कथञ्च जीवपरमात्मैक्ये ..
जीवेश्वरैक्य विषयकश्रुतितात्पर्यायोगसमर्थनम्
मूलम्
-कथञ्च जीवपरमात्मैक्ये सर्वश्रुतीनां तात्पर्यं युज्यते । सर्वप्रमाणविरुद्धत्वात् । तथा हि- अनुभवविरोधः । न ह्यहं सर्वज्ञः सर्वेश्वरो निर्दुःखो निर्दोष इति वा कस्य-चिदनुभवः । अस्ति च तद्विपर्ययेणानुभवः । न च मिथ्यानुभवोऽयम् । तद्विपरीत-प्रमाणाभावात् ।
तत्त्वमञ्जरी
न च मिथ्याऽनुभवोऽयम् अहमल्पज्ञ इत्याद्यनुभवः । नाहमल्पज्ञः सर्वज्ञ एवेति तद्विपरीतप्रमाणाभावात् ।
टीका
आ परिच्छेदसमाप्तेः उक्तार्थप्रपञ्चार्थः अतः परो ग्रन्थः । यदुक्तं जीवपरमात्मैक्यस्य अप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च न तत्र वेदानां तात्पर्यमिति । न तत्र पराभिप्रेतप्रमाणानि स्वरूपेणोपन्यस्य दूषितानि । नापि विरोधिप्रमाणान्युपन्यस्य समर्थितानि । अतस्तदुभयं विधित्सुः प्रस्तावं तावत्करोति- कथं चेति ।। कुतो न युज्यत इत्यत आह- सर्वेति ।। प्रत्यक्षानुमानागम-विरुद्धत्वात् । प्रत्यक्षादिप्रमाणासिद्धत्वाच्चेत्यपि द्रष्टव्यम् । तत्कथमित्यतः प्रत्यक्षविरोधादिकं तावत्प्रतिजानीते- तथा हीति ।। अनुभवः साक्षिप्रत्यक्षं, जीवेश्वरैक्यस्येति शेषः । प्रत्यक्षासिद्धत्वं चेत्यपि ग्राह्यम् । तत्र प्रत्यक्षासिद्धत्वं तावद्दर्शयति- न हीति ।। ईश्वरो हि ‘एष सर्वज्ञ एष सर्वेश्वरः’ इत्यादिश्रुतिभिः सार्वज्ञाद्युपेततया प्रमितः । जीवस्य तदैक्यानुभवेऽहं सर्वज्ञ इत्यादिप्रतीतिः स्यात् । न चैवमस्तीत्यर्थः । आत्मनि साक्षिण एव सम्भावितत्वाद् अनुभव इत्युक्तम् । न वयं सार्वज्ञादिमता सगुणेनेश्वरेण जीवस्यैक्यं ब्रूमः । सार्वज्ञादेः परोपाधिकस्य मायिकत्वेन मिथ्या-त्वात् । अतः तदनुभवाभावो न दोषाय । किन्तु ‘निरनिष्टो निरवद्यः’ इत्यादिश्रुतिप्रतिपादितेन निर्गुणेन ब्रह्मणेति । सत्यम् । एवंविधोऽप्यनुभवो नास्तीत्याह- निर्दुःख इति ।।
ननु ब्रह्मात्मैक्यं रत्नतत्त्वमिव शास्त्रानुगृहीतप्रत्यक्षवेद्यम् । तत्कथं केवलेन प्रत्यक्षेण गृह्यतामित्यत उक्तम्- कस्यचिदिति ।। अधिगतशास्त्रस्यापीत्यर्थः । ऐक्यसाक्षात्कारो हि सविलासामविद्यां विच्छिन्द्यात् । ततश्च भेददर्शनरहितस्य शरीरपालनाद्यर्थं भिक्षाटनादिप्रवृत्तिर्न स्यात् । न ह्यविद्या अंशवती येनाविद्यालेशावस्थाननिमित्तात्प्रवृत्तिः स्यात् । तथात्वे वा तस्य लेशस्यैक्यसाक्षात्कारेऽ-प्यनिवृत्तस्य कदाप्यनिवृत्तिप्रसङ्गः । प्रारब्धकर्मादिवशात्प्रवृत्तिरिति चेन्न । कर्मादेरप्यविद्याकार्यस्य ऐक्यसाक्षात्कारेण समूलघातं हतत्वात् । प्रक्रियामात्रस्य चाप्रामाणिकत्वात् । एवमैक्यस्य प्रत्यक्षासिद्धत्वमुक्त्वा तद्विरोधं दर्शयति- अस्ति चेति ।। तद्विपर्ययेण उक्तरूपद्वयविपर्ययेण । यो हि श्रुत्युक्तलक्षणमीश्वरं विदित्वा तद्विपरीतं चात्मानमनुभवति सोऽवश्यमात्मनस्ततो भेदमनुभवत्येव । स्तम्भानुसन्धानवतस्तद्विपरीतकुम्भदर्शने तद्भेददर्शनस्यानुभवसिद्धत्वात् । तस्माज्जीवेश्वरभेदस्य प्रत्यक्षसिद्धत्वादैक्यस्य तद्विरोधः सिद्धः ।
