यथाश्रुतम् ।

'य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः ।

तदेव शुक्रं तद्ब्रह्म....

"

इति जीवेश्वरयोस्तथोक्तत्वादिति भावेन तद्वाक्यं व्याचष्टे - य इति ॥ कर्मफलभोक्तेत्यनेन ‘“योनिमन्ये" इत्यादिकं व्याख्यातम् । सुप्त्यादिमानि- त्यादिपदेन शोकमरणादिपरिग्रहः । जागर्तीत्यनन्तरं यः शोकराहित्याच्छुक्रः यश्च नित्यामृतो यश्च सर्वलोकाश्रयो यञ्च कोऽपि नात्येतीति ग्राह्यम् । तेन सुप्यादीत्यादिपदोपपत्तिः । जीवेषु सुप्तेषु यो जागर्ति स विष्णुरिति न युक्तम् । देवदत्ते सुप्तेऽपि यज्ञदत्तस्य जागरणदर्शनेन तस्य विष्णुलिङ्गत्वासम्भावा- दित्यत उक्तं- प्रलयादिष्विति ।। आदिपदेन सृष्टिस्थितिकालग्रहणम् । नन्वेतदयुक्तम् । तथासतिकामं कामं निर्ममाणः" इत्यस्यानुपपत्तिः । नच प्रलये निर्माणमस्ति । नच निर्माणमात्रमत्रोच्यते । नतु तत्कालीनमिति वाच्यम् ।भुआनो नोत्सृजेद्वाचम्" इत्यादाविव प्रकरणप्राप्तत्वादित्युक्तत्वात् ।

अत एव सूत्रकारोऽपि ‘“निर्मातारं चैके " इति स्वाप्नपदार्थनिर्मातृत्व- मीश्वरस्यैतच्छ्रुत्यवष्टम्भेनोक्तवानिति चेन्न । प्रलयेऽपि ब्रह्मादिजीवमनो- वृत्त्यादिनिर्माणस्य सत्वात् । कथमन्यथा तन्मनोवृत्तेः प्रवाहतोऽनादित्वम् । उक्तञ्चप्रलयेऽपि प्रतिभातपरावरः " इति । उक्तञ्च तत्त्वप्रकाशिकायाम्- ‘‘स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेणइति । सूत्रकृतेश्वरस्य स्वाप्नपदार्थ - निर्मातृत्वे एतच्छ्रुतेरुपपादनादत्र च भाष्ये प्रलयादिष्वित्युक्तत्वात्संस्कारादेः सत्त्वाच्च प्रलयेऽपि स्वाप्नपदार्थनिर्माणभस्तीत्यप्याहुः । ननु प्रलये यदि ब्रह्मादिमनोवृत्तिनिर्माणं तर्हि कथं तेषां सुप्तिः । नच ब्रह्मादिव्यतिरिक्तानामेव सुप्तिरिति वाच्यम् । ‘“सुषुप्तिसंस्थान् ब्रह्मादिकान् ” “ सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः" इत्यन्यत्रोक्तेरिति चेन्न । यतस्तेषां सावस्था अस्मत्स्वप्नावस्थासदृशी । मनोवृत्तेस्सद्भावात् । बहिर्व्यापाराभावाच्च । एवञ्च स्वप्नसुषुप्त्युभयसाधारणसुप्तिशब्दस्य तत्र गौण्या वृत्त्या प्रयोग इति । उक्तञ्च बृहदारण्यकभाष्ये । ‘“स्वप्नसुषुप्त्युभयाभिप्रायेण कानि सुप्त इत्युक्तम्इति । उक्तञ्च षट्प्रश्नभाष्यटीकायाम् ।स्वापोऽपि द्विविधः स्वप्नः सुषुप्तिश्चेति" इति ।

