आगमो द्विविधो ज्ञेयो ..

आगमस्य स्वतन्त्रप्रमाणत्वसमर्थनम्

मूलम्

- ‘आगमो द्विविधो ज्ञेयो नित्योऽनित्यस्तथैव च ।।’

टीका

अनुमानानन्तरप्राप्तस्याऽगमस्य विभागमाह- आगम इति ।। अपौरुषेयः पौरुषेयश्चेत्यर्थः। तथैवेत्यनेन यथा प्रत्यक्षमनुमानं  वा  प्रमाणमन्यत्रानन्तर्भूतं च तथाऽऽगमोऽपीत्याचष्टे । तथाहि- न तावदागमो न बोधकः, अनुभवविरोधाद् व्यवहारविलोपप्रसङ्गाच्च । नापि विपरीतबोधको बाधकाभावात्  । अन्यत्रान्तर्भावोऽपि, किं कर्तुं शक्यत इत्येव वा कर्तव्य उत पृथक्त्वे बाधकसद्भावात् अथवा तत्साधकाभावात् । नाऽद्यः । प्रत्यक्षस्याप्यनुमानेऽन्तर्भावयितुं शक्य-त्वात् । फलवैजात्या-देरवान्तरभेदत्वेनोपपत्तेः । न द्वितीयः । तददर्शनात् । कल्पनागौरवं बाधकमिति चेन्न, प्रत्यक्षेऽपि समानत्वात् । सामग्रीभेदादेरत्रापि विद्यमानत्वात् । अत एव न तृतीयः । किञ्चान्तर्भावोऽपि वक्तृ-ज्ञानानुमापकत्न वक्तव्यः । न चापौरुषयस्य मूलभूतं ज्ञानमस्ति । समर्थितं चापौरुषयत्वं वेदस्य । अपौरुषेयस्य पृथक्प्रमाणत्वेऽपि पौरुषेयस्यानुमानत्वमेवेति प्राभाकराः । तन्निरासार्थमप्युक्तम्- तथैवेति ।। यथा नित्यस्तथाऽनित्योऽपीत्यर्थः । तथा हि- पौरुषेयवाक्यस्थानि पदान्यन्विताभिधान-शक्तिमन्ति न वेति वाच्यम् । आद्ये कथं नाऽगमत्वम् । द्वितीये वेदस्यापि कथमागमत्वं पदानामभेदात् ।

अथोच्येत- यद्यपि पुरुषप्रयुक्तानां पदानामन्विताभिधानसामर्थ्यमस्ति । तथाऽपि प्रायेण पुरुषवचसामनृतभूयिष्ठत्वेन अनन्वितार्थत्वशङ्कयाऽन्वयो न निश्चीयत इति । एवं तर्हि शब्दो-त्थापितस्याप्यर्थस्य व्यभिचारेण वेदेऽपि शङ्का सम्भवत्येवेति अन्वयो न निश्चीयेत । तत्रापौरुषेयतया शङ्कानिवृत्तिवदत्रापि आप्तोक्तत्वादिना शङ्कानिवृत्तिर्भविष्यति । तथा च शब्दादेवान्वयनिश्चयोऽ-प्रामाण्यशङ्कानिवृत्तिमात्रमुपायान्तरेणेति लोकवेदयोः समानमेवेति । एतेन यद् ‘ऋगाद्याः’ इत्युक्तं तदुपपन्नं भवति ।

भावबोधः

ननु नित्यत्वं यदि ध्वंसाप्रतियोगित्वं तर्हि स्मृत्यादीनामपि नित्यकोटिनिविष्टत्वं स्यात् । तथा च ‘श्रुतिर्वाव नित्या अनित्या वाव स्मृतयः’ इत्यादिविरोधः स्यादित्यत आह- अपौरुषेय इति ।।