नन्वहं दुःखी रागद्वेषादिदोषवांश्चेति ब्रह्मरूपविपर्ययेणात्मनि योऽनुभवः स भ्रम एव । अतस्तदनुगतो भेदानुभवोऽपि तथा । अतः कथं तद्विरोधः क्षतिमावहतीत्यत आह- न चेति ।। मिथ्याविषयत्वान्मिथ्या । तत्र हेतुमाह- तद्विपरीतेति ।। बाधकप्रत्ययाधीनं हि ज्ञानानां भ्रमत्व-कल्पनम् । न चात्र बाधकप्रत्ययोऽस्ति ।
ननु दुःखादिकमन्तःकरणधर्म एव । तच्च सन्निधानाद् जपाकुसुमादिगतं लौहित्यं स्फटिक इव आत्मनि भ्रान्त्या प्रतिभासत इति अस्माभिरप्यङ्गीक्रियत एव । तत्कथमुच्यते न च मिथ्यानुभवोऽ-यमिति । उच्यते । दुःखादिकमन्तःकरणपरिणाम एव । तस्यात्मसमवेतत्वप्रतिभासो भ्रमः । ‘एतत्सर्वं मन एव’ इति श्रुतेः । दुःखादिस्वरूपम्, आत्मनः तत्स्वामित्वं, तदनुभवस्तन्निमित्ता नीचोच्चतालक्षणा विक्रिया च सत्यैव बाधकाभावात् । अस्वभावत्वादनित्यत्वाच्च बन्धस्य ‘विमुक्तश्च विमुच्यते’ इत्यादिवचनानां चोपपत्तिरिति ।
भावबोधः
प्रस्तावमिति ।। तथा च ‘कथञ्च’ इति वाक्यस्य ‘न च जीवेश्वराभेदे’ इत्यनेन न गतार्थतेति भावः। इत्यपि द्रष्टव्यमिति ।। तथा च ‘न ह्यहं सर्वज्ञः’ इत्यादेर्नाप्रतिज्ञातोपपादकत्वमिति भावः । एवम् ‘इत्यपि ग्राह्यम्’ इत्येतदपि व्याख्येयम् । अधिगतशास्त्रस्यैक्यसाक्षात्कारो वर्तत एवेत्यत आह- ऐक्यसाक्षात्कारो हीति ।। नन्वहमसर्वज्ञ इत्यादिप्रत्यक्षेण कथमैक्यं विरुद्धम् । उक्तप्रत्यक्षस्य भेदविषयत्वाभावादित्यत आह- यो हीति ।। सत्यैवेति ।। तथा च ‘न च मिथ्यानुभवोऽयम्’ इत्यनेन दुःखादिस्वरूपादिज्ञानस्य भ्रमत्वं निरस्यत इति नापसिद्धान्त इति भावः । ननु ‘विमुक्तश्च विमुच्यते’ इत्यादिवचनानां दुःखादिमिथ्यात्वप्रतिपादकानां बाधकत्वात्कथं बाधकाभाव इत्यत आह- अस्वभावत्वादिति ।। दुःखादेर्मिथ्यात्वाभावेऽप्यस्वभावत्वानित्यत्व-मात्रेण तद्युक्तजीवस्य विमुक्तत्वं युज्यत इति नैतद्वाक्यं श्रुतार्थापत्तित्वेन दुःखादिमिथ्यात्वे मानमित्यर्थः ।
भावदीपः
आ परिच्छेदसमाप्तेरिति ।। आ कडारात् असिद्धवदत्रा भादितिवदयमसमासेन निर्देशः । अन्यथा आपरिच्छेदसमाप्तीति स्यात् । कस्येदं प्रपञ्चनं किमर्थं च प्रपञ्चनमित्यत आह- यदुक्तमिति ।। ‘न च जीवेश्वराभेद एव तात्पर्यमागमस्य’ इत्यादिना यदुक्तमित्यर्थः । तथा हि प्रत्यक्षविरोध इति वाच्यमित्याशङ्क्याह- आत्म-नीति ।। शङ्कते- न वयमिति ।। परोपाधिकस्येति ।। विषयनिरूपितस्येत्यर्थः । ननु गौडपादादयस्तथानुभववन्तः सन्तीत्यत आह- ऐक्यसाक्षात्कारो हीति ।। सविलासां स्वकार्यसहितामित्यर्थः । अविद्यानिवृत्तावपि तदंशस्य सत्त्वात्प्रवृत्तिरित्यत आह- न हीति ।। समूलघातमिति ।। मूलनाशेन सह नष्टत्वादित्यर्थः । ‘समूलाकृतजीवेषु हन्कृञ्ग्रहः’ इति समूलपद उपपदे हन्तेर्णमुल्प्रत्यये ‘हनस्त च’ इति