भ्रान्तिकल्पितत्वे च जगतः..

जगतो भ्रान्तिकल्पितत्वस्याङ्गीकारे दोषोक्तिः

मूलम्

- भ्रान्तिकल्पितत्वे च जगतः, सत्यं जगद्द्वयमपेक्षितम् । न हि सत्यशुक्तेः, सत्यरजतस्य, तयोः सादृश्यस्य चाभावे भ्रान्तिर्भवति ।

टीका  

एवं  कल्पकं जीवमधिकृत्य  दूषणाभिधानेन सर्वस्यैकजीवाज्ञानपरिकल्पितत्वपक्षो दूषितः । अधुना परिकल्प्यमधिकृत्य दूषणाभिधानेनापि तं दूषयति- भ्रान्तीति ।। अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम् । अधिष्ठानप्रधानयोश्चाऽरोप्येण सादृश्यस्यापेक्षितत्वाज्जगत एव जगता सादृश्यसम्भवात्सत्यं जगद्द्वयमपेक्षितमित्युक्तम् । यदि जीवजडात्मकं सर्वजगद् भ्रान्ति-कल्पितं स्यात् तर्हि कल्प्यमानजगत्सदृशाधिष्ठानप्रधानभूतसत्यजगद्द्वयं पूर्वमङ्गीकार्यं प्रसज्येत । न च सत्यद्वयाङ्गीकारो युक्तः । पिण्याकयाचनार्थं गतस्य पिशाचस्य खारीतैलदानप्रतिज्ञा-वदधिकापातात् । अतो नेदं जगद्भ्रान्तिकल्पितमिति दृश्यत्वानुमानस्य तर्कपराहतिरुक्ता भवति ।

अथ वा कल्पनाया आरोप्यसदृशाधिष्ठानप्रधानपूर्वकत्वं व्यापकम् । तच्चात्र नास्ति । सत्यजगद्-द्वयाङ्गीकारादस्यैव जगतः सत्यत्वाङ्गीकारस्य लघुत्वात् । अतो व्याप्यकल्पनाऽपि नास्तीति प्रमाणविरोधः (वा) ।

तर्कस्यानुमानस्य च व्याप्तिमुपपादयति- न हीति ।। येन तर्कानुमानयोर्व्याप्तिर्भज्येतेति शेषः।

तथा च प्रयोगः । प्रपञ्चो न भ्रान्तिकल्पितो निरधिष्ठानत्वात् निष्प्रधानत्वादात्मवद् व्यतिरेकेण वा रजतवत् । जगत्प्रतीतिर्वा न भ्रान्तिः पूर्वोक्ताद्धेतुद्वयादात्मप्रतीतिवत् शुक्तिरजतप्रतीतिवच्च । विपक्षे त्वारोप्यसदृशाधिष्ठानप्रधानभूतसत्यजगद्द्वयाङ्गीकारप्रसङ्गो बाधक इति ।

नन्वन्यत्र सत्यमेवान्यत्राऽरोप्यत इत्यन्यथाख्यातिवादिनां पन्थाः । तत्कथं प्रतीयमानसदृशम् अन्यत् सत्यद्वयमपेक्षितमित्युक्तम् । किन्तु सत्यमधिष्ठानमारोपितस्य अन्यत्र सत्यत्वं चापेक्षित-मिति वक्तव्यम् । मैवम् । आरोपितमत्यन्तासद् इत्यङ्गीकुर्वद्भिरेवंविधान्यथाख्यातेरनङ्गीकृत-त्वात् । यथा हि सत्यरजते रजताभिज्ञाऽऽकारमेव ज्ञानमुत्पद्यते तथा भ्रान्तरजतेऽपि । तत्केन प्रमाणेन तस्यान्यत्र सत्त्वं व्यवस्थाप्यते । कस्यचित्प्रत्यभिज्ञोत्पत्तावपि तस्या भ्रान्तित्वान्नान्यत्र सत्त्वव्यवस्थापकत्वम् । अन्यत्र सत्त्वाभावे कथं प्रतीतिरिति चेत्तर्हि अत्रैव सत्यत्वमङ्गीकार्यम् । बाधकान्नेति चेत्तर्हि अन्यत्र सत्त्वस्येह प्रतीत्यनुपपादकत्वात् तादात्म्यवदसत्त्वेऽप्युपपत्तेर-त्यन्तासत्त्वमेवाङ्गीकार्यमिति ।।