भावदीपः

ईश्वरबुद्ध्यपेक्षया नित्यत्वस्य स्मृत्यादिसाधारण्येन नित्यत्वादिना द्वैविध्यायोगादाह- अपौरुषेयः पौरुषेयश्चेति ।। स्वतन्त्रपुरुषाप्रणीतः तत्प्रणीतश्चेत्यर्थः । शक्यत्वादिति ।। चक्षुरादिसन्निकृष्टत्वादिना लिङ्गेन घटादिज्ञानमनुमितिरूपमेवेति सुवचत्वादिति भावः । फलेति ।। परोक्षापरोक्षरूपफलवैजात्येत्यर्थः । गौरव-मिति ।। प्रमाणान्तरकल्पनारूपमित्यर्थः । आलोकेन्द्रियसन्निकर्षादिरूपसामग्री प्रत्यक्षे, अनुमाने तु व्याप्त्यादि-सामग्रीति तद्भेदात् प्रत्यक्षं पृथक् प्रमाणं चेच्छक्तिग्रहादिसामग्रीभेदादागमोऽपि पृथगेवेति भावेनाऽह- साम-ग्रीति ।। आदिपदेन विषयभेदः । अत एवेति ।। सामग्रीभेदरूपसाधकसत्त्वादेवेत्यर्थः । वक्तृज्ञानेति ।। विमतं वाक्यं वक्तृज्ञानपूर्वकं प्रेक्षावद्वाक्यत्वादित्यादिरूपेणेति भावः । समर्थितं चेति ।। ‘वेदकर्तुरप्रसिद्धेः’ इत्यादिनेति भावः । उपायान्तरेणेति ।। आप्तवाक्यत्वफलाविसंवादिरूपेणेत्यर्थः । आगमोऽपीत्यादेः प्रागुक्ते प्रमेये कथमुपयोग इत्यत आह- एतेनेति ।। आगमस्य तथैवेत्युक्त्या पृथक्प्रमाणत्वकथनेन प्राक्तनऋगाद्युदा-हरणमुपपन्नमित्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

ननु यदि नित्यत्वं नाम ध्वंसाप्रतियोगित्वं तर्हि पुराणादीनामपि तत्साम्यान्नित्यत्वं स्यात् । तथा च ‘श्रुतिर्वाव नित्या अनित्या वाव स्मृतयः’ इत्यादिविरोध इत्यत आह- अपौरुषेय इति ।। अन्यत्रानन्तर्भूत-मिति ।। स्वातन्त्र्येणैव प्रमाणमित्यर्थः    प्रामाण्यमन्यत्रानन्तर्भूतत्वं    क्रमेण उपपादयितुमाह- तथा हीति ।। वाक्याप्रामाण्यनिमित्तयोरबोधकत्वविपरीतबोधकत्वयोरभावे प्रामाण्यमेव सिद्धं भवतीत्याशयेन तदुभयाभावं क्रमेणोपपादयति- न तावदित्यादिना ।। अनुभवेति ।। शब्दादर्थं प्रत्येमीत्यनुभवेत्यर्थः । व्यव-हारेति ।। व्यवहारः प्रवृत्तिः । ‘चैत्र जलमाहर’ इति प्रयोजकवृद्धोदीरितवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य जलाहरणे प्रवृत्तिस्तावद्भवति । वाक्यस्याबोधकत्वे तद्विलोपप्रसङ्ग इत्यर्थः । अन्यत्रानन्तर्भूतत्वमुपपादयति- अन्यत्रेति ।। पृथक्त्वे पृथक्प्रामाण्ये । शक्यत्वादिति ।। प्रमाकरणत्वसाम्यादिति भावः । ननु प्रत्यक्षस्य कथमनुमानेऽन्तर्भावः । अनुमानस्य परोक्षप्रमासाधनत्वात् । प्रत्यक्षस्य साक्षात्कारिप्रमाकरणत्वात् । तथा च फलवैजात्यानुपपत्तिरित्यत आह- फलवैजात्यादेरिति ।। आदिपदेनानुमाने व्याप्त्यादिज्ञानं सामग्री, प्रत्यक्षे तु सन्निकर्ष इत्येवं सामग्रीभेदग्रहणम् । अवान्तरभेदत्वेनेति ।। प्रत्यक्षस्यानुमानावान्तरभेदत्वेनेत्यर्थः । यथा हि घ्राणरसनचक्षुःश्रोत्रादीनां प्रत्यक्षत्वेऽपि तज्जन्येषु गन्धादिज्ञानेषु वैजात्यम्, तत्तदिन्द्रियसन्निकर्षादिरूप-सामग्रीभेदश्च प्रत्यक्षावान्तरभेदत्वेनैवोपपद्यते न तु तद्बलेन तेषां प्रत्यक्षाद्बहिर्भावस्तद्वदिति भावः । कल्प-नेति ।। आगमस्य पृथक्प्रामाण्याङ्गीकारे प्रमाणत्रित्वप्राप्त्या कल्पनागौरवमित्यर्थः । प्रत्यक्षेऽपीति ।। प्रत्यक्षानु-मानयोरुभयोः प्रामाण्याङ्गीकारे कल्पनागौरवप्राप्त्या लाघवायानुमानमेकमेव प्रमाणमङ्गीकार्यमिति भावः । ननु प्रत्यक्षस्य प्रामाण्याङ्गीकारे न कल्पनागौरवम् । तत्पृथक्प्रामाण्यसाधकस्येन्द्रियार्थसन्निकर्षादिरूपसामग्री-(श्री.टि.)भेदादेस्सत्त्वादित्यत आह- सामग्रीभेदादेरिति ।। आदिपदेन फलवैजात्यग्रहणम् । अत्रापीति ।। पदार्थस्मृत्यादिरूपसामग्रीभेदस्य  पृथक्प्रामाण्यसाधकस्याऽगमेऽपि सत्त्वेन न कल्पनागौरवमित्यर्थः । अत एवेति ।। आगमे पृथक्प्रामाण्यसाधकस्य सामग्रीभेदादेः सत्त्वादेवेत्यर्थः । वक्तृज्ञानानुमापकत्वेनेति ।। संसर्गप्रमितिकरणत्वेनाऽगमस्य प्रामाण्यं वक्तव्यम् । संसर्गश्च, एतानि वैदिकानि पदानि, स्वस्मारितार्थसंसर्ग-ज्ञानपूर्वकाणि, आकाङ्क्षादिमत्पदकदम्बकत्वाद्गामानय शुक्लां दण्डेनेत्यादिपदकदम्बकवदिति वक्तृज्ञानावच्छेदक-त्वेनैव सिद्ध्यतीत्येवमागमस्यानुमानविधया संसर्गबोधकत्वेन न तदर्थमागमस्य पृथक्प्रामाण्यमङ्गीकार्यमित्येव-मागमस्यानुमानेऽन्तर्भावो वक्तव्यः कणादसौगताभ्यामित्यर्थः । यथोक्तं कारिकायाम्- ‘प्रत्यक्षमेकं चार्वाकः कणादसुगतौ पुनः । अनुमानं च तच्च’ इति । समर्थितं चेति ।। ‘अपौरुषेयत्वाद्वेदस्य’ इत्यनेनेत्यर्थः ।

