अतस्तद्वद्वेदस्यापि..
प्रत्यभिज्ञया वेदापौरुषेयत्वसाधनस्योपसंहारः
मूलम्
- अतस्तद्वद्वेदस्यापि स्थैर्यं सिद्धम् ; तदेवेदं वाक्यमिति प्रत्यभिज्ञानात् ।
तत्त्वमञ्जरी
उक्तार्थं निगमयति - अतस्तद्वदिति ।।
टीका
अस्तु दिशां स्थैर्यम्, किं प्रकृत इत्यत आह- अतस्तद्वदिति ।। अत इति परामृष्टं दर्शयति- तदेवेदमिति ।। वेदस्येति वाक्यमिति च वर्णा एवोच्यन्ते । तेषामेव प्रक्रान्तत्वात् । तात्पर्यं तु प्रागेवोक्तम् ।
अथ वा वर्णस्थैर्यवर्णनं कुत्रोपयुक्तमित्याशङ्क्य वेदस्यापीत्युक्तम् । वर्णानां वेदस्यापीति योजना । वेदापौरुषेयत्वस्य बाधकत्वेन वर्णानामुत्पत्तिविनाशित्वं परेणोपन्यस्तम् । तस्य परिहृत-त्वान्निराबाधं वेदस्य स्थैर्यमपौरुषेयत्वं सिद्ध्यतीति । न केवलं बाधकाभावात्, नाप्युक्तानुमानात्, किं तर्हीत्यत आह- तदेवेदमिति ।। यद्वर्णक्रमाद्युपेतं पूर्वं मया श्रुतं वाक्यं तदेव तद्वर्णक्रमाद्युपेत-मेवेदं श्रूयमाणं वाक्यमिति प्रत्यभिज्ञानादर्वाचीनपुरुषस्वातन्त्र्याभावस्तावत्प्रतीयते । एवं पूर्वं पूर्वतरं पूर्वतममपीति व्यत्यासाभावस्तावत्सिद्धः । आदिसृष्टौ तु वक्ष्याम इति भावः ।
भावबोधः
।। वर्णा एवोच्यन्त इति ।। पदादिबुद्धिविषयाणां वर्णानामेवार्थवेदनकरणत्वेन वेदादिशब्द-वाच्यत्वादिति भावः ।
भावदीपः
वर्णानामिति कुतो योजनीयमित्यत आह - वेदापौरुषेयत्वस्येति ।। यद्वा अतश्शब्दार्थं व्यनक्ति- वेदेत्यादिना ।। स्थैर्यमित्यनुवादः, अपौरुषेयत्वमिति व्याख्या । उक्तानुमानादिति ।। वेदकर्तुरप्रसिद्धेरित्य-त्रोक्तेत्यर्थः । वेदस्यापौरुषेयत्वमित्यनुकर्षः । वक्ष्याम इति ।। ‘नित्या वेदाः’ इत्यादिस्मृत्युक्तिप्रस्ताव इति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
।। वर्णा एवोच्यन्त इति ।। पदादिबुद्धिविषयाणां वर्णानामेवार्थवेदनकरणत्वेन वेदादिशब्दवाच्यत्वा-दिति भावः । प्रक्रान्तत्वादिति ।। ‘न चोच्चारणकाल एव वर्णानामुत्पत्तिः’ इत्युपक्रान्तत्वादित्यर्थः । तात्पर्यं त्विति ।। पदातिरिक्तवाक्यस्फोटनिराकरणाय वेदशब्दवाक्यशब्दग्रहणमिति तात्पर्यं वचनपदप्रयोजनोक्तिसमय एव उक्तम् इत्यर्थः । परिहृतत्वादिति ।। प्रत्यभिज्ञाविरोधेनेत्यर्थः । बाधकाभावादिति ।। अपौरुषेयत्वाङ्गीकार इति शेषः । अपौरुषेयत्वं सिद्ध्यतीत्यनुवर्तते । उक्तानुमानमात्रादिति ।। वेदकर्तुरप्रसिद्धेरित्यनेनोक्ताद् ‘वेदोऽपौरुषेयोऽप्रमितकर्तृकत्वाद्गगनवत्’ इत्युक्तानुमानमात्रादित्यर्थः । स्वातन्त्र्याभावः सजातीयोच्चारण-मनपेक्ष्योच्चारयितृत्वाभावः । एवं पूर्वमित्यादि ।। एवमेव पूर्वकाले तत्पूर्वकाले च प्रत्यभिज्ञानादित्यर्थः । (श्री.