नित्या वेदाः ..
वेदापौरुषेयत्वे पुराणप्रमाणोदाहरणम्
मूलम्
- ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः ।
सर्गेसर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च ।
तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा ।।’
तत्त्वमञ्जरी
ननु वेदस्य प्रये सम्प्रदायविच्छेदाद् विनाशिनः कथं नित्यत्वमित्याशङ्कां परिहरति- नित्या इति ।। तथैव च यथा पूर्वसर्गे । तदेवोपपादयति- तत्क्रमेणेति ।।
टीका
ननु विधिः नियोगः प्रेरणेत्यनर्थान्तरम् । स च प्रेरकपुरुषधर्मः । अतो वैदिकानां विध्युद्देशानां लौकिकवत् स्वतन्त्रवक्तृकत्वमेवोचितम् । तथाऽर्थवादानामपि हानोपादानाभिप्रायेण प्रवृत्तत्वाद् अभिप्रायस्य च स्वतन्त्रवक्तृधर्मत्वात् । किञ्च वेदेऽहमादिपदानि श्रूयन्ते । तानि च स्वतन्त्र-वक्तृकाणि लौकिकवाक्यवत् । तस्मादेवमादीनां पौरुषेयत्वमेव इत्यतो वेदा नित्या इत्युक्त्वा समस्ताश्चेत्याह । कथमिति चेत्, न हि वेदे वयं पुरुषाभिप्रायप्रवेश एव नास्तीति वदामः । तथात्वे सङ्कल्पप्रार्थनादिवाक्यानामनर्थकत्वप्रसङ्गादिति भावः । कथं तर्ह्यपौरुषेयत्वमित्यत आह- शाश्वता इति ।। शश्वदेकप्रकाराः पूर्वं स्थितान्येव वेदवाक्यानि कानिचित्कैश्चित्पुरुषैः स्वाभिप्रायप्रवेशेन प्रयुज्यन्ते न त्वपूर्वाणि क्रियन्त इत्याशयः ।
एतेनैतदपि परास्तम् । वर्णास्तावन्नित्यत्वात् सर्वगतत्वाच्च स्वतः क्रमशून्याः । नच क्रमेण विना पदवाक्यभावः । नापि तमन्तरेण प्रामाण्यम् । अतः क्रमः पौरुषेय एव आस्थेयः । तत्कथं वेदस्यापौरुषेयत्वमिति । नहि वयं वेदस्य कूटस्थनित्यतां ब्रूमः । किन्तु शब्दतोऽर्थतश्च सर्वदैक-प्रकारतामेव । ततश्च क्रमस्य कृतकत्वेऽपि पुरुषाभिप्रायप्रवेशेऽपि स्वतन्त्रस्य वक्तुरभावा-दपौरुषेयत्वमुपपद्यते ।
ननु प्रलये विच्छेदात्कथं शाश्वता इत्यत आह- विष्णुबुद्धिगा इति ।। अपौरुषेयत्वे युक्तिकथनं चैतत् । तथाच व्याकरिष्यत्याचार्यः । तथाऽपि लोके पुनः प्रवृत्तिः कथमित्यत आह- सर्ग इति ।। सति सप्तमीयम् । वीप्सायां द्विर्वचनम् । उद्गीर्यन्ते उच्चार्यन्ते ब्रह्मादीन् प्रत्युपदिश्यन्ते । तर्हि तस्य नियामकाभावादन्यथाऽप्युपदेशः सम्भाव्य इत्यत उक्तम्- एत एवेति ।। पूर्वकल्पे प्रवृत्ता एव । किं शब्दमात्रसाम्येनार्थमात्रसाम्येन वा एत एवेत्युच्यन्ते । मैवम् । किन्तु सर्वप्रकारेणेत्याह- तथैव चेति ।। तद्विवृणोति- तत्क्रमेणैवेति ।। एवं तैरेव पदार्थैर्वाक्यार्थैश्चेत्यपि द्रष्टव्यम् । इत्थम्भूत-लक्षणे तृतीया ।
अनेनैतदपि निरस्तम् । नाव्याख्याताद्वेदात् कश्चिदर्थमधिगच्छति । न चार्थाधिगतिमन्तरेणानु-ष्ठानं सम्भवति । न चार्वाक्तनपुरुषव्याख्याने विश्वासो युज्यते, अनादेशिकत्वात् । अतः स्वतन्त्र-वक्तृव्याख्यानम् अङ्गीकरणीयमिति । वेदानामकर्त्रापि सर्वज्ञेनेश्वरेण व्याख्यानोपपत्तेः ।
भावबोधः
अतो वैदिकानां विध्युद्देशानामिति ।। अनेनैव, वैदिकानि विध्युद्देशवाक्यानि स्वतन्त्रवक्तृपूर्वकाणि विध्युद्देशत्वात् लौकिकविध्युद्देशवाक्यवदिति वेदस्य पौरुषेयत्वेऽनुमानमुक्तं भवति । अस्मिन्ननुमाने अप्रयो-जकत्वशङ्कापरिहारार्थं ‘विधिर्नियोगः’ इति पूर्ववाक्यमिति ज्ञातव्यम् । पौरुषेयत्वेऽर्थवादपक्षकानुमानमाह- तथाऽर्थवादानामपीति ।। प्रयोगस्तु- निन्दास्तुत्यर्थवादवाक्यानि यथोक्तज्ञानोत्पादनाभिप्रायपूर्वकाणि तथा-विधार्थवादवाक्यत्वाल्लौकिकार्थवादवदिति । मन्त्रभागस्यापि पौरुषेयत्वेऽनुमानमाह- वेदेऽहमादिपदा-भावबोधः
नीति ।। आदिपदेन ‘वसुभिश्चरामि’ इत्याद्युत्तमपुरुषोपेतपदसङ्ग्रहः । प्रयोगप्रकारस्तु- वैदिकाहमादि-पदानि स्वतन्त्रवक्तृकाणि अहमादिपदत्वाल्लौकिकाहमादिपदवदिति । कथमिति चेदिति ।। ‘समस्ताः’ इत्यनेन कथमुक्तशङ्कापरिहार इत्यर्थः । अनुमाने दूषणस्यानुक्तत्वादिति भावः । समस्ता इति वदतः स्मृतिकर्तुरुक्तानु-मानानामभिप्रायपूर्वकत्वमात्रसाधकत्वे सिद्धसाधनत्वं, तत्परिहारार्थं स्वतन्त्रपुरुषाभिप्रायपूर्वकत्वसाधने त्वप्रयो-जकत्वमित्यभिप्रेतमित्याह- न हि वेद इति ।। उपलक्षणं चैतत् । वैदिकविध्युद्देशादिप्रविष्टाभिप्रायवतः पुरुषस्य स्वतन्त्रवक्तृत्वे ‘श्वेतकेतो वस ब्रह्मचर्यम्’, ‘अधीहि भगवो ब्रह्म’ इत्यादिविध्युद्देशेषु उद्दालकभृग्वादीनां, ‘येनाश्रुतं श्रुतं भवति’ इत्यर्थवादवाक्येषु उद्दालकादीनाम्, ‘अहं मनुरभवम्’ इत्यादौ वामदेवादीनां स्वतन्त्रवक्तृत्वं स्यादित्यपि द्रष्टव्यम् । अनेनैतदपीति ।। ब्रह्मादीन् प्रत्युपदिश्यन्त इत्यर्थकेनोद्गीर्यन्त इत्यनेनेत्यर्थः ।
