विमतं सकर्तृकं..

ईश्वरसाधककेवलानुमाने सत्प्रतिपक्षतोद्भावनम्

मूलम्

- विमतं सकर्तृकं कार्यत्वाद् घटवदित्युक्ते विमतं विकर्तृकमस्मत्सम्मत-कर्तृरहितत्वादात्मवदित्यनुमानविरोधात् ।

टीका  

इतः परं ‘प्रत्यक्षानुमानसिद्धत्वे च’ इत्यतः पूर्वं वाक्यद्वयं मूलकोशेष्वदर्शनात्प्रक्षिप्तमि-त्याहुः । तथाऽपि गङ्गाजलानुप्रविश्व्क्षुद्रनदीजलस्येव तस्याप्युपादेयत्वाद्व्याख्यानं क्रियते ।

केवलानुमानस्य प्रतिपक्षानुमानविरोधादित्युक्तं प्रपञ्चयति- विमतमिति ।। सर्वं सकर्तृकमित्युक्ते गगनादौ बाधो घटादौ सिद्धसाधनं च स्यात् । तन्निवृत्त्यर्थं विमतमित्युक्तम् । तेन विकर्तृकत्वेन सकर्तृकत्वेन वा यत्र वादिप्रतिवादिनोः सम्मतिर्गगनादौ घटादौ च ततोऽन्यदङ्कुरादीत्यर्थः । सकर्तृकम् उपादानादिविषयकबुद्धिमत्पूर्वकम् । तथाच जीवानामेवादृश्व्द्वाराऽङ्कुरादिकर्तृत्वोपपत्तेः सिद्ध-साधनत्वमर्थान्तरता वेति निरस्तम् । कार्यत्वाद् अभूत्वाभावित्वात् । ‘तत्र तस्येव’ इति लक्षणस्य प्रायिकत्वेनाभियुक्तैर्व्याख्यातत्वाद्घटवदिति युज्यते । इत्युक्ते अनुमिते सति । ईश्वर इति शेषः । नहीश्वरादृतेऽङ्कुरादीनां कर्तोपपद्यते । एवमेव विमतं विकर्तृकमित्येतदपि व्याख्येयम् ।

ननु ‘अस्मत्सम्मतकर्तृरहितत्वात्’ इत्यत्रास्मत्सम्मतत्वं कर्तृरहितत्वस्य वा विशेषणं कर्तुर्वा । नाऽद्यः। व्यर्थत्वात् । तत्त्यागे साध्याविशिश्व्त्वात् । तत्परिहारार्थमेव विशेषणमिति चेन्न । सर्वत्र साध्याविशिष्टत्वे तत्सम्भवात् । द्वितीये किं कुलालादिः कर्तृविशेषोऽनेनोच्यते शरीरादिमान् वा । आद्येऽनैकान्त्यम् । कुलालादिकर्तृरहितस्यापि पटादेः कुविन्दादिकर्तृमत्त्वात् । द्वितीयेऽपि किं शरीरादिरहितः कर्ताऽङ्गीक्रियते न वा । आद्ये तत्कृते व्यभिचारः । द्वितीये पुनर्वैयर्थ्यं साध्याविशिष्टता च । नच सामान्यविशेषभावेन भेदः । शरीरादिरहितस्य कर्तुरनङ्गीकारे सामान्यस्यानुपपत्तेः । सामान्याभावस्य विशेषाभावेन साधनायोगाच्च । उच्यते- कर्तृमत्त्वेनास्माकमसम्मतत्वादि-त्ययमर्थोऽत्राभिमतः । नचैवं वैयर्थ्यादिदोषोऽस्ति । धूमानुमानादावप्येवं सत्प्रतिपक्षताप्रसङ्ग इति चेन्न । अनुकूलप्रमाणविरोधेन बाधितत्वात् ।

अथवा, कर्तृरहितत्वादित्यनेनाजन्यत्वादित्युच्यते । अस्मत्सम्मतेत्यनेन च शरीर्यादिकम् । शरीरस्वप्रयोजनाज्ञानसंशयविपर्ययानित्यज्ञानानित्येच्छाऽनित्यप्रयत्नस्मृतिसंस्कारद्वेषसुख-दुःखधर्माधर्मवदजन्यत्वाद् इत्यनेकप्रतिपक्षसङ्ग्रहायास्मत्सम्मतेत्युक्तम् । एवमपि विशेषण-वैयर्थ्यमिति चेन्न । पक्षधर्मतासिद्ध्यर्थत्वात् । परैरपि, चक्षुः तैजसं रूपादिषु पञ्चसु मध्ये रूपस्यैव ग्राहकत्वात्, प्रामाण्यं परतो ज्ञायतेऽनभ्यासदशायां सांशयिकत्वादित्यादौ पक्षधर्मतासिद्ध्यर्थत्वेन विशेषणस्य प्रयुक्तत्वात् । नन्वेवं व्याप्तावनपेक्षितविशेषणप्रक्षेपेण पक्षधर्मतां प्रसाध्य साध्यसाधने प्रयोजनाधीनं प्रमाणं न प्रमाणाधीनं प्रयोजनमित्यापन्नम् । तथाचातिप्रसङ्ग इति चेत्, सत्यम् । वक्ष्यामोऽत्र समाधानम् ।