तत्वे ‘हो हन्तेः’ इति घत्वे समूलघातमिति रूपम् । मुक्त्यव्यवहितसाक्षात्कारपर्यन्तं प्रारब्धानुवृत्तिरुपेयत इत्यत आह- प्रक्रियेति ।। उक्तरूपद्वयेति ।। सर्वज्ञत्वादिरूपनिर्दुःखत्वादिरूपविपर्ययेणेत्यर्थः । तदनुगत इति ।। तन्निमित्त इत्यर्थः । तथेति ।। भ्रम इत्यर्थः । दुःखादिकं मनःपरिणाम इत्यत्र श्रुतिमाह- एतत्सर्वमिति ।। तदनुभव इति ।। अहं दुःखीति दुःख-स्वामित्वानुभव इत्यर्थः । विक्रिया चेति ।। आत्मन इत्यनुषङ्गः । सत्यैवेति ।। सत्यपदस्य यथायोगं परिणामेन स्वरूपानुभवपदाभ्यामप्यन्वयो ध्येयः । ‘विमुक्तश्च विमुच्यते’ इति श्रुत्युक्तविमुक्तत्वमेव बाधकमित्यत आह- अस्वभावत्वादिति ।। बन्धस्येति ।। दुःखस्वामित्वादिबन्धस्येत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
स्वरूपेणेति ।। कण्ठत इति भावः । विरोधिप्रमाणानि भेदसाधकानि । समर्थितानीति ।। परोक्तार्थान्तरनिराकरणेनेत्यर्थः । प्रस्तावमिति ।। उपक्रममित्यर्थः । तथा च कथञ्चेति वाक्यस्य ‘न च जीवेश्वराभेद एव तात्पर्यमागमस्य’ इत्यनेन न गतार्थतेति भावः । प्रत्यक्षविरोधादिकमित्यत्रादिपदेन प्रत्यक्षासिद्धत्वं ग्राह्यम् । इत्यादिश्रुतिभिरित्यत्र आदिपदेन निर्दुःखत्वनिर्दोषत्वप्रतिपादिकायाः ‘निरनिष्टो निरवद्यः’ इति श्रुतेर्ग्रहणम् । कस्यचित्प्रत्यय इत्यनुक्त्वा साक्ष्यपरपर्यायानुभवग्रहणं किमर्थमित्यत आह- आत्मनीति ।। जीव इत्यर्थः । निर्दुःखो निर्दोष इत्यनयोः कृत्यं वक्तुमाह- न वयमिति ।। परोपाधिकस्येति ।। मिथ्याभूत-सर्वघटितस्येत्यर्थः । यत्स्वरूपं परोपाधिकं तन्मिथ्या । यथाङ्गुल्यवश्व्ब्धनयनोपाधिनिमित्तोऽपरश्चन्द्रमाः । सार्वज्ञादिकं च तथा । अतो मिथ्येति भावः । तदनुभवेति ।। मिथ्याभूतसार्वज्ञाद्यनुभवेत्यर्थः । निर्गुणेन ब्रह्मणैक्यं ब्रूम इति सम्बन्धः । निर्दुःख इतीति ।। निर्दुःखनिर्दोषस्वरूपेण निर्गुणेनाप्यैक्यानुभवो नास्तीत्यर्थः। रत्नतत्त्वमिवेति ।। यथा पाषाणविशेषत्वेन दृश्यमानस्यापि रत्नस्य तत्त्वं याथात्म्यं रत्नपरीक्षारूपशास्त्रानु-गृहीतप्रत्यक्षवेद्यं तथेत्यर्थः । शास्त्रेति ।। ऐक्यज्ञानं संशयोत्तरप्रत्यक्षरूपं तत्र शास्त्रं विशेषदर्शनरूपमिति भावः । अधिगतेति ।। अधिगतशास्त्रस्यापि गौडपादसङ्करादेर्निर्गुणब्रह्मणैक्यसाक्षात्काररूपानुभवो नास्तीत्यर्थः। नन्वधिगतशास्त्रस्य गौडपादादेरैक्यसाक्षात्कारो नास्तीति कुतो ज्ञायते, परबुद्धेरप्रत्यक्षत्वादित्यत आह- ऐक्यसाक्षात्कारो हीति ।। सविलासां देहेन्द्रियभिक्षाटनादिकार्यसहिताम् । ततश्चेति ।। अविद्योच्छेदे सती-त्यर्थः । भेददर्शनेति ।। ऐक्यसाक्षात्कारवत्त्वेनाविद्याकार्यभूतदेहेन्द्रियादिरूपभिन्नप्रपञ्चदर्शनरहितस्येत्यर्थः । न स्यादिति ।। तथा च शरीरपालनाद्यर्थं भिक्षाटनादिप्रवृत्तिरूपकार्यान्यथाऽनुपपत्त्याऽविद्यावस्थानमङ्गी-कार्यम् । तेन ज्ञायते तेषामैक्यसाक्षात्कारो नास्तीति । एवं च कस्यचिदित्युक्तं युक्तमिति भावः ।