भावदीपः
‘नित्या वेदाः’ इत्यादेः श्रुतिपुराणवाक्यैरिति पूर्वमेवावतारितत्वात् समस्ताश्चेतिपदकृत्यं वक्तुं शङ्कामाह- ननु विधिरिति ।। विध्युद्देशानामिति ।। विधिरुद्दिश्यते यत्र ‘यजेत स्वर्गकामः’ इत्यादिवाक्येषु तेषामित्यर्थः । तेषां यागे प्रवर्तस्वेत्याद्यर्थकत्वादिति भावः । अर्थवादानामिति ।। ‘यो ब्राह्मणायावगुरेत्तं शतेन घातयेत्’, ‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादिनिन्दास्तुत्यादिरूपार्थवादानामित्यर्थः । अहमादीति ।। ‘अहं विश्वं भुवनमभ्यभवाम्’ ‘अहं मनुरभवम्’ इत्यादाविति भावः । सङ्कल्पेति ।। ‘भूयसा यज्ञेन भूयो यजेय’ ‘बहु स्यां प्रजायेय’ इत्यादिसङ्कल्पः । ‘तन्मामवतु’ इत्यादिः प्रार्थना । ‘अग्नीदग्नीन् विहर’ इति प्रेषणादिरादिपदार्थः। तत्रेशकर्तृकत्वायोगादिति भावः । कथं तर्हीति ।। अल्पायुःपुरुषाभिप्रायकत्व इत्यर्थः । एतेनेत्युक्तं व्यनक्ति- नहि वयमिति ।। एकप्रकारतामिति ।। सजातीयानुपूर्वीकतामित्यर्थः । कृतकत्वेऽपीति ।। प्रत्यध्याप-कोच्चारणक्रियाजन्यत्वेऽपीत्यर्थः । कथं युक्तिकथनमित्यत आह- तथाचेति ।। ‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्’ इत्यनेनेति भावः । तथाऽपीति ।। विष्णुबुद्धिगतत्वेन प्रलये विच्छेदाभावेऽपीत्यर्थः । एवकारान्वयेन प्रतीकोक्तिः- एत एवेति । हेतुत्वाद्यर्थकत्वाभावादाह- इत्थम्भूतेति ।। प्राचीनक्रमादिमत्त्वप्रकारं प्राप्ता इत्यर्थः । अनादेशिकत्वादिति ।। तद्वाक्यं प्रति स्वतन्त्रकर्तृरूपोपदेशकत्वाभावादिति भावः । अनेनैवेत्युक्तं व्यनक्ति- वेदानामकर्त्राऽपीति ।।
वाक्यार्थदीपिका
(श्री.टि.)
विध्युद्देशानामिति ।। विधिरेवोद्देशः प्रयोजनं येषां ते तथा तेषाम् ‘प्रातः सन्ध्यामुपासीत’ इत्यादिवाक्यानामित्यर्थः । लौकिकवद् इदं कुर्वित्यादिलौकिकवाक्यवत् । स्वतन्त्रवक्तृकत्वमेवेति ।। सजातीयोच्चारणमनपेक्ष्योच्चारयिता पुरुषः स्वतन्त्रः,तद्वक्तृकत्वं तत्कर्तृकत्वमिति यावदित्यर्थः । अनेन, वैदिकानि विध्युद्देशवाक्यानि स्वतन्त्रवक्तृपूर्वकाणि विध्युद्देशत्वात् लौकिकविध्युद्देशवाक्यवदिति वेदस्य पौरुषेयत्वेऽ-नुमानमुक्तं भवति । अस्मिन्ननुमानेऽप्रयोजकताशङ्कापरिहाराय विधिर्नियोग इति पूर्ववाक्यमिति ज्ञातव्यम् । पौरुषेयत्वेऽर्थवादपक्षकानुमानमाह- तथाऽर्थवादानामपीति ।। हानेत्यादि ।। विधिबोधितार्थ इति शेषः । (श्री.टि.) प्रयोगप्रकारस्तु- निन्दास्तुत्यर्थवादवाक्यानि विधिबोध्यार्थे हानोपादानाभिप्रायपूर्वकाणि तथा-विधार्थवादवाक्यत्वात् लौकिकार्थवादवदिति । मन्त्रभागस्यापि पौरुषेयत्वेऽनुमानमाह- वेदेऽहमादिपदानी-ति ।। ‘अहं रुद्रेभिः’ इत्यादिवाक्येष्वित्यर्थः । आदिपदेन ‘वसुभिश्चरामि’ इत्याद्युत्तमपुरुषोपेतपदसङ्ग्रहः । प्रयोगप्रकारस्तु- वैदिकाहमादिपदानि स्वतन्त्रवक्तृकाणि अहमादिपदत्वात् लौकिकाहमादिपदवदिति । वेदा इत्युक्त्वेति ।। बहुवचनेनैव सामस्त्यस्य लब्धत्वादिति भावः । कथमिति चेदिति ।। समस्ता इत्यनेन कथमुक्तशङ्कापरिहार इत्यर्थः । अनुमानानां दूषणानुक्तेरिति भावः । उक्तानुमानानां पुरुषाभिप्रायपूर्वकत्व-मात्रसाधकत्वे सिद्धसाधनत्वं समस्ता इति वदतः स्मृतिकर्तुरभिप्रेतमित्याह- न हीत्यादिना ।। सङ्कल्प-प्रार्थनादिवाक्यानामिति ।। ‘स्तविष्यामि त्वामहम्’ इत्यादिसङ्कल्पप्रतिपादकवाक्यानाम् । ‘आयाहि पिब मत्स्व’ इत्यादि प्रार्थनावाक्यानां चेत्यर्थः । कथं तर्ह्यपौरुषेयत्वमिति ।। पुरुषाभिप्रायपूर्वकत्वं साधयतामस्माकं वैदिकविध्युद्देशादावभिप्रायं प्रवेष्टुः पुरुषस्य स्वातन्त्र्यमेव विवक्षितम् । तथा च स्वतन्त्रपुरुषाभिप्रायपूर्वकत्व-साधनान्न सिद्धसाधनम् । तथा च