श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः

शास्त्रव्याख्यातुः श्रोतुश्च दुर्लभत्वम्

उपनिषत्

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ।। १.२.७ ॥

श्रीव्यासतीर्थ:

न केवलं प्रमादात् साम्परायप्रतिभानाभावः । कारणान्तरञ्चाह- श्रवणायापीति ।। यः साम्परायः श्रवणायापि बहुभिः न लभ्यः । शृण्वन्तोऽपि बहवो यं न विद्युतोऽपि न साम्परायः प्रतिभातीत्यर्थः । श्रवणाय कस्मान्न लभ्य इत्यतस्तद्विषयशास्त्रव्याख्यातुः श्रोतुश्च दुर्लभत्वादित्याह - आश्चर्य इति ।। कुशल वक्ता आश्चर्यो दुर्लभः । कुशलानुशिष्टोऽस्य व्याख्यातुर्लब्धा ज्ञाता श्रोता चाश्वर्य इति योजना ।। १.२.७ ।।

वामनपण्डिताचार्य:

यद्यपि केचित् परलोकोऽप्यस्तीति कथञ्चिदैतिह्याज्जानन्ति तथाऽपि तन्नियामकः कश्चिदस्तीति न ते जानन्ति । तच्छ्रवणादेः सुदुर्लभत्वादित्याह- श्रवणायेति ॥ स भगवान् श्रवणमात्रार्थमपि आत्मानं पण्डितं मन्यमानाः जानन्तः दन्द्रम्यमाणाः वक्रगतयः, द्रमेः कुटिल - गत्यर्थत्वात्, मूढाः कामभोगेन मोहिताः परियन्ति परितः स्वर्गनरकादीन् गच्छन्ति । तत्र दृष्टान्तः अन्धेनैवेति ।। १.२.५ ।।

श्रीवेदेशतीर्थखण्डार्थ:

यदा श्रवणादिप्रयत्नवतोऽपि न साम्परायः प्रतिभाति किमुत प्रमादादिमत इति भावेनाह - श्रवणायापीति ॥ बहुभिः श्रवणायापि श्रोतुमपि न लभ्यः प्राणिनां मध्ये बहूनां प्राणिनां भगवद्विषयक श्रवणमपि नास्तीत्यर्थः । अस्ति केषाञ्चित् श्रवणं तथापि न साम्परायस्तेषां यथार्थतः प्रतिभातीत्याह- शृण्वन्तोऽपीति । कुत इत्यतो वक्तृश्रोतृदौर्लभ्यादित्याह - आश्चर्य इति ॥ कुशलेन गुरुणानुशिष्टोऽस्य भगवतो यथार्थतो ज्ञाता ज्ञानानुसारेणास्य वक्ता आश्चर्यो दुर्लभः । कुशलोऽस्य भगवतो लब्धा गुरूक्तप्रकारेण ज्ञाता श्रोताप्याश्चर्य इति योजना ।। १.२.७ ।।

श्रीवरदतीर्थखण्डार्थ:

वरद. खं- " अविद्यायामन्तरे वर्तमानाः" इत्यादिना परमेश्वरः प्राणिनां न प्रतिभातीत्युक्तम् । तत्र कारणमाह- श्रवणेति ॥ सर्वेषां प्राणिनां भगवद्विषयश्रवणमेव नास्ति श्रवणवतामपि सर्वेषां तद्विषययथार्थज्ञानं न जायते । श्रवणे कृतेऽपि विपरीत ज्ञानिन एव भवन्ति । अतः सर्वेषां भगवज्ज्ञानं न भवतीत्यर्थः । ज्ञानाभावे कारणान्तरञ्चाह - आश्चर्य इति ॥ अस्य वक्ता व्याख्याता पुरुषः आश्चर्य: अपूर्व इति यावत् । एवं विष्णोः लब्धापि ज्ञातापि पुरुषो दुर्लभः । श्रोतृषु सत्स्वपि कुशलानुशिष्टत्वेन सम्यज्ज्ञाता पुरुषः आश्चर्यः ।। १.२.७ ।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

भगवतोऽभाने हेत्वन्तरमाह - श्रवणायेति ॥ यस्साम्परायशब्दितो भगवान् वहुभिः श्रवणाय न लभ्यः । बहूनां श्रवणजन्यज्ञानविषयो न भवति । तर्हि किं शब्दावेद्य एव, नेत्याह । शृण्वन्तोऽपि शब्दात् तं जानन्तोऽपि बहवः

यं न विद्युः न जानन्ति । कार्त्स्न्येनेति वा यथावत्त्वेनेति वाऽभिप्रायः । अतो न वित्तमूढं प्रति भातीत्यन्वयः । कुतो न विद्युरित्यतो यथावत्तया तत्स्वरूपवक्ता श्रोता च दुर्लभ इत्याह- आश्चर्य इति । अस्य साम्पराय - शब्दितस्य श्रेयस्साधनीभूतभगवतः कुशलो वक्ता यथावत्तत्स्वरूपोपदेष्टा आश्चर्यो दुर्लभः । कुशलानुशिष्टः यथावदनुशिक्षितः अस्य वक्तुः लब्धा प्राप्ता यथावत् ब्रह्मस्वरूपवक्तृभूताचार्यप्राप्तिमान् ज्ञाता श्रोता च आश्चर्यो दुर्लभ इत्यर्थः ।। ।। १.२.७ ।।