नचेश्वरस्य..

जीवे ब्रह्माभेदाङ्गीकारे जीवेश्वरव्यवस्थायाः अयोगोक्तिः

मूलम्

- नचेश्वरस्य सर्वगतत्वादौपाधिकभेदो ब्रह्मणा भवति । नहि देशतः कालतश्चापरिच्छिन्नयोरौपाधिकभेदो दृष्टः । सर्वोपाधिगतत्वाच्चैकस्यैवेश्वरस्य भेदस्य मिथ्यात्वाद्धस्तपादादिभेदेऽपि भोक्तुरेकत्ववत् सर्वसुखदुःखादिभोक्तृत्वमीश्वरस्यैव स्यात् ।

टीका 

एवं भेदस्योपाधिकृतत्वासम्भवात् सम्भवेऽपि तस्य स्वाभाविकैक्यप्रयुक्तानुसन्धानाप्रति-बन्धकत्वात् सुखदुःखादिव्यवस्था बद्धमुक्तव्यवस्था च परपक्षे न सिद्ध्यत इत्युक्तम् । याऽपीयं त्रिस्कन्धचैतन्यवादिनामिष्टा ब्रह्मेश्वरजीवव्यवस्था साऽपि न सिद्ध्यति, भेदाभावात् । ननु ब्रह्मेश्वरयोः स्वाभाविकभेदाभावेऽपि उपाधिकृतोऽस्त्येव भेदः । ततो ब्रह्मेश्वरव्यवस्था सेत्स्यतीत्यत आह- नचेति ।। स्यादियं व्यवस्था यदीश्वरस्य ब्रह्मणौपाधिकभेदः सम्भवेत् । नचैवम् । कुतः? सर्वगतत्वात् । द्वयोरपीति शेषः । नित्यत्वाच्चेत्यपि द्रष्टव्यम् । सर्वगतयोर्नित्ययोरपि उपाधिभेदः कुतो न भवतीत्यत आह- नहीति ।।

अयमभिप्रायः- उपाधिर्हि भेदकत्वपक्षेऽप्युपहितस्य देशावच्छेदकत्वेन वा भेदं कुर्यात् यथा वस्त्रादेर्महारजनादिः, कालावच्छेदकत्वेन वा यथा यौवनादिकं देहस्य । नचैतदुभयमप्यत्र सम्भ-वति । द्वयोः सर्वगतत्वेन देशतः परिच्छेदाभावात् । नित्यत्वेन कालतः परिच्छेदाभावाच्च । नच सर्वगतत्वादौ विवादः । श्रुत्यादिसिद्धत्वात् । अन्यथा द्वयोरपि तदभावस्याङ्गीकार्यत्वात् । द्वावपि प्रकारावनङ्गीकृत्य औपाधिकभेदकल्पनेऽदृष्टकल्पनाप्रसङ्ग इति । ब्रह्मेश्वरभेदस्याप्रामाणिकत्वात् तद्व्यवस्थापरिपालनमयुक्तमित्यन्यत्रोक्तम् ।

किञ्च जीवेश्वरव्यवस्थाऽपि तत्पक्षे न सिद्ध्यतीत्याह- सर्वेति ।। सर्वसुखदुःखादिभोक्तृत्वं सर्वोपाधिनिमित्तसुखदुःखादिभोक्तृत्वमीश्वरस्यैव स्यात् । कुतः? एकस्यैवेश्वरस्य सर्वोपाधिगत-त्वात् । ननु तत्तदुपाध्यभिमानी दुःखादेर्भोक्ता । ईश्वरस्तु नियामकत्वेन सर्वोपाधिगतोऽपि न भोक्ता । अन्यथा भवतामप्ययं प्रसङ्गः समान इत्यत उक्तम्- भेदस्य मिथ्यात्वादिति ।। असत्त्वादित्यर्थः । अन्यथा द्वैतप्रसङ्गात् । स्वाभाविकस्य जीवेश्वरभेदस्यासत्त्वेऽप्यौपाधिकोऽ-सावस्त्येव । तेन जीवेषु दुःखादिभोगवत्स्वपि नेश्वरस्तथेत्यत उक्तम्- हस्तेति ।। एतच्च प्राग्व्युत्पादितम् ।