कथमपौरुषेयत्वमित्याशयः । आहेति ।। तथात्वे अप्रयोजकत्वं स्यादित्याहे-त्यर्थः । न त्वपूर्वाणीति ।। तथा च न स्वतन्त्रपुरुषाभिप्रायप्रवेशपूर्वकत्वमित्यप्रयोजकतेति भावः । नित्यत्वा-दित्यादि ।। नित्यत्वान्न कालिकः क्रमः, सर्वगतत्वान्न दैशिकः क्रम इत्यर्थः । अस्तु क्रमशून्यत्वं, ततः किमित्यत आह- न चेति ।। बोधोपयुक्तक्रमवद्वर्णसमूहस्यैव पदत्वात् तादृशक्रमवत्पदसमूहस्यैव वाक्यत्वादिति भावः । माऽस्तु पदादिभावोऽपीति चेत्तत्राऽह- नापीति ।। पदवाक्यभावाभावे प्रमाकरणत्वाभावात्प्रामाण्यमेव न स्यादित्यर्थः । पौरुषेयः कृतकः । वेदस्य जन्यक्रमविशेषविशिष्टवर्णसमुदायरूपस्य । एतेनेत्युक्तं विशदयति- न हीति ।। कूटस्थनित्यतां निर्विकारताम् । क्रमस्य जन्यतया विकारित्वे क्रमविशेषविशिष्टवर्णसमुदायरूप-वेदस्यापि विकारित्वादिति भावः । तर्ह्यपौरुषेयत्वोक्तेः कोऽभिप्राय इत्यत आह- ततश्चेति ।। स्वतन्त्रवक्तु-रिति ।। तथा च सजातीयोच्चारणमनपेक्ष्योच्चारयिता पुरुषस्स्वतन्त्रः, तत्पूर्वकत्वाभाव एवापौरुषेयत्वमित्यर्थः।
अत्र केचित् । तत्तद्वर्णादिविषयकबुद्धिक्रम एव वर्णपदादिक्रमो नातिरिक्तोऽस्ति । न च वर्णक्रमस्य श्रावण(तया)ताया अनुभूयमानत्वाद्बुद्धिगतक्रमस्य श्रावणत्वासम्भवः । बुद्धेः साक्षिवेद्यत्वेन तत्क्रमस्यापि तद्वेद्यत्वेन साक्ष्युपनीतस्यैव तस्य वर्णेषु श्रोत्रेण भानाङ्गीकारात् । ‘व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते’ इति तन्त्रसारोक्तेरित्याहुः । तेषां ‘क्रमस्तु वर्णधर्मः’ इति सुधाविरोधः स्पष्टः । व्यक्तिक्रममित्यादि वाक्यं तु वर्णसमुदायात्मके वेदे क्रमप्रतिपादनाय न प्रवृत्तम् । किन्तु पूर्वं क्रमेण अष्टमहामन्त्रोद्धारे कृते मन्त्राणां नित्यत्वेन युगपत्सर्वमन्त्रसद्भावेन क्रमाभावात् कथमेकानन्तर्यमपरस्योच्यत इति शङ्कापरिहाराय प्रवृत्तम् । तथा च सर्व-मन्त्राणां ब्रह्मा ऋषिः । अतस्स एव द्रष्टा । स चैकानन्तरमपरं मन्त्रं दृष्टवान् । अतो मन्त्राणां ब्रह्मबुद्धौ व्यक्तीभाव-मपेक्ष्यैव मन्त्रेष्वपि क्रमो विष्णूदिते तन्त्रसारे उच्यते, ततस्तदनुसारेणास्माभिरपि तथैव क्रमो मन्त्रेषु उच्यत इत्येवंपरतया तद्वाक्यविरोधाभावात् । यद्यपि न वर्णेषु दैशिकः कालिको वा क्रमः सम्भवति, व्याप्तत्वान्नित्य-(श्री.टि.) त्वाच्च । नापि वस्तुनिबन्धनः । एकदैव जारा राजेति प्रयोगे जकारस्य पौर्वापर्यायोगात् । नापि बुद्धियोग एव क्रमो वर्णेष्ववभासत इति युक्तम् । वर्णपदादिगतस्य क्रमस्य श्रावणत्वानुभवात् । बुद्धेरान्तरत्वेन साक्षिवेद्यतया तत्क्रमस्यापि तथात्वेन श्रावणत्वायोगात् । न चाऽरोपित एव वर्णेषु क्रम इति युक्तम् । पदवाक्या-देरत्यन्तासत्त्वापातात् । तथाऽपि बुद्धिक्रमजन्यो वर्णेष्वौपाधिकः कश्चन क्रमोऽस्त्येव । ‘क्रमस्तु वर्णधर्मः’ इति स्पश्व्ं सुधोक्तेः । न च स कीदृश इति वाच्यम् । यथा कालनिबन्धनक्रमापेक्षया देशनिबन्धनस्तत्तद्वस्तुगतः क्रमो विलक्षणोऽनुभूयमानो विशिष्य वक्तुमशक्योऽपि कश्चिदङ्गीक्रियते । तथा बुद्धि क्रमनिबन्धनो वर्णपदादिगता-नुपूर्वीरूपः क्रमोऽपि साक्षिवेद्यतया श्रोत्रेणानुभूयमानो वक्तुमशक्योऽप्यङ्गीकार्यः । न हि सर्वत्र क्रमशब्द एकार्थकोऽस्तीत्येवमस्मदाचार्यरचितसुधाटिप्पण्यनुसारेण द्रश्व्व्यम् । स च वर्णनिष्ठः क्रम ईश्वरबुद्ध्युपाधिकोऽ-स्मद्बुद्ध्युपाधिकश्चेति द्विविधोऽपि जन्य एव, ‘क्रमस्य कृतकत्वेऽपि’ इति सामान्यवचनात् । इयांस्तु विशेषः । अस्मद्बुद्ध्युपाधिकः क्रमो जन्योऽस्मद्बुद्ध्युपरमे नश्यति । ईश्वरबुद्ध्युपाधिकः क्रमो जन्योऽपि न नश्यति, तद्बुद्ध्युपरमाभावात् । जन्यस्यापि नाशाभावस्य पुराणेषु प्रमितत्वात् । यथोक्तं तर्कताण्डवे - ‘ईश्वरोऽप्यस्मन्मते महोपाध्याय एव’ इति । यथा प्रत्यहमुपाध्यायबुद्ध्युपाधिकः क्रमो वर्णेषु जायते, एवमीश्वरबुद्ध्युपाधिकः क्रमोऽपि वर्णेषु जायत एवेति तद्वाक्यार्थः ।