नन्वविद्यायां विच्छिन्नायामपि तल्लेशस्यावस्थितत्वात्तदवस्थाननिमित्ता प्रवृत्तिस्तेषामिति चेत्तत्राह- न हीति ।। अविद्याया अखण्डत्वेन निरंशत्वादिति भावः । तथात्वे वेति ।। अविद्याया अंशाङ्गीकारे वेत्यर्थः । प्रारब्धकर्मादीत्यादिपदेन पूर्वसंस्कारग्रहणम् । नन्वैक्यसाक्षात्कारवतोऽपि शरीरपालनाद्यर्था भिक्षाटनादिप्रवृत्ति-रस्तीत्यत्र मत्प्रक्रियैव प्रमाणमित्यत आह- प्रक्रियामात्रस्य चेति ।। उक्तरूपद्वयेति ।। सर्वज्ञत्वं सर्वेश्वरत्वं च द्वयं मिलित्वैकं रूपम् । निर्गुणत्वं निर्दोषत्वं चेति द्वयं मिलित्वाऽपरं रूपमिति रूपद्वयविपर्ययेणेत्यर्थः । नन्वहमसर्वज्ञ इत्यादिप्रत्यक्षेण कथमैक्यं विरुद्धम्, उक्तप्रत्यक्षस्य भेदाविषयकत्वादित्यत आह- यो हीति ।। अनुभवसिद्धत्वादिति ।। प्रत्यक्षे धर्मिणि भेदकधर्मसाक्षात्कारस्य भेदसाक्षात्कारव्याप्तत्वादिति भावः । ब्रह्मरूपेति ।। निर्गुणब्रह्मणो यद्रूपं निर्दुःखत्वं निर्दोषत्वं च तद्विपर्ययेणेत्यर्थः । तदनुगत इति ।। तद्व्यापकीभूत (श्री.टि.) इत्यर्थः । क्षतिमिति ।। ऐक्यस्य हान्यावहो नेत्यर्थः । अनुभवस्वरूपस्य सत्यत्वादाह- मिथ्याविषय-त्वादिति ।। तत्रेति ।। अहं दुःखी रागादिदोषवांश्चेत्यनुभव इत्यर्थः । शिष्यः शङ्कते- नन्विति ।। तत्कथ-मिति ।। तथा च सिद्धान्तेऽप्यस्यानुभवस्य मिथ्यात्वेन न च मिथ्यानुभवोऽयमित्येवं दुःखाद्यनुभवस्य मिथ्यात्व-निराकरणेऽपसिद्धान्त इति भावः । तस्येति ।। तथाच ‘न च मिथ्याऽनुभवोऽयम्’ इति मूलेन दुःखादिस्वरूपस्य सत्यत्वेन दुःखादिस्वरूपानुभवस्यैव भ्रान्तित्वं निराक्रियते । न तु दुःखादेरात्मसमवेतत्वानुभवस्यापि । अतो नापसिद्धान्त इति भावः । ननु दुःखादिस्वरूपस्य सत्यत्वेऽपि ‘विमुक्तश्च विमुच्यते’ इत्यादिश्रुतिविरोधः स्यात् । दुःखादिबन्धस्य सत्यत्वे पूर्वं विमुक्तत्वोक्त्ययोगात् । मिथ्यात्वे तु बन्धस्याभावाद्विमुक्तत्वोक्तिरुपपद्यत इत्येवं ‘विमुक्तश्च विमुच्यत’ इत्यादिवचनानां दुःखादिमिथ्यात्वप्रतिपादकानां तत्सत्यत्वाङ्गीकारे बाधकानां सत्त्वेन कथं तदभाव इत्यत आह- अस्वभावत्वादिति ।। दुःखादेर्मिथ्यात्वाभावेऽप्यस्वभावत्वानित्यत्वमात्रेण तद्युक्तजीवस्य विमुक्तत्वं युज्यत इति नैतद्वाक्यं दुःखादिमिथ्यात्वे मानमित्यर्थः । यथोक्तं भाष्ये- ‘प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं न युज्यते’ इति ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