अत्र कश्चिदाह -  ईश्वरस्य सर्वसुखदुःखाद्यनुसन्धानेऽपि  भोक्तृत्वाभावाज्जीवेश्वरव्यवस्था-सिद्धिरिति । तदसत् । आत्मीयतयाऽनुभवो ह्यनुसन्धानम् । कस्ततोऽन्यो भोगो नाम यो नेश्वरस्यास्तीत्युच्यते । अस्तु वा भोगानुसन्धानयोर्भेदः । तथाऽप्यभेदेन भोग एवाऽपाद्यत इति कथं जीवेश्वरव्यवस्थासिद्धिः । भोगापादनमेवैतदिति चोक्तम् - भोक्तृत्वमिति ।। ‘अनश्नन्नन्यः’ इत्यादिविरोध इति चेन्न । प्रमाणविरोधस्याऽपादनालङ्कारत्वात् । अत एव प्रमाणविरोधभीरुणाऽ-द्वैतं त्यज्यतामिति ।

भावबोधः

उत्तरवाक्यगतापरिच्छिन्नयोरिति द्विवचनानुरोधादाह- द्वयोरपीति शेष इति ।। उत्तरवाक्यगतकालत इत्यनुरोधादाह- नित्यत्वाच्चेत्यपीति ।। श्रुत्यादिसिद्धत्वादिति ।। ‘आकाशवत्सर्वगतश्च नित्यः’, ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’, ‘न त्वेवाहं जातु नाऽसम्’, ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ इत्यादिश्रुतिस्मृत्यादिनेश्वरसर्वगतत्वस्य प्रसिद्धत्वादित्यर्थः । अन्यथेति ।। उक्तश्रुत्यादिसिद्धस्यापीश्वर-सर्वगतत्वस्यानङ्गीकारे ईश्वरवद् ब्रह्मणोऽपि श्रुत्यादिसिद्धतत्सर्वगतत्वाभावस्यानङ्गीकार्यत्वादित्यर्थः । द्वाव-पीति ।। ब्रह्मेश्वरयोर्नित्यत्वसर्वगतत्वप्रकारावित्यर्थः । ननु ब्रह्मेश्वरव्यवस्थायाः प्रमाणसिद्धत्वात्तदन्यथानुप-पत्त्या उपाधेरपरिच्छिन्नभेदकत्वमन्यत्रादृष्टमपि सिद्ध्यतीत्यत आह- ब्रह्मेश्वरभेदस्येति ।। सर्वोपाधिगतत्वा-दित्यापादकानुसारेणाऽह- सर्वोपाधिनिमित्तेति ।। ननु सत्योपाधिकृतसत्यभेदवादिनां दूषणप्रकरणमिदं तन्मत औपाधिकस्य सत्यत्वात्स्वाभाविकभेदस्य चात्यन्तासत्त्वात् नानिर्वचनीयत्वरूपमिथ्यात्वं भेदस्य इति कथं ‘भेदस्य मिथ्यात्वात्’ इत्युक्तमित्यत आह- असत्त्वादित्यर्थ इति ।।

भावदीपः

‘कुतो न भवति’ इत्युक्तशङ्कानिवृत्तेर्मूलेऽस्फुटत्वादाह- अयमभिप्राय इति ।। उपाधिर्हीति ।। भेदं कुर्यादित्यन्वयः । भेदकत्वपक्ष इति ।। स्वस्येति योज्यम् । उपहितस्य उपाधिसम्बद्धस्येत्यर्थः । यौवनादिक-मिति ।। तद्धि मध्यकालावच्छेदेन कौमारदेहाद् युवदेहस्य भेदकमित्यर्थः । श्रुत्यादीति ।। ‘नित्यं विभुं सर्वगतं सुसूक्ष्मम्’इति ब्रह्मणः ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ इति ‘न त्वेवाहं जातु नाऽसम्’ इत्यादिना चेश्वरस्य सर्वगतत्वादिसिद्धेरिति भावः । अन्यथेति ।। एकमेव व्याप्तं चेतनमुपाधिवशाद् ब्रह्मेश्वररूपेण विभागवच्चेदित्यर्थः । तदभावस्येति ।। सर्वगतत्वानित्यत्वयोरभावस्येत्यर्थः । द्वावपि प्रकाराविति ।। देशावच्छिन्नत्वकालावच्छिन्नत्वरूपप्रकारावित्यर्थः- अन्यत्रोक्तमिति ।। प्रकृत्यधिकरणानुव्याख्यान-सुधयोर्द्वादशगीताभाष्यादौ च तदुक्तमित्यर्थः । एतच्च प्रागिति ।। ‘हस्तपादाद्युपाधिभेदेऽपि’ इत्यादि-वाक्यव्याख्यावसर इति भावः । ‘भोक्तृत्वमीश्वरस्यैव स्यात्’ इति मूलकृता चोक्तमित्यर्थः । भोगापादने ज्ञापकमाह- भोगापादनमिति ।। जीवेश्वरविभागायोगः ।

वाक्यार्थदीपिका

(श्री.टि.)

