वर्जितः सर्वदोषै..
।। अथ तृतीयपरिच्छेदः ।।
विष्णोर्निर्दोष शेषसगुणत्वसाधकपुराणवाक्ययोरुदाहरणम्
मूलम्
- ॐ।।‘वर्जितः सर्वदोषैर्यो गुणसर्वस्वमूर्तिमान् ।
स्वतन्त्रो यद्वशाः सर्वे स विष्णुः परमो मतः ।।’
इति परमोपनिषदि ।
‘नित्यपूर्णाखिलगुणो निर्दोषः१ सर्वदैव यः ।
स्वतन्त्रः स परो विष्णुर्जन्ममृत्यादिवर्जितः ।
नारद उवाच ।
निर्दोषश्चेत् कथं विष्णुर्मानुषेषूदपद्यत ।
चिन्ताश्रमव्रणाज्ञानदुःखयुग् दृश्यते कथम् ।
एष मे संशयो ब्रह्मन् हृदि शल्य इवार्पितः ।
अनुद्धार्योऽपरैर्मर्त्यैः सूक्तिशक्त्या तमुद्धर ।
श्रीब्रह्मोवाच ।
स्त्रीपुंमलाभियोगात्मा देहो विष्णोर्न२ जायते ।
किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् ।
प्रकाशयति सैवेयं जनिर्विष्णोर्न चापरा ।
तथाऽप्यसुरमोहाय परेषां च क्वचित्क्वचित् ।
दुःखाज्ञानश्रमादीन् स दर्शयेत् शुद्धसद्गुणः ।
क्व व्रणादि क्वचाज्ञानं स्वतन्त्राचिन्त्यसद्गुणे ।
दौर्लभ्यायैव मोक्षस्य दर्शयेत्तान्यजो हरिः ।
मिथ्यादर्शनदोषेण तेन मुक्तिं न यान्ति च ।
तमो यान्ति च तेनैव तस्माद्दोषविवर्जितम् ।
प्रादुर्भावगतं चैव जानीयाद्विष्णुमञ्जसा ।।’
इति ब्रह्माण्डे ।
‘गुणक्रियादयो विष्णोः स्वरूपं नान्यदिष्यते ।
अतो मिथोऽपि भेदो न तेषां कश्चित् कदाचन ।
स्वरूपेऽपि विशेषोऽस्ति स्वरूपत्ववदेव तु ।
भेदाभावेऽपि तेनैव व्यवहारश्च सर्वतः ।।’
इति परमोपनिषदि ।।
तत्त्वमञ्जरी
निर्दोषाशेषसद्गुणमिति विशेषणं साधयति - वर्जित इति ।। गुणानां सर्वरूपमेवास्य मूर्तिः । पूर्णगुणो विदोष इत्युक्त्वा स्वतन्त्र इत्यादिना गुणान् दोषाभावांश्चाह । परेषां स्वयोग्यताति-रिक्तशुभवतां सतां च मोहाय ।
ननु न गुणिन ईश्वरस्य गुणस्वरूपत्वं सम्भवति । तथा सति गुणमात्रत्वप्रसङ्गात् । नहि लोके तद्वतः तद्रूपत्वं दृष्टम् । तथाचायं प्रयोगः । तद्वांस्तन्न भवति । तद्वत्त्वात् । यो यद्वान् स तन्न । यथा छत्रीत्यत आह - गुणेति ।। आदिशब्दादिच्छाशक्त्यादयः ।
स्वरूपेऽपीत्यादेरयमर्थः । गुणिस्वरूपेऽपि गुणक्रियादिरूपो विशेषोऽस्ति । तस्मान्न गुण-मात्रत्वप्रसङ्गः । यथा स्वरूपिण एव स्वरूपत्वविशेषोऽस्त्येव । नहि तत्पक्षेऽपि स्वरूपिणः स्वरूपं भिन्नम् । भेदाभावेऽपि तेन विशेषेणैकस्वरूपस्वरूपिव्यवहारो गुणगुण्यादिव्यवहारश्च वर्तते । अत्रचोक्तं तत्त्वदीपिकायाम् । सोयमेकत्रापर्यायनानाशब्दप्रवृत्तिहेतुः । एवंभूते विशेषे किं प्रमाण-मिति चेत् । न प्रमाणप्रश्नः । एवंभूतत्वं न विशेषात् भिन्नमिति । अनेनैव हेतोश्चानैकान्तिकत्वं साधितम् । स्वरूपिण एव स्वरूपत्वदर्शनात् । महोपनिषदादिविरोधादेव कालात्ययापदिष्टत्वं च ।
टीका
जगज्जन्मादिकर्तारं समस्तगुणसागरम् ।
अवद्यगन्धविधुरं हरिं वन्दे निरन्तरम् ।।
क्रमप्राप्तं विष्णोर्निर्दोषाशेषसद्गुणत्वं श्रुतिपुराणवाक्याभ्यां साधयति- वर्जित इति ।। अत्र गुणशब्दः शुभवचनः । दोषाभावस्य गुणत्वेऽपि भावाभावरूपतया पृथगुक्तिः । गुणानां सर्वस्वं साकल्यं तदेव मूर्तिस्तद्वान् । विग्रहवत्त्वात् कथं सर्वदोषैर्वर्जितः । विग्रहस्य दोषाविनाभूत-त्वादित्येतत्परिहारायेदमुक्तम् । उभयोपपादनम्- स्वतन्त्र इति ।। स विष्णुरित्यादि साध्यनिर्देशः। एवमेव नित्येत्यादिवाक्ययोजना । चेद् यदि, तर्हीति शेषः । उत्पत्तिरेव दोषव्याप्ता । मानुषेषु तु सुतराम् । चिन्तादियुग् अनुमानेन दृश्यते, व्रणादियुक् प्रत्यक्षेण । त्वद्वचनेन प्रत्यक्षादिदर्शनेन च जात एष संशयः । मर्त्यैः किमु ।
मानुषेषु कथमुदपद्यतेत्यस्य परिहारः- स्त्रीति ।। समासान्तो विधिरनित्य इति स्त्रीपुंसेति नोक्तम् । मलं शुक्लशोणितम् । अभियोगः सम्बन्धः । स आत्मा कारणं यस्य देहस्य स तथोक्तः। ‘विज्ञानमानन्दं ब्रह्म’ इतिवत् सुखशब्दस्य विशेष्यलिङ्गता । अत एव चिन्तादिदोषरहितोऽपि । तर्हि कथं तद्दर्शनमित्यत आह- तथाऽपीति ।। परेषां सज्जनानां च मोहाय । दोषाभावमेव प्रकटयति- क्वेति ।। असुरादिमोहनं किमर्थमित्यत आह- दौर्लभ्यायैवेति ।। असुराणामत्यन्तं तमःप्राप्तये परेषां विलम्बाय । तेन कथं मोक्षदौर्लभ्यमित्यत आह- मिथ्येति ।। मुक्तिं न यान्ति । अत्यन्तमविलम्बेन च तमो यान्ति चासुराः ।