अनुमानविरोधादित्यस्य न चानुमानात्तत्सिद्धिरित्यनेन सम्बन्धः ।

भावबोधः

सिद्धसाधनत्वमर्थान्तरता वेति ।। अदृष्टद्वारा जीवानां कर्तृत्वं यदि सिद्धं तदा सकर्तृकत्वसाध्यसिद्ध्या सिद्धसाधनम् । यदि तदप्यसिद्धं तदा प्रतिबन्धकसिद्धेरभावेन कार्यत्वलिङ्गकानुमित्युत्पत्तावपि तस्या अदृष्टद्वारा जीवकर्तृकत्वविषयत्वसम्भवेनार्थान्तरता वेत्यर्थः । साध्ये आदिपदप्रयोगेण, उपादानपदस्य प्रवृत्तिविषयपरत्वेन वा साध्यस्य ध्वंससाधारण्याद् अस्य पक्षत्वेऽपि न बाध इति भावः । अभूत्वा भावित्वादिति ।। तथा च कर्तुं योग्यं कार्यमिति कृतिसाध्यत्वं यदि कार्यत्वं तदा सन्दिग्धासिद्धिरिति शङ्कानवकाश इति भावः । ‘आगमं विनेश्वरस्यैव’ इति प्रकरणबलादीश्वर इति शेषं पूरयित्वा तदुपपादयति- न हीति ।। व्याख्येयमिति ।। सर्वं विकर्तृकमित्युक्तौ गगनादौ सिद्धसाधनत्वं घटादौ बाधश्च । तन्निवृत्त्यर्थं विमतमित्युक्तमिति । विकर्तृकमितीदं नोपादानादिविषयकबुद्धिमत्पूर्वकम् । तथा च जीवानामेवादृष्टादिद्वारा अङ्कुरादिकर्तृत्वसम्भवाद्बाध इति निरस्त-मिति व्याख्येयमित्यर्थः । तत्सम्भवादिति ।। अस्मत्सम्मतत्वविशेषणं प्रक्षिप्य सर्वत्र साध्याविशेषस्य परिहर्तुं शक्यत्वेन तद्दोषत्वं न स्यादिति भावः । रूपादिषु पञ्चसु मध्य इत्यस्याप्रसिद्धिवारकत्वेन व्याप्तिग्रहौपयिकत्वं परैरङ्गीकृतमित्यतोऽसङ्कीर्णोदाहरणमाह- प्रामाण्यमिति ।।

भावदीपः

सकर्तृकमित्यनूद्यार्थमाह- सकर्तृकमुपादानेत्यादिना ।। एवमर्थोक्तेः कृत्यमाह- तथाचेति ।। न्यायमते हि सर्वं यथायोगं तत्तज्जीवोपभोग्यमित्यङ्गीकारेण यद्वस्तु यज्जीवभोग्यं तत्तददृष्टजन्यमिति ‘जीवाना-मेवादृष्टद्वारा’ इत्युक्तम् । अर्थान्तरतेति ।। अभिमतेश्वररूपार्थासिद्धिरूपेत्यर्थः । तदैक्षतेत्यादावीश्वरज्ञानस्येव भूत्वा भावित्वे विवक्षितार्थासिद्धेराह- अभूत्वेति ।। ननु, यथा घट इत्यर्थे घटवदित्युक्तिरयुक्ता ‘तत्र तस्येव’ इति सूत्रे सप्तम्यन्तात् षष्ठ्यन्ताच्चेवार्थे वतिरित्युक्त्या प्रथमासमर्थादिवार्थे वतिप्रत्ययानुक्तेरित्यत आह- तत्र तस्येवेति ।। लक्षणशब्दः सूत्रवचनः । अभियुक्तैः वैयाकरणत्वेनाभिमतैः । कथमनेनेश्वरानुमितिरित्यतः परिशेषेणेति भावेनाऽह-नहीति ।। एवमेवेति ।। पूर्ववदेव विमतपदकृत्यम् उपादानविषयकबुद्धिमत्पूर्वकं नेति साध्यस्यार्थ इत्येवमित्यर्थः । तथाचादृश्व्द्वारा जीवकर्तृकत्वस्य सत्त्वान्न बाधशङ्केति भावः । व्यर्थत्वा-दिति ।। व्यावर्त्याभावादिति भावः । तत्सम्भवादिति ।। शब्दोऽनित्यो ध्वंसप्रतियोगित्वादित्यादावप्यस्मदिति विशेषणसम्भवात् क्वापि साध्याविशिष्टत्वं दोषो न स्यादिति भावः । पुनर्वैयर्थ्यमिति ।। शरीरादिमत्कर्तृरहितत्वा-दित्यत्र कर्तृरहितत्वादित्यस्य । शरीरादिहीनकर्तृके कार्येऽव्यभिचाराय हि शरीरादिमदिति कर्तृविशेषणं देयम् । तादृशकर्तुरेवाभावे तत्कर्तृककार्यस्यैवाभावेन कुत्राव्यभिचाराय तद्विशेषणमर्थवत्स्यादिति भावः । सामान्यविशे-षेति ।। साध्यहेत्वोरिति योज्यम् । शरीराशरीरकर्तृसाधारणकर्तृसामान्याभावः साध्यः । हेतुस्तु शरीरिकर्तृराहित्यमात्रमतो न दोष इति भावः । सामान्यस्यानुपपत्तेरिति ।। विकर्तृकमित्यस्य शरीराशरीरादि-मत्कर्तृरहितमित्यस्येत्यर्थः । हेतुरप्ययमेवेति प्राप्तत्वादिति भावः । अभ्युपेत्यापि भेदमाह- सामान्याभावस्ये-ति ।। पीतघटवति देशे नात्र घटो नीलघटाभावादित्यादौ व्यभिचारादिति भावः । एवं सत्प्रतिपक्षतेति ।। पर्वतोऽग्निमान्न भवति वह्निमत्त्वेनास्मदसम्मतत्वादित्यपि वक्तुं शक्यत्वादिति भावः । अनुकूलेति ।। धूमवत्त्व-हेतोर्विपक्षे कार्यकारणभावविरोधादिरूपानुकूलतर्कादिरूपप्रमाणविरोधे प्रतिपक्षहेतोर्बाधितविषयत्वादित्यर्थः।