अप्रतिबन्धकत्वादिति ।।  हस्तपादाद्युपाधिभेदेऽपि तद्गतसुखदुःखादिभोक्तुरेकत्वानुभवादिति भावः । भेदाभावादिति ।। त्वन्मते ब्रह्मेश्वरयोः स्वाभाविकभेदाभावादित्यर्थः । उत्तरवाक्यगतापरिच्छिन्नयोरिति द्विवचनानुरोधादाह-द्वयोरपीति शेष इति ।। उत्तरवाक्यगतकालत इत्यनुरोधादाह- नित्यत्वाच्चेत्यपीति ।। देशावच्छेदकत्वेनेति ।। देशमर्यादाकरणेनेत्यर्थः । महारजनं मञ्जिष्ठाद्रव्यम् । तत् वस्त्रप्रदेशयोर्मर्यादाकरणेन भेदकमित्यर्थः । कालावच्छेदकत्वेन कालमर्यादाकरणेनेत्यर्थः । यौवनादिकमिति ।। यौवनादिकं पूर्वोत्तर-कालमर्यादाकरणेन देहे भेदकारीत्यर्थः । द्वयोरिति ।। ईश्वरब्रह्मणोरित्यर्थः । सर्वगतत्वादावित्यत्राऽदिपदेन नित्यत्वं ग्राह्यम् । विवाद इति ।। ईश्वरस्येति शेषः । श्रुत्यादिसिद्धत्वादिति ।। ‘आकाशवत् सर्वगतश्च नित्यः’ ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ ‘न त्वेवाहं जातु नाऽसम्’, ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ इत्यादि श्रुतिस्मृतिभ्यामीश्वरस्य सर्वगतत्वनित्यत्वयोः सिद्धत्वादित्यर्थः । अन्यथेति ।। उक्तश्रुत्यादिसिद्धस्यापीश्वरसर्वगतत्वादेरनङ्गीकारे ईश्वरवद् ब्रह्मणोऽपि श्रुत्यादिसिद्धसर्वगतत्वादेरभावस्या-प्यङ्गीकार्यत्वापातादित्यर्थः । ननूपाधेर्देशावच्छेदकत्वकालावच्छेदकत्वरूपं प्रकारद्वयमनङ्गीकृत्य प्रकारान्तरेण भेदकत्वमङ्गीक्रियत इति चेत्तत्राऽह- द्वावपीति ।। ब्रह्मेश्वरयोरौपाधिको भेदोऽस्तीति परोक्तमङ्गीकृत्य न हीतिवाक्येनोभयोरपि नित्यत्वाद् व्याप्तत्वाच्च नोपाधेर्भेदकत्वमित्युक्तम् । वस्तुतस्तु तयोर्भेद एव नास्तीत्याह- ब्रह्मेश्वरभेदस्येति ।। ननु ब्रह्मेश्वरव्यवस्थायाः प्रमाणसिद्धत्वात्तदन्यथानुपपत्त्योपाधेरपरिच्छिन्नभेदकत्व-मन्यत्रादृष्टमपि सिद्ध्यतीत्यत आह- ब्रह्मेश्वरभेदस्येति ।। अन्यत्रोक्तमिति ।। प्रकृत्यधिकरणानुव्याख्या-नादावुक्तमित्यर्थः  । सर्वोपाधिगतत्वादित्यापादकानुसारेणाऽह-सर्वोपाधिनिमित्तेति ।। अभिमानीति ।। अभिमानी यो जीवः स एवेति शेषः । नियामकत्वेनेति ।। तथा च नाभिमानीति भावः । यथोक्तम्-