अत्र केचित्परमात्मा निर्गुण एवेति प्रतिपन्नाः । सगुणत्वेऽपि गुणानां ततः परस्परं चात्यन्तं भेदमेके मन्यन्ते । अपरे भेदाभेदौ । अन्ये त्वानन्दादयो द्विविधाः स्वरूपभूता भिन्नाश्चेति । एतत्पक्षचतुष्टयनिरासेन स्वपक्षं श्रुत्यैव साधयति- गुणेति ।। आदिपदेन जात्यादिग्रहणम् । अनेन परमात्मनो गुणादयः सन्ति । ते च तेनात्यन्ताभिन्ना इति वचनेन चत्वारोऽपि पक्षा निरस्ताः । अन्यदिति भेदाभेदावानन्दादिद्वैविध्यं च । अत एकेन परमात्मनाऽत्यन्ताभिन्नत्वात् । कथं तर्ह्यानन्दं ब्रह्मण इत्यादिसम्बन्धव्यवहारो, गुणेषु वहुवचनव्यवहारो, गुणिन्येकवचनं, शब्दानामपर्यायत्वं चेत्यत आह- स्वरूपेऽपीति ।। अभिन्नेऽपीत्यर्थः । विशेषो नाम काचन वस्तुनः शक्तिः । तत्सम्भा-वनार्थं दृष्टान्तमाह- स्वरूपत्ववदिति ।। नहि स्वरूपे स्वरूपत्वं नाम भिन्नो धर्मोऽस्ति । अस्ति च त्वप्रत्ययः । न चासौ निर्विषयः, अप्रयोगप्रसङ्गात् । अतोऽस्ति तत्प्रवृत्तौ किमपि निमित्तम् । स एव विशेषः । एवमन्यत्रापि वेदितव्यमिति । अस्त्येवेति सम्बन्धः । तेन प्रमाणवत्तां सूचयति । यथोक्तम्- येन प्रत्यक्षसिद्धेनेत्यादि । तुशब्देन वैशेषिकाभ्युपगताद् विशेषाद्व्यवच्छिनत्ति । यद्यस्ति ततः किमित्यत आह- भेदेति ।। व्यवहारः सम्बन्धादिविषयः ।
भावबोधः
व्याचिख्यासितपरिच्छेदप्रतिपाद्यविशेषणयुक्तं हरिं नमति- जगज्जन्मादिकर्तारमिति ।। क्रम-प्राप्तमिति ।। निर्देशक्रमेण प्राप्तमित्यर्थः । शुभवचनमिति ।। तथा च दुःखादीनामपि गुणत्वात्कथं गुणसर्वस्व-मूर्तिमत्त्वं सर्वदोषविवर्जितत्वोपपादकमिति वक्ष्यत इति शङ्काऽनवकाश इति भावः । चेद्यदीति ।। कथमिति-शब्दबलादस्य तर्करूपत्वमवगम्यते । चेच्छब्दस्य शङ्कार्थत्वे तन्न स्यादिति भावः । मानुषेष्वित्यस्य वैयर्थ्यं परिहरति- उत्पत्तिरेवेति ।। अनुमानेनेति ।। चिन्तादेरान्तरत्वेन परप्रत्यक्षाविषयत्वादिति भावः । दोषाभाव-लक्षणकोट््युपस्थापकाभावात्कथं संशय इत्यत आह- त्वद्वचनेनेति ।। मर्त्यैः किम्विति ।। अनेनापरैरित्यस्य रुद्रादिदेवैरित्यर्थः इत्युक्तं भवति । ननु स्त्रीपुंमलात्मेत्यादिनोत्पत्तिलक्षणदोष एव परिहृतो न तु चिन्तारूपदोष इति कथं तत्प्रदर्शनगतिः तथाऽपीत्यादिना कथ्यते इत्यत आह- अत एव चिन्तादीति ।। येन प्रत्यक्ष-सिद्धेनेत्यादीति ।। अत्राऽदिपदेन विशेषस्यार्थापत्त्यादिसिद्धत्वप्रतिपादक ‘भेदहीने त्वपर्यायशब्दान्तरनियामकः’ इत्यादिवाक्यग्रहणम् ।।
भावदीपः
मङ्गलमाचरति- जगदिति ।। विशेषणद्वयेन परिच्छेदार्थोक्तिः । समस्तगुणसागरत्वावद्यगन्ध-विधुरत्वयोरुपपादनाय- जगज्जन्मादिकर्तारमिति ।। निरन्तरमित्येतत्पूर्वविशेषणेष्वप्यनुसन्धेयम् । क्रमप्राप्त-मिति ।। आद्यपद्ये यथोद्देशप्राप्तमित्यर्थः । गुणशब्दस्य सत्त्वादिषु प्रसिद्धेः परमते दुःखादेर्गुणत्वेन परिगणनाच्च तद्व्युदासायाऽह- गुणशब्द इति ।। साध्यनिर्देश इति ।। दोषहीनो गुणसर्वस्ववान् विष्णुर्भवितुमर्हति स्वातन्त्र्यादित्येवमुक्तं भवतीति भावः । चेच्छब्दस्य शङ्कार्थत्वनिरासेनास्य तर्करूपताद्योतनायार्थमाह- चेद्य-दीति ।। यदि निर्दोषस्तर्हि कथं रामकृष्णादिरूपेणोत्पद्येत नोत्पद्येतेत्येतावता पूर्तौ मानुषेष्विति किमर्थमुक्त-मित्यतोऽनुवादव्याजेन कृत्यं सूचयति- उत्पत्तिरेवेति ।। आपाद्यापादकयोर्व्यतिरेकप्रदर्शनार्थं मानुषेष्वि-त्युक्तमित्यर्थः । तावता निर्दोषत्वविधानसिद्धेश्चिन्तेत्यादि किमर्थमित्यतः कैमुत्यसूचनायेति भावेनैवेत्येवकार-प्रयोगः । अनुमानेनेति ।। मुखम्लानतास्वेदादिलिङ्गेनेन्द्रजित्कृतोरगबन्धादिना व्रणादिकं तत्कालवृत्तिलोक-प्रत्यक्षेण दृश्यत इत्यर्थः । न दृश्येतेत्यापाद्यं व्याप्तिश्च प्राग्वत् । मानुषेष्वेवेति भावः । त्वद्वचनेनेति ।। निर्दोषो भगवानित्यादित्वद्वचनेनेत्यर्थः । नारदो ब्रह्माणं प्रति वक्ति । मर्त्यैः किम्वित्युक्त्या अपरैरित्यस्य ब्रह्मेतर-देवर्ष्यादिभिरित्यर्थः सूचितो भवति । ‘अचतुरविचतुरसुचतुरस्त्रीपुंस’ इति सूत्रेऽकारान्ततया निपातनात्कथं स्त्रीपुंमलेत्युक्तिरित्यत आह- समासान्त इति ।। ‘ऋक्पूरब्धूःपथामानक्षे’ इति पथानामिति वाच्ये पथामिति निर्देशस्य समासान्तो विधिरनित्य इति ज्ञापनार्थत्वादिति वैयाकरणोक्तेरिति भावः । चिन्तादिदोषपरिहारः कुतो नोक्त इत्यत आह- अत एवेति ।। अप्राकृतविग्रहत्वादेवेत्यर्थः । परेषां विलम्बायेत्यत्र सज्जनानां मोक्ष-विलम्बायेत्यर्थः । कथं मोक्षदौर्लभ्यमित्यत्र प्रागुक्तद्विरूपदौर्लभ्यमित्यर्थः । भेदाभेदाविति ।। निरस्तावित्यन्वयः। द्वैविध्यमिति ।। नितस्तमित्यन्वयः । अत इत्यनुवादः एकेनेत्यादि व्याख्या । तत्प्रवृत्ताविति ।। त्वप्रत्यय-प्रयोगप्रवृत्तावित्यर्थः । एवमन्यत्रापीति ।। गुणक्रियादावपीत्यर्थः । यथोक्तमिति ।। वैशेषिकनयानुव्याख्याने-
‘येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ।
एतादृशे विशेषेऽस्मिन् को द्वेषो वादिनां भवेत् ।।’
इत्युक्तमित्यर्थः । वैशेषिकेति ।। नित्यद्रव्यगता(अन्त्या)(अनन्ता)विशेषा इत्येवंभूताद्विशेषादित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
विश्वोत्पत्त्यादिकर्तारमनन्तगुणवारिधिम् ।
दोषलेशविहीनं तं वेदव्यासं सदा भजे ।। १ ।।