प्रतिपक्षप्रसक्तिरेव सदनुमाने यथा न भवति  तथा  योजनान्तरमाह- अथवेति ।। शरीरेति ।। द्वन्द्वान्म-तुप् । स च शरीरवदजन्यत्वात्, स्वप्रयोजनवदजन्यत्वात्, संशयवदजन्यत्वादित्यादिरूपेण प्रत्येकमन्वेतीति भावेनाऽह- अनेकप्रतिपक्षेति ।। शरीरवदजन्यत्वादित्यादेः शरीरवज्जन्यत्वाभावादित्यर्थः । नन्वेकामसिद्धिं परिहरतो द्वितीयासिद्धिरायातीति परोक्तां स्वरूपासिद्धिं परिहरतो व्याप्यत्वासिद्धिरायाति । अजन्यत्वमात्रस्य गगनादौ व्याप्तिमत्त्वेन विशेषणयुक्ते विशिश्व्े व्याप्त्यभावादित्यतः परैरपि क्वचित्तथाङ्गीकारादित्याह- परैर-पीति ।। रूपत्वस्यापि ग्राहकत्वेन रूपस्यैव ग्राहकत्वादित्येतदसिद्धमित्यतस्तद्वारणाय रूपादिष्वित्यादिविशेषण-मुक्तम् । तथाऽभ्यासदशापन्नज्ञाने, सांशयिकत्वात्- संशयविषयत्वादिति हेतोरसिद्धिनिरासाय अनभ्यासेत्यादि-विशेषणमुक्तं तद्वदित्यर्थः । नन्वाद्येऽप्रसिद्धिवारकं विशेषणं न पक्षधर्मतासिद्ध्यर्थं रूपमात्रग्राहकत्वस्य क्वाप्यप्रसिद्धेः । द्वितीयेऽनभ्यासेति विशेषणं पक्ष एव क्रियते नतु हेताविति चेन्न । अनुमितिकारणीभूत-परामर्शविघटकत्वस्यासिद्धिव्याप्त्यभावयोस्तुल्यत्वेन व्यभिचारवारकवत्पक्षधर्मताघटकस्याप्यावश्यकत्वाद् विशेष्यस्येव विशिष्टस्यापि व्याप्तिमत्त्वात् । अजन्यत्ववच्छरीराजन्यत्वस्यापि विशिष्टस्य हेत्वन्तरत्वेन व्याप्तेरभ्यु-पेयत्वाच्चेति तात्पर्यात् । अधिकं तर्कताण्डवे । अतिप्रसङ्ग इति ।। प्रयोजनाभावात्तृणाद्युदासीनज्ञानानुदयप्रसङ्ग इत्यर्थः । वक्ष्यामोऽत्र समाधानमिति ।। व्याप्त्यर्थमेव विशेषणोपादानमिति समाधानं ‘विशिष्टस्य व्याप्तिरस्त्येव’ इत्यादिना वा ‘ननु किं व्यभिचारः’ इत्यादिना वाऽनुपदमेवेति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

तेनेति ।। विमतग्रहणेनेत्यर्थः । ननु सकर्तृकत्वं नाम यदि कर्त्रा सह वर्तमानत्वं तदा जीवानां विभुत्वेनाङ्कुरादेस्तैः सह वर्तमानत्वात्सिद्धसाधनतापत्तिः । यदि च कर्तृजन्यत्वं तथाऽपि सिद्धसाधनतैव । जीवानामप्यदृश्व्द्वाराऽङ्कुरादिकर्तृत्वोपपत्तेः । ईश्वरासिद्ध्याऽर्थान्तरता च स्यादित्यत आह- सकर्तृकमिति ।। (श्री.टि.) बुद्धिमत्पूर्वकमित्युपलक्षणम् । चिकीर्षाकृतिमत्पूर्वकत्वमपि ज्ञातव्यम् । ननु कार्यत्वं नाम कृतिविषयत्वं वा तज्जन्यत्वं वा । नाऽद्यः । परमाणौ परमाण्वन्तरसंयोगार्थम् ईश्वरीयकृतिविषयत्वसद्भावेन सकर्तृकत्वाभावाद् व्यभिचारस्स्यात् । न द्वितीयः । पक्षे जीवकृतिजन्यत्वासम्भवेनेश्वरीयकृतिजन्यत्वमेव वाच्यम् । तस्य चेदानीमप्य-सिद्ध्या हेतोस्सन्दिग्धासिद्ध्यापत्तेरत आह- अभूत्वा भावित्वादिति ।। प्रागभावप्रतियोगित्वादित्यर्थः । अन्योन्याभावप्रतियोगिनि गगनादौ व्यभिचारपरिहाराय प्रागभावेत्युक्तम् । ध्वंसेऽनैकान्त्यपरिहाराय समवेतत्वे सतीति भावत्वे सतीति वा विशेषणं देयम् । गोत्वादौ व्यभिचारपरिहाराय विशेष्यभाग इति ज्ञातव्यम् । ननु घटवदिति न युक्तम् । ‘तत्र तस्येव’ इति सूत्रेण सप्तमीसमर्थात् षष्ठीसमर्थाद्वा इवार्थे वतेर्विधानाद् घटे इव, घटस्येवेति वा वक्तव्यम् । तथा च घटे इव, घटस्येव विमतं सकर्तृकमित्यसङ्गतम् । दृष्टान्तदार्ष्टान्तिकयोः समानविभक्तिकत्वे हि सङ्गतिः । न च वाच्यं घटवदिति प्रथमासमर्थादेव वतिः । तथा च समानविभक्तिकत्वात् सङ्गतिरिति । प्रथमान्तादिवार्थे वतेर्विधानाभावादित्यत आह- तत्र तस्येवेति ।। लक्षणस्य सूत्रस्य, अभियुक्तैः प्रामाणिकैः । व्याख्यातत्वादिति ।। ‘पूर्ववत्सनः’ इति सूत्रे पूर्वस्मादिव पूर्ववदिति पञ्चम्यन्तादपि वतेर्विधानेन ‘तत्र तस्येव’ इति सूत्रोक्तस्य प्रायिकत्वावगमात्प्रथमान्तादपि वतेर्युक्तत्वाद्घटवदिति युक्तमित्यर्थः । अनुमिते सतीति ।। परार्थानुमानस्य च वचनरूपत्वादिति भावः । ‘यः परार्थानुमानस्य प्रयोगो वाक्यलक्षणः’ इत्युक्तेरिति ज्ञातव्यम् । विशेष्यानुक्तेराह- ईश्वर इति ।। तदुपपादयति- न हीति ।। व्याख्येयमिति ।। सर्वं विकर्तृकमित्युक्ते गगनादौ सिद्धसाधनत्वं घटादौ बाधश्च स्यात् । तन्निवृत्त्यर्थं विमतमित्युक्तम् । तेन विकर्तृकत्वेन सकर्तृकत्वेन च यत्र वादिप्रतिवादिनोस्सम्मतिर्गगनादौ घटादौ च ततोऽन्यद् अङ्कुरादीत्युक्तं भवति । विकर्तृकम् उपादानादि-विषयबुद्धिमत्पूर्वकं न भवति । तथा च जीवानामेवादृश्व्द्वाराऽङ्कुरादिकर्तृत्वसम्भवाद्बाध इति निरस्तमिति व्याख्येय-मित्यर्थः ।

