तास्समुद्रात्..
नदीसमुद्रजलानामेकीभावस्य निरासः
मूलम्
- ‘तास्समुद्रात् समुद्रमेवापियन्ति स समुद्र एव भवति’ इत्यत्रापि भेद एवो-च्यते । अन्यथा तास्समुद्र एव भवन्तीति व्यपदेशः स्यात् । अतो नद्यः समुद्रादागच्छन्ति तं प्रविशन्ति च । समुद्रस्तु स एव, नैतासां समुद्रत्वं भवतीत्यर्थः । नहि भिन्नानां नदीजलपरमाणूनां समुद्राणुभिरैक्यं युज्यते । तथा सति महाजनसमितौ प्रविष्टानां द्वित्राणां तदैक्यं स्यात् । नच तद् युज्यते भेदेनानुभवात् ।
टीका
ननु नदीसमुद्रदृष्टान्ते स समुद्र एव भवतीति नदीनां समुद्रेणैक्यमुच्यते । तत्कथं नैकोऽपि दृष्टान्तोऽभेदविषय इत्युक्तमित्यत आह- ता इति ।। अत्रापि वाक्ये न केवलमभेदो नोच्यते प्रत्युत भेद एवोच्यते । कथमित्यत आह- अन्यथेति ।। यद्यत्र नदीरुद्दिश्य तासां समुद्रभवनं विधीयते तर्हि ता नद्यः समुद्र एव भवन्तीति पाठः स्यात् । ते तण्डुला ओदनं भवन्तीतिवत् । न त्वेवमस्ति । तस्मान्नात्राभेद उच्यते । तथाऽपि भेदोक्तिः कथमित्यतो व्याख्याति- अत इति ।। प्रकारान्तरस्यासम्भवादित्यर्थः । आगच्छन्तीति शेषोक्तिः । समुद्रमेवापियन्तीत्यस्यार्थस्तं प्रविशन्ति चेति । स समुद्र एव भवतीत्यस्य व्याख्या समुद्रस्तु स एवेति । एवशब्दार्थविवरणं नैतासामिति । स समुद्र एव समुद्रो भवतीत्युक्ते यतोऽवधारणं ततोऽन्यत्र तत्फलमित्यत एतल्लभ्यते । ‘अत इत्यर्थः’ इति सम्बन्धः ।
ननु यदि नदीरुद्दिश्य तासां समुद्रत्वं विधीयेत तदा नदीनां स्वलिङ्गवचनाभ्यामुद्देशः क्रियेत । नचैवम् । किं तर्हि नदीप्रवेशानन्तरं स सर्वोऽपि जलसमुदाय एकीभूय समुद्र एव भवतीति व्याख्यायत इति चेत्, भवेदेवं कथञ्चिच्छब्ददोषाभावः । प्रमेयदोषस्त्वस्त्येव । तथाहि - किं नोदनादभिघाताद्वा क्रियाविभागादिक्रमेणावयविनाशे सति नदीसमुद्रकारणपरमाणूनां परस्परैक्यं भवेद्, उत तैर्भिन्नैरेव परमाणुभिरेक एवापरः समुद्राख्योऽवयवी जायते, अथाविनष्टानामेवावयविनां परस्परमैक्यं भवति । आद्यं दूषयति- नहीति ।। विमताः परमाणवो न परस्परमेकीभवन्ति भिन्नत्वाज्जलानल-वदित्यर्थः । भिन्नानामपि सजातीयानां प्रवेशेनैक्यं भवतीत्यङ्गीकारे को दोष इत्यत आह- तथा सतीति ।। अविशेषादिति भावः । तदपि भवत्वित्यत आह- नचेति ।। वृद्ध्यभावप्रसङ्गश्च बाधकः स्फुट एव । एतेन तृतीयोऽपि निरस्तः । द्वितीये तु न कस्यापि केनाप्यैक्यापत्तिः । नच जीवब्रह्मनाशे वस्त्वन्तरोत्पत्तिः परेणेष्यते । अतोऽवयविषु विनष्टेषु परमाणूनां संयोगेनावयव्यन्तरोत्पादो वाऽविनष्टानामेवावयविनां संयोगमात्रं भवतीति वा युक्तम् । अनेनैव न्यायेन नानावृक्ष-रसदृष्टान्तेऽप्येकतामित्यस्य मिश्रतामित्येवार्थोऽवगन्तव्यः ।
भावबोधः