टि.) नन्वादिसृष्टौ कस्याप्युपदेष्टुरभावेन केषामपि वेदाध्ययनाभावेनैतादृशप्रत्यभिज्ञाया अयोगादर्वाचीन-पुरुषस्वातन्त्र्यस्यैव प्रतीतेस्तदा कथं वेदस्यापौरुषेयत्वसिद्धिरित्यत आह- आदिसृष्टौ त्विति ।। ‘सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते’ इत्यादिना विष्णोरेव ब्रह्मादीन् प्रत्युपदेश्व्ृत्वस्य वक्ष्यमाणत्वात्तस्यापि महोपाध्यायतुल्यत्वेनोक्त-प्रत्यभिज्ञानोपपत्त्या निरुक्तस्वातन्त्र्याभावाद्व्यत्यासाभाव एव सिद्ध्यतीति वक्ष्याम इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु वेदशब्दस्य वाक्यशब्दस्य च प्रसिद्धस्वार्थपरित्यागेन वर्णपरत्वाश्रयणे किं निमित्तमित्यतः स्वार्थपरत्वे वेदादिशब्दस्य, उपसंहारस्य वेदस्थैर्यविषयत्वप्राप्त्या वर्णस्थैर्यविषयोपक्रमविरोधप्रसङ्गात्, वर्णपरतायां चोपसंहारस्य वर्णस्थैर्यविषयकत्वप्राप्त्या वर्णस्थैर्यविषयकोपक्रमेण समानविषयकत्वलाभाद् उपक्रमोपसंहार-योरेकविषयतालाभाय प्रसिद्धस्वार्थपरित्यागेन वर्णमात्राश्रयणस्योपपन्नत्वादित्याशयेनाऽह- वर्णानामेव प्रक्रान्तत्वादिति ।। ननु वर्णवाचकतया प्रसिद्धवर्णपदस्यैव प्रयोक्तव्यत्वात् तत्परित्यागेन वेदादिपदप्रयोगे किं निमित्तमित्यतो वेदादिपदप्रयोगेण वर्णानामेव पदबुद्धिविषयाणामन्वितार्थाभिधायकत्वेन वाक्यार्थवेदन-सम्भवेन वाक्यार्थप्रतीत्यन्यथाऽनुपपत्तिरूपवाक्यस्फोटकल्पकाभावसूचनेन, अनेकेष्वपि तरुष्वेकदेशावस्थानेन वनमिति प्रत्ययवदनेकेष्वप्येकार्थाभिधानोपाधिना ‘एकं वाक्यम्’ इति प्रत्ययोपपत्तिसम्भवेन एकं वाक्यमिति प्रत्यक्षस्यापि तत्कल्पकत्वाभावसूचनेन च पदातिरिक्तवाक्यस्फोटनिराकरणार्थत्वाद्वर्णपदपरित्यागेन पूर्ववाक्ये वेदपदस्य, उत्तरवाक्ये च वाक्यपदस्य प्रयोगः कृत इति तात्पर्यं ‘तदेवेदं वचनमिति प्रत्यभिज्ञानात्’ इति वाक्यव्याख्यानावसर एव चोक्तम् इत्याह- तात्पर्यं त्विति ।। अत्र पक्षे वेदपदस्य वाक्यपदस्य च वर्णमात्र-परत्वाश्रयणाल्लक्षणा भवतीत्यपरितोषात् तत्स्वारस्याय प्रकारान्तरेण योजयति- अथ वेति ।। वेदस्यापीत्यपि-शब्दार्थकथनम् । वर्णानामिति ।। अत इत्यादिमूलं वेदापौरुषेयत्वोपसंहारपरत्वेन अप्रतीतेस्तथा व्याचष्टे- वेदेति ।। तर्हि तदेवेत्युत्तरवाक्यवैयर्थ्यमित्यतः तद् युक्त्यन्तरसमर्पकतया योजयति- न केवलमिति ।। उक्तेति ।। वेदोऽपौरुषेयोऽप्रमितकर्तृकत्वादित्युक्तेत्यर्थः । नन्वर्वाचीनपुरुषाणां स्वातन्त्र्याभावेन इदानी व्यत्यासाभावसिद्धावपि आदिसृष्टौ वेदोपदेशकस्य ईश्वरस्य नियामकाभावेन अन्यथाऽप्युपदेशस्य सम्भवाद् व्यत्यासः स्यादेवेत्यत आह- आदिसृष्टाविति ।। वक्ष्याम इति ।। ‘सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च’ इत्यादिनेति शेषः ।
लघुप्रभा
(व्या.टि.)
।। अत इतीति ।। एतच्छब्देनेत्यर्थः । प्रकृतहानाप्रकृतस्वीकारनिरासाय व्याचष्टे- वेदस्येतीति ।। तात्पर्यमिति ।। वाक्यस्फोटनिरासाकूतम् । परमप्रकृतोपसंहारपरतया व्याचष्टे- अथ वेति ।। अत इति परामृष्टं दर्शयति- परिहृतत्वादिति ।। उक्तेति ।। कर्तृप्रसिद्ध्यभावरूपेत्यर्थः । पुरुषस्वातन्त्र्याभाव इति ।। श्रुतश्रूय-माणवर्णयोरिति शेषः । एवमिति ।। यथेदं श्रूयमाणं श्रुताभिन्नं तथा श्रुतमपि श्रुतचरादिति भावः । व्यत्यासाभाव इति ।। सर्वदा एकप्रकारत्वरूपमपौरुषेयत्वमित्यर्थः । वक्ष्याम इति ।। ‘यतस्ता हरिणा दृष्टाः’ इति स्मृतिमिति शेषः ।