ननु जीवः सुप्तिशोकादिमान् विष्णुस्तु तेषु सुप्तेषु जागर्ति शोकादिरहित- श्वेत्यस्तु तयोर्भेदः, जीवस्य कर्मफलभोक्तृत्वेन कथं तयोर्भेदसिद्धिः । विष्णोरपि कर्मफलभोक्तृत्वाङ्गीकारादिति चेन्न, यतोऽत्र कर्मफलं श्रुत्युक्तं जीवस्य योन्यादिगमनमेव विवक्षितम् । नहि जीवस्य यद्योन्यादिगमनं तत् ब्रह्म प्राप्नोति । अतस्तयोर्भेदः सिद्ध इति भावेनाह- नहीति ॥ प्राप्नोतीति शेषः । यद्यपि जीवनियामकतया योन्यादिगमनमपि प्राप्नोत्येव ब्रह्म तथापि न स्वकर्मार्जितशरीरप्राप्त्यर्थम् । अत एव श्रुतौ शरीरत्वायेत्युक्तमिति भावः । ननु ‘‘हन्त त इदं प्रवक्ष्यामि " इत्यत्रेदं गुह्यं ब्रह्म प्रवक्ष्यामि । यथा मरणं प्राप्य जीवो भवति तच्च प्रत्रक्ष्यामीति प्रतिज्ञाद्वयं कृत्वा तदुभयं पश्चादभिधीयत

इति कुतोऽङ्गीकर्तव्यम् । ब्रह्म प्रवक्ष्यामीति प्रतिज्ञाय पश्चात्तन्निरूपणमेव क्रियत इत्यर्थः किं न स्यात् । नचैवंयथा मरणं प्राप्यइत्येतद्व्यर्थं स्यादिति वाच्यम् । आत्मा मरणं प्राप्य यथा भवति तदिदं ब्रह्म प्रवक्ष्यामीति वाक्ययोजनोपपत्तेः । सम्भवत्येकवाक्यत्वे वाक्यभेदायोगाच्चेति चेन्न । तथासति " योनिमन्ये प्रपद्यन्ते" इत्यादिना जीवस्य योन्यादिगमन- मुच्यमानमसङ्गतं स्यात् । नच जीवस्य योन्यादिगमनमपि ब्रह्मतयोच्यत इति नासङ्गतिरिति युक्तमित्याह- नहीति ॥ योन्यादिगमनस्य ब्रह्मत्वे तस्यानित्यत्वप्रसङ्ग इत्यर्थ इत्यप्याहुः । नन्वेवं प्रतिज्ञाद्वयमित्यङ्गीकारे जीवस्वरूपकथनं व्यर्थम् । तस्याजिज्ञासितत्वात् । नच जीवेश्वरभेदज्ञापनाय तत्कथनमित्युक्तमिति वाच्यम् । जीवेश्वरभेदस्याप्यजिज्ञासितत्वेन तज्ज्ञापनस्यापि व्यर्थत्वादित्यत आह- जीवादिति ॥ ब्रह्मणो यथावज्ज्ञानं च नचिकेतसा प्रार्थितमिति भावः ||२.१.३॥

श्रीवेदेशतीर्थखण्डार्थ:

एवमुक्तो नचिकेताः स्वयं विषयव्यावृत्तेन्द्रियत्वात् पुनरपि जीवनियामकभगवत्स्वरूपं पृच्छति - येनेति ॥ येन "सर्वे वेदाः " इत्याद्युक्तमाहात्म्यवता । एतेनैव " ऋतं पिबन्तौइत्याद्युक्तमाहात्म्यवता विष्णुनैव । जीवो रूपादिकं विजानाति यच्चात्र मुक्तौ परिशिष्यते तदेतत्किं कैर्विशेषणैर्विशिष्टमित्यर्थः । परिहारमाह - एतद्वै तदिति ॥ तत् त्वत्पृष्टं जीवनियामकभगवत्स्वरूपं एतद्वक्ष्यमाणविशेषणविशिष्टं वै प्रसिद्धमित्यर्थः

।।२.१.३।।

श्रीवरदतीर्थ:

वरद- यत एवं धीरा अध्रुवेषु विषयेषु न प्रवर्तन्ते । किन्तु धृवे मोक्षे एव प्रवर्तन्ते । त्वं च धीरो यतस्तस्मात् ते तुभ्यं ब्रह्म वक्ष्यामीति भावेनोच्यते- हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।