शेषोक्तिरिति ।। दार्ष्टान्तिकवाक्ये सत आगम्येत्युक्तत्वात्ताः समुद्रादित्यत्रापि शेषः पूरितः इत्यर्थः । यतोऽवधारणमिति ।। अनेन स समुद्र एवेत्येवकारस्य यथाश्रुतान्वये अन्ययोगव्यवच्छेदकत्वं न लभ्यत इति मूलाभिप्राय इत्युक्तम्भवति । कथञ्चिच्छब्ददोषाभाव इति ।। जलसमुदायस्य पूर्वमप्रकृतत्वात्तच्छब्देन परामर्शायोग इति कथञ्चिदित्यनेनाऽचष्टे । भिन्नानामित्यनेनोक्तभिन्नत्वहेतोरप्रयोजकत्वशङ्कापरिहारकत्वे-नोत्तरवाक्यमवतार्य व्याचश्व्े- भिन्नानामपीति ।।
भावदीपः
भेद एवोच्यत इत्येवकारव्यावर्त्यं व्यनक्ति- अत्रापीति ।। मूलपदानुवादोऽयम् । वाक्य इति शेषोक्तिः। स एवेत्यत्रत्यतच्छब्दमनूद्य तस्यार्थमाह- स समुद्र एवेति ।। स एव समुद्र इत्युक्त्या नैतासामित्यर्थः कथं लभ्यत इत्यत आह- यतोऽवधारणमिति ।। यस्माच्छब्दात्परतोऽवधारणमित्यर्थः । इत्यतः इति न्यायादित्यर्थः। अत इत्यस्य इत्यर्थ इत्यनेनान्वयमाह- अत इत्यर्थ इतीति ।। शङ्कते- यदि नदीरुद्दिश्येति ।। स्वलिङ्गेति ।। स्त्रीलिङ्गबहुवचनाभ्यामित्यर्थः । स इति तच्छब्दस्याप्रकृतजलराशिपरामर्शः क्लिष्ट इति भावेनोक्तम्- कथञ्चिदिति ।। नोदनादिति ।। नुद प्रेरणे समुद्रशब्दिते जलराशौ नदीजलानां प्रवेशे सत्यन्योन्यवेगादिकृतदृढसम्बन्धादि-त्यर्थः । अभिघातात्प्रबलतरङ्गप्रहाराद्वाऽवयवेषु क्रियोत्पद्यते तया चावयवविभागेन तत्संयोगरूपासमवायिकारण-नाशः । एवं तदवयवक्रियातो विभागासमवायिकारणसंयोगनाशक्रमेणावयविनां द्व्यणुकपर्यन्तानामवयवनाशे सतीत्यर्थः । यद्वा नोदनादिनाऽऽरम्भकपरमाणुषु क्रियाविभागसंयोगनाशक्रमेण द्व्यणुकाद्यवयविनामन्त्यावय-विपर्यन्तं नाशे सतीत्यर्थः । तैरिति ।। नदीसमुद्रकारणभूतैरित्यर्थः । एतेनेति ।। वृद्ध्यभावप्रसङ्गेनेत्यर्थः । कस्यापीति ।। परमाणोः परमाण्वन्तरेण वाऽवयविना वा नैक्यापत्तिरित्यर्थः । अयं च पक्षस्त्वन्मतविरुद्ध इति भावेनाऽह- न च जीवेति ।। अत इति ।। द्वितीयपक्षस्य त्वन्मतप्रतिपक्षत्वादित्यर्थः । अन्यमतेनाऽह- अवयविषु विनष्टेष्विति ।। स्वमतेनाऽह- अविनष्टानामेवेति ।। अनेनैव न्यायेनेति ।। द्वितीयपक्षस्या-युक्तत्वेनोक्तपक्षद्वयन्यायेनेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
शेषोक्तिरिति ।। दार्ष्टान्तिकवाक्ये सत आगम्येत्युक्तत्वात्तास्समुद्रादित्यत्राप्यागच्छन्तीति शेषः पूरित इत्यर्थः । स समुद्र एवेति ।। अत्र स इत्यनूद्य समुद्र इति व्याख्यातम् । अत्र समुद्र एव भवतीति समुद्रत्वं विधेयत्वेन प्रतीयते । यद्विधेयं तद्विशेषणमेव । यथा पर्वतस्याग्निमत्त्वम् । एवं च समुद्रत्वस्य विशेषणत्वप्राप्त्या तदन्वितैवकारस्यायोगव्यवच्छेदकत्वेन नैतासामित्यन्ययोगव्यवच्छेदप्रदर्शनमयुक्तं स्यात् । अतस्स इत्युद्देश्यतया विशेष्यत्वं तत्सङ्गतोऽयमेवकारोऽन्ययोगव्यवच्छेदार्थक इत्याशयेन स समुद्र एवेत्युक्तम् । समुद्रत्वं(न) विशेष-णम् । एवं च नैतासामित्यत्र नदीषु समुद्रत्वयोगव्यवच्छेदप्रदर्शनं युक्तमिति द्रष्टव्यम् । विशेष्यसङ्गतैवकारस्थलेऽ-(श्री.