ननु ईश्वरबुद्ध्युपाधिकक्रमस्याजन्यत्वाङ्गीकारे किं बाधकं, क्रमस्य कृतकत्वेऽपीति वाक्यस्यास्मद्बुद्ध्युपाधिक-क्रमविषयत्वसम्भवादिति चेत् । अत्रोच्यते । क्रमस्तावद्वर्णधर्मः ‘क्रमस्तु वर्णधर्मः’ इति सुधावचनात् । तस्य चाजन्यत्वाङ्गीकारे यावद्द्रव्यभावित्वप्राप्त्या खण्डितत्वाभावेन वर्णैरत्यन्ताभेद एव वाच्यः । ‘यावद्वस्तु न भेद-वत्’ इत्युक्तत्वात् । एवं च यद् यदभिन्नाभिन्नं तत् तदभिन्नं, यथा रामाभिन्नमूलनारायणाभिन्नः कृष्णो रामाभिन्न इति व्याप्तिबलात् पूर्ववर्णाभिन्नक्रमाभिन्नो द्वितीयवर्णः पूर्ववर्णाभिन्न इति वर्णयोः परस्परमभेदः स्यात् । जन्यत्वाङ्गीकारे तु खण्डितत्वेन भेदाभेदसद्भावान्नैवमापादनावकाशः । यथाऽयमेकोऽयमेकः, तस्मादिमौ द्वावि-तीश्वरबुद्ध्या जीवयोर्द्वित्वमुत्पद्यते । तच्चेश्वरबुद्ध्युपाधिकमपि द्वित्वं जीवाभ्यां भिन्नाभिन्नमेवाङ्गीक्रियते । अन्यथोक्तव्याप्तिबलाज्जीवयोरपि परस्पराभेदापत्तिरेव । एवमेव प्रकृतेऽपीति न कोऽपि दोष इति सर्वमव-दातम् । सति सप्तमीति ।। सर्गे सतीत्यर्थः । द्विर्वचनं किमर्थमित्यत आह- वीप्सायामिति ।। बह्वर्थसङ्ग्रहो वीप्सा । तथा च सर्गेसर्ग इत्यस्य प्रतिसर्गम् इत्यर्थः । तद्विवृणोतीति ।। सर्वप्रकारेण साम्यं विवृणोतीत्यर्थः। ननु ‘कर्तृकरणयोस्तृतीया’ इत्युक्तत्वात्तत्क्रमादीनां कर्तृत्वकरणत्वयोरभावात्कथं तत्र तृतीयेत्यत आह- इत्थम्भूतलक्षणे तृतीयेति ।। कञ्चन प्रकारं प्राप्त इत्थम्भूतः, तज्ज्ञापके तृतीया स्यादिति सूत्रार्थः । छात्रेणोपाध्यायमद्राक्षीदित्युदाहरणम् । अत्रोपाध्यायत्वरूपं प्रकारं प्राप्त उपाध्याय इत्थम्भूतः, तत्रोपाध्यायत्व-स्यान्यत्र प्रसक्तौ सत्यां छात्रस्य तज्ज्ञापकत्वात्तत्र तृतीया । एवमिहाप्येत उद्गीर्यन्त इत्युच्चारणविषयत्वरूपं प्रकारं प्राप्ता वेदाः, तत्रोच्चारणकर्मत्वरूपप्रकारस्यान्यथात्वरूपातिप्रसक्तिपरिहाराय तत्प्रकारज्ञापकत्वं क्रमादीनां (श्री.टि.) विवक्षितमिति तत्र तृतीयेत्यर्थः । अनेनेति ।। ब्रह्मादीन् प्रत्युपदिश्यन्त इत्यर्थकेनोद्गीर्यन्त इत्य-नेनेत्यर्थः । अनादेशिकत्वादिति ।। आदेश उपदेशस्तत्परम्पराप्राप्तत्वाभावाद् असाम्प्रदायिकत्वादिति यावदि-त्यर्थः । स्वतन्त्रवक्त्रिति ।। सजातीयोच्चारणमनपेक्ष्योच्चारयिता पुरुषस्स्वतन्त्रः तत्कर्तेति यावत्, तद्व्याख्यान-मेवापेक्षितम् । तथात्वे तत्र विश्वासो युक्त इत्याशयः । अनेनेत्युक्तं विशदयति- वेदानामिति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
अहमादिपदानीत्यादिपदेन वैदिकानां ‘स्याम्’,‘अभूवम्’ इत्याद्युत्तमपुरुषाणां वैदिकानां युष्मद्यत्तच्छ-ब्दानां च परिग्रहः । न हीति ।। ईश्वराभिप्रायप्रवेशाङ्गीकारादिति भावः । तदङ्गीकारमेवानङ्गीकारे बाधकोक्त्या उपपादयति- तथात्वे इति ।। सङ्कल्पप्रार्थनादिवाक्यानामिति ।। ‘शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा’ इत्यादीनामित्यर्थः । न चैवं तद्वाक्यस्थाहमादिशब्दानामीश्वरपरत्वं स्यादिति वाच्यम् । तथात्वे त्वन्मतेऽपि ‘शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा’ इत्यादौ स्वतन्त्रवक्तुरीश्वरस्यैव, भारतादौ च ‘किं नो राज्येन गोविन्द’ ‘शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्’ इत्यादौ व्यासस्यैव, लोके च ‘वाच्यस्त्वया मद्वचनात्स राजा’ इत्यादौ कालिदासादेरेवाहंशब्दार्थत्वापातात् । यदि च शरीरं मे इत्यादावीश्वरादेरेव स्वतन्त्रवक्तृत्वेऽपि मन्त्रलिङ्ग-प्रकरणादिना यजमानाद्यभिप्रायानुप्रवेशाङ्गीकाराद् यजमानार्जुनसीतादेरेवाहंशब्दार्थत्वमिति मन्यसे, तर्हि वेदा-पौरुषेयत्वेऽपि ‘शरीरं मे’ इत्यादिप्रार्थनामन्त्रेषु मन्त्रलिङ्गादिना यजमानेश्वराद्यभिप्रायानुप्रवेशस्य मयाऽपि स्वीकारात्तत्र यजमान एवाहंशब्दार्थः, ‘मामुपास्व’ इत्यादावीश्वर इति नातिप्रसङ्ग इति भावः । अत इति ।। प्रामाण्यान्यथानुपपत्त्या पदवाक्यभावस्य, तदन्यथाऽनुपपत्त्या च क्रमस्यावश्याऽश्रयणीयत्वात् तस्य चान्यस्या-सम्भवेनोपलब्धिनिष्ठस्यैव वक्तव्यत्वेनोपलब्धेश्च जन्यत्वेन तन्निष्ठक्रमस्यापि जन्यत्वात्पौरुषेयत्वमेवेत्यर्थः । अस्तु क्रमस्य पौरुषेयत्वं किं तत इत्यतः क्रमविशिश्व्वर्णानामेव वेदत्वात्क्रमस्य कृतकत्वे वेदस्यापि कृतकत्वमेवेति न तस्यापौरुषेयत्वं सम्भवतीत्याह- तत्कथमिति ।। इतीत्यस्यैतेनेत्यनेन सम्बन्धः । एतेनेत्यनेन परामृष्टं दर्शयति- न हीति ।।