तद्गतानां तु दुःखानां भोगोऽभिमतिरुच्यते ।

तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ।।’ इति ।

(श्री.टि.) अन्यथेति ।। नियामकत्वेन सर्वोपाधिगतस्यापि दुःखादिभोगापादन इत्यर्थः    भेदस्य मिथ्यात्वा-दिति ।। जीवेश्वरभेदस्य मिथ्यात्वादित्यर्थः । ननु सत्योपाधिकृतसत्यभेदवादिनां दूषणप्रकरणमिदम् । तथा च तन्मते औपाधिकभेदस्य सत्यत्वेन भेदस्य मिथ्यात्वादिति भेदस्य मिथ्यात्वं कथमुच्यते । अतोऽसदनुवादोऽय-मित्यत आह- असत्त्वादित्यर्थ इति ।। भास्करमते औपाधिकभेदस्यैव सत्यत्वं न स्वाभाविकभेदस्यातो भेदस्य मिथ्यात्वादित्यस्य स्वाभाविकभेदस्यात्यन्तासत्त्वादित्यर्थो द्रष्टव्य इति भावः । अन्यथेति ।। भेदस्य स्वाभा-विकत्वमङ्गीकृत्य सत्यत्वाङ्गीकार इत्यर्थः । शङ्कते-स्वाभाविकस्येति ।। तथेति ।। दुःखादिभोगवानित्यर्थः । प्रागिति ।। ‘उपाधिभेदाङ्गीकारे’ इति वाक्यव्याख्यानावसर इत्यर्थः । ततोऽन्य इति ।। आत्मीयतयाऽनुभवादन्य इत्यर्थः । भेद इति ।। आत्मीयतयाऽनुभवो भोगो ज्ञानमात्रमनुसन्धानमित्येवंरूपेण भेद इत्यर्थः । भोग एवेति ।। नानुसन्धानमित्यर्थः । ननु भोगापादनं मूले नोपलभ्यत इत्यत उक्तम्- भोगापादनमेवेति ।। ईश्वरस्य सुखादिभोक्तृत्वाङ्गीकारे श्रुतिविरोधमाशङ्कते- अनश्नन्निति ।। किञ्च यद्यनश्नन्नित्यादिप्रमाण-विरोधभीत्येश्वरस्य सुखादिभोक्तृत्वं नाङ्गीक्रियते तर्हि प्रमाणविरोधभीरूणा त्वया द्वासुपर्णेत्यादिप्रमाण-विरोधादेवाद्वैतमपि त्यज्यतामित्याह- अत एवेति ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

उत्तरवाक्यगतापरिच्छिन्नयोरिति द्विवचनानुरोधात्तदनुरूपं शेषमाह- द्वयोरपीति शेष इति ।। उत्तरवाक्यगतकालत इति विशेषणानुरोधादाह- नित्यत्वाच्चेति ।। श्रुत्यादीति ।। ‘नित्यो नित्यानाम्’ इत्यादि-श्रुत्या इत्यर्थः । अन्यथेति ।। श्रुत्यादिसिद्धस्यापि ईश्वरसर्वगतत्वादेरनङ्गीकारे ब्रह्मणोऽपि तन्न स्यादविशेषादिति भावः । ननु प्रमाणसिद्धब्रह्मेश्वरव्यवस्थान्यथानुपपत्त्याऽन्यत्रादृष्टमप्युपाधेरपरिच्छिन्नवस्तुभेदकत्वं किं न स्यादित्यत आह- ब्रह्मेश्वरभेदस्येति ।। अन्यत्रेति ।। न च भगवतोऽन्यद् ब्रह्मेत्यादिना गीताभाष्य इत्यर्थः । ननु सत्योपाधिकृतसत्यभेदवादिनां दूषणप्रकरणमिदम् । तन्मते चोपाधिकृतभेदस्य सत्यत्वात् स्वाभाविकभेदस्य चात्यन्तासत्त्वान्नानिर्वचनीयत्वरूपं मिथ्यात्वमिति भेदस्य मिथ्यात्वादिति कथं तदुक्तिरित्यतस्तदर्थमाह- असत्त्वादित्यर्थ इति ।।

लघुप्रभा

(व्या.टि.)