टि.) न्यत्रैव विशेषणव्यवच्छेदस्सिद्ध्यतीत्यत्र बीजभूतं न्यायमाह- यतोऽवधारणमिति ।। अवधारणम् अवधारणार्थकैवकार इति यावत् । यतो यत्पदसमभिव्याहृतं ततः तत्पदवाच्यादन्यत्र तत्फलम् अवधारणफल व्यावृत्तिरूपम् अस्ति इत्यत एतन्न्यायादेतल्लभ्यत इत्यर्थः । एवं चात्र समुद्रवाचितच्छब्दसमभिव्याहृतमवधार-णम् । अतस्तदन्यत्र नदीषु समुद्रत्वव्यावृत्तिरूपमवधारणफल लभ्यत इति भावः । शङ्कते- यदीत्यादिना ।। स्वलिङ्गवचनाभ्यामिति ।। ता इति स्त्रीलिङ्गबहुवचनाभ्यामित्यर्थः । जलसमुदायस्य पूर्वमप्रकृतत्वात्स इति परामर्शायोग इत्यभिप्रेत्य कथञ्चिदित्युक्तम् । नोदनं द्रवद्रव्यसम्बन्धः । अभिघातः स्पर्शवद्वेगवद्द्रव्यसम्बन्धः। क्रियेति ।। क्रिया, क्रियातो विभागो, विभागात्पूर्वदेशसंयोगनाश, उत्तरदेशसंयोगोत्पत्तिरिति क्रमेणेत्यर्थः । अवयविनाशे सतीति ।। एवं च द्रवद्रव्यभूतनदीसमुद्रयोः परस्परसम्बन्धेन स्पर्शवद्वेगवद्द्रव्यभूतवायुसम्बन्धेन वा क्रियाविभागादिक्रमेण नदीसमुद्ररूपावयविनाशे सतीत्यर्थः । उतेत्यत्रावयविनाशे सतीति वर्तते । तैः नदी-समुद्रकारणीभूतैः । अनुमाने विजातीयत्वमुपाधिरित्यभिप्रेत्य शङ्कते- भिन्नानामपीति ।। अविशेषादिति ।। सजातीयत्वाविशेषादित्यर्थः । मूले समितावित्यस्य सभायामित्यर्थः । मूले द्वित्राणामित्यस्य द्वौ वा त्रयो वा द्वित्रास्तेषामित्यर्थः । वृद्ध्यभावेति ।। ऐक्ये वृद्धिर्न स्यादिति भावः । एतेनेति ।। महाजनसमितिप्रविष्टानां द्वित्राणामपि तदैक्यापातेन वृद्ध्यभावप्रसङ्गेन चेत्यर्थः । न कस्यापीति ।। नदीसमुद्ररूपावयविनाशेन भिन्नैरेव नदीसमुद्रपरमाणुभिः समुद्ररूपस्वतन्त्रावयविन एकस्योत्पन्नत्वेन कस्य केनैक्यं स्यादिति भावः । प्रत्युतायं पक्षस्तव विरुद्धश्चेत्याह- न चेति ।। जीवब्रह्मेति ।। नदीसमुद्रस्थानीयेत्यर्थः । वस्त्वन्तरेति ।। समुद्राख्या-परावयविस्थानीयेत्यर्थः । नष्टेष्विति ।। आपरमाण्वन्तमिति शेषः । अवयव्यन्तरेति ।। तार्किकरीत्या पीलुपाकप्रक्रियान्यायेनेति भावः । संयोगमात्रमिति ।। नैक्यमित्यर्थः । अनेनैव न्यायेनेति ।। नानारसो-पेतावयविनाशे सति तत्कारणपरमाणूनां परस्परमैक्यमिति पक्षस्य महाजनसमितावित्युक्तन्यायेनायोगात् । अवयविनाशे सति भिन्नैरेव परमाणुभिरपरो मध्वाख्योऽवयवी जायत इति पक्षस्य कस्यापि केनाप्यैक्याभावप्रसङ्गेन दार्ष्टान्तिके परस्यानिश्व्त्वाच्चायुक्तत्वात् । अविनश्वनामेवावयविनां परस्परमैक्यं भवतीत्यस्य महाजनसमिति-प्रविश्व्द्वित्राणामपि तदैक्यापातेन वृद्ध्यभावप्रसङ्गेन चायुक्तत्वादेकतामित्यस्याविनष्टानामेवावयविनां संयोग-मात्ररूपमिश्रतामित्येवार्थोऽवगन्तव्य इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