व्याचिख्यासिततृतीयपरिच्छेदप्रतिपाद्यविशेषणविवरणपूर्वकं तद्विशेषणयुक्तं हरिं नमति- जगज्जन्मा-दीति ।। अवद्यगन्धेति ।। दोषलेशेत्यर्थः । ‘गन्धः सौरभ्यलेशयोः’ इत्यभिधानात् । निरन्तरमिति ।। अन्तरं व्यवधानं विना सदेत्यर्थः । यद्वा भगवद्गुणानां भगवता भेदशङ्कापरिहाराय निरन्तरमित्युक्तम् । निर्भेदमित्यर्थः। क्रमप्राप्तमिति ।। सदागमैकविज्ञेयम् इत्याद्यपद्ये निर्देशक्रमप्राप्तमित्यर्थः । ननूत्तरत्र गुणसर्वस्वमूर्तिमत्त्वं सर्वदोषविवर्जितत्वोपपादकमित्युच्यते । तत्र दुःखादीनामपि गुणत्वेन परमते व्यवहारात्तदात्मकमूर्तिमत्त्वं कथं सर्वदोषविवर्जितत्वस्योपपादकं स्यादित्यत आह- शुभवचन इति ।। शुभधर्मवचन इत्यर्थः । तथा च गुणशब्देन दुःखादीनामप्रसक्तिरिति भावः । ननु ‘दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि’ इति वचनात्, अक्रौर्यं गुणः आरोग्यं गुण इति प्रयोगाच्च दोषाभावस्यापि गुणत्वेन गुणसर्वस्वमूर्तिमानित्यनेनैव सर्वदोषविवर्जितत्वस्य लब्धत्वाद्वर्जितः सर्वदोषैरिति पृथगुक्तिर्व्यर्थेत्यत आह- दोषाभावस्येति ।। भावाभावरूपतयेति ।। भावा-भावरूपधर्मविवक्षयेत्यर्थः । मूर्तिः देहः । किमस्य विशेषणस्य प्रयोजनमित्यत आह- विग्रहवत्त्वादिति ।। इदमुक्तमिति ।। गुणसर्वस्वमूर्तिमानिति विशेषणमुक्तमित्यर्थः । तथा च प्राकृतविग्रहस्यैव दोषाविनाभूतत्वाद् भगवद्विग्रहस्य चातथात्वान्नोक्तदोष इति भावः ।
‘यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः ।।’
इत्यनुव्याख्यानं मनसि निधायाऽह- उभयोपपादनमिति ।। गुणपूर्णत्वनिर्दोषत्वयोरुभयोरुपपादनमित्यर्थः । तथा हि । द्वेधा हि वस्तु न प्राप्यते, तत्र स्वातन्त्र्याभावाद् प्रेप्साभावाद्वा । द्वेधा च न हीयते । स्वातन्त्र्याभावाद्वा जिहासाभावाद्वा । अस्ति च तावदीश्वरस्य सर्वतः स्यातन्त्र्यम्, अस्ति च मया सर्वदा आनन्दादिगुणवता दुःखादिदोषवर्जितेन च भवितव्यमितीच्छा । प्रेप्सावत्त्वादतः कथं तस्याऽनन्दादिगुणपूर्णत्वं दुःखादिदोषदूरत्वं च न भवति । अत्रैते प्रयोगाः- ईश्वरः सर्वगुणपूर्णः सर्वदोषदूरश्च स्वतन्त्रत्वात्, व्यतिरेकेण यज्ञदत्तवत् । ईश्वरो विप्रतिपन्नगुणवान् तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात् । यो यत्र प्रेप्सावत्त्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः । ईश्वरो न विमतदोषवान् तज्जिहासुत्वे सति स्वतन्त्रत्वात् । यो यत्र जिहासावत्त्वे सति स्वतन्त्रः (श्री.टि.) स तदभाववान् यथा सम्मत इति । एवमेवेति ।। अत्रापि गुणशब्दः शुभवचनः । दोषाभावस्य गुणत्वेऽपि भावाभावरूपतया पृथगुक्तिः । उभयोपपादनं स्वतन्त्र इति । परमो विष्णुरिति साध्यनिर्देश इत्येवं वर्जित इति वाक्ययोजनावदेव नित्यपूर्णेत्यादिवाक्ययोजनाऽपि द्रष्टव्येत्यर्थः । ‘निर्दोषश्चेत्कथं विष्णुर्मानु-षेषूदपद्यत’ इत्यस्य तर्करूपत्वं तावत्कथंशब्दबलादवगम्यते । तत्र चेच्छब्दस्य शङ्कार्थत्वे तन्न स्यादतो व्याचश्व्े- चेद्यदीति ।। चेच्छब्दो यदीत्यर्थक इत्यर्थः । तथा च विष्णुर्यदि निर्दोषः स्यात्कथं तर्हि मानुषेषूदपद्यत । मानुषेषूत्पत्त्यादिकं न स्यादिति यावदित्यर्थो द्रष्टव्यः । मानुषेष्विति विशेषणवैयर्थ्यमाशङ्क्य तदभिप्रायमाह- उत्पत्तिरेवेति ।। मानुषेषु तूत्पत्तिः सुतरां दोषव्याप्तेत्यर्थः । व्रणस्य प्रत्यक्षत्वेऽपि चिन्तादेरान्तरत्वेन परप्रत्यक्षाविषयत्वाद् दृश्यत इत्ययुक्तमित्यतो व्याचश्व्े- अनुमानेन दृश्यत इति ।। ज्ञायत इत्यर्थः । दोषाभावलक्षणकोट्युपस्थापकाभावात्कथं संशय इत्यत आह- त्वद्वचनेन चेति ।। (निर्दो)विदोषः सर्वदैव य इति त्वद्वचनेनेत्यर्थः । मर्त्यैः किम्विति ।। अनेनापरैरित्यस्य त्वद्व्यतिरिक्तै रुद्रादिदेवैरित्यर्थ इत्युक्तं भवति । मूले- हृदि शल्यमिवेति ।। यथा हृदि लग्नशल्यं शक्त्या सामर्थ्येनोद्ध्रियत इति लोके दृश्व्ं तथा तमिमं संशयरूपं शल्यं समीचीनोक्तिसामर्थ्येनोद्धरेत्यर्थः ।
ननु स्त्रीपुंमलेति कथम्? ‘अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनस’ इत्यादिसूत्रे समासान्ताच्-प्रत्ययान्तानां पञ्चविंशतिशब्दानां निपातितत्वेन स्त्रीपुंसमलेति वक्तव्यत्वादित्यत आह- समासान्तो विधिरनित्य इति ।। समासान्ताच्प्रत्ययविधानं क्वचित्स्यात्क्वचिन्न स्यादित्यर्थः । शुक्लशोणितमिति ।। शुक्लं रेतः शोणितं रक्तं तत्र स्त्रीमलं शोणितं पुरुषमलं रेत इति विवेको द्रष्टव्यः । अभियोग आग्रह इत्यन्यथा प्रतीतेरभियोग-शब्दार्थमाह- सम्बन्ध इति तथोक्त इति ।। स्त्रीपुंमलाभियोगात्मेत्युक्त इत्यर्थः । तथा च स्त्री च पुमांश्च स्त्रीपुमांसौ तयोर्मलं स्त्रीपुंमलम् । स्त्रीपुंमलस्याभियोगः स्त्रीपुंमलाभियोगः । स आत्मा कारणं यस्य स स्त्रीपुंमलाभि-योगात्मा । स्त्रीपुंमलाभियोगात्मा देहो यस्यासौ स्त्रीपुंमलाभियोगात्मदेह इति विग्रहो द्रष्टव्यः । ननु सुखशब्दस्य नित्यनपुंसकत्वात्सुखामिति कथमुक्तमित्यतो विशेष्यनिध्नत्वाददोष इत्येतत्सदृष्टान्तमाह- विज्ञानमानन्द-मिति ।। विशेष्यभूतब्रह्मशब्दस्य नपुंसकत्वेन तद्विशेषणभूतानन्दशब्दस्य नित्यपुंलिङ्गस्यापि यथा नपुंसकत्वं दृष्टम्, एवं विशेष्यभूततनुशब्दस्य स्त्रीलिङ्गत्वेन तद्विशेषणीभूतसुखशब्दस्यापि स्त्रीलिङ्गत्वं युक्तमित्यर्थः । ननु स्त्रीपुंमलाभियोगात्मेत्यादिना कथं मानुषेषूदपद्यत इत्युक्तोत्पत्तिलक्षणदोष एव परिहृतो न तु चिन्ताज्ञानश्रम-दुःखादिदोषाः परिहृताः । तथा च तथाऽपीत्यादिना चिन्तादिप्रदर्शनस्य गतिकथनमसङ्गत स्यादित्यतो न चापरेत्यनन्तरं शेषं पूरयति- अत एवेति ।। निर्दोषचैतन्यसुखरूपदेहवत्त्वादेवेत्यर्थः । एवं सति तथाऽपीत्यादिना चिन्तादिप्रदर्शनस्य गतिकथनं सङ्गतमिति भावः । ‘सतामपि च कुत्रचित्’ इति तात्पर्यनिर्णयगतं वाक्यं हृदि निधाय परेषामित्यस्यार्थमाह- सज्जनानामिति ।। स्वरूपयोग्यतामतिक्रम्य साधनानुष्ठातार एधमानास्तद्विट्-त्वाद्भगवत इति भावः । तथा च श्रुतिः- ‘एधमानद्विुभयस्य राजा’ इति । उक्तं च भगवत्पादैः-
(श्री.टि.)
‘एधमानद्विडित्येव विष्णोर्नाम हि वैदिकम्’ इति,
‘स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते ।
कथञ्चिदधिके यत्ने(दोषः)विघ्नः कश्चित् समापतेत् ।।’ इति च ।
असुरादीत्यादिपदेन सज्जनग्रहणम् । ननु पूर्वमसुराणां सज्जनानां च प्रकृतत्वादुभयेषामपि मोक्षदौर्लभ्यं प्रतीयते तदयुक्तम् । सज्जनानां मोक्षस्य प्रमाणप्रमितत्वेन दोर्लभ्यायोगादित्यत आह- असुराणामित्यादि ।। तथा चासुराणां तमःप्राप्त्या मोक्षदौर्लभ्यं,स्वरूपयोग्यतामतिक्रम्य साधनानुष्ठातॄणां सज्जनानां मोक्षविलम्ब एव दौर्लभ्यं न त्वसुराणामिव तदभाव इति भावः । तेनेति ।। (व्रणा) दुःखाज्ञानादिदोषप्रदर्शनेनेत्यर्थः । दौर्लभ्यमिति ।। असुराणां सज्जनानां चेति शेषः । मूले मिथ्यादर्शनदोषेणेत्यस्य मिथ्याभूतं यद् व्रणादिकं तद्दर्शनजन्यदोषेणेत्यर्थो द्रष्टव्यः ।
मुक्तिं न यान्तीत्यत्र सज्जनानामपि मुक्त्यभावः प्रतीयते । स च प्रमाणविरोधादनुपपन्न इत्यतः सज्जनपक्षे मुक्तिं न यान्तीत्यस्याभिप्रायमाह- अत्यन्तमविलम्बेनेति ।। तथा चासुराणां सर्वथा मुक्त्यभाव एव । सज्जनानां त्वविलम्बेन मुक्तिर्न भवति, किं नाम मिथ्यादर्शनदोषेण विलम्बेन मुक्तिं प्रयान्तीत्येव । न तु सर्वथा मुक्त्यभाव इत्यर्थः । तमो यान्ति चेत्यत्र सज्जनानामपि कर्तृत्वप्रतीतिनिरासाय शेषं पूरयति- तमो यान्ति चासुरा इति ।। अत्रेति ।। विष्णोर्नित्यपूर्णाखिलगुणात्मकत्वप्रतिपादनावसर इत्यर्थः । केचित् मायिनः। ततः परमात्मनः । मन्यन्ते तार्किकाः । द्विविधा इति ।। न चैवं भेदाभेदपक्षसाङ्कर्यम् । भेदाभेदपक्षे एकस्यैवाऽनन्दादेः परमात्मना भेदोऽभेदश्चाङ्गीकृतः । एतन्मते तु आनन्दादयो गुणा द्विविधाः परमात्मस्वरूपभूतास्तद्भिन्नाश्चेति । तत्राऽ-द्यानामभेदः । द्वितीयानां वैषयिकानन्दादीनां भेद एवेत्यङ्गीकारादिति द्रष्टव्यम् । जात्यादीति ।। जातिः परमात्मत्वादिरूपो धर्मः । आदिपदेनावयवादिग्रहणम् । ननु गुणक्रियादीनां विष्णुस्वरूपत्वोक्त्या निर्गुणत्वात्यन्तभेदपक्षयोर्निरासेऽपि भेदाभेदपक्ष आनन्दादिद्वैविध्यपक्षश्च कथं निरस्त इत्यतोऽन्यदितिपदेन तदुभयपक्षनिरास इत्याह- अन्यदितीति ।। ननु गुणादीनां परमात्मनाऽत्यन्ताभेदलाभेऽपि कथं परस्परं भेदाभावः, हेत्वभावादित्याशङ्कापरिहारायोक्तस्यात इत्यस्यार्थमाह- अत इति ।। एकेनेति ।। यद्यदभिन्नाभिन्नं तत्तेनाभिन्नम्, यथा रामाभिन्ननारायणाभिन्नः कृष्णो रामाभिन्न इति व्याप्तिबलादानन्दाद्यभिन्नविष्ण्वभिन्नो ज्ञानादिरानन्दाभिन्न इति भावः । कथं तर्हीति ।। गुणानां भगवता परस्परं चात्यन्ताभेदाङ्गीकार इत्यर्थः । वस्तुनः शक्तिरिति ।। वस्तुनो धर्मभूतोऽभेदे भेदकार्यकारित्वशक्तिमान् पदार्थो विशेष इति योज्यम् । अन्यथा गुणगुण्यादिपदार्थशक्तिरेव विशेष इति प्राप्त्या ग्रन्थान्तरविरोधापत्तेः । तत्र गुणगुण्यादिभेदव्यवहारनिर्वाहकस्य गुणिनिष्ठस्य विशेषरूप-पदार्थस्यातिरिक्तस्यैव प्रतिपादनादित्यवगन्तव्यम् । यथोक्तमनुव्याख्याने-
‘भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ।।’ इति ।