न चैवं तत्त्वसङ्ख्यानटीकाविरोधः । तत्र ‘‘नित्यत्वं नाम कूटस्थतयाऽऽद्यन्तशून्यत्वम् । तच्च वेदानां ‘नित्या वेदाः समस्ताश्च’ इत्यादि प्रमाणसिद्धम्’’ इत्युक्तत्वादिह कूटस्थत्वनिषेधादिति वाच्यम् । ईश्वरीयोपलब्धेरजन्यत्वेन तन्निष्ठक्रमस्याप्यजन्यत्वेन वक्ष्यमाणरीत्या तद्विशिश्व्वर्णानामप्यजन्यत्वेन कूटस्थतयाऽऽद्यन्तशून्यत्वोक्तेरीश्वर-बुद्धिस्थवेदविषयत्वाद्, इह टीकायां तत्कौटस्थ्यनिषेधस्य चास्मदादीन् प्रति प्रमापकत्वोपयुक्तस्यास्मदादिबुद्धि-स्थस्य क्रमस्योच्चारणाद्यधीनत्वेन तद्विषयत्वेन टीकाद्वयस्य भिन्नविषयत्वादविरुद्धत्वात् । अवश्यं च क्रमस्य सदा ईश्वरबुद्धिस्थत्वकल्पनम्, ‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्’ इति वक्ष्यमाणत्वादिति ध्येयम् । व्याकरिष्यतीति ।। ‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्’ इत्यत्रेति शेषः । अनादेशि-कत्वादिति ।। आदेश आज्ञा, तद्युक्तम् आदेशिकं, न आदेशिकम् अनादेशिकं, तस्य भावस्तत्त्वं, तस्मादित्यर्थः। स्वतन्त्रवक्तृव्याख्याने व्याख्यातुरिच्छाया एव नियामकत्वेनेदमित्थमेवेत्यर्थनियमनसम्भवेऽप्यर्वाचीन-(पां.टि.) व्याख्याने आज्ञारूपनियामकाभावादिदमित्थमेवेत्येवं नियमनासम्भवादिति भावः । यद्वा आदेश उपदेशः सोऽस्यास्तीत्यादेशी, स विद्यते यस्येत्यादेशिकोऽनेवम्भूतोऽनादेशिकः तस्य भावस्तत्त्वं तस्माद् । उपदेशकमूलपुरुषरहितत्वेन तद्व्याख्यानस्यासाम्प्रदायिकत्वादित्यर्थः ।
लघुप्रभा
(व्या.टि.)
पुराणस्य श्रुतिपुराणवाक्यैरिति प्रागेवावतारितत्वान्न पुनरवतारितम् । तत्र पुराणस्यैकत्वेऽपि ‘जान्तनशां विभाषा’ इतिवत् श्रुतिबहुत्वाभिप्रायेण बहुत्वम् । ‘अदितिः पाशान्’ इतिवदवयवबहुत्वाभिप्रायेण वेति बोध्यम् । तत्र समस्तपदव्यावर्त्याशङ्कां दर्शयति- नन्वित्यादिना ।। विध्युद्देशत्वस्य स्वतन्त्रवक्तृकत्वेन व्याप्त्युपपादनाय विधेः पुरुषधर्मत्वमुपपादयति- स चेति ।। अभिप्रायस्येच्छारूपत्वादिति भावः । हेत्वभिधानपूर्वकं प्रतिजानीते- अत इति ।। विधेः पुरुषधर्मत्वादित्यर्थः । विध्युद्देशानामिति ।। प्रेरणापराणां ‘वायव्यं श्वेतमा-लभेत’ इत्यादीनामित्यर्थः । उचितमिति ।। अनेन वैदिको विध्युद्देशः स्वतन्त्रवक्तृको विध्युद्देशत्वात् लौकिक-वदित्यनुमानाद्वेदस्य पौरुषेयत्वमुक्तं भवति । अर्थवादानामपीति ।। ‘वायुर्वै क्षेपिष्ठा’ इत्यादिस्तुतिरूपाणाम् ‘सोऽरोदीद्यदरोदीत्’ इत्यादिनिन्दारूपाणाम्, ‘इति ह स्माह बहुर्वार्ष्णेयो माधा(षा)नेव मह्यं पचत’ इति परकृतिरूपाणाम्, ‘देवा वै सत्रमासत’ इत्यादिपुराकल्परूपाणां चेत्यर्थः । तथेति पौरुषेयत्वसमुच्चयः । तत्र हेतुमाह - हानोपादानेति ।। न चासिद्धो हेतुरिति वाच्यम् । वैदिकानि स्तुतिवाक्यानि उपादानाभिप्रायेण प्रवृत्तानि स्तुतिवाक्यत्वाल्लौकिकवाक्यवत्, वैदिकानि निन्दावाक्यानि हानाभिप्रायेण प्रवृत्तानि निन्दा-वाक्यत्वाल्लौकिकवाक्यवदित्यादिना तत्सिद्धेः । नन्वस्त्वभिप्रायेण प्रवृत्तत्वं, मास्तु पौरुषेयत्वमित्यतो विपक्षे हेतूच्छित्तिं विवक्षुरभिप्रायस्य पुरुषाविनाभावं दर्शयति- वक्तृधर्मत्वादिति ।। अभिप्रायस्येच्छारूपत्वादिति भावः । अत्र विधिलिङादीनां स्वबोध्याभिप्रायवत्कर्तृकत्वस्य, अर्थवादानां हानाद्यभिप्रायवत्कर्तृकत्वस्य दर्शनाद्विशेषव्याप्तेन विध्युद्देशत्वादिना सामान्यं सकर्तृकत्वं सुसाधमित्याकूतम् । किञ्चेति ।। वेदभागे अन्यदपि पौरुषेयत्वसाधकमस्तीत्यर्थः । वेद इति ।। मन्त्रभाग इत्यर्थः । अहमादिपदानीति ।। ‘अहं वृक्षस्य रेरिवा’ इत्यादौ । आदिपदेनोत्तमपुरुषादीनि । अत्राहंपदस्य स्वतन्त्रवक्तृवाचकत्वेन, उत्तमपुरुषस्याहमर्थसामानाधि-करण्येन सकर्तृकत्वव्याप्तिरवधातव्या । कथमिति ।। पुरुषाभिप्रायप्रवेशाप्रवेशयोः कतरः पक्षः परिगृह्यत (इत्यर्थो) इति अस्यार्थो, न तु कथमपौरुषेयत्वमिति, उत्तरग्रन्थेन पौनरुक्त्यापत्तेः । सिद्धान्ती स्वानभिमतं पक्षं प्रतिक्षिपति- न हीति ।। नास्तीत्येवोच्यतां, किं विपक्षे बाधकमित्यत आह- तथात्व इति ।। ‘प्रजापतिरकामयत प्रजाः सृजेय’ इति सङ्कल्पवाक्यम्, ‘शरीरं मे विचर्षणम्’ इत्यादि प्रार्थनावाक्यम्, आदिपदेन ‘सत्याः सन्तु यजमानस्य कामाः’ इत्याशीर्वचनम्, तदेषामित्यर्थः । पुरुषाभिप्रायप्रवेशाङ्गीकारे वेदस्य पौरुषेयत्वमवर्जनीयं, तस्य कर्तृपुरुषाविनाभावादित्याक्षिपति- कथं तर्हीति ।। शाश्वता इति व्याचश्व्े - शश्वदिति ।। अनेन शश्वच्छब्दादणिति सूचितम् ।