कोऽसावुक्तोऽर्थः, किं च तत्प्रपञ्चनेनेत्यत आह- यदुक्तमिति ।। कथं चेत्यस्योक्तार्थप्रपञ्चत्वाभावात् तद्वैयर्थ्यमाशङ्क्य परिहरति- प्रस्तावमिति ।। उत्तरत्रैक्यस्य प्रत्यक्षादिसकलप्रमाणासिद्धत्वस्याप्युक्तत्वादाह- प्रत्यक्षादिप्रमाणासिद्धत्वाच्चेत्यपीति ।। उत्तरत्र ‘अस्ति च’ इत्यादिनाऽनुभवविरोधस्येवानुभवासिद्धत्वस्यापि प्रदर्शनाद् अनुभवविरोधप्रतिज्ञावाक्यं तदसिद्धत्वोपलक्षणत्वेन व्याख्याति- प्रत्यक्षेति ।। ननु चाधिगत-शास्त्रस्यास्त्येवाद्वैतसाक्षात्कार इति तदापादनमिष्टापादनमित्यतस्तत्र बाधकमाह- ऐक्यसाक्षात्कारो हीति ।। सविलासां सकार्याम् । विच्छिन्द्यादिति ।। औतसाक्षात्कारस्याविद्याविरोधित्वेन सति तस्मिंस्तन्निवृत्त्य-वश्यम्भावेनोपादानभूताविद्यानिवृत्तौ तदुपादानकबन्धनिवृत्त्यवश्यम्भावादित्यर्थः । यद्यधिगतशास्त्रोऽद्वैत-साक्षात्कारवान् स्यात् तर्हि तद्विरुद्धाविद्यानिवृत्तिमान् स्यात् । यदि चाविद्यानिवृत्तिमान् स्यात् तर्ह्यविद्योपा-दानकद्वैतदर्शनाभाववान् स्यादिति विपक्षे बाधकसत्त्वान्नेष्टापत्तिरिति भावः । द्वैतदर्शनाभावस्येश्व्त्वात् तर्कस्याभासत्वमित्यत आह- ततश्चेति ।। ततश्च द्वैतदर्शनाभावाङ्गीकारे भिक्षाटनादिप्रवृत्त्यभावप्रसङ्गस्य बाधकत्वान्न द्वैतदर्शनाभावस्येष्टत्वमिति भावः । न च प्रवृत्त्यभावोऽपीष्ट इति न तस्य बाधकत्वमिति वाच्यम् । तथात्वे जीवन्मुक्त्यभावप्रसङ्गेन ब्रह्मोपदेशानां वातपुत्रीयत्वप्रसङ्ग इति भावः । ननु साक्षात्कृताद्वैतानामविद्या-निवृत्तावपि तल्लेशावस्थानाद्युक्तैव भिक्षाटनादौ प्रवृत्तिरित्यप्रयोजकत्वमित्यतः स लेशः पटस्य तन्तुरिवावयवो वा स्यात् प्रदेशो वा धर्मो वा । अनङ्गीकारात्, प्रदेशिनो निवृत्तौ प्रदेशावस्थानायोगाच्च न प्रदेशः, धर्मिणोऽपगतौ धर्मावस्थानुपपत्तेर्न धर्मोऽपीति, द्वितीयतृतीयपक्षदूषणं मनसि निधायाद्यं दूषयति- न ह्यविद्यांऽशवतीति ।। कुतो नेत्यत उक्तम्- हीति ।। घटादिवत् सावयवत्वानङ्गीकारादिति तदर्थः । अङ्गीकृत्याप्यंशवत्त्वं दूषयति- तथात्वे वेति ।। कदापीति ।। साक्षात्कृताद्वैतानामुत्तरक्षण इवान्यदाऽपि अविद्यालेशावस्थानसम्भवेन द्वैत-(पां.टि.) दर्शनानुवृत्तिप्रसङ्गादिति भावः । अविद्याकार्यस्येति ।। अकार्यत्वे च सत्यत्वप्रसङ्गेन द्वैतप्रसक्त्याऽ-पसिद्धान्तप्रसक्तेरिति भावः ।
ननु अविद्यायाः सन्ति बहव आकाराः । तत्रैको बन्धस्य सत्यत्वविभ्रमहेतुः । द्वितीयः अर्थक्रियासमर्थ-वस्तुकल्पकः । तृतीयस्त्वपरोक्षप्रतिभासविषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैत-सत्यत्वाकारस्य तत्त्वसाक्षात्कारेण अर्थक्रियासमर्थप्रपञ्चोपादानमायाऽऽकारस्य च निवृत्तावपि अपरोक्ष-प्रतिभासयोग्यार्थावभासजनकस्य मायाऽऽकारस्य जीवन्मुक्तावनिवृत्तस्य समाध्यवस्थायां तिरोहितस्यान्य-देहावभासजगदवभासहेतुतयाऽनुवर्तमानस्य प्रारब्धकर्मफलभोगेन नाशाङ्गीकारात् न काचिदनुपपत्तिरिति चित्सुखमतं दूषयति- प्रक्रियामात्रस्य चेति ।। प्रमाणाभावेनोक्तकल्पनाया अयुक्तत्वात् । तथा हि ‘इन्द्रो मायाभिः’ इति श्रुतिर्वा तत्र प्रमाणं स्यात् ‘तस्याभिध्यानात्’ इति श्रुतिर्वा । नाऽद्यः । ‘अयं वै हरयः’ इति तद्व्याख्यानरूपब्राह्मणानुरोधेन ‘इन्द्रो मायाभिः’ इति श्रुतेः