(श्री.टि.) तत्सम्भावनार्थमिति ।। एतादृशविशेषेऽसम्भावनाशङ्कापरिहारार्थमित्यर्थः । न हीति ।। स्वरूपत्व-रूपधर्मस्य स्वरूपाद्भिन्नत्वे द्रव्याद्यन्तर्भावो वाच्यः । स तु न सम्भवति । तथा हि- न तावत्स्वरूपत्वं द्रव्यम् । गुणस्वरूपेऽपि सत्त्वात् । गुणे च द्रव्याभावात् । नापि गुणः । कर्मस्वरूपेऽपि सत्त्वात् । कर्मणि च गुणाभावात् । नापि कर्म । सामान्यस्वरूपेऽपि सत्त्वात् । सामान्ये च कर्माभावात् । नापि सामान्यम् । विशेषस्वरूपेऽपि सत्त्वादित्येवं द्रव्याद्यन्तर्भावासम्भवेन षट्पदार्थातिरेकः स्यादित्याशयः । यथोक्तमनुव्याख्याने-
‘षट्पदार्थातिरेकः स्यात्’ इत्यादि ।
‘न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ।
किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।
स्यादुत्तरं ततोऽन्यच्चेत्तदेव स्वयमेव नः ।।’
इति भक्तिपादीयानुव्याख्यानोक्तरीत्या स्वरूपत्वं न स्वरूपाद्भिन्नो धर्मोऽस्तीति भाव इत्यप्याहुः । त्वप्रत्यय इति ।। स्वरूपस्य भावः स्वरूपत्वमिति भेदकार्यभूतो धर्मधर्मिव्यवहार(हेतु)(रूप)स्त्वप्रत्ययप्रयोगोऽस्ती-त्यर्थः । निर्विषय इति ।। निरर्थक इत्यर्थः । अस्तु निरर्थकः को दोष इत्यत आह- अप्रयोगेति ।। त्वप्रत्ययस्येति शेषः । निरर्थकशब्दस्य प्रेक्षावताऽप्रयुज्यमानत्वादिति भावः । अन्यत्रापीति ।। सत्त्वपदार्थत्वादावपीत्यर्थः । तथा च सत्त्वादिकमपि नातिरिक्तो धर्मोऽस्ति, अस्ति च त्वप्रत्ययः । अतोऽस्ति तत्प्रवृत्तौ किमपि निमित्तं, स एव विशेष इति भावः । किं तत्प्रमाणमित्यत आह- यथोक्तमिति ।। समयपादीयानुव्याख्याने भगवत्पादैरि-त्यर्थः । इत्यादीत्यादिपदेन विशेषस्यार्थापत्तिसिद्धत्वप्रतिपादकं ‘भेदहीने त्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः’ इत्यादिवाक्यं ग्राह्यम् । वैशेषिकाभ्युपगतादिति ।। नित्येष्वेव द्रव्येष्वेव वर्तन्त एवेति विशेषाः। अन्त्यव्यावृत्तिहेतुर्विशेषः । ‘अजातिरेकवृत्तिश्च विशेष इति गीयते’ इति लक्षितादित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ॐ यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ।
अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ।।
व्याचिख्यासितपरिच्छेदप्रतिपाद्यविशेषणविवरणपूर्वकं तद्विशेषणयुक्तभगवन्नतिस्तुतिरूपमङ्गलमादा-वाचरति- जगज्जन्मादीति ।। समस्तगुणसागरमित्यत्र प्रकृत्यादिभ्य उपसङ्ख्यानात्समस्तगुणैरिति तृतीया । ‘तृतीया तत्कृतार्थ’ इति सूत्रे तृतीयेति योगविभागाद्वा ‘कर्तृकरणे कृता बहुलम्’ इति बहुलग्रहणाद्वा तृतीयासमास इति ज्ञेयम् । क्रमप्राप्तमिति ।। यद्यपि नेदमाकाङ्क्षाक्रमप्राप्तं, तथाऽपि निर्देशक्रम एवात्र विवक्षितः । न त्वाकाङ्क्षा-क्रमः । आद्यश्लोकोक्तविशेषणसाधने आकाङ्क्षाक्रमस्याविवक्षितताया निर्देशक्रमस्यैव च विवक्षिततायाः पूर्वं टीकाकारैरुक्तत्वात् । एवञ्च निर्देशक्रमप्राप्तत्वाभिप्रायेण निर्दोषाशेषसद्गुणत्वस्य क्रमप्राप्तत्वोक्तिरियमिति (पां.टि.) द्रष्टव्यम् । गुणशब्दः शुभवचन इति ।। अन्यथा दुःखादिष्वपि गुणशब्दप्रयोगात्तेषां तेन शब्देन प्राप्तौ गुणसर्वस्वमूर्तिमत्त्वस्य वक्ष्यमाणसर्वदोषवर्जितत्वोपपादकत्वानुपपत्तिप्रसङ्गादिति भावः । गुणत्वेऽ-पीति ।। ‘दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि’ इत्यनुव्याख्यानोक्तेरिति भावः । गुणसर्वस्वेत्यादिविशेषण-प्रयोजनमाह- विग्रहवत्त्वादिति ।। अनेन विग्रहवत्त्वेन दोषवत्त्वान्न तस्य सर्वदोषवर्जितत्वमित्यतो गुणसर्वस्व-मूर्तिमानित्युक्तम् । ततश्च दोषाविनाभूतस्य प्राकृतस्य भौतिकस्य वा देहस्य भगवत्यभावाद्विद्यमानस्य च ज्ञानानन्दाद्यात्मकस्य विग्रहस्य दोषाविनाभूतत्वाभावेन तद प्रापकत्वाद्युक्तं तस्य विग्रहवत्त्वेऽपि दोषवर्जितत्व-मिति विशेषणद्वययोजना हेतुहेतुमद्भावेनोक्ता भवति । तदुभयेति ।। चेतनान्तरे सर्वदोषवर्जितत्वस्य गुण-सर्वस्वमूर्तिमत्त्वस्य चादृष्टत्वेन भगवति तद्विशेषणद्वयासम्भवशङ्कापरिहारार्थं स्वतन्त्र इत्युक्तम् । ततश्चान्येषा-मस्वतन्त्रतया तद्वत्त्वासम्भवेऽपि विष्णोस्तद्वत्त्वं सम्भवतीति योजनोक्ता भवति । पूर्ववाक्यवदुत्तरवाक्यस्यापि दुर्गमत्वादवश्यं व्याख्येयस्य कुतो व्याख्यानं न क्रियत इत्यतः पूर्ववाक्यव्याख्यानेनैवोत्तरवाक्यस्य व्याख्यातत्वान्न तदिति भावेन पूर्ववाक्यव्याख्यानमेव तद्वाक्यव्याख्यानतयाऽतिदिशति- एवमेवेति ।। अत्रापि गुणशब्दः शुभ-वचनः । भावाभावरूपतया दोषाभावस्य पृथग्ग्रहणम् । विग्रहवत्त्वात्कथं सर्वदोषविवर्जितत्वमित्यतो नित्य-पूर्णाखिलगुण इत्युक्तम् । तत्त्वं च नित्यपूर्णाखिलगुणमूर्तित्वम् । तदुभयोपपादनं स्वतन्त्र इति । स विष्णुरिति साध्यनिर्देश इति वाक्ययोजनेत्यर्थः । कथमित्यनेन प्रतिपन्नतर्करूपत्वनिर्वाहाय शङ्कार्थकं चेच्छब्दं यदिशब्दार्थ-परतया व्याचश्व्े- चेद्यदीति ।। उदपद्यत इत्यनेनैव विवक्षितार्थसिद्धेर्मानुषेष्वित्येतद् व्यर्थमित्यतोऽर्थविशेष-सूचनार्थत्वान्न तदिति भावेन तद्विशेषणसूचितमर्थविशेषं दर्शयति- उत्पत्तिरेवेति ।।