भावबोधः

अथ वेति ।। अनेन ‘भ्रान्तिकल्पितत्वे च’ इति वाक्यं दृश्यत्वानुमानस्य सोपाधिकत्वप्रतिपादक-त्वेन व्याख्यातं भवति । अत एवोपाधेर्विप्रतिपत्त्युत्तरकालं प्रतिपक्षोन्नायकत्वात्प्रमाणविरोध इत्युक्तम् । विपक्षे त्विति ।। तथा च निरधिष्ठानत्वनिष्प्रधानत्वलक्षणहेतूच्छित्तिरेवेति भावः । सत्यजगद्द्वयाङ्गीकारेति ।। आरोप्यसत्यत्वापेक्षयाऽधिकसत्यत्वोपेतजगद्द्वयाङ्गीकारप्रसङ्ग इत्यर्थः । ननु शुक्तिकादौ पूर्वानुभूतान्यत्रस्थित-रजताभेदविषयकभ्रमस्यैवारोपितस्यान्यत्र सत्त्वावेदकत्वादेवंविधान्यथाख्यातेरेव स्वयमङ्गीकृतत्वादित्यत आह- यथा हीति ।। भ्रमस्य पुरोवर्तिनि पूर्वानुभूतरजताभेदविषयकत्वमेवासिद्धमिति भावः ।

भावदीपः

अपेक्षायां हेतूक्तिपूर्वं व्याचष्टे- अधिष्ठानत्वेनेति ।। यदनुभवजन्यसंस्कारसचिवं दुष्टमिन्द्रियं भ्रमं जनयति तत्प्रधानमित्युच्यते । तावता जगद्द्वयं कुतः । रजतारोपे सत्यद्वयापेक्षाऽभावादित्यत आह- अधिष्ठा-नेति ।। पिण्याकेति ।। कश्चन पिशाचः तैलवणिजं पिण्याकं तिलपिश्व्ं याचमानस्सन् प्रवृत्तः । स च तेन वाऽन्येन वा मान्त्रिकेण मन्त्रवशेन निर्बन्धितस्तन्मोचनाय तस्य खारिशब्दितविंशतिप्रस्थपरिमाणं तैलं दास्यामीति प्रतिज्ञाकरणं यथा तथेत्यर्थः । दृश्यत्वानुमानस्येति ।। न तावदेकजीवेत्यादिवाक्यावतारिकायामुक्तस्याऽ-धिक्यरूपप्रसङ्गतर्कस्येत्यर्थः । पूर्वं प्रसज्यत इत्यादिशेषोक्त्या तर्कपरतया व्याख्यातमेव वाक्यं दृश्यत्वानुमानस्य सोपाधिकत्वोक्तिपरतया व्याचष्टे- अथ वेति ।। व्यापकमिति ।। शुक्तिरूप्यादिभ्रमे दर्शनादिति भावः । नास्तीत्यत्र हेतुमाह- सत्येति ।। प्रमाणविरोधो वेति ।। दृश्यत्वानुमानस्येत्यनुषङ्गः । वक्ष्यमाणप्रमाणविरोध इत्यर्थः ।  तर्कस्यानुमानस्य चेति  ।।  सत्यजगद्द्वयाङ्गीकारेण प्रसङ्गरूपतर्कस्योपाध्यभावरूपानुमानस्य चेत्यर्थः । तथा चेति ।। व्याप्तिसत्त्व इत्यर्थः । विशिष्टस्य हेतुत्वे व्यावर्त्याभावादाह- निरधिष्ठान-त्वान्निष्प्रधानत्वादिति ।। विपक्षे हेतुर्नेति भावेनाऽह- व्यतिरेकेण वेति ।। पूर्वोक्ताद्धेतुद्वयादिति ।। अधिष्ठानासम्भिन्नार्थविषयकत्वात् सदृशवस्त्वन्तरानुभवजन्यसंस्कारसचिवेन्द्रियादिकरणाजन्यत्वादित्यर्थः । शुक्तीति ।। व्यतिरेकेणेत्यनुषङ्गः । न्यायमतरीतिमाश्रित्य शङ्कते- नन्वन्यत्रेति ।। तत्कथं प्रतीयमान-सदृशमिति ।।  सादृश्यस्य भेदघटितत्वादिति भावः ।  सिद्धान्तदिशैतदुक्तिरिति भावेनाऽह- आरोपित-मिति ।। प्रतीतिरेवान्यत्र सत्त्वं प्रतीतस्य गमयतीति अन्यथाख्यातिपक्ष एवाङ्गीकार्य इत्यतः सा किमभिज्ञा-रूपाऽथ वा तदेवेदं रजतमिति प्रत्यभिज्ञारूपा । आद्या न तत्कल्पिकेत्याह- यथा हीति ।। अन्त्य आह- कस्यचिदिति ।। तर्हीति ।। सत एव प्रतीतिरित्यङ्गीकार इत्यर्थः । असतस्स्सन्निकर्षाभावात्प्रतीत्यनुपपत्तिरित्यत आह- तादात्म्यवदिति ।। रजतस्य धर्मिणोऽसत्यस्य भानाभावेऽपि रजतशुक्त्योस्तादात्म्यमसदेव भासत इत्युदयनादिभिः प्राचीनैरङ्गीकारात्तद्वदेवासतो रजतस्यापि प्रतीतत्वोपपत्तेरित्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