परमेश्वरशक्तिप्रतिपादकत्वेन त्वदुक्तमायाऽऽकार-प्रतिपादकत्वस्य तद्ब्राह्मणविरुद्धत्वात् । नान्त्यः । तत्रापि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावः तत्त्वज्ञानं तस्मादुदितात् तस्य परमेश्वरस्याभिध्यानात् अनुग्रहात् कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवती-त्येवोक्तत्वेन अनिर्वाच्याविद्याऽऽकाराणां क्रमेण बाधलक्षणनिवृत्तेरनुक्तत्वेन तस्यास्तत्र प्रामाण्यायोगादिति दिक् । उक्तरूपद्वयविपर्ययेणेति ।। अहं सर्वज्ञः सर्वेश्वर इति, अहं निर्दुःख निर्दोष इति उक्तरूपद्वयविपर्ययेणा-सर्वज्ञोऽसर्वेश्वरः दुःखी दोषीत्यनुभवेनेत्यर्थः ।
नन्वहमसर्वज्ञ इति साक्ष्यनुभवस्य नैक्यविरोधित्वं, तस्य भेदविषयत्वाभावादित्यतः तस्य भेदविषयता-मुपपादयति- यो हीति ।। अनेनाहमसर्वज्ञ इति प्रत्यक्षम् ईश्वरादात्मनो भेदविषयकम् ईश्वरधर्मविरुद्धधर्म-वत्त्वेनात्मविषयकप्रत्यक्षत्वात् । यद् यद्धर्मविरुद्धधर्मवत्त्वेन यद्विषयकं प्रत्यक्षं तत्ततः तस्य भेदविषयकं, यथा स्तम्भविरुद्धधर्मवत्त्वेन कुम्भविषयकं प्रत्यक्षं कुम्भस्य स्तम्भाद्भेदविषयकमिति अनुमानेनासर्वज्ञत्वप्रत्यक्षस्य भेदविषयत्वं समर्थितं भवति । ततश्च सिद्धप्रत्यक्षविरुद्धत्वाभावेऽपि उपपाद्यप्रत्यक्षविरुद्धत्वमवर्जनीयमित्युक्तं भवति । यद्यपि धर्मिभूतस्य जीवस्य प्रत्यक्षत्वात् प्रतियोगिभूतस्येश्वरस्य शास्त्रादिनाऽवगतत्वेन जीवधर्मिकेश्वर-प्रतियोगिकभेदप्रत्यक्षसामग्रीसद्भावाज्जीवेश्वरभेदस्य प्रत्यक्षत्वमुपपादयितुं शक्यं, तथापि रत्नतत्त्वसाक्षात्कारे शास्त्रीयलक्षणज्ञानस्य साचिव्यदर्शनात् प्रतियोगिनो वैधर्म्यदर्शनं भेदप्रत्यक्षसाचिव्यमाचरतीत्यभिप्रेत्यासर्वज्ञत्वा-नुभवानुसरणं कृतमिति द्रष्टव्यम् । तथा भ्रम एव । अप्रयोजकत्वं परिहरति- बाधकप्रत्ययेति ।। शिष्यः शङ्कते- नन्विति ।। अङ्गीक्रियत एवेति ।। ‘प्रमादात्मकत्वाद्बन्धस्य’ इति भाष्यकृदुक्तेरिति भावः । कुतो भाष्यकृद्वचनस्य सङ्कुचितार्थ इत्यत आह- दुःखादिस्वरूपमिति ।। दुःखादेरन्तःकरणपरिणामत्वे प्रमाणमाह- एतत्सर्वमिति ।। तत्स्वामित्वमिति ।। परमेश्वरायत्तं क्रियाज्ञानं प्रति कारकान्तरप्रयोज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं चेत्यर्थः । विक्रियाऽपि सत्यैवेति ।। क्रियावेशादिरूपाया विक्रियाया विनाशाद्यहेतुत्वस्यान्य-(पां.टि.) त्रोपपादितत्वादिति भावः । प्रतिज्ञातेऽर्थे हेतुमाह- बाधकेति ।। ननु दुःखादिरूपस्य बन्धस्य सत्यत्वे ‘विमुक्तश्च विमुच्यते’ इत्यादिवचनजातमेव बाधकं, तत्र प्रागपि विमुक्तत्वोक्त्या दुःखादिमिथ्यात्वस्य स्पष्टमवगमाद् इत्यत आह- अस्वभावत्वादिति ।। दुःखादेः सत्यत्वेऽपि अस्वभावत्वानित्यत्वमात्रेण तद्युक्त-जीवस्य विमुक्तत्वोपपत्त्या तदन्यथाऽनुपपत्तेरभावान्न तद्बलेनापि दुःखादेर्मिथ्यात्वसिद्धिरिति भावः ।
लघुप्रभा
(व्या.टि.)