यथा मरणं प्राप्यात्मा भवति गौतम ॥ इति ॥ काठक २.२.६

इदं वाक्यं ब्रह्म प्रवक्ष्यामीति तद्व्याचष्टे - इदमित्यादिना प्रतिज्ञावाक्यत्वात् ‘“धृवमधूवेष्विह न प्रार्थयन्ते " इति वाक्यस्यानन्तरस्थं इति ज्ञातव्यम् । ननु ब्रह्मस्वरूपस्यैव नचिकेतसा पृष्टत्वात् तदेव तस्मै प्रतिपादनीयम् । मरणानन्तरं जीवगतिस्त्वष्टृष्टा किमर्थं कथ्यत इत्यत आह- जीवेति ॥ ब्रह्मस्वरूपजिज्ञासवे हि तत्स्वरूपं यथावन्निरूपणीयम् । यथावन्निरूपणञ्च साधर्म्यवैधम्र्म्याभ्यां वस्तुविवेचने सत्येव भवति अतस्तद्वि- वेचनार्थं जीवस्य मरणानन्तरावस्था कथ्यत इत्यर्थः । प्रतिज्ञातं ब्रह्मगतिश्च निरूप्यते ।योनिमर्त्ये प्रपद्यन्ते" इत्यारभ्य श्लोकद्वयेन । तद्व्याख्याति - य इति ।। कर्मफलभोक्तेत्यनेन योनिमन्ये इति श्लोकार्थः सूचितः । सुप्त्यादिमानित्यनेन " य एषु सुप्तेषु" इत्यर्थं उक्तः । " यः प्रलयादिषु" इत्यनेनापिय एषु सुप्तेषु जागर्ति" इत्यस्य " हन्त त इदं प्रवक्ष्यामि " इत्यनेन ब्रह्म प्रवक्ष्यामि, यथा मरणं प्राप्य जीवो भवति तच्च वक्ष्यामीति प्रतिज्ञाद्वयमभिधाय पश्चात्क्रमेण तदुभयमभिधीयत इति किमर्थमङ्गीकर्तव्यम् । किं तर्हि ब्रह्म प्रवक्ष्यामीति प्रतिज्ञाय पश्चात्तन्निरूपणं क्रियत इत्येवार्थः किं न स्यादित्यत आह- यदि हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनं इति ॥ प्रतिज्ञातं ब्रह्मैवोत्तरत्राभिधीयते तर्हि जीवस्य यद्योन्यादिगमनमुच्यते तदपि ब्रह्मेति स्यात् । अन्यवस्तुप्रतिपादनस्य त्वयाप्यनङ्गीकृतत्वात् योन्यादिगमनस्य च ब्रह्मत्वे तस्यानित्यत्वप्रसङ्ग इत्यर्थः । ननु प्रतिज्ञाद्वयमित्यङ्गीकारेऽपि जीवस्वरूपस्य जिज्ञासितत्वात्तद्वर्णनं व्यर्थम् । नच जीवेशभेदज्ञापनाय जीववर्णनमिति वाच्यम् । तद्भेदस्याप्यजिज्ञासितत्वेन तज्ज्ञापनायोगादित्यत आह- जीवादिति ॥२.१.३॥

श्रीवरदतीर्थखण्डार्थ:

यत एवमधीरा एवं विषयाभिरताः धीरास्तु मोक्षाभिरता एव त्वञ्च धीरोऽसि अत उत्कृष्टपुरुषार्थसिद्ध्यर्थे ब्रह्म ते प्रवक्ष्यामीति समाप्तो ब्रह्मोपदेश इति शङ्कया पुनरपि विशेषज्ञानार्थं पृच्छति नचिकेताः - येनेति ॥

येनैतेन भगवता रूपादिविषयाननुभवति पुरुषस्स भगवानत्र मुक्तजीव- नियामकतयावशिष्यते किमिति चोद्यार्थः । परिहारमाह- परिशिष्यत एतद्वै तदिति ॥ परिशिष्यत इति पदं चोद्यपरिहारयोः साधारणम् ! तदेतद्ब्रह्म मुक्तजीवे नियामकतया परिशिष्यत एवेति परिहाराभिप्रायः यथावज्जानीयामिति ।। २.१.३ ।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

नचिकेता अर्थात्प्राप्तामात्मनः स्तुतिं मत्वा, अलं स्तुत्या क्षिप्रं तत्त्वं वदेति भावेन पृच्छति - येनेति ॥ येन एतेनैव ब्रह्मणा प्रेरितो रूपादीन् विजानाति तदेतत् जीवप्रेरकं ब्रह्मात्र मोक्षे परिशिष्यते मुक्तजीवप्रेरकत्वेन आस्ते किमिति प्रश्नार्थः । इति पृष्टो यमः प्रत्युत्तरमाह - एतद्वै तदिति ॥ तत् त्वया परिशिष्यते किमिति पृष्टं एतद्वै एतद्गुणकं सत् परिशिष्यते वै असंशयमित्यर्थे वैनिपातः । परिशिष्यत इत्येतदत्राप्यन्वेति ।। २.१.३ ।