परिकल्प्यमिति ।। जगदित्यर्थः । सत्यद्वयमिति ।। आरोप्यसत्त्वापेक्षया अधिकसत्त्वोपेतमि-त्यर्थः । सत्यं जगद्द्वयमपेक्षितमित्युक्तम् । तदुपपादयति- अधिष्ठानेत्यादिना ।। नन्वारोप्याज्जगतोऽधिक-सत्त्वोपेतं ब्रह्मैव जगदारोपेऽधिष्ठानम्, अन्यत्किञ्चित्प्रधानं च भविष्यति । अतस्तदर्थे सत्यजगद्द्वयं कस्मादपेक्षित-मित्यत उक्तम्- जगत एवेति ।। जगता आरोप्येण । तथा चाऽरोप्यजगत्प्रतियोगिकसादृश्याधिकरणमधिष्ठानं प्रधानं च जगदेव भवितुमर्हं नान्यदित्यर्थः । आरोप्यसादृश्यस्याऽवश्यकत्वं कुत इत्यत उक्तम्-अधिष्ठानेति ।।

नन्वारोप्यस्यात्यन्तासत्त्वेन निर्धर्मकत्वात्कथं तत्सादृश्यमधिष्ठानप्रधानयोरपेक्षितमित्युच्यत इति चेन्न । आरोप्यस्य किञ्चित्प्रतियोगिकसादृश्यानाश्रयत्वेऽपि किञ्चिन्निष्ठसादृश्यप्रतियोगित्वाङ्गीकारात्तस्य च रूपादि-वद्धर्मिसत्तासापेक्षत्वाभावात् । नन्वारोप्यसादृश्यं नाम तद्गतभूयोधर्मवत्त्वम् । आरोप्यस्य चात्यन्तासत्त्वेन निर्धर्मक-त्वात् कथं तद्गतभूयोधर्मवत्त्वम् अधिष्ठानप्रधानयोरुच्यत इति चेन्न । परमते घटत्वादिजातिवदस्मन्मते सादृश्यस्या-खण्डत्वेन तद्गतभूयोधर्मवत्त्वादिरूपत्वाभावादिति द्रष्टव्यम् । यथोक्तं सुधायाम्- ‘व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’ इत्यत्र ‘सादृश्यं हि पदार्थान्तरम्’ इति । पदार्थान्तरमखण्डमित्यर्थः ।

कुतो न युक्त इत्यत आह- पिण्याकेति ।। तिलयन्त्रेण तिलादेः सकाशात्तैलनिष्पत्त्यनन्तरं यत्पिष्टमवशि-ष्यते तत्पिण्याकमुच्यते । गतस्येति कर्मणि षष्ठी, गतं प्रतीत्यर्थः । पिशाचस्येति कर्तरि षष्ठी । पिशाचकर्तृक-खारीपरिमिततैलदानप्रतिज्ञावदित्यर्थः । खारीति परिमितिविशेषः । ‘खारी द्रोणो निकुञ्जकः’ इत्यभिधानात् । अधिकाऽपातादिति ।। स्वापेक्षितापेक्षयाऽधिकस्याऽपातादित्यर्थः । यथा केनचित्पिण्याकं देहीति याचिते सति तं प्रति किं पिण्याकेन तेन सह खारीपरिमितं तैलं दास्यामीति केनचित्पिशाचेन प्रतिज्ञाते सति पिण्याक-याचकस्य यथाऽधिकलाभो जातस्तद्वत्परिदृश्यमानस्यैकस्य जगतस्सत्यत्वमपेक्षमाणं मां प्रत्यस्य जगतो भ्रान्ति-कल्पितत्ववचनेनोक्तरीत्या सत्यभूतजगद्द्वयलाभेनापेक्षितादप्यधिकलाभो मम जात इत्यविवेकितया पिशाच-(श्री.टि.) तुल्यो भवानिति भावः । कुतो नास्तीत्यत आह- सत्यजगद्द्वयेति ।। तथात्वे गौरवं स्यादिति भावः । अस्यैवेति ।।  भ्रान्तिकल्पिततया  त्वयोच्यमानस्यास्यैव परिदृश्यमानस्येत्यर्थः । प्रमाणविरोधो वेति ।। तथा च प्रपञ्चो न भ्रान्तिकल्पितो निरधिष्ठानत्वान्निष्प्रधानत्वादात्मवत्, व्यतिरेकेण रजतवदित्याद्यनुमान-विरोधो वाऽनेन मूलेनोक्तो भवतीत्यर्थः । व्यतिरेकदृष्टान्तमाह- शुक्तिरजतेति ।। अप्रयोजकतापरिहाराय विपक्षे बाधकतर्कमाह- विपक्षे त्विति ।। अधिष्ठानप्रधानभूतेत्यादि ।। तथा च निरधिष्ठानत्वनिष्प्रधानत्व-लक्षणहेतूच्छित्तिप्रसङ्ग इति भावः । अन्यथाख्यातिवादिनां तार्किकाणाम् । तत्कथं प्रतीयमानसदृशेति ।। आरोप्यत्वेन प्रतीयमानस्यान्यत्र सत्त्वाभावे खलु तत्सदृशद्वयमपेक्षितं स्यात् । न चैवम् । किन्त्वापणस्थरूप्यस्यै-वात्र प्रतीयमानत्वेनाऽरोप्यस्यान्यत्र सत्त्वाङ्गीकारात् तत्सदृशमधिष्ठानमेकमेवाङ्गीकार्यम् । अत आरोप्यसदृशं सत्यद्वयं नापेक्षितमित्यर्थः । तर्हि मूले किमपेक्षितमिति वक्तव्यमित्यत आह- किन्त्विति ।। असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवाच्छुक्तिरेवात्यन्तासद्रजतात्मना प्रतिभातीत्येवमभिनवान्यथाख्यातिवादिभिर-स्माभिरारोप्यस्यान्यत्र सत्त्वानङ्गीकारादवश्यं तत्सदृशमधिष्ठानं प्रधानं चापेक्षितमेवेत्याशयेन परिहरति- मैवमित्यादिना ।।