एवं सदागमैकविज्ञेयत्वे सदागमा एव प्रमाणीकृताः । तेषां प्रामाण्यं समर्थितम् । तेषामन्यपरत्वं चाप्रामाणिकत्वप्रमाणविरुद्धत्वाभ्यां निरस्तम् । तदुपयोग्यर्थश्चोक्त इति वक्तव्याशेषस्योक्तत्वात् किमुत्तर-ग्रन्थेनेत्यतो वर्तिष्यमाणग्रन्थसन्दर्भसिद्धफलमाह- आ परिच्छेदसमाप्तेरिति ।। असिद्धवदत्रा भात्, आ मुक्तेरितिवद् आ भिन्नं पदम् । तत्र जीवपरमात्मैक्ये । उभयमिति ।। तत्स्वरूपोपन्यासेन दूषणं विरोधिस्वरूपोप-न्यासेन समर्थनं चेत्यर्थः । विधित्सुरिति ।। निपूर्वाद्दधातेः सनि ‘सनि मीमाघुरभलभशकपतपदामच इस्’ इत्यनभ्यासधात्ववयवस्याच इसादेशे ‘सः स्यार्धधातुके’ इति सस्य तत्वे ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपे ‘सनाशंसभिक्ष उः’ इत्युप्रत्यये रूपं द्रष्टव्यम् । मूले विरुद्धादिति हेतुरुपलक्षणमसिद्धत्वस्येत्याह- इत्यपीति ।। ननु प्रत्यक्षविरोधं प्रतिज्ञाय तदसिद्धत्वोपपादनादसङ्गतिरित्यतस्तदपि प्रतिज्ञातमित्याह- इत्यपि ग्राह्य-मिति ।। प्रतिज्ञायामिति शेषः । नन्वीश्वराभेदानुभवो हि निषेध्यः सर्वज्ञाद्यभेदबोधनिषेधासङ्गतिरित्यत आह- ईश्वरो हीति ।। ननु प्रत्यक्षासिद्धत्वं प्रतिज्ञायानुभवाभावोपपादनमसङ्गतम् । विशेषाभावेन सामान्याभाव-सिद्धेरित्यत आह- आत्मनीति ।। अनेन विशेषनिषेधेऽप्यन्यस्याप्रसङ्गात्प्रत्यक्षमात्राभावः सिद्ध इत्याशयः । अनभ्युपेतब्रह्मैक्ये प्रमाणनिरासेऽपि नाभ्युपेतब्रह्मैक्ये । सगुणब्रह्मैक्यस्यानभ्युपेतत्वादित्याशयेनाशङ्कते- न वयमिति ।। मायिकत्वेनेति ।। मायाकल्पितत्वेनेत्यर्थः । ननु प्रत्यक्षाभावमात्रेण न वस्त्वभावसिद्धिः । अनुग्राहकाभावेन प्रत्यक्षाभावसम्भवात् । न हि आलोकाभावेन चाक्षुषाभावे रूपाभावसिद्धिः । प्रकृते च शास्त्रस्यानुग्राहकत्वात्तदभावेन प्रत्यक्षाभावसम्भव इत्याशयेन शङ्कते- नन्विति ।। नन्वन्यदीयसाक्षात्काराभावो नान्येन ज्ञातुं शक्यते । अभावस्य प्रतियोगिग्राहकेन्द्रियग्राह्यत्वात् । प्रतियोगिनश्चान्यदीयसाक्षात्कारस्यान्या-प्रत्यक्षत्वादित्यतो, न प्रत्यक्षतोऽवगम्यते, किन्तु प्रवृत्त्या अनुमीयत इत्याह- ऐक्येति ।। विपक्षे बाधकाभावेना-प्रयोजकत्वमाशङ्क्य साक्षात्कारस्य प्रवृत्तिविच्छेदकत्वात्तत्सत्त्वे तदनुपपत्तिं दर्शयति- साक्षात्कारो हीति ।। नन्वविद्याविच्छेदे कः प्रवृत्तेः प्रतीकार इत्यत आह- ततश्चेति ।। भेददर्शनेति ।। दातृदेयसम्प्रदानादिभेद-दर्शनमूलत्वाद् भिक्षाटनादेरित्यर्थः । साऽपि नामूलेत्याह- शरीरपालनाद्यर्थेति ।। नन्वंशेनाविद्यासत्त्वात्प्रवृत्ति-रित्यत आह- न हीति ।। अनादेरंशाभावादिति भावः । नांशोऽवयवः । किन्तु लेश इत्यतस्तत्र बाधकमाह- तथात्वे वेति ।। सामस्त्येनाविद्यानाशेऽपि निमित्तान्तरावृत्तिमाशङ्कते- प्रारब्धेति ।। कारणविनाशेऽपि कार्यावस्थानोक्तेरसङ्गतत्वेन स्वाचातुर्यव्यञ्जकत्वादयुक्तमित्याह- अविद्याकार्यस्येति ।। समूलघात-मिति ।। ‘समूलाकृतजीवेषु हन्कृञ्ग्रहः’ इत्यनेन समूलोपपदाद्धन्तेर्णमुलन्तम् । ननु मूलाविद्यातूलाविद्येत्य-(व्या.टि.) विद्याभेदाभ्युपगमादेकस्य नाशेऽप्यन्यया प्रवृत्तिरित्यत आह- प्रक्रियामात्रस्येति ।। प्रमाण-विरुद्धत्वाच्चेत्यपि ग्राह्यम् ।
तच्छब्दपरामृष्टं दर्शयति- उक्तरूपद्वयेति ।। सार्वज्ञादिनिर्दुःखत्वादीतिद्वयेत्यर्थः । विपर्ययेण ।। अज्ञत्वादिना दुःखित्वादिना चेत्यर्थः । यथोक्तं तत्त्वप्रकाशिकायाम् -
‘अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ।
सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ।।’ इति ।
ननु वायुवनस्पतिसंयोगप्रत्यक्षापत्त्या ससम्बन्धिकप्रत्यक्षे यावत्सम्बन्धिप्रत्यक्षस्य तन्त्रतया प्रकृते भेदं प्रति सम्बन्धिन ईश्वरस्याप्रत्यक्षत्वेन ततो भेदोऽपि न प्रत्यक्ष इति कथं तद्विपर्ययेणानुभव इत्यत आह- यो हीति ।। ससम्बन्धिकसंयोगादिप्रत्यक्षे सम्बन्धिप्रत्यक्षहेतुतायां संयोगप्रत्यक्षत्वादिकमेव कार्यतावच्छेदकम् । न सम्बन्धिप्रत्यक्षत्वादिसामान्यम् । सम्बन्धिपिशाचाद्यप्रत्यक्षेऽपि तत्प्रतीतिमात्रेण स्तम्भः पिशाचो नेत्यन्योन्या-भावप्रतीतिदर्शनात् । तथाऽत्रापि ईश्वरप्रत्यक्षाभावेऽपि श्रुत्या तदसाधारणधर्मप्रकारकतज्ज्ञानसम्भवेन स्वात्मनि तद्वैलक्षण्यज्ञानसम्भवादिति भावः । वैलक्षण्यानुभवेऽपि कुतो भेदानुभव इत्यत उक्तम्- अवश्यं ततो भेदमनु-भवत्येवेति ।। व्यावर्तकदर्शनस्य भेदविषयकत्वनियमादिति भावः । प्रतियोगिप्रतीतिमात्रेण तद्वैधर्म्यदर्शनं ततो भेददर्शनं च कुतः सिद्धमित्यतोऽनुभवत एवेत्याह- स्तम्भानुसन्धानवत इति ।।
ननु व्यावर्तकदर्शनस्यैव भ्रमत्वात्तदनुगतभेदानुभवो भ्रम एव । व्यावर्तकप्रतीत्यनुरूपत्वाद्व्यावृत्तिप्रतीतेः। तथा च भ्रमविरोधेन नार्थापलाप इत्याशयेन शङ्कते- नन्वहमित्यादिना ।। मूले कर्मधारयं मत्वा व्याचश्व्े- मिथ्याविषयत्वादिति ।। शक्यसम्बन्धप्रदर्शनम् । हेतुहेतुमद्भावमुपपादयति- बाधकप्रत्ययाधीनमिति ।। अप्रामाण्यपरतस्त्वव्युत्पादनादिति भावः । शिष्योपदर्शनमिदमिति शङ्कते- नन्विति ।। सन्निधानादिति ।। मनस इति शेषः । अस्माभिरपीति ।। ‘अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते’ इति गीतोक्तेः । उत्तरं प्रतिजानीते- उच्यत इति ।। दुःखादेरन्तःकरणपरिणामत्वे श्रुतिं पठति- एतदिति ।। ‘ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ इति ह्रीप्रभृतिवृत्तेर्मनआत्मकत्वोक्तेरित्यर्थः । तदनुभवः स्वामित्वानुभवः । विक्रियेति ।। भोग-लक्षणेत्यर्थः । यथोक्तम् ‘नीचोच्चतैव दुःखादेर्भोगः’ इति ।
ननु कर्तृत्वभोक्तृत्वादिलक्षणबन्धस्य सत्यत्वे ‘विमुक्तश्च विमुच्यते’ इति श्रौतविमुक्तव्यपदेशानुप-पत्तिरित्याशङ्क्य तन्निमित्तगुणमाह- अस्वभावत्वादिति ।। यथा मुक्तशरीरस्य ‘भावं जैमिनिः’ इति सूत्रदिशा जडत्वप्राकृतत्वादिना शरीरत्वव्यपदेशस्तथेति भावः । यथा वा भ्रूकुंसादौ स्त्रीत्वप्रतिभासेऽपि तस्य वेष-भूषाद्युपाधिनिमित्तत्वेनास्वभावत्वात्तद्विरुद्धपुरुषव्यपदेशः । अत एव महाभाष्ये ‘स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः’ इत्युक्तलक्षणस्य भ्रूकुंसादावतिव्याप्तिमाशङ्क्य ‘संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप् प्रसवे पुमान्’ (व्या.टि.) इति यत्र रेतोलोहिते संस्त्यायतो मिश्रीभवतः सा स्त्रीति लक्षणान्तरमुक्तम् । अनित्यत्वाच्चेति ।। यथा स्थूणकर्णादेः पुरुषस्यैव शापादिना स्त्रीत्वेऽपि तस्यास्वभावत्वादनित्यत्वाच्च तद्विरुद्धपुरुषव्यप-देशः । यथा वा अहल्यादेर्गौतमशापादिना शिलात्वेऽपि तस्यास्वभावत्वादनित्यत्वाच्च स्त्रीत्येव व्यपदेशः । तथाऽत्रापि बन्धस्य सत्यत्वेऽपि परमात्माज्ञाननिमित्तत्वेनास्वभावत्वादनित्यत्वाच्च तद्विरुद्धविमुक्तव्यपदेशोऽपि युक्ततर इति भावः । तदेतदभिप्रेत्योक्तं सूत्रभाष्ये ‘प्रमादात्मकत्वाच्च बन्धस्य विमुक्तत्वं च युज्यते’ इति । आदिपदेन ‘ब्रह्मैव सन् ब्रह्माप्येति’ इत्यादेः सङ्ग्रहः ।