।। पृथगिति ।। तत्र वक्तुरेवाभावेन तज्ज्ञानानुमानायोगादिति भावः । अनुमानत्वमेवेति ।। तत्र वक्तुर्विद्यमानत्वेन तज्ज्ञानानुमानसम्भवादित्याशयः । नित्योऽपौरुषेयोऽनित्यः पौरुषेयः । अन्विताभिधा-नेति ।। प्राभाकरस्यान्विताभिधानवादित्वात् तं प्रत्येवं विकल्पो युक्त इति ध्येयम् । वाच्यमिति ।। प्रष्टव्यमित्यर्थः। कथं नाऽगमत्वमिति ।। पदानामन्विताभिधानशक्तिमत्त्वे आगमतयैव संसर्गापरपर्यायान्वयबोधकत्वप्राप्त्या नानुमानतया संसर्गबोधकत्वमित्यर्थः । आगमत्वम् आगमतया संसर्गबोधकत्वम् । कुत इत्यत आह- पदाना-मिति ।। लौकिकाग्नि-अप्-पृथिव्यादिवाचिनां पौरुषेयवाक्यस्थानामेवाग्न्यादिपदानां ‘वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी’ इत्यादौ वेदेऽपि श्रवणात् पौरुषेयवाक्यस्थानां पदानामन्विताभिधानशक्त्यभावे अपौरुषेयवाक्य-स्थानामपि पदानां तदभावप्राप्त्या अपौरुषेयस्य पृथक्प्रमाणत्वं पौरुषेयस्यानुमानत्वमेवेति विभागो न युक्त इत्यर्थः । अत एवाऽहुः- ‘य एव लौकिकास्त एव वैदिकाः’ इति । तर्ह्यागमतयैव संसर्गबोधकत्वं प्राप्तमिति चेत् तत्राऽह- तथापीति ।। अनन्वितार्थत्वशङ्कयेति ।। वाक्यबोध्योऽन्वयो बाधितो वाऽबाधितो वेति शङ्कयेत्यर्थः। तथा च नाऽगमतया संसर्गप्रमापकत्वमिति भावः । शब्देति ।। पौरुषेयशब्देत्यर्थः । व्यभिचारेणेति ।। अनाप्त-प्रयुक्तशब्दस्यार्थविसंवादित्वदर्शनेनेत्यर्थः । शङ्का अर्थव्यभिचारेणाप्रामाण्यशङ्का । तथा च वेदस्यापि नाऽगमतया संसर्गप्रमापकत्वं स्यादिति भावः । तत्र वेदे । अत्र पौरुषेयवाक्ये । उपायान्तरेणेति ।। अपौरुषेयत्वाप्तोक्तत्व-रूपोपायान्तरेणेत्यर्थः । लोकः पौरुषेयागमः । प्रकृतोपयोगं दर्शयति- एतेनेति ।। ‘आगमो द्विविधो ज्ञेयो नित्योऽनित्यस्तथैव च’ इति पौरुषेयागमस्यापि पृथक्प्रमाणत्वकथनेनेत्यर्थः । उपपन्नं भवतीति ।। पूर्वं ‘ऋगाद्या भारतं चैव’ इत्यादिब्रह्माण्डपुराणोदाहरणं कृतं तदयुक्तम् । पौरुषेयागमस्य पृथक्प्रामाण्याभावादिति शङ्का-यास्तस्यापि पृथक्प्रामाण्यसमर्थनेन निरस्तत्वादिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