ननु भ्रमस्य पुरोवर्तिनि शुक्तिकादौ पूर्वानुभूतान्यत्रस्थितरजताभेदविषयकत्वस्यानुभवसिद्धत्वेन तदन्यथाऽ-नुपपत्त्याऽऽरोप्यस्य अन्यत्र सत्त्वमङ्गीकार्यमित्यतः, तदेवासिद्धं यदन्यथाऽनुपपत्त्या आरोप्यस्यान्यत्र सत्त्वं सिद्ध्येदित्याह- यथा हीति ।। अभिज्ञाऽऽकारम् इदं रजतमित्यनुभवरूपम् । भ्रान्तरजतेऽपीत्यनन्तरम् इति यस्मादिति शेषः । तत् तस्मात् । तथा च सत्यरजतस्थले भ्रान्तरजतस्थले चानुभवस्यैकप्रकारत्वेन मात्रयाऽपि विशेषाभावाद् भ्रमस्थलेऽनुभवस्य पुरोवर्तिनि पूर्वानुभूतरजताभेदविषयकत्वाङ्गीकारे सत्यरजतस्थलेऽप्यनुभवस्य तथात्वाऽऽपत्त्या तस्याप्यन्यत्र सत्त्वं कल्पनीयं स्यादिति भावः । किञ्च भ्रमस्थले इदं रजतमिति ज्ञानस्य पूर्वानुभूता-न्यत्रस्थितरजताभेदविषयकत्वे सोऽयं देवदत्त इतिवत् तदिदं रजतमिति प्रत्यभिज्ञारूपं ज्ञानमुत्पद्येत । इष्टापत्तिरिति चेत्तत्राऽह- कस्यचिदिति ।। भ्रमस्थले तदिदं रजतमिति प्रत्यभिज्ञारूपं ज्ञानं कस्यापि नोत्पद्यते, किन्त्विदं रजतमित्येव । यदि कस्यचित्तादृशं प्रत्यभिज्ञारूपं ज्ञानमुत्पद्यत इत्यङ्गीक्रियते तर्हि तस्य बह्वनुभवविरोधेन भ्रान्ति-त्वोपपत्तेर्न तस्यान्यत्र सत्त्वव्यवस्थापकत्वमिति भावः । अन्यत्र सत्त्वाभाव इति । अत्यन्तासत्त्वाङ्गीकारे चेति शेषः । कथं प्रतीतिरिति ।। यदसत्तन्न प्रतीयते इति व्याप्तेरिति भावः । अत्रैवेति ।। पुरोदेश एवेत्यर्थः । बाधकादिति ।। नेदं रजतमिति बाधकप्रत्ययसद्भावान्न पुरोदेशे सत्त्वमङ्गीकर्तुं युक्तमित्यर्थः । तर्ह्यन्यत्र सत्त्वमपि नाङ्गीकार्यं कुत इत्यत आह- अन्यत्रेति ।। इह पुरोदेशे । निगमयति- असत्त्वेऽपीति ।। रजतस्यात्यन्तासत्त्वेऽपि प्रतीत्युपपत्तेरित्यर्थः । यदसत्तन्न प्रतीयत इति चेत्तत्राऽह- तादात्म्यवदिति ।। भ्रमस्थले शुक्तिः सती रजतं सत् तादात्म्यमात्रमसदिति त्वदङ्गीकारात्तत्र व्याप्तेर्व्यभिचार इति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

