याथार्थ्यमेव प्रामाण्यं ..

प्रमाणानां सामान्यलक्षणकथनपूर्वकं प्राबल्यस्य समर्थनम्

मूलम्

- याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः ।

ज्ञानं च द्विविधं बाह्यं तथाऽनुभवरूपकम् ।।

बल्येवानुभवस्तत्र निर्दोषं त्वक्षजादिकम् ।

अनुप्रमाणतां याति तथाऽक्षादित्रयं ततः ।।

प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।

उपजीव्यविरोधे तु न प्रामाण्यममुष्य च ।।

तत्त्वमञ्जरी

अथ प्रमाणानां सामान्यलक्षणमाह- याथार्थ्यमिति ।। यथार्थं प्रमाणमित्युक्ते यथाज्ञेयमित्यर्थः । तच्च यथाज्ञेयत्वं ज्ञानशब्दयोर्मुख्यम् । तथा हि ज्ञानस्य ज्ञेयाव्यवहितत्वात् तत्र मुख्यं यथार्थत्वम् । शब्दस्य तु वेदाख्यस्य नित्यत्वात् । अव्यभिचारित्वनियमाच्च । अन्यस्य तदानुकूल्यात् । अक्षानुमयोस्तु ततोऽवमं स्यात् । ज्ञानाख्यप्रमाणं द्विविधम् । तत्र बाह्यं प्रत्यक्षादित्रयजन्यं ज्ञानं बाह्यार्थविषयम् । अनुभवरूपकं साक्षिज्ञानमात्मस्वरूपसुखादिविषयम् ।

ात्र सर्वप्रमाणजाते अनुभव एव बली । तथा प्रत्यक्षादित्रयं तत्साधनत्वेनानुप्रमाणतां याति । सर्वथाऽप्यप्रामाण्याभावात् त्रिष्वागमस्य प्राबल्यम् । अमुष्य चोपजीव्यविरोधे सति विरुद्धार्थे न प्रामाण्यम् । किन्त्वर्थान्तरमवगन्तव्यम् । अनेन प्रमाणानां लक्षणकथनेनैव इतरेऽन्यथावादिनो वादिनो निराकृताः । ये प्रमासाधनं प्रमाणमिति वदन्ति ये वाऽनुभूतिमिति उभयेषामपि लक्षणवाक्यस्याव्याप्तत्वात् ।

टीका  

ननु एतेष्वेवं परस्परविलक्षणेषु प्रत्यक्षादिष्वेकस्य प्रमाणशब्दस्य प्रवृत्तिः कथमित्यतः सामान्यलक्षणयोगादिति भावेन तदाह- याथार्थ्यमेवेति ।। यथाऽवस्थितज्ञेयविषय(यीकारि)त्वं याथार्थ्यम्, तत्प्रामाण्यं प्रमाणशब्दप्रवृत्तिनिमित्तम् । एवशब्देन अनधिगतार्थगन्तृत्वादिकं परेषां प्रमाणलक्षणं पराचष्टे  । एतेन ‘बहुप्रमाणसंवादश्च’ इत्युक्तः प्रमाणसम्प्लवो दृढीकृतो भवति ।

ननु ज्ञेयविषयीकारित्वं ज्ञानधर्मः, तत् कथमिन्द्रियादीनां प्रामाण्यमुक्तमिति चेत्, सत्यम् । द्विविधं प्रमाणं ज्ञानं तत्करणं च । तत्र ज्ञाने मुख्यमिदं लक्षणं तस्य साक्षाज्ज्ञेयविषयीकारित्वात् । इन्द्रियलिङ्गशब्देषु तु ज्ञानद्वारा ज्ञेयविषयीकारित्वादमुख्यमित्यतो न कश्चिद्दोष इति भावेनाऽह- तदिति ।। करणेष्वपीन्द्रियलिङ्गापेक्षया शब्दविशेषस्य वेदस्य याथार्थ्यं मुख्यम् । इन्द्रियलिङ्गयोरिव तस्य सर्वथाऽयाथार्थ्याभावादिति प्रसङ्गात् सूचयितुं शब्दग्रहणं कृतं नतु ज्ञानसमकक्षतयेति ज्ञात-व्यम् । ज्ञाने याथार्थ्यं मुख्यमित्युक्तम् । तदपि न सर्वत्रैकप्रकारमिति वक्तुं तद्द्वैविध्यमाह- ज्ञानं चेति ।। तत्कथमित्यत आह- बाह्यमिति ।। आत्मस्वरूपातिरिक्तम् । यदर्थं तद्द्वैविध्यमुक्तं तदाह- बल्येवेति ।। अनुभव एवेत्यन्वयः । कुत इत्यत आह- निर्दोषमिति ।। बाह्यमिति प्रकृतेऽ-क्षजादिकमिति वचनं तत्स्वरूपनिरूपणार्थम् । इन्द्रियलिङ्गशब्दजन्यं यन्मनोवृत्तिरूपं तद्बाह्यम् । तन्निर्दोषकरणजन्यमेव  प्रमाणमन्यदप्रमाणमिति  द्वैविध्यसम्भवेन  कदाचित्संशयास्पदत्वाद-मुख्यम् । अनुभवस्तु निर्दोष एवेति प्रागेवोक्तमिति भावः । एतेन ‘नचानुभवविरोधे’ इत्युक्तं दृढीकृतं भवति ।