कर्तृरहितत्वस्येति ।। अस्मत्सम्मतं यत्कर्तृरहितत्वं तस्मादित्यर्थः । कर्तुर्वेति ।। अस्मत्सम्मतो यः कर्ता तद्रहितत्वादित्यर्थः    तत्परिहारार्थमेवेति ।।  साध्याविशिष्टतापरिहारार्थमेवास्मत्सम्मतेति विशेषणमि-त्यर्थः । सर्वत्रेति ।। अनुपयुक्तैतद्विशेषणप्रक्षेपेण साध्याविशिष्टत्वपरिहारे पर्वतोऽग्निमान्न भवति अग्निमत्त्व-शून्यत्वादित्यादावपि साध्याविशिष्टत्वे प्राप्ते सति अस्मत्सम्मताग्निमत्त्वशून्यत्वादिति विशेषणं प्रक्षिप्य साध्या-विशिष्टत्वपरिहारसम्भवात्तस्य दोषत्वं न स्यादित्यर्थः । अनेनेति ।। अस्मत्सम्मतपदेनेत्यर्थः । शरीरादिमान् वेत्यत्राऽदिपदेन वक्ष्यमाणरीत्या स्वप्रयोजनाज्ञानसंशयविपर्ययानित्यज्ञानादिग्रहणम् । साध्याभावोपपादानायाऽह- कुविन्दादीति ।। वैयर्थ्यमेवेति ।। शरीरादिरहितः कर्ता चेत्स्यात्तर्ह्येव तद्व्यावृत्त्यर्थं शरीरादिमत्त्वार्थ-कास्मत्सम्मतविशेषणं देयम् । शरीरादिरहितस्य कर्तुरेवानङ्गीकारे शरीरादिमत्त्वार्थकास्मत्सम्मतविशेषण-व्यावर्त्याभावेन तस्य वैयर्थ्यमेव स्यादित्यर्थः । दूषणान्तरं चाऽह- साध्याविशिष्टता चेति ।। शरीरादिरहितस्य कर्तुरनङ्गीकारे विकर्तृकत्वशरीरादिमत्कर्तृरहितत्वयोरेकत्वापत्त्या शरीरादिमत्कर्तृरहितत्वमेव विकर्तृकत्वापरपर्यायं (श्री.टि.) जातमिति साध्याविशिष्टत्वादित्यर्थः । ननु विकर्तृकत्वं शरीरादिमत्कर्तृरहितत्वमिति शब्दत एव सामान्यविशेषभावेन भेदप्रतीतेर्विशेषाभावेन सामान्याभावसाधनान्न साध्यावैशिष्ट्यमित्याशङ्क्य परिहरति- न चेति ।। सामान्यस्यापीति ।। यदि शरीरादिमान् कर्ता तद्रहितश्च कर्ता कश्चित्स्यात्तर्ह्येव कर्तृत्वं सामान्यं, विकर्तृकत्वं च तदभावः स्यात् न चैवमित्यर्थः । सामान्यविशेषभावमभ्युपेत्यापि दूषणमाह- सामान्याभाव-स्येति ।। विशेषाभावेनेति ।। यत्किञ्चिद्विशेषाभावेनेत्यर्थः । न हि नीलघटाभावेन घटसामान्याभावो वक्तुं शक्यत इति भावः । न चैवमिति ।। अस्मत्सम्मतेत्यस्य कर्तृविशेषणत्व एव वैयर्थ्यादिदोषशङ्का स्यान्न चैवमि-त्यर्थः । अखण्डाभावे न वैयर्थ्यमिति भाव इत्याहुः । एवं सत्प्रतिपक्षतेति ।। पर्वतोऽग्निमान्न भवति अग्निमत्त्वेन अस्माकमसम्मतत्वादित्येवं सत्प्रतिपक्षताप्रसङ्ग इत्यर्थः । अनुकूलप्रमाणं तर्कादिकम् । बाधितत्वात् सत्प्रतिपक्षा-नुमानस्येति शेषः । न च प्रकृतेऽप्यनुकूलतर्कविरोधेन सत्प्रतिपक्षनिरास इति वाच्यम् । ‘तदभावात्’ इत्यादिना ग्रन्थेन तस्याग्रे दूष्यमाणत्वादिति भावः ।