कथञ्चिदिति ।। स सर्वोऽपि जलसमुदायः समुद्र एव भवतीत्यर्थकरणेऽपि न शब्ददोषपरिहारः । जलसमुदायस्य जलसमुदायरूपेण पूर्वत्राप्रकृततया तत्परामर्शकेन तच्छब्देन परामर्शायोगेन नदीनामेव प्रकृत-त्वेन तासामेव च परामर्ष्टव्यत्वात् परामर्शे च स्त्रीलिङ्गवचनापत्तिरपरिहार्येति भावेन कथञ्चिदित्युक्तम् । नोदना-दिति ।। एतदुभयं जातिरेवेति केचित् । वेगरहितस्पर्शवद्द्रव्यसंयोगो नोदनम् । स्पशवद्वेगवद्द्रव्यसंयोगश्चाभिघात इति बहवः । स्वजनकक्रियासमानाधिकरणक्रियाजनकः संयोग एवाभिघातः । स्वजनकक्रियाव्यधिकरणक्रिया-जनकसंयोगस्तु नोदनमित्यनयोर्भेद इति केचित् । वस्तुतस्तु येन संयोगेन जनितं कर्म संयोगिनोः परस्परं (पां.टि.) विभागहेतुर्भवति, यः संयोगः शब्दनिमित्तकारणं च भवति स संयोगविशेषोऽभिघातः । येन संयोगेन जनितं कर्म संयोगिनोः परस्परं विभागहेतुर्न भवति यः संयोगः शब्दनिमित्तकारणं च न भवति स संयोगविशेषो नोदनम् । एतच्च शाङ्करे काणादसूत्रोपस्कारे पञ्चमाध्यायस्य द्वितीयाह्निके ‘नोदनाभिघातात्संयुक्त-संयोगाच्च पृथिव्यां कर्म’ इति सूत्रव्याख्यानावसरे स्पश्व्म् । प्रशस्तपादभाष्ये तु ‘यः संयोगविशेषो वेगापेक्षः परस्परविभागहेतोरेकस्य कर्मणः कारणं सोऽभिघातः । यस्तु गुरुत्वद्रवत्ववेगप्रयत्नान्समस्तान् व्यस्तान्वाऽपेक्ष-माणः परस्परमविभागहेतोरेकस्य कर्मणः कारणं स नोदनमित्यनयोर्विशेषः’ इत्युक्तम् । वृद्ध्यभावप्रसङ्ग-श्चेति ।। नदीप्रवेशद्वारीति शेषः ।
लघुप्रभा
(व्या.टि.)
ऐक्यमिति ।। शब्दसामानाधिकरण्यस्याभेदे शक्तेरित्यर्थः । नन्वभेदोक्त्याशङ्कायामभेदो नोच्यत इति वक्तव्ये भेद एवोच्यत इति प्रतिज्ञाऽसङ्गतेत्याशङ्क्य, अभेदभेदयोरिव अभेदोक्तिभेदोक्त्योः परस्परविरह-रूपत्वतद्व्याप्यत्वयोरभावेन नियताप्राप्तेरेवकारव्यावर्त्यया अभेदोक्त्या भेद उच्यतेऽपीति भेदोक्तिं समुच्चिनोति अपिपदमिति भावेनाऽह- न केवलमिति ।। समुद्रभवनमिति ।। समुद्रत्वमित्यर्थः । विधीयत इति ।। तण्डुला ओदनं भवन्तीत्यत्रेवेति भावः । ‘यच्छब्दयोगः प्राधान्यं स्यादुद्देश्यस्य लक्षणम् । तच्छब्दयोगः पश्चात्त्वं स्याद्विधेयस्य लक्षणम्’ इति तान्त्रिकमर्यादामुपेत्य तच्छब्दार्थस्योद्देश्यत्वेऽपि नदीनां तच्छब्दार्थत्वे स्त्रीलिङ्गबहुवचने स्यातामित्याह- तर्हीति ।। ओदनमिति ।। ओदनोऽस्त्रीत्यभिधानान्नपुंसकत्वम् । शेषोक्तिरिति ।। समुद्रादित्य-पादानकारकापेक्षितक्रियाध्याहार