ननु कथं शाश्वता इति पदप्रयोगः । ‘कालाट्ठञ्’ इति ठञोऽवर्जनीयत्वेन कालिका मासिका इतिवत्तदन्तस्यैव (व्या.टि.) प्रयोज्यत्वादिति चेन्न । प्रामाणिकत्वेनाणोऽपि सम्भवात् । कथमन्यथा ‘अग्राह्यः शाश्वतः कृष्णः’ इति ‘मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः’ इति ‘अनुदितौषसरागा’ इति ‘शार्वरस्य तमसः’ इति ‘समानकालीनः’ इत्याद्यभियुक्तप्रयोगाः समाधेयाः । यत्तु सिद्धान्तकौमुद्याम् ‘अपभ्रंशा एवैते’ इति तद्दुराग्रहमात्रं, बह्वभियुक्तप्रयोगाणां दुरपह्नवत्वात् । शाश्वतत्वोक्त्या कथमुक्तशङ्काऽपगम इत्यत आह- पूर्वस्थितान्ये-वेति ।। ईशबुद्धाविति शेषः । वाक्यानीति ।। पदक्रमविशिष्टानीत्यर्थः । क्रमाभावे वाक्यत्वानुपपत्तेः । अन्यकृतेऽपि ‘पापोऽहं पापकर्माऽहम्’ इत्यादिश्लोके स्वाभिप्रायप्रवेशेन सर्वैः प्रयोगवद् वेदद्रष्टृभिरकृतेऽपि वेदे स्वाभिप्रायप्रवेशः क्रियत इत्यङ्गीक्रियते । तथा च विध्युद्देशादेरभिप्रायवत्पुरुषसम्बन्धेऽपि तत्स्वातन्त्र्यानावश्यकेन तेन सकर्तृकत्व-साधनमयुक्तमिति भावः । अहंपदस्याननुवादस्य वक्तृवाचित्वेऽपि तत्स्वातन्त्र्यस्य पापोऽहमित्यादौ अदर्शनात्, ‘न जाने’ इत्यादौ तत्सामानाधिकरण्यस्याभावात्, न अहंपदत्वादिनाऽपि सकर्तृकत्वसाधनमिति बोध्यम् । शङ्काऽन्तरमप्यनेन निरस्तमित्याह - एतेनेति ।। शाश्वतत्वकथनेनेत्यर्थः । निरस्यामाशङ्कामुट्टङ्कयति - वर्णास्ता-वदिति ।। नित्यत्वादिति कालिकस्य क्रमस्य निरासः, सर्वगतत्वादिति दैशिकस्य । किं तत इत्यत आह- न चेति ।। ततोऽपि किमित्यत आह- नापीति ।। तं पदवाक्यभावम् । प्रामाण्यं प्रमापकत्वम् । तत्र पदार्थवाक्यार्थयोः पदवाक्यगम्यत्वादिति भावः । वेदः सकर्तृकः पुरुषाभिप्रायप्रवेशात् कृतकक्रमत्वाद् इति हेतुमप्रयोजकत्वेन निरस्यति- न हि वयमित्यादिना ।।
ननु तत्त्वसङ्ख्याने ‘नित्या वेदाः’ इति वेदानां नित्यत्वमुक्तम् । तच्च ‘नित्यत्वं नाम कूटस्थतया आद्यन्त-शून्यत्वम् । तच्च ‘नित्या वेदाः समस्ताश्चेति प्रमाणसिद्धम्’इति तट्टीकायां कूटस्थनित्यतारूपत्वेन परिष्कृतम् । एतत्प्रमाणेनैव प्रमापितं चेति कथमत्र तद्विरुद्धा कूटस्थनित्यताऽभ्युपगमाभावोक्तिः, ‘किन्तु शब्दतोऽ-र्थतश्चैकप्रकारतामेव’ इत्युक्तिः, ‘क्रमस्य कृतकत्वेऽपि’ इत्युक्तिश्चेति चेत् । बहूक्तियुक्तिसिद्धप्रमेयानुरोधेन तत्त्वसङ्ख्यानटीकाया अभिप्रायस्य कल्पनीयत्वात् । प्रमेयं चेत्थम्- क्रमविशिष्टा वर्णा एव तावद्वेदः । इत्थमेव टीकायामसकृदुक्तेः । क्रमविशेषेण वर्णान् शृृणोमीत्यनुभवसिद्धप्रत्यक्षाच्च । वाक्यस्फोटादेरप्रामाणिकत्वाच्च । क्रमविशेषश्च पौरुषेयग्रन्थव्यावृत्त आनुपूर्वीविशेषः । ग्रन्थभेदस्य सर्वत्राप्यानुपूर्वीभेदनिबन्धनत्वात् । तत्र वर्णाः कूटस्था विभवश्च इत्येतदपि बहूक्तियुक्तिसिद्धम् । ईदृशानां वर्णानां स्वतः क्रमो नास्ति । दैशिकस्य कालिकस्य वा तत्त्वेन, विभूनां स्वानधिकरणं यत्तदधिकरणं तद्भिन्नतदुत्तरदेशस्थत्वरूपस्य एतादृशपूर्वदेशस्थत्वरूपस्य वा दैशिकस्य एकपङि्क्तस्थबकानामिवायोगेन, अनादिनित्यानां तदुत्पत्त्यधिकरणक्षणध्वंसाधिकरण-क्षणोत्पत्तिकत्वरूपस्य तदुत्पत्त्यधिकरणक्षणप्रागभावाधिकरणक्षणोत्पत्तिकत्वरूपस्य वा तद्धंसाधिकरण-क्षणोत्पत्तिकत्वरूपस्य तदुत्पत्त्यधिकरणक्षणवृत्तिध्वंसप्रतियोगित्वस्य वा कालिकस्य कुलीरतत्स्त्र्यपत्यादीना-मिवायोगेन तदयोगात्, किन्त्वन्यो वाच्यः । क्रमेण वर्णान् शृृणोमीत्यनुभवस्य दुरपह्नवत्वात् । वर्णव्यञ्जक-ध्वनिजनिकाः क्रियाः क्रमेण जायन्ते । ताभिर्व्यञ्जका ध्वनयः क्रमेणोत्पद्यन्ते । तैश्च वर्णानां क्रमेण व्यक्तयो (व्या.