आदिपदग्राह्यं स्वयमेव दर्शयति- स्वप्रयोजनेत्यादिना ।। एवमपीति ।। अस्मत्सम्मतकर्तृरहितत्वादित्यस्य शरीर्यजन्यत्वादिति व्याख्यानेऽपि शरीरीति विशेषणं व्यर्थमित्यर्थः । पक्षधर्मतेति ।। अजन्यत्वमात्रस्य स्वरूपासिद्धत्वादिति भावः । ननु हेतौ व्यभिचारवारकमेव विशेषणं देयं व्याप्तिग्रहोपयुक्तत्वात् न त्वसिद्धिवारकं विशेषणं व्यर्थत्वादित्यत आह- परैरपीति ।। नन्वत्र रूपस्यैव ग्राहकत्वादित्यस्याप्रसिद्धत्वेन व्याप्तिग्रहायोगा-दप्रसिद्धिपरिहाराय लोके प्रसिद्धिं सम्पाद्य व्याप्तिमुपपादयितुमेव रूपादिषु पञ्चसु मध्य इत्युक्तमित्येवं व्याप्ति-ग्रहोपयुक्तमेव तद्विशेषणं देयं न तु पक्षधर्मतासिद्ध्यर्थमित्यत उदाहरणान्तरमाह- प्रामाण्यमिति ।। अभ्यास-दशापन्नज्ञानप्रामाण्ये संशयविषयत्वाभावेनासिद्धिपरिहारायानभ्यासदशायामिति विशेषणमिति भावः । नन्वत्रा-प्यसिद्धिपरिहारेण पक्षधर्मतासिद्ध्यर्थमनभ्यासदशायामिति हेतौ विशेषणं नाभिप्रेतम् । किं नाम पक्ष एवेदं विशेषणं देयम् । तथा चानभ्यासदशायां प्रामाण्यम्- अनभ्यासदशापन्नज्ञानप्रामाण्यमिति यावत्, परतो ज्ञायते सांशयिकत्वादिति । अतो नेदमप्युदाहरणं युक्तमित्याशयेनेत्यादावित्युक्तमिति ज्ञातव्यम् । एवमित्यस्यैव विवरणम्- व्याप्तावनपेक्षितेति ।। असिद्धिपरिहारेण पक्षधर्मतासिद्ध्यर्थमपेक्षितत्वेऽपि व्यभिचारावारकतया व्याप्तावनपेक्षितमिदं  विशेषणमित्यर्थः    प्रयोजनेति ।। पक्षधर्मतासिद्धिरूपप्रयोजनेत्यर्थः । अतिप्रसङ्ग इति ।। देवदत्तः पिपासित इत्येतावता मरावपि वारिसाधकं प्रमाणं प्रवर्तेतेति भावः । वक्ष्यामोऽत्र समाधान-मिति ।। पक्षधर्मतासिद्धिरूपप्रयोजनार्थं व्याप्तावनपेक्षितमपि विशेषणं न दीयते येनोक्तातिप्रसङ्गः स्यात्, किन्त्वखण्डस्योपाधेस्साध्यव्यापकत्वेन तदभावस्य प्रतिपक्षानुमाने हेतुत्वेनाखण्डाभावरूपतयाऽखण्डाभावे च न वैयर्थ्यं शङ्क्य तद्बीजाभावादित्येवम् ‘उपाध्यनुन्नीत एवानुमाने’ इत्यादिना ग्रन्थेन वक्ष्याम इत्यर्थः । अनुमानविरोधादिति पञ्चम्या अन्वयो न प्रतीयतेऽतस्तं दर्शयति- अनुमानविरोधादित्यस्येति ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

सिद्धसाधनमिति ।। नन्वत्र घटादौ साध्यसिद्धावपि न सिद्धसाधनम् । पक्षतावच्छेदकावच्छेदेन (पां.टि.) साध्यसिद्धेरिहोद्देश्यत्वेन तदवच्छिन्ने साध्यासिद्ध्या तदनवकाशात् । न च तत्सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात्तत्सिद्ध्या सिद्धसाधनमिति वाच्यम् । तथा सति तत्सामानाधिकरण्येन साध्यसिद्धिरूपो-द्देश्यसिद्धेरविकलत्वेनोद्देश्यसिद्ध्यविरोधित्वेन गगनाद्यंशे प्रमाणबाधस्यादोषत्वापातात् । ततश्च यद्यत्र पक्षता-वच्छेदकसामानाधिकरण्येन साध्यसिद्धिरुद्देश्या तदा घटादौ सिद्धसाधनत्वप्रसक्तावपि न गगनादौ बाधः । यदि च तदवच्छेदेन साध्यसिद्धिरुद्देश्या तदा गगनादौ बाधप्रसक्तावपि न सिद्धसाधनत्वमिति कथं दोषद्वयसमा-वेशोऽत्रेति चेत् । उच्यते- किमत्र पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्यतया विवक्ष्यते किं वा तत्सामानाधि-करण्येन । आद्ये गगनादौ प्रमाणबाधः । द्वितीये घटादौ सिद्धसाधनमिति पक्षभेदेन दूषणद्वयसमावेशोऽत्राभि-मतः । यद्यपि च समानप्रकारकविरहज्ञानस्यैव प्रतिबन्धकतया गगनत्वाद्यवच्छेदेन साध्याभावनिश्चयेऽपि सर्वत्वा-वच्छेदेन तदसिद्ध्या नांशबाधस्य दूषणत्वम् । तथाऽपि पक्षतावच्छेदकावच्छेदेन जायमानायाः अनुमितेस्तदंशे प्रमात्वप्रतिबन्धकतया तस्य दोषत्वमित्यत्र तात्पर्याददोष इत्यवधेयम् । ननु कर्तृजन्यत्वमेव सकर्तृकत्वमस्तु । किमुक्तविवक्षयेत्यत आह- तथा चेति ।। जीवानामदृष्टद्वाराऽङ्कुरादिकर्तृत्वस्य सिद्धत्वविवक्षायां सिद्धसाध-नम् । तदौदासीन्यविवक्षायां तु सकर्तृकत्वरूपसाध्यस्य सामान्यरूपतयेश्वरकर्तृकत्वरूपेणेव जीवकर्तृकत्वरूपेणापि पर्यवसानसम्भवेनेश्वरासिद्ध्याऽर्थान्तरत्वमिति भावः । न चोपादानादिविषयकबुद्धिमत्पूर्वकत्वाश्रयणेऽपि सिद्धसाधनमेव । अङ्कुरादेरपि स्वजनकादृष्टजनकयत्किञ्चिदुपादानभूतहविरादिगोचरबुद्धिमदस्मदादिजन्यत्वा-दिति वाच्यम् । अदृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नत्वेनाप्युपादानादिविषयकबुद्धेर्विशेषणस्य अत्राभि-मतत्वात्  । तथा चादृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नोपादानादिविषयकबुद्धिमत्पूर्वकत्वमिति पर्य-वस्यति । ततश्च न सिद्धसाधनम् । कारणप्रागभावस्य कार्यप्रागभावं प्रति व्याप्यत्वेनास्मदादिनिष्ठादृष्टजनक-ज्ञानादिप्रागभावस्य स्वजन्यादृष्टप्रागभावं प्रति व्याप्यत्वेन तद्भिन्नत्वाभावात् । न चैवमपि कपालादिरूपोपादान-गोचरादृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नं च यज्ज्ञानादि तद्वद्भिरस्मदादिभिरर्थान्तरत्वमिति वाच्यम् । उपादानादिविषयकबुद्धेः स्वविषयसमवेतकार्यं प्रत्येव जनकत्वेन कपालादिगोचरज्ञानादेः क्षित्याद्यजनकत्वेन बाधात् । अत्र यद्यप्यदृष्टजनकभिन्नेत्युक्तेऽप्यस्मदादिभिर्न सिद्धसाधनम् । तथापीश्वरज्ञानस्याप्यदृश्व्जनकतया तद्भिन्नत्वाभावाद्बाधः स्यात् । स मा भूदिति वक्रोक्तिरेवाऽश्रयणीया । एवं च न बाधः । ईश्वरज्ञानस्यानादित्वेन प्रागभावप्रतियोगित्वस्यैवाभावेन तत्प्रतियोगिभिन्नत्वात् । नन्वेवमपि दृष्टान्तस्य साध्यवैकल्यम् । कुलालनिष्ठस्य घटजनकज्ञानप्रागभावस्य तन्निष्ठविहितादिक्रियान्तरादिनोत्पत्स्यमानादृष्टप्रागभावं प्रति व्याप्यत्वेन तद्भिन्नत्वा-भावादिति चेन्न । स्वजन्यत्वेनाप्यदृश्व्विशेषणस्यात्राभिमतत्वात् । उत्पत्स्यमानादृष्टस्य घटोपादानविषयक-ज्ञानजन्यत्वाभावादिति द्रश्व्व्यम् ।