इत्यर्थः । स एवेति ।। एवकारो भिन्नक्रम इत्यर्थः । फल व्यवच्छेदः । छान्दोग्य-भाष्ये तु स समुद्र एव भवतीति यथाश्रुति संयोज्य न नदीभावं प्राप्नोतीत्ययोगव्यवच्छेदोऽपि व्याख्यातः । उक्तशङ्काऽपनोदाय योजयति- इति सम्बन्ध इति ।। अनेनैतद्वाक्यं भेदविषयम्, अर्थान्तरासम्भवे सति सार्थकत्वाद् यदेवं तदेवमिति युक्तिं सूचयति । युक्तावुक्तविशेषणासिद्धिं शङ्कते- यदीत्यादिना ।। कथञ्चिदित्यनेन क्रमप्रमाणाभावप्रकृतपरित्यागाप्रकृतपरामर्शादिदोषाः प्रादुःष्युरिति सूचयति । किमवयवैक्यमुतावयव्यन्तरोत्पाद अथावयविनामैक्यमिति विकल्प्य क्रमेण निराहेत्याह- प्रमेयेत्यादिना ।। अत्र भिन्नानामिति हेत्वर्थगर्भं विशेषणमित्यभिप्रेत्याभिसंहितहेतुमभिधत्ते- विमता इति ।। अत्राभेदाभावो न भेदः किन्तु तद्व्याप्त इति वा अनेकत्वादिर्भेदको वा विवक्षितः । यद्वक्ष्यति ‘द्वित्राणाम्’ इति । अतो न साध्यावैशिष्ट्यमिति बोध्यम् । अनुसंहितहेतौ वैजात्यमुपाधिमनुसन्धाय पक्षे तदभावेन प्रतिपक्षमनुसन्धत्ते- सजातीयानामिति ।। प्रतिपक्ष-हेतोरनैकान्त्योद्भावनाय विपक्षेऽनिष्टं प्रसञ्जयतीत्याशयेनाऽह- अत आहेति ।। मूले समिताविति ।। सभाया-मित्यर्थः । ‘सभासमितिसंसदः’इत्यभिधानात् । कर्मण्यधिकरणत्वविवक्षा च । मूले द्वित्राणामिति बहुव्रीहिः । द्वौ वा त्रयो वेति विगृह्य ‘सङ्ख्याव्ययासन्नदूराधिकसङ्ख्याः सङ्ख्येये’ इति सङ्ख्येयार्थया सङ्ख्यया सङ्ख्यायाः समासः, ‘बहुव्रीहौ सङ्ख्येये डजबहुगणात्’ इति समासान्तो डजिति बोध्यम् । अविशेषादिति ।। प्रवेशकर्म-कर्त्रोर्जनत्वाविशेषादित्यर्थः । पक्षप्रसञ्जनस्थानयोरविशेषादिति वाऽर्थः । मूले भेदानुभवादित्यस्य प्रविष्टद्वित्राणां (व्या.टि.) पूर्वतनैर्भेदाध्यक्षादित्यर्थः । स्वयमधिकं वक्ति- वृद्धीति ।। नदीसङ्गमे परिमाणप्रकर्षस्य जनसङ्गमे सङ्ख्याप्रकर्षस्य च दर्शनादित्यर्थः । निरस्त इति ।। तुल्यन्यायत्वादित्यर्थः । न कस्यापीति ।। अवयव्यन्तरो-त्पादेनैक्यप्रतियोगिनोऽभावादित्यर्थः । प्रकृतानानुगुण्यं च दृष्टान्तस्येत्याह- न चेति ।। जीवब्रह्मनाश इति ।। ‘जीव ईशो विशुद्धा चित्’ इति परेण षण्णामनादित्वोपगमादित्यर्थः । स्वयं नदीसमुद्रदृष्टान्तं विस्पष्टयति- अत इति ।। अवयव्यन्तरोत्पादो वेति सम्भावितपक्षः । संयोगमात्रं वेति तत्त्वम् । यथोक्तं बह्वृचि- ‘ये(यो) नदीनां सङ्गते’ ‘सितासिते सरिते यत्र सङ्गथे’ इति च । अनेनैवेति ।। नदीसमुद्रदृष्टान्ते पक्षत्रयनिरासन्यायेने-त्यर्थः । नन्वत्रैकतां गमयन्तीति साक्षादैक्यश्रुतेः कथं तन्न्यायातिदेश इत्यतो भ्रममूलं विच्छिनत्ति- एकतामि-त्यस्येति ।। युक्तिविरोधेन मुख्यस्यापि त्याज्यत्वादिति भावः ।