विष्णुबुद्धिगत्वयुक्त्या वेदस्येव पुराणानामपि नित्यत्वस्य स्थितत्वान्न नित्यत्वानित्यत्वाभ्यां तद्विभागः सम्भवतीत्यतोऽत्र नित्यानित्यशब्दयोरपौरुषेयपौरुषेयपरत्वेन नित्यानित्यपरत्वाभावान्नानुपपत्ति-रित्याशयेन ‘नित्योऽनित्यः’ इत्येतद्व्याचश्व्े - अपौरुषेयः पौरुषेयश्चेत्यर्थ इति ।। कथमागमस्य प्रामाण्यमित्यतः (पां.टि.) किं तस्य बोधकत्वस्यैवाभावादप्रामाण्यं किं वा विपरीतबोधकत्वादिति विकल्पद्वयं मनसि निधायाऽद्य-मनूद्य प्रतिषेधति- न तावदिति ।। न बोधक इति ।। परोक्षस्यानुमानसिद्धत्वादपरोक्षस्य च प्रत्यक्षसिद्धत्वेन विषयस्याभावात्, भावेऽपि वाऽर्थेनासम्बद्धस्य शब्दस्य तद्बोधकत्वे नियामकाभावेन सर्वस्य सर्वबोधकत्वप्रसङ्गात्, सम्बद्धस्य बोधकत्वेऽपि वह्न्यादिशब्दोच्चारणे मुखदाहादिप्रसङ्गेन शब्दार्थयोस्तादात्म्यानुपपत्तेः, शब्दस्य गुणत्वेन घटादिना संयोगानुपपत्तेराकाशगुणत्वेन समवायस्याप्यनुपपत्तेः, शब्दस्य द्रव्यत्वपक्षे च संयोगसम्भवेऽपि मूर्तस्य क्रिययाऽर्थसंयोगेऽन्तरावस्थितार्थविषयत्वस्य, सर्वगतत्वे च सर्वार्थप्रतिपादकत्वस्य च प्रसङ्गान्मूर्तस्यामूर्तस्य वा घटादिना समवायासम्भवेन च तदप्रतिपादकत्वप्रसङ्गाच्छब्दो न बोधक इत्यर्थः । कुतो नेत्यतः परोक्षत्वेऽ-प्यनुमानाविषयतया धर्माधर्मादेरेव शब्दविषयत्वसम्भवात्, स्वाभाविकशक्तेरेव, ‘अस्मात्पदादयमर्थो बोद्धव्यः’ इति पारमेश्वरसङ्केतस्यैव वा शब्दार्थयोः सम्बन्धत्वाच्च न शब्दस्याबोधकत्वमिति मनसि निधाय अबोधकत्व-मनुभवविरोधेन  दूषयति- अनुभवेति ।। शब्दादर्थं प्रत्येमीत्यनुभवेन शब्दस्य बोधकतायाः सिद्धत्वादिति भावः । व्यवहारेति ।। यदि न शब्दस्य बोधकत्वं तदा वाचा निर्वर्त्यस्य व्यवहारस्य विलोपः स्यात् । परप्रत्यायनार्थो हि वाग्व्यवहारः। स यदि न परं प्रत्याययेद् व्यर्थोऽसौ न क्रियेतैवेत्यर्थः । उपलक्षणं चैतत् । स्वक्रियाविरोधश्च । प्रत्यायनार्थं शब्दप्रयोगक्रियया शब्दस्य प्रत्यायनसाधनतायाः प्राप्तत्वेन शब्दो नार्थप्रत्यायक इति वाक्यार्थस्यार्थ-प्रत्यायकत्वाभावस्य तादृशक्रियया विरुद्धत्वादिति द्रष्टव्यम् ।