टि.) भवन्ति । व्यक्तानां च क्रमेण श्रवणसाक्षात्कारा उत्पद्यन्ते । तत्र चरमवर्णसाक्षात्कारेण संस्कार-वशादुक्तक्रमविशिष्टवर्णविषयकेण, अन्यया वा स्मृत्या क्रमविशिष्टतावद्वर्णविषयिण्या पदभावावगाहिन्या शक्तिस्मृत्यादिद्वारा शाब्दबोध इति वस्तुस्थितिः । तत्र वर्णेषु प्रकारतया भासमानोऽयं क्रमः व्यक्तिक्रमः । न च तस्य स्वस्वव्यक्तिधर्मस्य कथं वर्णधर्मत्वमिति वाच्यम् । तर्हि क्रमिकोत्पत्तिमत्त्वमतेऽपि कथं वर्णधर्म-त्वम् । क्रमिकोत्पत्तिमत्त्वस्य प्रकारत्वे तादृशव्यक्तिमत्त्वस्यापि तत्त्वम् । योगिनः क्रमेण भगवद्रूपाणि पश्यामीति प्रतीतिरुक्तक्रममेव प्रकारतयाऽवगाहते । अन्यस्य क्रमस्य दुर्वचत्वात् ।
वस्तुतस्तु भगवद्रूपक्रियादौ कार्यविशेषाय व्यक्तिरूपावस्थाविशेषाङ्गीकारेऽपि वर्णेषु प्रतीत्यतिरिक्तव्यक्ति-कल्पने मानाभावेन प्रतीतिरेव व्यक्तिः । ध्वनीनां प्रत्यायकत्वमेव व्यञ्जकत्वम् । तदा क्रमिकप्रतीतिविषयत्व-मेव क्रमः । श्रावणं तु न क्रमावगाहि बुद्धिक्रमस्य स्वायोग्यत्वात् । स्वस्य प्रतिवर्णं भिन्नत्वेनानेकधर्मिकक्रमिक-बुद्धिविषयत्वप्रकारकत्वायोगाच्च । स्वपूर्वमुपनायकाभावेनोपनीतभानस्याप्ययोगाच्च । किन्तु साक्षी क्रमेण श्रावणान्यवगाहमानः क्रमिकश्रावणविषयत्वं वर्णेष्ववगाहते । न च साक्ष्यपि तत्तच्छ्रावणं तदाऽवगाहमानः कथं क्रममवगाहत इति वाच्यम् । प्रतीतिकाल एवानन्तरं प्रतीतानि विषयीकृत्य वा तद्गतकालिकक्रममवगाढुं शक्तत्वात् । अधिकं तु प्रकृतानुपयोगाद् ग्रन्थगौरवभयाद्रहस्यत्वाच्च न विचार्यते । सर्वथा तावत् स्वतः क्रमा-भावादुक्तक्रम एव वाच्यः । स च व्यक्तेर्बुद्धेर्वा जन्यत्वाज्जन्य एव, तन्नाशनाश्य एव । तथाऽपि पारिभाषिकौ स्थित्युपरमौ वक्तव्यौ । अस्मिन् ग्रामे वेदस्तिष्ठति, अस्मिन्नध्यापके तिष्ठति, अस्मिन् गत इत्यबाधितव्यव-हारात् । तौ च उक्तक्रमविशिष्टवर्णोच्चारणानुकूलोक्तक्रमविशिश्व्वर्णानुभवजन्यसंस्कारसत्त्वनाशौ लोके । ईश्वरे तु तस्य सर्वदा सर्वज्ञत्वेन क्रमविशेषविशिश्व्वर्णानुभवस्यैव सत्त्वादीश्वरे महोपाध्याये वेदः सदा तिष्ठति । न चैवं पुराणादावतिप्रसङ्गः । तस्य सदा ईशबुद्धौ स्थितत्वेऽपि अभूतपूर्वानुपूर्वीविशेषविशिष्टोच्चारणस्योत्पत्तित्वेन भविष्यत्कल्पीयतादृशोच्चारणाभावस्य नाशत्वेन श्रुतितो वैलक्षण्यात् । न च वैदिकक्रमस्य जन्यत्वे प्रत्यह-मध्यापकैर्व्यज्यमानत्वोक्त्ययोगः । भूतपूर्वसदृशोच्चारणकत्वेनैव तद्व्यवहारोपपत्तेः । अन्यथा कथकेन पुराणं क्रियत इति व्यवहारापत्तिः । न च तत्क्रमेणेति प्रत्यभिज्ञाविरोधः, सादृश्याभिप्रायकत्वात् । अन्यथा तैरेव पदार्थैरिति टीकोक्त्या पदार्थानामपि नित्यत्वप्रसक्तेः । एवमन्यान्यपि बाधकानि सुपरिहराणि । न च मीमांसकोक्तविततिविशेषवद्, वेदान्तिमते ब्रह्मादिमानुषान्तेषु क्रमवद् विलक्षणः क्रमः कल्प्य इति वाच्यम् । कल्पकाभावात् । विततेरपि कालिकक्रमवदनुष्ठानविषयाङ्गसमुदायरूपत्वाच्च । क्षीरनीरमाधुर्यतारतम्यस्येव आनन्दादितारतम्यस्यैव क्रमशब्दार्थत्वाच्च ।
किञ्च कल्प्यमानोऽपि वेदे कल्प्यतेऽन्यत्रापि वा । नाऽद्यः । अन्यत्रेवोक्तरीत्या वेदेऽपि पदवाक्यादिभावोप-पत्तावतिरिक्तकल्पने मानाभावात् । लौकिकवाक्य इव वर्णतत्प्रतीतिक्रमाद्यन्यस्यानुभवविरुद्धत्वाच्च । नापि द्वितीयः । अनुभवविरोधादेव । तस्य सर्वत्राप्यजन्यत्वे लौकिकवाक्यस्य कूटस्थत्वापत्तेश्च । वेदेऽजन्यत्वमन्यत्र (व्या.टि.) जन्यत्वमिति वैलक्षण्ये च नियामकाभावः । पुराणादीनां नश्वरक्रमवत्त्वेनानित्यत्वोपपत्तौ ‘पुराणादी-नामन्यथाशब्दरचनमेवानित्यत्वम्’ इति मूलविरोधश्च । ‘वर्णादीनामित्येव सिद्धे यत्पदादिग्रहणं तद्वर्णानां कौट-स्थ्याभावोऽनित्यत्वं पदादीनां तु क्रमव्यत्यय इति सूचयितुम्’ इति स्पष्टटीकावाक्यविरोधश्च । न च क्रमकृतकत्व-वचनानां परमतानुवादत्वम् । ‘न हि वयं कूटस्थनित्यतां ब्रूमः’ इत्यादेः परमतत्वोक्तेः साहसत्वात् । तस्माद्वर्णा एव कूटस्थाः, क्रमस्तु जन्यो विनाशीति सिद्धं प्रमेयम् । तथा च तत्त्वसङ्ख्यानटीका वर्णांशे कूटस्थत्वाभिप्रायका, क्रमांशे सर्वदा ईश्वरबुद्धिस्थत्वाभिप्रायका वा कृत्वाचिन्तोक्तिरूपा वा । अत एव गायत्र्यधिकरणचन्द्रिकाया-मीश्वरबुद्धिस्थत्वादेव तत्त्वसङ्ख्यानटीकाया युक्तत्वमुक्त्वा लौकिकवाक्यसाधारण्यं मनसिकृत्य ‘कृत्वाचिन्तया वा अनादित्वोक्तिः’ इत्युक्तम् ।