एकजीवाज्ञानपरिकल्पितत्वपक्षस्य दूषितत्वादुत्तरत्रापि तद्दूषणे पौनरुक्त्यमित्यतःप्रकारभेदान्न तदिति भावेन तं दर्शयति- एवमिति ।। दृश्यत्वाद्यनुमानस्य तर्कपराहतिपरतया ‘भ्रान्तिकल्पितत्वे च’ इति वाक्यं व्याख्याय सोपाधिकत्वकथनपरतयाऽपि व्याचष्टे- अथ वेति ।। टीकायां प्रमाणविरोध इत्येव पाठः, वाशब्दस्तु लेखकदोषपतितः । मूलकोशेष्वदर्शनात् । अथ वेति श्रवणेनास्वरसत्वाच्च । विप्रतिपत्त्युत्तरकालं प्रतिपक्षोन्ना-यकत्वात्प्रमाणविरोध इत्युक्तम् । अप्रयोजकत्वमाशङ्क्य परिहरति- विपक्षे त्विति ।। प्रसिद्धान्यथाख्यातिवादित्वं ग्रन्थकारस्य मन्वानः सिद्धान्तविरोधमाशङ्कते- नन्विति ।। इत्युक्तमिति ।। तथा सत्यन्यथाख्यातिवादिपक्षा-ननुसारित्वेन तथाऽभिधाने तद्वादित्वभङ्गप्रसङ्गादिति भावः । वक्तव्यमिति ।। तथा वचनस्य तत्सिद्धान्तानुसारि-त्वादिति भावः । अन्यथाख्यातिवादित्वेऽपि अभिनवान्यथाख्यातिवादाङ्गीकारेण प्रसिद्धतद्वादानङ्गीकारेण नोक्तविधवचनं तद्वादित्वभङ्गसम्पादकमिति भावेन परिहरति- मैवमिति ।। कुतस्तथाऽनङ्गीकार इत्यत आरोपितस्यान्यत्र सत्त्वे प्रमाणाभावादिति भावेन तद्धि भवत् तदिदं रजतमिति प्रत्यभिज्ञानं वा स्यादन्यद्वा । आद्येऽपि तत्किं सार्वजनीनमभिमतं पुरुषविशेषीयं वेति विकल्पान्मनसि निधायाऽद्यमनुपलम्भबाधेन दूषयति- यथा हीति ।। द्वितीयं दूषयति- कस्यचिदिति ।। अनुपपादकत्वादिति ।। तस्य प्रतीतिहेतुभूतसन्निकर्षाद्यर्थ-त्वाभावेन तदनुपपादकत्वादित्यर्थः । तत्तादात्म्यवदिति ।। शुक्तिरजततात्म्यवदित्यर्थः । अन्यथा रजतस्येव शुक्तिरजततादात्म्यस्याप्यन्यत्र सत्ताया अभ्युपगन्तव्यत्वप्रसङ्गादिति भावः ।

लघुप्रभा

(व्या.टि.) 

श्रोतृशेमुषीमनुकूलयिष्यन्नुक्तवक्ष्यमाणदूषणासाङ्कर्याय  वृत्तवर्तिष्यमाणसन्दर्भभेदमाह- एव-मिति ।। सामान्यसिद्धिपरिशेषाभ्यां सत्यजगद्द्वयं प्रसिसञ्जयिषुरादौ सामान्यसिद्धिं दर्शयति- अधिष्ठान-त्वेनेत्यादिना ।। परिशेषयति-जगत एवेति ।। तत्र हेतुः- अधिष्ठानप्रधानयोश्चाऽरोप्येण सादृश्यस्यापेक्षित-त्वादिति ।।