ननु परमात्मगतचिन्तादीनामप्रत्यक्षत्वाद् दृश्यत इति तद्दृश्यत्वोक्तिरनुपपन्नेत्यतो योजयति- अनुमाने-नेति ।। प्रत्यक्षेणेति ।। यद्यपि ‘न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः’ इत्यन्यत्रोक्तेर्न प्रत्यक्षस्य व्रणादि-दोषग्राहकत्वमपि । तथाऽपि
‘शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान्मुदे मुकुन्दः ।।’
इति वचनावगतव्रणादिदोषग्राहकभीष्मादिप्रत्यक्षाभिप्रायेणेयमुक्तिरिति द्रष्टव्यम् । दोषाभावलक्षणकोट्युपस्थाप-काभावात् कथमयं संशय इत्यतः, त्वद्वचनस्यैव तत्कोटिप्रापकस्य सत्त्वाद्युक्त एवैवंरूपः संशय इति भावेनोक्तम्- त्वद्वचनेनेति ।। कुतो मां प्रत्येवायं प्रश्न इत्यतोऽन्यस्य परिहारकस्याभावात्त्वां प्रत्येव प्रश्न इति भावेन प्रवृत्ते अनुद्धार्योऽपरैर्मर्त्यैरिति वाक्ये अपरैरित्येतावता पूर्तेर्मर्त्यैरित्येतद्विशेषणमनर्थकमित्यतो विशेषसूचकत्वात्तस्य न तदिति भावेन तत्सूचितं विशेषं दर्शयति- मर्त्यैः किम्विति ।। अनेनापरै रुद्रादिभिर्यदाऽनुद्धार्यः तदा मर्त्यैरनुद्धार्यः किम्विति वाक्ययोजनोक्ता भवति ।
ननु ‘अचतुर’ इति सूत्रे स्त्रीपुंसेति निपातितत्वात् स्त्रीपुंसमलेति भवितव्यम् । स्त्रीपुंमलेति तु कथमित्यत (पां.टि.) आह- समासान्तेति ।। तदनित्यत्वे ज्ञापकस्तु ‘शुच्याम्पि तडागानि’ इति भाष्यकारीयः प्रयोग एव । समासान्तविधेर्नित्यत्वे हि ‘ऋक्पूरब्धूः पथामानक्षे’ इति समासान्तेऽकारे सति निष्पन्नशुच्यपशब्दस्या-कारान्ततया तस्मात् परस्य जसः ‘जश्शसोः शिः’ इति शौ तस्य ‘शि सर्वनामस्थानम्’ इति सर्वनामस्थानसञ्ज्ञायां तस्मिन् परतो ‘नपुंसकस्य झलचः’ इत्यजन्तक्लीबतया नुमि ‘सर्वनामस्थाने चासम्बुद्धौ’ इति उपधादीर्घतायां शुच्यपानीति रूपनिष्पत्तेः शुच्याम्पीति भाष्यकारीयप्रयोगासाधुत्वप्रसङ्गात् । समासान्तविधेरनित्यत्वे त्वकारप्रत्ययाप्राप्तौ झलन्तक्लीबतया ‘नपुंसकस्य झलचः’ इति नुमि ‘अप्तृन्’ इत्युपधादीर्घतायां स्वांपीत्यादि-वच्छुच्याम्पीति प्रयोगो भाष्यकारीय उपपद्यत इति परस्यापि तदनित्यत्वं सम्मतमित्यन्यत्र विस्तरः ।
ननु सुखशब्दस्य नपुंसकत्वान्निर्दोषचैतन्यसुखमिति वक्तव्यम् । सुखामिति स्त्रीलिङ्गन्तु कथमित्यतः पुंलिङ्गस्यापि आनन्दशब्दस्य विशेष्यनिघ्नतया ‘विज्ञानमानन्दं ब्रह्म’ इत्यत्र नपुंसकत्ववत्सुखशब्दस्यापि स्त्रीलिङ्ग-तनुशब्दविशेषणतया विशेष्यनिघ्नत्वात् सुखामिति स्त्रीलिङ्गनिर्देशोऽप्युपपन्न एवेत्याह- सुखशब्दस्येति ।। ननु स्त्रीपुंमलाभियोगात्मेत्यनेनोत्पत्त्यादिशङ्कितानेकदोषेषूत्पत्तिरूपदोष एव परिहृतः । न चिन्तादिरूपः । एवं च तत्प्रदर्शनगतेः न तथाऽपीत्यादिना सिद्धिरित्यत आह- अत एवेति ।। निर्दोषचैतन्यसुखात्मशरीरत्वादेवेत्यर्थः। असुराणामत्यन्तमप्राप्तिरूपदौर्लभ्यवत्परेषां तादृशदौर्लभ्यस्य, परेषां विलम्बमात्रवदसुराणां तादृशदौर्लभ्यस्य बाधितत्वेनैकरूपदौर्लभ्यस्याऽश्रयितुमशक्यत्वाद्योग्यतया असुरेष्वत्यन्तमप्राप्तिरूपमेव तत्, परेषु च विलम्ब-मात्रमेव तदिति भावेन दौर्लभ्यमुभयपरतया व्याचश्व्े- असुराणामत्यन्तमप्राप्तय इत्यादिना ।। मुक्तिं न यान्तीत्यत्राप्यसुराणां सर्वथा मुक्त्यभाववत्परेषां सर्वथा मुक्त्यभावस्य, परेषां विलम्बमात्रवदसुराणां विलम्ब-मात्रस्य च बाधिततयाऽऽश्रयितुमशक्यत्वादसुरादिषु भिन्नप्रकारमेव तदिति भावेन द्वेधा व्याचश्व्े- अत्यन्तमवि-लम्बेन चेति ।। अनेन असुरा अत्यन्तं मुक्तिं न यान्ति, परे चाविलम्बेन मुक्तिं न यान्तीति वाक्ययोजनोक्ता भवति । मुक्तिं न यान्तीत्यत्रेव तमो यान्ति चेत्यत्रापि असुराणां परेषां चान्वयभ्रान्तिं वारयति- तमो यान्ति चासुरा इति ।। एकेन परमात्मनाऽत्यन्ताभिन्नत्वादिति ।। ततश्च यद्यदत्यन्ताभिन्नेनात्यन्ताभिन्नं तत्तेना-त्यन्ताभिन्नमिति व्याप्त्या ज्ञानाभिन्नपरमात्मनाऽत्यन्ताभिन्नस्यानन्दस्य ज्ञानेनात्यन्ताभिन्नत्वमेवेत्यनुमानमुक्तं भवति । स्वरूपत्ववदेवेत्येवकारस्य व्यर्थत्वाद्विरुद्धार्थत्वाच्च भिन्नक्रमतया तं व्याचश्व्े- अस्त्येवेति सम्बन्ध इति ।। ननु भिन्नक्रमत्वेऽपि वैयर्थ्यं तदवस्थमित्यतोऽस्तित्वप्रमाणसूचकत्वान्न तदिति भावेन तदर्थमाह- तेनेति ।। किं तद्विशेषप्रमाणमित्यतः तत्सङ्ग्राहकं समयपादीयानुव्याख्यानमेवोदाहरति- यथोक्तमिति ।। आदिपदेन
‘व्यवहारोऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ।
एतादृशे विशेषेऽस्मिन् को द्वेषो वादिनां भवेत् ।।’
(पां.टि.) इत्युदाहृतवाक्यशेषपरिग्रहः । अभ्युपगतादिति ।। विशेषादिति शेषः । सम्बन्धादीत्यादिपदेन बहुत्वादिपरिग्रहः ।
लघुप्रभा
(व्या.टि.)