ननु कार्यत्वं न कृतिसाध्यत्वं सन्दिग्धासिद्धिप्रसङ्गात् । किन्तु तत्कार्यत्वमेव । तच्च द्विविधम् । उद्देश्यफल-सम्बन्धित्वेन, साक्षात्कर्तृव्यापारविषयत्वेन चेति । तथा च द्व्यणुकादेरुद्देश्यसम्बन्धिफलतया कर्मत्ववत्तदुपा-दानीभूतस्य परमाण्वादेरपि साक्षात्कर्तृव्यापारविषयतया कर्मत्वात् कार्यत्वहेतोरुक्तसाध्याभाववति परमाण्वादौ (पां.टि.) व्यभिचार इत्यत आह- अभूत्वेति ।। प्रागभावप्रतियोगित्वादित्यर्थः । समवेतत्वं वा भावत्वं वा विशेषणं देयम् । अतो न ध्वंसे व्यभिचार इति द्रष्टव्यम् । ननु घटवदिति न षष्ठीसप्तमीसमर्थाद्वतिः । यत्कार्यं तत्सकर्तृकं यथा घटस्य यथा घटे इत्यनन्वयप्रसङ्गात् । नापि घट इवेति घटवदिति प्रथमासमर्थाद्वतिः । ‘तत्र तस्येव’ इति षष्ठीसप्तमीसमर्थादेव वतेर्विधानेन प्रथमासमर्थात्तस्यालाक्षणिकत्वेनायोगादित्याशङ्क्य, ‘तत्र तस्येव’ इति लक्षणस्य प्रायिकत्वात् ‘शरीरवदिति प्रथमासमर्थाद्वतिः’ इति कुसुमाञ्जलिवर्धमानकृता लक्षणस्य प्रायिकत्वेन व्याख्यातत्वाद्युक्त एव प्रथमासमर्थाद्वतिरत्रेत्याह- तत्र तस्येवेति ।। लक्षणस्येति ।। ननु लक्षणस्य प्रायिकत्वेन व्याख्यानं न युक्तम् । तस्य प्रायिकत्वज्ञापकाभावात् । न च ‘पूर्ववत्सनः’ इति पञ्चम्यन्ताद्वतिप्रत्यय एव सूत्र-कारीयोऽत्र ज्ञापक इति वाच्यम् । तत्र पूर्वेण तुल्यं पूर्ववदिति तृतीयान्तादेव ‘तेन तुल्यम्’ इति लक्षणेन वत्याश्रयणेन पञ्चम्यन्तात्तदसिद्धेः । न च न तत्र तृतीयान्ताद्वतिराश्रयितुं युक्तः, तथा सति पूर्वस्मादिव सन्नन्तादप्यात्मनेपदमिति पञ्चम्यर्थावगमानुपपत्तिप्रसङ्गादिति वाच्यम् । यथा हि ‘ब्राह्मणेन तुल्यं वैश्यादधीत’ इत्युक्ते ब्राह्मणादिव वैश्याद् अधीत इति पञ्चम्यर्थोऽर्थादवगम्यते, तथेहापि पूर्वेण तुल्यं सन्नन्तादात्मनेपदं भवतीत्युक्ते पूर्वस्मादिव सन्नन्ता-दात्मनेपदं भवतीति पञ्चम्यर्थावगमोपपत्तेः । ‘तुल्यार्थैः’ इति तृतीयायाः सर्वविभक्त्यर्थान्तर्भावकत्वात् । न चैवं ‘तुल्यार्थैः’ इति या तृतीया तयेवशब्दयोगे सर्वविभक्त्यर्थप्राप्तेः सर्वत्रापि तृतीयान्तादेव वतिः अर्थात्तदवगम इति वक्तुं शक्यत्वात्, ‘तत्र तस्येव’ इत्येतद्विषयेऽपि पूर्वेणैव वतिप्रत्ययसिद्धेस्तत्सूत्रवैयर्थ्यमेव । तथा हि । ब्राह्मण इवाधीते ब्राह्मणेन तुल्यमधीते, ब्राह्मणमिव पश्यति ब्राह्मणेन तुल्यं पश्यति, ब्राह्मणस्येव क्षत्रस्य स्वं ब्राह्मणेन तुल्यं क्षत्रस्य स्वं, ब्राह्मण इव क्षत्रिये वर्तते ब्राह्मणेन तुल्यं क्षत्रिये वर्तत इत्यादौ यथा एक एवार्थोऽवग-म्यते । तथा मथुरायामिव पाटलीपुत्रे प्राकार इति, देवदत्तस्येव यज्ञदत्तस्य शुक्ला दन्ता इति य एवार्थः स एव मथुरया तुल्यः पाटलीपुत्रे प्राकार इति, देवदत्तेन तुल्यं यज्ञदत्तस्य शुक्ला दन्ता इत्यत्राप्यवगम्यते । ततश्चात्रापि ‘तेन तुल्यम्’ इत्यनेनैव तृतीयान्ताद्वतिप्रत्ययोपपत्तेः । तस्मान्न तुल्यार्थकतृतीयायाः सर्वविभक्त्यन्तर्भावकत्वमिति पूर्ववदिति तृतीयान्ताद्वत्याश्रयणे पञ्चम्यर्थावगमानुपपत्तिर्दुष्परिहरैवेति वाच्यम् । भवेदेतदेवं यदि तुल्यार्थतृतीयायाः सर्वविभक्त्यर्थान्तर्भावकत्वे ‘तत्र तस्येव’ इति योगवैयर्थ्यमापद्येत । न चैतदस्ति । पूर्वसूत्रेण हि तुल्यस्य प्रतियोगि-न्येव प्रत्ययविधानम् । इह तु ‘मथुरया तुल्यः पाटलीपुत्रे प्राकारः’ इत्यत्र न मथुरा प्रतियोगिनी किन्तु तद्गतः प्राकार एव । एवं ‘देवदत्तेन तुल्या यज्ञदत्तस्य दन्ता’ इत्यत्र न देवदत्तः प्रतियोगी किन्तु तदीया दन्ता एवेति न पूर्वेण प्रत्ययप्राप्तिः सम्भवतीति नोत्तरसूत्रवैयर्थ्यम् । न चात्रापि मथुरादेवदत्तशब्दाभ्यां प्राकारो दन्ताश्च लक्षिष्यन्त इति युक्ता पूर्वेणैव प्राप्तिरिति वाच्यम् । पूर्वसूत्रे हि क्रियाग्रहणेऽसति ‘गवा तुल्यो गवयः’ इत्यादौ प्रत्ययप्रसक्त्या तन्निवृत्त्यर्थं तस्याऽवश्यकतया क्रियया तुल्यत्वे तेन तत्सिद्धावपि गुणद्रव्ययोस्तुल्यत्वे तेन प्रत्ययाप्राप्त्या तदर्थतया ‘तत्र तस्येव’ इति योगस्य सार्थक्यसम्भवाद् उक्तबाधकाभावेन तुल्यार्थतृतीयायाः सर्वसङ्ग्राहकत्वं युक्तम् । ततश्च पूर्ववदिति तृतीयान्ताद्वतिपक्षेऽपि पञ्चम्यर्थावगमोपपत्तेः पूर्ववदिति न पञ्चम्यन्ताद्वतिरिति ज्ञापकाभावा-द्योगस्य प्रायिकत्वेन व्याख्यानं न युक्तमिति चेत्, न भवेदियमनुपपत्तिर्यदि ह्यत्र योगस्य प्रायिकत्वं वा प्रायिकत्वेन (पां.टि.) व्याख्यातव्यत्वं वोक्तं स्यात् । न चैतदस्ति । तथा सति हि योगस्य प्रायिकत्वादित्येव तत्त्वेन व्याख्येय इत्येव वाऽवक्ष्यत् । किं तर्ह्यभियुक्तैस्तथा व्याख्यानं कृतम् । तावताऽपि प्रकृते वतिनिर्वाह इत्येव । तत्साधुत्वासाधुत्वचिन्तायां तु औदासीन्यमेव । अत एवोक्तरीत्या प्रायिकत्वव्याख्यानेऽरुचिं मनसि निधाय ‘छन्दसो द्वितीयान्ताद्वतिः’ इति द्वितीयान्ताद्वतेः छान्दसत्वमेव सुधायामुक्तम् । अन्यथा तत्रापि प्रायिकत्वा-श्रयणेनैव द्वितीयान्ताद्वतिनिर्वाहसम्भवात्त-च्छान्दसत्वोक्तिरयुक्ता स्यादिति सङ्क्षेपः । विस्तरस्तु सुधावाक्यार्थ-चन्द्रिकाशेषे द्रष्टव्यः ।