अत्र शङ्क्यते । अधिष्ठानप्रधानयोरारोप्यसादृश्यमपेक्षितमित्युक्तम् । तदुपयुक्तम्, युक्तं वा । नोभयथाऽ-पि । तथा हि- आद्ये आरोप्यसादृश्यं भ्रमोत्पत्तौ उपयोगि, भ्रमत्वज्ञाने वा । आद्ये किमिन्द्रियदोषवत् स्वरूप-सद् उपयोगि, ज्ञातं वा । नाऽद्यः । सत्यपि सादृश्ये तदज्ञाने भ्रमानुदयात् । न द्वितीयः । प्रधानसादृश्यस्य साधारणधर्मरूपस्याधिष्ठाने सतः अर्थदोषरूपस्याऽरोपपूर्वभावित्वेन ज्ञातोपयोगितासम्भवेऽपि आरोप्य-सादृश्यस्याऽरोपात्प्रागसतः अज्ञातस्य च ज्ञातोपयोगिताऽसम्भवात् । न द्वितीयः । त्रिकोणत्वकालपृष्टत्वादि-वैसादृश्यरूपवैधर्म्यज्ञानस्यैव भ्रमत्वज्ञानोपयोगदर्शनेन सादृश्यज्ञानस्यैवानुपयोगेनाऽरोप्यसादृश्यज्ञानस्यात्यन्ता-नुपयोगात् । न द्वितीयः । गुणक्रियाजातिभिः साधर्म्यरूपसादृश्यस्यासताऽऽरोप्येणासम्भवात् । मीमांसकाभि-मतस्य तदवयवसंयोगरूपसादृश्यस्य भवदनभिमतत्वात् । आरोप्यस्यासत्त्वेन निरवयवत्वादसम्भवश्च । आरोप्यस्य निर्धर्मिकत्वेन ‘तमिवैनं पश्यति तादृशः’ इति महाभाष्ये ‘अस्मानिव यान् पश्यन्ति तानस्मादृशान्’ इति नैषधटीकायां च प्रदर्शितनिरुक्तिलभ्यस्य समानधर्मप्रकारकज्ञानविषयत्वरूपस्य तस्यासम्भवाच्च । पदार्था-(व्या.टि.) नियमवादिनां सादृश्यस्य पदार्थान्तरत्वेऽपि तस्य सत्त्वव्याप्यत्वेन व्यापकाभावेन व्याप्यासम्भ-वाच्च । न च रजतशब्दवाच्यत्वेनाऽरोपितप्रधानयोः सादृश्यमिति वाच्यम् । वाच्यवाचकभावस्य ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति बादरायणाभिमतजैमिन्युक्तमार्गेण सस्वरूपशब्दार्थनिष्ठतया निःस्वरूपस्याऽरोप्यस्य पदवाच्यताऽसम्भवात् । अरजतस्य रजतपदवाच्यताव्याघाताच्च । लक्षणोच्छेदापत्तिश्च । मुख्यानुपपत्तिप्रति-सन्धानपूर्वकप्रतीतिविरोधाच्च । तस्य प्रधानारोप्यनिष्ठत्वेऽपि अधिष्ठानेऽभावाच्च । रजतमिति धीविषयत्वस्य रजतारोपानुव्यवसायावसेयस्य रजतारोपोपयोगाभावाच्च । अधिष्ठानेऽभावाच्चेति । तस्य प्रतिवाद्यसम्प्रतिपन्नस्या-भ्युपगमे प्रतितन्त्रसिद्धान्तत्वापत्तेश्चेति । तस्मादारोप्यसादृश्योक्तिरयुक्ता ।

अधिष्ठानप्रधानयोश्चेत्यप्यत्यन्तायुक्तम् । भ्रान्तौ प्रधानप्रत्यभिज्ञाऽभावेन तस्यानारोप्यतया सर्परज्ज्वारोप-परिहाराय प्रधानस्यारोप्यसादृश्यापेक्षायामपि अधिष्ठानस्य तदपेक्षाऽसम्भवात् । तथा हि- अधिष्ठानस्य प्रधान-सादृश्येनैव दोषरूपेणाऽरोपोपपत्तौ आरोप्यसादृश्यस्यानुपयोगात् । किञ्चाऽरोप्यसादृश्यमारोप्यत्वेनान्येनाऽकारेण वा । नाऽद्यः । तर्हि मिथ्यात्वापत्त्या सत्यजगद्द्वयमपेक्षितमिति मूलविरोधः । न द्वितीयः । असतः आरोप्यस्य निराकारत्वेन तत्सारूप्यस्य व्याहतत्वात् । धर्मारोपे संसर्गारोपे वा अभेदारोपे वा धर्मिणस्तदयोगाच्चेति ।