ननु नोत्तरग्रन्थः प्रकृतसङ्गतो बद्धमुक्तव्यवस्थाऽदूषकत्वादित्यतः प्रकरणभेदेन योजयति- एव-मित्यादिना ।। ब्रह्मेश्वरजीवव्यवस्थेति ।। अत्रैकोक्त्या ब्रह्मेश्वरव्यवस्था जीवेश्वरव्यवस्था जीवब्रह्मव्यवस्था चेति त्रितयपरिग्रहः । न सिद्ध्यतीत्यभिमतप्रतिज्ञा । तत्र हेतुं बहिरेवोपस्करोति- भेदाभावादिति ।। परस्परमिति शेषः । तत्रोत्तरमूलमवतारयति- नन्विति ।। आद्यां दूषयितुमनूद्यति- स्यादियमिति ।। न हि देशतः कालतश्चेति वक्ष्यमाणानुरोधेनाऽह- द्वयोरपीति ।। नित्यत्वाच्चेति च ।।  कुतो न भवतीति प्रश्नस्यादर्शनाभिधानं नोत्त-रम् । बीजानुपन्यासादित्यत आह- अयमभिप्राय इति ।। अवच्छेदकत्वेनेति ।। प्रकारे तृतीया । यौवनेति ।। तेन परिमाणभेदाद् द्रव्यभेद इति नैयायिकमतमपास्तम् । देहस्येति ।। यथोक्तं गीतायाम्-‘देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा’ इति । श्रुत्यादीति ।। ‘नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्’ इति ब्रह्मसर्वगतत्वे (व्या.टि.) श्रुतिः ।  ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’  इतीश्वरसर्वगतत्वे स्मृतिः प्रमाणमित्यर्थः। अन्यथेति ।। श्रुत्यादेरप्रामाण्य इत्यर्थः । द्वावपीति ।। देशावच्छेदकत्वकालावच्छेदकत्वरूपावित्यर्थः । अदृष्ट-कल्पनेति ।। यावद्विशेषाभावेऽपि सामान्यकल्पन इत्यर्थः । किञ्चासति धर्मिणि धर्मचिन्तावसर एव नास्तीत्याह- ब्रह्मेश्वरभेदस्येति ।। अप्रामाणिकत्वादित्युपलक्षणम् । ‘परं ब्रह्म परं धाम पवित्रं परमं भवान्’ इति गीताविरोधाच्चेत्यपि ग्राह्यम् । तदिति ।। तेनेत्यर्थः । द्वितीयां दूषयति- किञ्चेति ।। सर्वसुखदुःखादीति ।। आयुर्घृतमितिवत् कार्यकारणभावभावेनाभेदव्यपदेश इति व्याचश्व्े- सर्वोपाधिनिमित्तेति ।। सर्वोपाधीति ।। ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ इति सर्वदेहगतत्वोक्तेः । अभिमानी भोक्तेति ।।मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः’ इति गीतायां विषयाभिमानिन एव सुखदुःखादिभोक्तार इत्युक्तेः । नियामक-त्वेनेति ।। ‘भ्रामयन्सर्वभूतानि’ इति नियामकत्वोक्तेः । अन्यथेति ।। स्थितिमात्रेण भोग इत्यर्थः । भवता-मपीति ।। ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति सर्वव्याप्तिं वदतामित्यर्थः । असत्त्वादिति ।। सत्त्वाभावादित्यर्थः । अन्यथेति ।। भेदसत्त्व इत्यर्थः । एतदिति ।। उपाधिभेदाभावस्याप्रयोजकत्वम् । अनुसन्धानभोगयोर्भेदं मन्वान आहेत्याह- अत्रेति ।। तयोरैक्यादङ्गीकारानङ्गीकारौ व्याहतावित्याह- (निया-मकत्वेनेति)तदसदिति ।। आत्मीयतयेति ।। ननु ‘आत्मन्विश्वजनभोगोत्तरपदात्खः’ इति खप्रत्यये ‘आत्माऽ-ध्वानौ खे’ इति प्रकृतिभावे चाऽत्मनीनयेति भाव्यम् । कथमात्मीयतयेति । मैवम् । ‘तस्मै हितम्’ इत्यधिकृत्य खविधानेऽप्यात्मन इदमित्यर्थे उत्सर्गात् छ एव । ‘तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत्’ इति महाभाष्येऽप-वादविषयेऽप्युत्सर्गप्राप्तेरुक्तेः । भोग एवेति ।। यो नष्ट इति शेषः । अलङ्कारत्वादिति ।। अस्यालङ्कारत्वं विपर्ययपर्यवसानहेतुत्वेनेत्याह- अत एवेति ।। त्यज्यतामितिक्रियापदान्वयः ।