केचित्तु बुद्धिक्रमनिबन्धनो दैशिककालिकान्यो वर्णगत एव क्रमो विलक्षणो जायते । तत्रास्मद्बुद्ध्युपाधिको बुद्ध्युपरमे नश्यति । ईश्वरबुद्ध्युपाधिको जन्योऽपि न नश्यति, तद्बुद्ध्युपरमाभावात् । जन्यस्यापि नाशाभावस्य पुराणेषु प्रमितत्वात् । ईश्वरबुद्ध्युपाधिकक्रमस्याजन्यत्वाङ्गीकारे यावद्वस्तुभावित्वेनात्यन्ताभेदप्राप्त्या ईश्वरापेक्षा-बुद्ध्युपाधिकजीवद्वयगतद्वित्वस्य भिन्नाभिन्नत्वाभावे तदाश्रययोर्जीवयोरिव वर्णयोरत्यन्ताभेदापत्तिर्बाधिके-त्याहुः । तन्न । उच्चारणक्रियातज्जन्यध्वनिवर्णव्यक्तितत्प्रतीतिक्रमातिरिक्तस्य क्रमस्य स्फोटवदप्रामाणिकत्वादनु-भवविरुद्धत्वाच्च । किञ्च बुद्धिक्रमनिबन्धन इत्यत्र किं वक्तुर्बुद्धिनिबन्धनत्वम् उत श्रोतृबुद्धिनिबन्धनत्वम् । आद्येऽपि वाक्योच्चारणजनकीभूतसमूहालम्बनबुद्धेरेकत्वेन बुद्धिक्रमस्यैवाभावात् । ततः पूर्वतनीनां क्रमिक-बुद्धीनाम् उच्चारणोपयोगाभावेनोच्चरितेषु क्रमजनकत्वायोगाच्च । भावे च उच्चारणक्रमस्यैव क्रमजनकत्वसम्भवेना-न्यथासिद्धत्वाच्च । उच्चारणक्रममद्वारीकृत्य क्रमजनकत्वे दैवाद्विपरीतक्रमेणोच्चारणेऽपि बुद्धिक्रमजन्यक्रमस्यैव श्रावणापत्तेश्च । न द्वितीयः । क्रमस्य श्रावणत्वानुभवादिति स्वोक्तिविरोधात् । न हि श्रावणानि स्वगतक्रमजन्यं भाविनं वर्णक्रमं स्वयं विषयीकुर्वन्ति, विषयस्यावर्तमानत्वात् । अननुभूयमानस्य शाब्दाद्यनुपयोगिनस्तस्य वैयर्थ्याच्च । ईश्वरबुद्धिजन्यस्तु सुतरामयुक्तः । ईश्वरबुद्धेः क्रमाभावेन तज्जन्यक्रमायोगात् । अजन्याया ईश्वरबुद्धे-रजन्यवर्णेषु क्रमजनकत्वे प्रतिक्षणं जनकत्वापत्त्या ईश्वरबुद्ध्युपाधिकानन्तक्रमापत्तिः । बुद्ध्युपरमाभावेन नाशा-भावे तु प्रतिक्षणमभिवर्धमानानश्वरानन्तलौकिकवैदिकवाक्यघटकीभूतानन्तानन्ताऽनुपूर्वीभरभुग्नत्वापत्तिश्च । पञ्चाशद्वर्णानामानुपूर्व्याः पूर्वापरत्वादिरूपाया व्यासज्यवृत्तित्वाभावेनाजन्यत्वे वर्णाभेदापत्तिश्चायुक्तेत्य-लम् । अधिकं गुरुप्रभायां द्रष्टव्यम् ।
कथनं चेति ।। नोक्तशङ्काऽपगममात्रमिति चार्थः । व्याकरिष्यतीति ।। ‘सर्वज्ञत्वादीश्वरस्य’ इत्यादिनेति शेषः । तथाऽपीति ।। ईशप्रत्यक्षत्वेन शाश्वतत्वेऽपीत्यर्थः । लोके अधिकारिवर्गे । प्रवृत्तिरुच्चारणादिरूपा । सति सप्तमीति ।। ‘यस्य च भावेन’ इत्यनेन सप्तमीत्यर्थः । वीप्सायामिति ।। ‘नित्यवीप्सयोः’ इति सूत्रादिति भावः । उच्चार्यन्त इति ।। गृणातेर्निगरणार्थत्वादिति भावः । नियामकाभावादिति ।। प्रवर्तकपुरुषाभावादि-(व्या.टि.) त्यर्थः । (सर्वप्रकारेणेति ।) तैरेव पदार्थैरिति ।। ‘वज्रहस्तः पुरन्दरः’ इत्यादिश्रुतलक्षणोपेतैरि-त्यर्थः । अन्यथा ‘यथापूर्वम्’ इति, ‘समाननामरूपत्वाच्च’ इति श्रुतिसूत्रविरोधः । क्रमादीनामुद्गिरणानुपपत्तेराह- इत्थम्भूते-ति ।। प्राचीनक्रमादिमत्त्वं प्राप्ता इत्थम्भूताः, तज्ज्ञापके तृतीयेत्यर्थः । पदार्थैर्वाक्यार्थैश्चेत्यनेनेश्वरस्य व्याख्यातृत्वं च लब्धम् । तत्फलमाह - अनेनेति ।। एतदिति ।। वक्ष्यमाणं पौरुषेयत्वचोद्यमित्यर्थः । नाव्याख्या-तादिति ।। ‘कश्छन्दसाम्’ इति तदर्थस्यातिगहनत्वोक्तेरित्यर्थः । अर्थाधिगतिमिति ।। अनुष्ठेयज्ञानमि-त्यर्थः । अधिपूर्वस्य गमेर्ज्ञानार्थत्वात् । ‘ज्ञात्वा कर्म समाचरेत्’ इत्युक्तेः । अर्वाक्तनेति ।। व्याख्येया-दर्वाचीनेत्यर्थः । अनादेशिकत्वादिति ।। आदेश आज्ञा तद्युक्तमादेशिकम्, तत्त्वाभावात् । स्वतन्त्रवक्तुः सत्त्वे स्यात्तदिच्छा नियामिकेति भावः । यद्वा आदेश उपदेशस्तद्वानादेशी तन्मूलकत्वाभावात्, उपदेशपरम्परा-भावादित्यर्थः । स्वतन्त्रेति ।। कर्तृपुरुषव्याख्यानमित्यर्थः । निरासप्रकारं दर्शयति- वेदानामिति ।। व्याख्यानेऽर्थज्ञानं प्रयोजकं न कर्तृत्वमिति भावः ।