अत्रोच्यते । प्रधानस्यैवाऽरोप्यत्वमित्यन्यथाख्यातिवादिनां पन्थाः । तत्र प्रधानारोप्यसादृश्यानपेक्षायामपि तस्य ख्यात्यनुपपत्तेर्बाधानुपपत्तेर्वाभावेनाप्रामाणिकत्वादिना बहुधा दूषितत्वेनाधिष्ठानसन्निकृष्टेनेन्द्रियेण दोष-वशादत्यन्तासद्रजताद्यात्मनाऽवभासो भ्रम इत्यभिनवान्यथाख्यातेरेव स्वीकर्तव्यता । एतन्मते चाधिष्ठान-प्रधानयोरारोप्येण सादृश्यमस्त्येव । शुक्तौ रजतारोपदशायामापणस्थरजतस्मृतावारोप्ये रजते तद्रजतसादृश्यस्य प्रतीयमानत्वाद्रङ्गरजतयोरिमे रजते इति भ्रमदशायामिमे सदृशे इति प्रतीतेश्च, असञ्जातबाधभ्रमस्य पुनः सत्यरजतदर्शन एतत्सदृशं मया पूर्वं दृष्टमिति परामर्शाच्च, आरोप्ये प्रधानसादृश्यं तावत्प्रतीयते । प्रधानेऽप्या-रोप्यप्रतियोगिकं सादृश्यं निस्संशयं प्रतीयते । अधिष्ठानसादृश्यं त्वारोप्यदशायां न तद्व्यक्तित्वावच्छिन्नप्रति-योगिकं प्रतीयते । तद्व्यक्तेर्भेदेन तदा प्रतीतेः । तथाऽपि शुक्तिसदृशमिदं रजतमिति शुक्तित्वावच्छिन्नप्रतियोगिकं सादृश्यं प्रतीयत एव । एवमसञ्जातबाधभ्रमस्य कालान्तरेऽधिष्ठानशुक्तिदर्शने दृष्टरजततुल्येयं शुक्तिरिति प्रतीतिर्भवत्येव । सत्यरजतमिथ्यारजतप्रतीत्योः प्रमात्वभ्रमत्वाभ्यामेव विशेषः । न विषयीकरणविषये कलयाऽपि विशेषः । एवं चेत्थम् आरोप्ये प्रतीयमानस्य रजतत्वेन रजतसादृश्यस्य शुक्लत्वादिना शुक्तिसादृश्यस्य धर्मिस्वरूप-त्वपक्षे तद्गतधर्मसदृशधर्मवत्त्वरूपत्वपक्षे पदार्थान्तरत्वेऽपि धर्मिसत्तासापेक्षत्वमिति पक्षे सत्त्वासम्भवेऽपि धर्मि-सत्ताऽनपेक्षत्वमिति पक्षे सत्त्वमेवाङ्गीकार्यं बाधकाभावात् । यत्सदृशं प्रतीतं तदसदिति प्रतीतेर्धर्म्यंशविषय-त्वात् । अन्यथा यद् भ्रान्तिनिरूपकं तदसदिति प्रतीतेर्निरूपकत्वादेरप्यसत्त्वापत्तेः । सादृश्यावच्छेदकस्य रजतत्वशुक्लत्वादेरसत्त्वेऽपि सादृश्यस्य सत्त्वं प्रतियोगितावच्छेदकस्य कूर्मरोमत्वादेरसत्त्वेऽपि प्रतियोगिताया इवोपपद्यते । एवं चाधिष्ठानप्रधानाभ्यामारोप्यस्य तेन चैतयोः सादृश्यमस्त्येव ।

(व्या.टि.) अथ वा मा भूदारोप्यधर्मिकं सादृश्यं सत् । तथाऽपि तत्प्रतियोगिकं सादृश्यमधिष्ठानप्रधानयोः सदेव । यथाऽसद्धर्मिकभेदस्यासत्त्वेऽपि तत्प्रतियोगिको भेदः सति सन् । अथ वा पारिभाषिकं सादृश्यम् । आरोप्यनिरूपिता या विषयिता तत्सदृशविषयितानिरूपितविषयताकत्वं प्रधानस्य सादृश्यम् । अधिष्ठानस्य तु उक्तविधविषयतासमानाधिकरणधर्मसदृशधर्मवत्त्वम् । आरोप्यविषयकप्रतीतिविषयधर्मवत्त्वं वा । रजतार्थि-प्रवृत्तिकारणतावच्छेदिका विषयिता भ्रमप्रमयोस्तुल्येति बहुधा समर्थितं सुधायाम् । अतः प्रधानस्योक्तं सादृश्यं युक्तम् । अधिष्ठानस्याप्यारोप्यनिरूपितविषयितासदृशविषयितानिरूपितविषयतासमानाधिकरणशुक्लत्वादि-सदृशशुक्लत्वादिमत्त्वरूपम्,आरोप्यविषयकप्रतीतिविषयो यो धर्मः शुक्लत्वादिस्तद्वत्त्वरूपं वा सादृश्यं युक्तम् । इदं च सर्वं स्मर्यमाणधर्म्यारोपस्थले । धर्माद्यारोपस्थले तूक्तं सादृश्यं रजतत्वादेरेवेति तदेव प्रधानम् । अधिष्ठानस्य तूक्तविषयता(क)समानाधिकरणधर्मसदृशधर्मवत्त्वमेव । गृह्यमाणारोपस्थले त्वारोप्यस्य सत्त्वं प्रधानत्वं चेत्यधिष्ठानप्रधानयोरेव सादृश्यं तन्त्रम् । एतादृशस्याऽरोप्यसादृश्यस्य स्वरूपसत एवाधिष्ठानप्रधानयोः सादृश्य-स्यैव विनिगमनाविरहात्कारणत्वं व्यभिचाराभावेन नियतपूर्ववृत्तित्वमात्रं वा । मूले नियममात्राभिधानादिति न कोऽपि दोषः । केचित्त्वेकपदवाच्यत्वेन सादृश्यमाहुः । तेषां मते ‘औत्पत्तिकस्तु’ इति सूत्रेऽर्थपदस्य ज्ञेयमात्र-परत्वेनाऽलोकादिपदस्य वाच्यान्तराभावेन निरर्थकत्वापत्त्या चासतः पदवाच्यत्वसम्भवेऽपि रजतभिन्नस्याऽ-रोप्यस्य रजतपदवाच्यत्वासम्भवेनाधिष्ठानस्य सर्वथा वाच्यत्वासम्भवेन शक्तिभ्रमशक्यसम्बन्धसादृश्य-ज्ञानादिकमनपेक्ष्यैकपदव्यवहार्यत्वेन सादृश्ये तात्पर्यं भाति । विस्तृतमेतद्गुरुप्रभायाम् ।