नन्वीश्वरकर्तृकमित्यसाधनान्नेश्वरसाधकत्वमित्यतः, तथाऽसाधनेऽपि हेतोः पक्षधर्मताबलेन पक्षे सिध्य-(द्ध्य)तः साध्यस्येश्वरकर्तृकत्वमनादायापर्यवसानेन पर्यवसानगत्या तस्यैव सिद्धत्वादुपपत्तिरित्यभिप्रेत्याऽह- न हीति ।। एवमेवेति ।। सर्वं विकर्तृकमित्युक्ते गगनादौ सिद्धसाधनं घटादौ बाधश्च स्यात् । तन्निवृत्त्यर्थं विमतमित्युक्तम् । विकर्तृकं नोपादानादिविषयबुद्धिमत्पूर्वकम् । ततश्च जीवानामेवादृश्व्द्वाराऽङ्कुरादिकर्तृत्वाद्बाध इति निरस्त इति व्याख्येयमित्यर्थः । सर्वत्रेति ।। अस्मत्सम्मतत्वविशेषणदानेन साध्यावैशिष्ट्यस्य परिहर्तुं शक्यतयाऽग्निमत्त्वेनाग्निमत्त्वसाधनेऽपि तस्यादोषत्वं स्यादित्यर्थः । साध्याविशिष्टता चेति ।। तत्त्याग इति शेषः । ननु हेत्वप्रसिद्धिपरिहारकतया व्याप्तिग्रहौपयिकत्वान्न रूपादिष्वित्यादिविशेषणस्य पक्षधर्मतासिद्ध्यर्थत्व-मित्यरुचेराह- प्रामाण्यमिति ।। नन्वनभ्यासदशायामित्यस्यापि पक्षविशेषणत्वस्याभिमततया हेतुविशेषणत्व-स्यानभिमततया न पक्षधर्मतासिद्ध्यर्थत्वमित्यरुचेराह- इत्यादाविति ।। पर्वतः सुरभिधूमरहितश्चन्दनखण्ड-प्रभववह्निरहितत्वादित्यादावित्यर्थः । तथा चेति ।। प्रतिपक्षानुमानान्तरेऽपि व्यभिचारावारकविशेषणवैयर्थ्य-स्यादोषत्वं स्यादित्यतिप्रसङ्ग इत्यर्थः । वक्ष्याम इति ।। ‘उपाध्यनुन्नीत एवानुमाने व्यभिचारावारकविशेषणवत्त्वं दोषः’ इत्यादिनेति शेषः ।

लघुप्रभा

(व्या.टि.)