लक्ष्मीपतिं पूर्णगुणं सर्वदोषविवर्जितम् ।
भजेऽन्वहं सर्वभव्यभूतयेऽभूतिनुत्तये ।।
आदिमध्ययोर्मङ्गलमाचर्यान्तेऽपि तदाचरति- जगज्जन्मादीति ।। अवद्यगन्धेति ।। गन्धो लेशः । ‘गन्धो गन्धक आमोदे सम्बन्धे लेशगर्वयोः’ इत्यभिधानात् । क्रमप्राप्तमिति ।। उद्देशक्रमप्राप्तमित्यर्थः । ‘ननु त्रैगुण्यवर्जितम्’ इति तद्वर्जनोक्तेः कथं तद्वत्त्वमित्यत आह- अत्रेति ।। न्यायनयं वा निराह- अत्रेति ।। दोषाभावस्येति ।। दोषात्यन्ताभावस्येत्यर्थः । ननूभयोरपि गुणत्वेन गुणशब्देनोभयग्रहणसम्भवे किमिति पृथगुक्तिरित्यतोऽवान्तरविशेषद्योतनायेत्याह- गुणत्वेऽपीति ।। गुणानामिति ।। शुभभावानामित्यर्थः । तदेवेत्यभावशुभव्यवच्छेदः । मूर्तिविशेषणकृत्यमाह- विग्रहवत्त्वादिति ।। इदमिति ।। गुणसर्वस्वेति विशेषण-मित्यर्थः । ‘प्रच्युतोऽशेषदौषैः सदा पूर्तितः’ इत्यत्रोक्तेरित्यर्थः । उभयेति ।। यद्यपीदं गुणसर्वस्वमूर्तिमत्त्व-स्यैवोपपादकम् । न निर्दोषत्वस्य । तस्य तेनैवोपपादितत्वात् । तथाऽप्युपपादकोपपादकस्याप्युपपादकत्वा-दुभयेत्युक्तम् । निर्दोषत्वेऽभ्युच्चययुक्तिर्वा । साध्येति ।। फलमित्यर्थः । श्रुतिव्याख्यानं स्मृतावतिदिशति- एवमिति ।। ननूत्पत्तेरेव दोषव्याप्तत्वान्मानुषविशेषणं व्यर्थमित्यतो दार्ढ्यहेतुरयमित्याह- उत्पत्तिरेवेति ।। अनुमानेनेति ।। चिन्तादीनां मनोधर्मत्वादित्यर्थः । प्रत्यक्षेणेति ।। व्रणादीनां देहधर्मत्वादित्यर्थः । दर्शनेन चेति ।।
ननु संशयो हि साक्षात्कारप्रभेदः । तत्कथं वचनेन दर्शनेन चेति । विजातीयोभयकारणकत्वे संशयवैजात्या-पत्तेः । अन्यथा जातिसाङ्कर्यापत्तेरिति चेन्न । न्यायमतमेतत्, न तत्वविन्मतम् । विपर्ययस्य प्रत्यक्षानुमानशब्दाभास-जन्यत्वानुभववत्संशयस्यापि यथायथं प्रत्यक्षाद्याभासजन्यत्वानुभवात् । तदेकदेशिभिरपि सत्प्रतिपक्षे संशया-कारानुमितिस्वीकारात् । विप्रतिपत्तेः संशयबीजत्वाभ्युपगमाच्च । सम्मतञ्चैतन्मीमांसकानामपि श्रुतलिङ्गाधिकरणे ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठते’ इत्युदाहृत्य किमैन्द्र्या लिङ्गादिन्द्रोपस्थानशेषत्वमुत श्रुत्या गार्हपत्यशेषत्वमिति श्रुतिलिङ्गाभ्यां विनियोगसंशयं ब्रुवताम् । श्रुतावपि तद्व्याचिकित्सत् । ‘जुहवानीमाहौषामिति तद्विचिकित्सायै जन्म इति प्रात्यक्षिकसंशयस्याभिधार्यास्त्र्यम्बकानाभिधार्या इति मीमांसत इति परामर्शजन्यसंशयस्य, ‘यद्यमुष्मिल्लोकेऽस्ति वा न वेति दिक्ष्वनीकशान्करोति’ इति शाब्दिकसंशयस्य च प्रदर्शनात् । वादिविवादः सन्देहबीजमिति तान्त्रिकवचनाच्च । न च विजातीयोभयकारणजन्यत्वे वैजात्यापत्तिः । इष्टत्वात् । वस्तुतस्त्वत्र जात इति सप्तम्यन्ततया विच्छिद्यते । तथा चोभाभ्यां जाते कोटिद्वयानुसन्धान इति शेषः । एवं चात्र हृदीत्युक्तेर्मानस एवायं संशयः । तत्कारणकोटिद्वयानुसन्धानकारणं प्रमाणद्वयमिति न दोष इति हृदयम् । यद्यपि न प्रत्यक्षं (व्या.टि.) वचनसमं तथाऽप्यपरीक्षितत्वात्साम्यमिति संशयहेतुत्वं मन्तव्यम् । नन्वत्र संशयकारणतयोक्त-योर्वचनप्रत्यक्षयोः संशयकारणतयोक्तपञ्चसु किंरूपेण कारणत्वं दरीदृश्यते । न तावत्साधारणधर्मतया । वचन-प्रत्यक्षादेर्दोषसाधारण्याभावात् । दोष्यदोषिसाधारण्याभावाच्च । निर्दोषस्यान्यस्याभावेन कोट्यप्रसिद्धेश्च । तद्दोष-प्रत्यक्षस्य जीवसाधारण्येऽपि कोटिद्वयसाधारण्याभावात्कोटिद्वयानुसन्धायकताऽभावाच्च । नाप्यसाधारणतया । वचनप्रत्यक्ष(योः)तया संशयधर्म्यसाधारण्याभावात् । कोटिद्वयाननुसन्धायकत्वाच्च । नापि विप्रतिपत्तितया । विरुद्धार्थकवाग्रूपत्वाभावात् । नाप्युपलब्धितया । ज्ञानरूपत्वाभावात् । नापि पञ्चमप्रकारेण । उभयोर्भावरूप-त्वात् । तस्मादनयोः कारणत्वं दुर्वचमिति चेत्, अत्राऽभाति । विप्रतिपत्तितयैवानयोः हेतुत्वम् । न च वाक्यत्वाभावादसम्भवः । विरुद्धप्रमाणद्वयमात्रस्य विप्रतिपत्तित्वोपपत्तौ वाक्यत्वाप्रवेशात् । टीकायामप्येवंविधानि वाक्यान्येवं योजनीयानि । अथ वा वचनप्रत्यक्षयोः साधारणधर्मतया कोटिद्वयानुसन्धायकत्वम् । न च कोटिद्वय-साधारण्याभावात्तत्त्वाभावः । पुरोवर्तिसंशयधर्मिकोटिसाधारण्यमात्रेण साधारणत्वोपपत्तेः । निर्दोषत्ववचनस्य विष्णुशिवादिसाधारण्यात् । प्रत्यक्षस्य जीवादिसाधारण्यात् । अत एवोक्तम्- ‘न ह्येकेनैव साधारणधर्मेण भवितव्यमिति नियमोऽस्ति’ इति । एकेन कोटिद्वयसाधारणेनेत्यर्थः । उपलक्षणमेतत् । एकेनैव कोटिद्वयमनु-सन्धातव्यमित्यपि नियमो नेति । यत्तु स्थाणुपुरुषयोः साधारणमिति तत्रैवोक्तम् । तत्प्रकृतविवक्षया न सार्वत्रिकविवक्षयेत्यवेहि । अत एव अस्मत्पितृचरणाः पुरोवर्तिस्थितो धर्मो यदि कोट्याश्रितो भवेत् तर्हि साधारणो नामेति लक्षणं समगृह्णन्निति । तथा चात्र प्रमाणद्वयस्य पृथक्कोट्यनुसन्धायकत्वसम्भवाद्युक्तं संशयबीजत्वमिति सिद्धम् ।