शब्दस्य विपरीतार्थबोधकत्वं वदन् प्रष्टव्यः । किं स संशयजनक इति किं वा विपर्ययजनक इति । नाऽद्यः । शब्दजन्यज्ञानस्यैकाकारनियतत्वेन  संशयत्वायोगादिति  मनसि निधाय द्वितीयं दूषयति- बाधकाभावा-दिति ।। भ्रमत्वस्य बाधकैकसमधिगम्यत्वेन शब्दजन्यज्ञानस्य बाधकराहित्यान्न विपर्ययत्वमिति भावः । उपलक्षणं चैतत् स्वव्याघातस्य । सर्वं शब्दजन्यज्ञानमयथार्थं, सर्वः शब्दो न यथार्थज्ञानजनक इत्यादिप्रयुक्तशब्दजन्य-ज्ञानस्यायथार्थत्वे शब्दजन्यज्ञानादेर्यथार्थत्वाद्यापत्त्या याथार्थ्यावश्यम्भावाद्, याथार्थ्ये चास्यैवायाथार्थ्याभावेन प्रतिहतप्रमाणत्वात् सर्वशब्दजन्यज्ञानायथार्थत्वादिरूपस्याभिमतस्यासिद्धेरिति द्रष्टव्यम् । वक्तृज्ञानानुमाप-कत्वेनेति ।। विवादाध्यासितानि पदानि, स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि, आकाङ्क्षायोग्यतासन्निधिमत्पद-त्वाद् गामभ्याजेति स्वप्रयुक्तपदवदिति वक्तृज्ञानानुमापकत्वेनेत्यर्थः । किमत्र स्वस्मारितार्थान्वयप्रमितिपूर्वकत्व-मात्रं साध्यं किं वा मूलमूलपुरुषीयस्वस्मारितार्थान्वयप्रमितिपूर्वकत्वम् । नाऽद्यः । विनाऽप्यन्वयप्रमितिं दैवात्प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकान्त्यात् । आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः। पुरुषविशेषप्रयुक्तत्वस्य चाध्यापकप्रयुक्तेषु व्यभिचारादिति भावेन द्वितीयं दूषयति- न चेति ।। शुकबालादीना-मन्वयप्रतीत्यभावेऽपि यद्विरचितपदावलीज्ञानेन पदप्रयोगस्तस्य मूलपुरुषतदन्वयप्रमितित्वेन मूलपुरुषीय-स्वस्मारितार्थसंसर्गप्रमितिपूर्वकत्वान्माऽस्तु तत्र व्यभिचारः, तथाऽपि यस्य पुराणादेः स्वतन्त्रो वक्ताऽस्ति तत्र स्वतन्त्रवक्तुरुक्तरूपप्रमितिसत्त्वेनोक्तसाध्यस्य तत्र साधनसम्भवेऽपि वेदस्यापौरुषेयत्वेन स्वतन्त्रवक्तृ-(पां.टि.) शून्यत्वेन तदीयोक्तरूपप्रमितिपूर्वकत्वस्य तत्रानुपपत्त्यांऽशे बाधः स्यादित्यर्थः । भवेदेतदेवं यद्यपौरु-षेयत्वं स्यात् । तदेव कुत इत्यत आह- समर्थितं चेति ।। ‘वेदकर्तुरप्रसिद्धेः’ इत्यादिनेति शेषः । पृथक्प्रमाणत्वेऽ-पीति ।। तत्रोक्तरीत्या  बाधितत्वेन वक्तृज्ञानानुमापकत्वासम्भवादन्तर्भावानुपपत्तेरित्यर्थः ।