बाधः सिद्धसाधनमिति ।। ननु पक्षतावच्छेदकैक्ये कथमंशे बाधसिद्धसाधनाभिधानम् । पक्षता-वच्छेदकनानात्व एव तयोर्दोषत्वात् । अन्यथा द्रव्यं रूपवत्, पृथिवी इतरेभ्यो भिद्यत इत्यादौ तयोः प्रसङ्गादिति चेन्न । सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तिः । तदादिपदैः घटत्वादिप्रकारकबोधानुभवात् । बुद्धिस्थत्वं तु शक्यतावच्छेदकानुगमकमिति शक्यतावच्छेदकतावच्छेदकमिति नये शक्यतावच्छेदकनानात्वात् । बुद्धिस्थत्वं तु शक्यतावच्छेदकमिति मते तु पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे अंशेऽपि सिद्धसाध-नम् । पक्षतावच्छेदकावच्छेदेन तदुद्देशेऽशेऽपि बाधो दोष इत्यवधेयम् । सकर्तृकपदनिर्वचनेन दोषद्वयं परिहरति- उपादानादीति ।। हेतोर्विवक्षितमर्थं दर्शयति- अभूत्वेति ।। भावित्वाद् भवनशीलत्वादित्यर्थः । विशेष्यदलं नित्ये व्यभिचरतीति क्त्वान्तम् । असति तन्निरासाय विशेष्यम् । ननु ‘तत्र तस्येव’ इति सप्तम्यन्तात् षष्ठ्यन्ताद्वेवार्थे वतेर्विधानात् कथं प्रथमान्ताद्वतिरित्यत आह- प्रायिकत्वेनेति ।। ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ ‘स्त्रीपुंवच्च’ ‘पूर्ववत्सनः’ ‘स्थानिवदादेशोऽनल्विधौ’ इति पाणिनिना, ‘पानव्यापच्च तद्वत्’ इति जैमिनिना च प्रथमान्तादितो वतेः प्रयुक्तत्वाद् अनुशासनं प्रायिकत्वाभिप्रायमिति व्याख्यातप्रायमिति भावः । ईश्वरादृत (व्या.टि.) इति ।। ‘अन्यारादितरर्ते’ इति सूत्रात् ऋतेयोगे पञ्चमी । अङ्कुरादीनामिति ।। विचित्रानेककारिणा-मित्यर्थः । ईश्वरस्य तु सर्वशक्त्या तदुपपत्तिः । व्यर्थत्वादिति ।। व्यभिचाराद्यवारकत्वेन विफलत्वादित्यर्थः । साध्याविशिष्टत्वादिति ।। साध्येऽपि विप्रिय इतिवद् वेरभावार्थत्वादित्यर्थः । तत्सम्भवादिति ।। ईदृशव्यर्थ-विशेषणसम्भवेन साध्यावैशिष्ट्योच्छेद एव भवेत् इत्यर्थः । कर्तृविशेष इति ।। शरीरादिमदपेक्षया कुलालादेर्विशेष-त्वादित्यर्थः । वैयर्थ्यमिति ।। विशेषणव्यावर्त्याभावादिति भावः । यद्यपि प्रतियोगिविशेषणमभावान्तर-सम्पादकमिति तत्त्यागेऽभावान्तरमेवेति न विशेषणवैयर्थ्यम् । तथापि तीव्रप्रतीतिके लघुधर्मावच्छिन्नाभावे हेतौ सम्भवति तद्घटितगुरुधर्मावच्छिन्नप्रतियोगिको विलम्बितप्रतीतिको न हेतूकरणीयः, आयासवैयर्थ्यादिति तात्पर्यम् । साध्याविशिष्टतेति ।। अभावयोः समनैयत्येनैक्याद् धूमाभाववान् प्रमेयः धूमाभावादित्यत्रेव साध्यावैशिष्ट्यमिति ध्येयम् । विशेषणत्यागे साध्यावैशिष्ट्यमिति व्याख्यानं चिन्त्यम् । ‘न च सामान्य’ इत्युत्तरग्रन्थासङ्गतेः । सामान्येति ।। साध्यहेतूकृताभावयोः सामान्यविशेषप्रतियोगिकतया सामान्य-विशेषभावेनेत्यर्थः । अनुपपत्तेरिति ।। निर्विशेषस्य सामान्यस्यानुपपत्तेरित्यर्थः। साधनायोगादिति ।। तस्य तेन व्याप्त्यभावादित्यर्थः । न चैवमिति ।। हेतोरविशेषणादित्यर्थः । प्रसङ्ग इति ।। प्रत्यक्षानुमानस्यैवं सुकरत्वा-दित्यर्थः । बाधितत्वादिति ।। प्रतिपक्षस्येति शेषः । तथा चातिप्रसङ्गभङ्ग इत्यर्थः । अलौकिकरीतिरियं न परीक्षकसम्मतेत्यस्वरसादाह- अथ वेति ।। उक्तमिति ।। सामान्यत इत्यर्थः । तथा चातिप्रसङ्गशङ्कैव नास्तीति भावः । पक्षधर्मतासिद्ध्यर्थत्वादिति ।। विशेषणप्रहाणे स्वरूपासिद्धेरित्यर्थः । यद्यप्यभावप्रतियोगिविशेषणे न वैयर्थ्यम् । त्यागेऽभावान्तरापत्तेः । तथाप्युक्तरीत्याऽयासवैयर्थ्यमालोच्योपेत्य वा प्रयोजनमुक्तमित्यव-धेयम् । वक्ष्याम इति ।। ‘उपाध्यनुन्नीत एवानुमाने वैयर्थ्यं दोषो नोपाध्युन्नीते तस्य विशिष्टाभावरूपत्वात्’ इति वक्ष्याम इत्यर्थः । साध्यनिर्देशाभावे पञ्चमीनिर्देशानुपपत्तिमाशङ्क्य पूर्वेणान्वयं दर्शयति- इत्यस्येति

Load More