ननु ‘अचतुरविचतुरस्त्रीपुंस’ इति स्त्रीपुंसाभ्यामिति च समासान्ताजन्ततया निपातनात्कथं तदभावेन स्त्रीपुंमलेति निर्देश इत्यत आह- अनित्य इति ।। ‘ऋक्पूरब्धः पथामानक्षे’ इति सूत्रकारप्रयोगेणैव तदनित्यता-ज्ञापनादिति भावः । विष्टात्वभ्रान्तिं निवारयति- शुक्लं शोणितमिति ।। ‘सर्वोऽपि द्वन्द्वः’ इत्येकवद्भावः । तथोक्त इत्यनन्तरं तथाविधो देहो यस्य स तथोक्त इति शेषः । अत्र विशेषः
‘नावतारेष्वपि हरेर्देहः शुक्लादिसम्भवः ।
अथापि रेतःसंस्थः सन् मातृदेहं प्रविश्य तु ।
विलाप्य शुक्लं तत्रैव भवति ज्ञानरूपकः ।
उदेति भगवान्विष्णुः काले लोकं विमोहयन् ।।’
इति तार्तीयतात्पर्योक्तो बोध्यः । ननु सुखशब्दस्य नित्यनपुंसकत्वात्कथं विशेष्यनिघ्नतेत्यतो दृष्टान्तेनोपपाद-यति- आनन्दं ब्रह्मेतिवदिति ।। छान्दसो निर्देश इति भावः । अर्शआद्यजन्तो वा । चिन्ताश्रमेति पूर्वोक्त-द्वितीयाशङ्कानिरासकस्य मूलेऽभावात्तन्निरासकतयाऽपि तदेव व्याचश्व्े- अत एवेति ।। प्राकृतदेहादेरेव तद्व्याप्त-त्वादित्यर्थः । मूले सैवेति प्रकाशयतीत्युक्तधात्वर्थपरामर्शः । विधेयापेक्षया स्त्रीलिङ्गत्वम् । सा वैश्वदेवीतिवत् । (व्या.टि.) ‘प्रत्यक्षत्वं हरेर्जन्म’ इति श्रुतेरिति भावः । कथमिति ।। कारणाभावात्फलाभावाच्चेत्यर्थः । मूलेऽसुरेत्यविभक्तिको निर्देशः । ‘लिङः स लोपः’ इतिवत् । परेषामसुरभिन्नानामित्यर्थः । ‘मुह्यन्ति यं सूरयः’ इति स्मृतेरित्यर्थः । क्वचित्क्वचिदित्यनेनासुराणां नित्यमोहं सूचयति । उत्तरशेषेण अनेन भगवदेककारणकत्वा-दसुरादिमोहफलकत्वाच्च दर्शनं युक्तमिति भावः । प्रकटयतीति ।। क्वेति किम आक्षेपार्थत्वादित्यर्थः । मुह्यमान-भेदेन मोहभेदाद्दौर्लभ्यमिति द्वेधा व्याचश्व्े- अत्यन्तमिति ।। विलम्बायेति च ।। अधिकारिभेदेन क्रियां द्वेधा विशिनष्टि- अत्यन्तमविलम्बेनेति ।। प्रतिपन्ना इति गत्यर्थेति क्तः, ‘रदाभ्याम्’ इति निष्ठानत्वञ्च बोध्यम् । जात्यादीति ।। आदिपदेनावयवादयः । नान्यदित्यस्य प्रकारान्तरव्यवच्छेदपरत्वमुपेत्य व्याख्यातमत्यन्ताभिन्ना इति । किं तत्प्रकारान्तरमित्यतः तद्दर्शयति- अन्यदितीति ।। एतेन मूले नान्य इष्यन्त इति वक्तव्यं, यथाश्रुत-त्वेऽप्यन्यद्विश्वमित्यन्वयोऽपि घटनाऽस्तीति निरस्तम् । प्रतिश्रुतपक्षचतुष्टयनिरासोपायाभावात् । नपुंसकैकशेषो वा । अत इत्येतच्छब्दपरामृष्टं दर्शयति- एकेनेति ।। अनेन गुणा न मिथो भिन्ना एकेन गुणिनाऽत्यन्ताभिन्नत्वा-द्यदेवं तदेवं यन्नैवं तन्नैवमिति विपक्षे हेतूच्छित्तिर्बाधिकेति प्रयोगं सूचयति । बाधकं शङ्कते- कथं तर्हीति ।। मुख्याभावेऽपि प्रतिनिधिना व्रीहिकार्यं नीवारादिनेव सम्भवतीत्याह- अभिन्नेऽपीति ।। प्रतिनिहितं विशेषं लक्षयति- विशेषो नामेति ।। सम्भावितस्यैव प्रमाणेन दृढीकर्तव्यत्वात् सम्भावनोपोद्घातमाहेत्याह- तत्सम्भा-वनार्थमिति ।। दृष्टान्ते विशेषयुक्त्या साधयति- न हीति ।। स्वरूप इति ।। सर्वव्यावर्तकशून्य इत्यर्थः । ‘सर्वव्यावृत्तये यस्मात्स्वशब्दोऽयं प्रयुञ्जते’ इत्युक्तेरित्यर्थः । भिन्न इत्यनवस्थितेरिति भावः । अप्रयोगेति ।। अभियुक्तानामिति शेषः । दृष्टान्ते प्रसाध्य तत्प्रकारं पक्षेऽप्यतिदिशति- एवमिति ।। एवकारो भिन्नक्रम इत्युपेत्यान्वयं दर्शयति- इति सम्बन्ध इति ।। तेनेति ।। अवधारणेनेत्यर्थः । प्रामाणिकस्यैवावधार्यत्वादित्यर्थः। उक्तमिति ।। अनुभाष्य इत्यर्थः । प्रतितन्त्रसिद्धान्तो येनाभ्युपगमसिद्धान्त इत्याह- तुशब्देनेति ।। व्यवच्छि-नत्तीति ।। अनित्यसाधारण्याद्भेदकार्यमात्रकारित्वात्तत्प्रतिनिधित्वादित्यर्थः । नन्वेवं जीवब्रह्माद्यपर्यायशब्दोप-पत्तौ किं भेदेनेति भेदो दत्तजलाञ्जलिः स्यादिति चेत् । न हि मुख्यसम्भवेऽपि प्रतिनिधेयमिति कुलधर्मः । यथोक्तं न्यायामृते ‘न हि सोमाभावे पूतिकाग्रहणमिति तद्भावेऽपि सः’ इति ।