अनुमानत्वमेवेति ।। तत्र मूलपुरुषीयस्वस्मारितार्थसंसर्गप्रमितिपूर्वकत्वस्याबाधितत्वेन वक्तृज्ञानानुमान-सम्भवात् तस्यानुमानेऽन्तर्भाव इत्यर्थः । पौरुषेयापौरुषेयवाक्ययोरनतिभिन्नत्वेन मद्रीत्योभयोरप्यागमस्य कणादादिरीत्याऽनुमानत्वस्यैव वा सम्भवेनापौरुषेयागमस्याऽगमत्वं पौरुषेयस्य चानुमानत्वमित्यर्धचरतीया-श्रयणमयुक्तमित्याशयवांस्तयोरनतिभिन्नत्वमुपपादयति- तथा हीति ।। न वेति वाच्यमिति ।। उपलक्षणं चैतत् । किं पदान्येव वाक्यमुत ततोऽन्यदित्यपि वाच्यमित्यपि द्रष्टव्यम् । आद्य इति ।। पौरुषेयवाक्यस्थानि पदान्यन्विताभिधानशक्तिमन्ति, तथा पदान्येव वाक्यमित्याद्य इत्यर्थः । पौरुषेयवाक्यस्थपदानामन्विताभिधान-शक्तिमत्त्वे, तथा पदानामेव च वाक्यत्वे, अपौरुषेयवाक्यस्येव पौरुषेयवाक्यस्यापि संसर्गवादकत्वेनाऽगमत्वोप-पत्तेरित्यर्थः । द्वितीय इति ।। न तानि पदान्यन्विताभिधानशक्तिमन्ति, वाक्यं चान्यदिति द्वितीय इत्यर्थः । पदानामन्विताभिधाने शक्त्यभावे वाक्यस्य च ततोऽन्यत्वे पदानामभेदेन पौरुषेयवाक्यस्येव वेदस्यापि संसर्ग-वादकत्वानुपपत्तेरनागमत्वप्रसङ्ग इत्यर्थः । ननु लोकवेदयोः सत्यपि वर्णानामभेदे केनचित्स्वरच्छान्दसवर्णागम-लोपविकारादिना भिन्नत्वाद्वैदिकपदानामन्विताभिधानशक्तिमत्त्वेन संसर्गवादकत्वेऽपि लौकिकानां च तद्रहितानां तदवादकत्वोपपत्त्या युक्तं वैषम्याश्रयणमित्यतः पदानामभेदस्य लोकवेदाधिकरणन्यायसिद्धत्वादुक्तप्रसङ्ग-तादवस्थ्यमेवेत्याशयेनाऽह- पदानामभेदादिति ।। विस्तरस्तु शेषवाक्यार्थचन्द्रिकायां द्रष्टव्यः ।

लघुप्रभा

(व्या.टि.)