प्रसङ्गप्रकारं दर्शयति- यदीत्यादिना ।। तस्य विपर्ययपर्यवसानमाह- न चेति ।। पिण्याकं तिलपिष्टम् । गतस्येति ।। तिलपेषकं प्राप्तस्येत्यर्थः । पिशाचस्येति ।। सम्प्रदानत्वाभावेन रजकस्य वस्त्रं ददातीतिवत् सम्बन्धसामान्ये षष्ठी । अधिकापातादिति ।। अधिकस्य जगद्द्वयस्याङ्गीकारापातादित्यर्थः । तथा चाल्पं याचमानं पिशाचं प्रति तददाने तेन बाधितस्य वणिजः खारीतैलदानप्रतिज्ञावत् एकजगत्सत्यत्वं याचमानानस्मान् प्रति तदननुमतौ बाधकप्रदर्शने परस्य जगद्द्वयसत्यत्वप्रतिज्ञाप्रसङ्ग इत्यर्थः । यद्वा याचनकर्तुः पिशाचस्यैव वणिङ्मन्त्रबाधितस्य प्रतिज्ञाकर्तृत्वमिवैकजगन्मिथ्यात्वं याचमानस्य परस्यास्मदीयतर्कमन्त्रबाधितस्य जगद्द्वय-सत्यत्वप्रतिज्ञाकर्तृत्वमित्यर्थः । एवं मूलं दृश्यत्वाद्यनुमानस्य तर्कपराहतिपरतया व्याख्यायाधुनाऽनुमानपरतया व्याचष्टे- अथ वेति ।। येन व्यभिचारदर्शनेन । पूर्वं व्यापकानुपलब्धिरुक्ता । अधुना तल्लब्धान्वयव्यतिरेकिणं दर्शयति- तथा चेति ।।  पूर्ववाक्यमत्र विपक्षे बाधकपरतयाऽपि व्याचष्टे- विपक्षे त्विति ।। अधुनाऽन्यथाख्यातिं प्रदूष्याभिनवान्यथाख्यातिं समर्थयमानस्तामुपक्षिपति-नन्विति ।। उक्तदूषणानौचित्यमाह- तत्कथमिति ।। पृच्छति- किन्त्विति ।। उत्तरयति- सत्यमिति ।। एवमनूद्य प्रतिषेधति- मैवमिति ।। नास्माकं पथच्युतिः । तस्यापथत्वादित्याह-आरोपितमित्यादिना ।। कुतो नाङ्गीकार इत्यतस्तत्र प्रमाणाभावाद् विपक्षे बाधकाभावाच्चेति वक्तुं किमारोपितस्यान्यत्र सत्त्वं प्रतीत्याऽङ्गीक्रियते, उत विपक्षे बाधकसद्भावाद्वेति विकल्पं मनसि निधायाऽद्यं (व्या.टि.) निराह- यथा हीति ।। केनेत्याक्षेपाद्विपर्ययपर्यवसानीयः । भ्रान्तित्वा-दिति ।। तत्तु बाधेन निश्चीयत इत्यर्थः । द्वितीयं निरसितुमुपक्षिपति- अन्यत्रेति ।। तर्हीति ।। प्रतीत्युपपत्तये सत्त्वाङ्गीकारश्चेदि-त्यर्थः । आक्षेप्यस्यानुपपत्तिशामकत्वाभावादर्थापत्तिपरिक्षय इत्यर्थः । असत्त्वेऽपीति ।। तादात्म्यवदिति पराङ्गीकारप्रदर्शनम्  । अन्यथाऽप्युपपत्तिश्चार्थापत्तिदूषणमिति भावः  । विस्तरस्तु सुधादौ बोध्यः ।