ननु ‘तथैव द्विविधः’ इत्यनुपपन्नम् । स्वार्थपरार्थादिविभागं विना नित्यानित्यत्वादिना विभाग-करणादित्यत आह- तथैवेत्यनेनेति ।। अथ वा पूर्वमनुमाने नित्यानित्यविभागानुक्तेस्तथैवेत्यतिदेशोऽनुपपन्न इत्यत आह- तथैवेत्यनेनेति ।। विभागातिदेशाभावेऽपि स्वातन्त्र्येण प्रामाण्यातिदेशो युक्त इति भावः । अतिदेशं साधयितुं प्रतिजानीते- तथा हीति ।। आगमो न स्वतन्त्रप्रमाणमिति वदन् प्रष्टव्यः । किमप्रामा-ण्यादन्यत्रान्तर्भावाद्वा । आद्ये तदप्रामाण्यमबोधकत्वाद्विपरीतबोधकत्वाद्वेति विकल्प्याऽद्यं वारयति- न तावदिति ।। अनुभवेति ।। अन्वयानुभवानुभवेत्यर्थः । दोषान्तरमाह- व्यवहारेति ।। आनयनादिप्रवृत्तेर्बोधाधीनत्वेन तदभावेऽभावप्रसङ्गादित्यर्थः । द्वितीयं दूषयति- नापीति ।। बाधकेति ।। बोध्यार्थस्येति शेषः । द्वितीयमपि त्रेधा विकल्प्याऽद्यं निराचश्व्े- नाऽद्य इति ।। भूतलं घटवत् तत्संयोगादित्येवमनुमातुं शक्यत्वादित्यर्थः । ननु प्रत्यक्षं नानुमानम् अनुमानफलविजातीयफलसाधनत्वादित्यत आह- फलेष्विति ।। अनुमितौ स्वार्थपरार्थ-त्वादिवैजात्यवत्साक्षात्कारत्वादिवैजात्यस्यापि सम्भवादित्यर्थः । तदिति ।। बाधकस्येत्यर्थः । समानत्वा-दिति ।। प्रमाणद्वित्वेऽपि गौरवसाम्यादित्यर्थः । अत्रापि आगमेऽपि । तृतीयं दूषयति- अत एवेति ।। सामग्री-भेदादेः साधकत्वादेवेत्यर्थः । अनुमेयाभावाच्च नाऽगमस्यानुमानत्वमित्यभिप्रेत्य तदभावं दर्शयति- किञ्चेत्या-(व्या.टि.) दिना ।। वक्तृज्ञानेति ।। इदं वाक्यं, वक्तुस्तत्त्वज्ञानमूलकम्, आप्तवाक्यत्वादित्यनुमानप्रकारो बोध्यः । अपौरुषेयस्येति मूलज्ञानाभावे हेतुगर्भविशेषणम् । हेत्वसिद्धिं परिहरति- समर्थितं चेति ।। ‘तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः’ इत्यादिनेति शेषः ।

एवं स्वतन्त्रप्रामाण्यातिदेशपरतया तथाशब्दं व्याख्याय मतान्तरनिरसनपरतयाऽपि व्याचश्व्े- तन्निरासार्थ-मपीति ।। निरासप्रकारं दर्शयति- यथेति ।। नित्य इत्यतः परम् आगम इति शेषः । नित्यानित्ययोरागमत्वं समानमिति तदर्थः । अनित्यस्याऽगमत्वं व्युत्पादयति- तथा हीति ।। स्वातन्त्र्येण अन्वयप्रत्यायनमागम-स्यान्विताभिधानशक्तिमत्पदवत्त्वेनेत्यभिप्रेत्यान्विताभिधानशक्तिमत्पदत्वं विकल्प्य पृच्छति- शक्तिमन्ति न वेति ।। आद्यं निराह- आद्य इति ।। कथं नाऽगम इति ।। अन्वयप्रत्यायनशक्तिमत्त्वे प्रत्यायनावश्य-कत्वादित्यर्थः । द्वितीयं दूषयति- द्वितीय इति ।। अन्विताभिधानशक्तिमत्पदाभाव इत्यर्थः । पौरुषेयत्वापौरुषेय-त्ववैषम्यात्कथं प्रतिबन्दीत्यत आह- पदानामिति ।। लोकवेदयोरिति शेषः । अन्यथा लोकवेदाधिकरण-विरोधापत्तेरित्यर्थः । प्राभाकराशयमुद्घाटयति- अथेति ।। अनृतभूयिष्ठत्वेनेति ।। ननु कथं भूयिष्ठमिति? इत्थम्, बहुशब्दाद् इष्ठनि ‘बहोर्लोपो भू च बहोः’ इति बहोः परस्येष्ठन आदिलोपे बहोश्च भ्वादेशे ‘इष्ठस्य यिट् च’ इति सूत्राद् यिडागमे च रूपम् । शङ्कयेति ।। अन्विताभिधानशक्तेः शङ्काप्रतिबन्धाप्रतिबन्धाभ्यां लोकवेदयोर्वैषम्यमिति भावः । शङ्कासाम्यमाह- एवं तर्हीति ।। समानमेवेति ।। निवर्तकोपायभेदेऽपि तन्निवृत्तेरुभयथाऽपि साम्यमेवेत्यर्थः । अस्योक्तोपयोगमाह- एतेनेति ।।