यदुक्तं ज्ञाने याथार्थ्यं मुख्यं करणेष्वमुख्यमिति, तदुपपादयति- अनुप्रमाणतामिति ।। ततः प्रामाण्यस्यामुख्यत्वादेव हि अक्षादित्रयमनुप्रमाणशब्दवाच्यतां याति । तथा प्रामाण्यस्य मुख्यत्वादेव हि ज्ञानं केवलप्रमाणशब्दवाच्यतां याति । प्रामाणिकप्रयोगेष्वन्यथा तन्न स्यादित्यर्थः । ‘तन्मुख्यं ज्ञानशब्दयोः’ इत्युक्तम् । तत्र शब्दस्य ज्ञानसमकक्षताप्रतीतिं निवारयंस्तस्यापवादमाह - प्राबल्य-मिति ।। तेषु त्रिष्वक्षादिषु करणेषु मध्ये यदागमस्य वेदस्य प्राबल्यमुक्तं तज्जात्यैव स्मृतम् उत्सर्गेणैव स्मर्तव्यं नतु नियतम् । जातेरुत्सर्गविषयत्वाज्जातिग्रहणेनोत्सर्गो लक्ष्यते । कुत इत्यत आह- उपजीव्येति ।। निरवकाशादेरुपलक्षणमेतत् । अमुष्य वेदस्यापि । अनेन ‘प्रत्यक्षादेरागमस्य’ इत्युक्तं दृढीकृतं भवति ।

भावबोधः

प्रामाण्यस्य याथार्थ्यभिन्नस्याभावात् कथमुद्देश्यविधेयभाव इत्यतः प्रामाण्यपदं व्याचश्व्े - प्रमाण-शब्दप्रवृत्तिनिमित्तमिति ।। एतेनेति ।। प्रवृत्तिनिमित्तोक्त्या एकविषयकेष्वपि बहुषु प्रमाणशब्दप्रयोगः, एवकारेण सावधारणदार्ढ्यहेतुत्वं समर्पितं भवतीत्यर्थः । अविवक्षितयथावस्थितज्ञेयविषयीकारित्वस्य गमनेऽति-व्याप्तत्वात्, यथावस्थितस्वोपाधिकज्ञेयत्वोपेतविषयकत्वं लक्षणत्वेन वक्तव्यम् । तच्च ज्ञेयत्वं प्रत्यनुपाधिभूत-करणेष्वव्याप्तमित्यभिप्रेत्य शङ्कते- नन्विति ।। साक्षादिति ।। ज्ञेयत्वं प्रत्युपाधित्वेनेत्यर्थः । ज्ञानद्वारेति ।। ज्ञेयत्वोपाधिभूतज्ञानं प्रति निमित्तत्वेनेत्यर्थः । तथा चोपाधित्वोपाधिनिमित्तत्वलक्षणावान्तरविशेषवत्त्वेऽपि ज्ञानकरणयोः स्वसम्पादितज्ञेयत्वोपेतविषयकत्वमविशिष्टमिति भावः । ननु त्रिष्वपि प्रत्यक्षादिष्वव्याप्तेः शङ्कितत्वादुक्तविधयाथार्थ्यमुख्यत्वस्य शब्दे करणेऽयोगादनुपयुक्तमयुक्तं च शब्दग्रहणमित्यत आह- करणेष्वपीति ।। ननु ज्ञानशब्दयोर्द्वन्द्वनिर्दिश्व्त्वान्मुख्यमिति पदस्य सकृदुक्तस्यार्थद्वयानुपस्थापकत्वात् कथमेतल्लभ्यत इति चेन्न । द्वन्द्वविशिष्टज्ञानशब्दयोर्बुद्ध्या विवेकं सकृदुक्तस्य मुख्यशब्दस्य तन्त्रन्यायं चाश्रित्य वाक्यस्य व्याख्यातुं शक्यत्वादिति भावः । एतेन ‘अपौरुषेयत्वाद्वेदस्य’ इत्यादिना वेदस्य यदपौरुषेयत्वेन याथार्थ्यमव्यभिचरितमित्यभिप्रेतं तत्समर्थितं भवतीति भावः । तदपीति ।। आदिपदेन ‘ज्ञानं तु द्विविधम्’ इत्याद्यपि प्रसङ्गादेवोच्यत इति ध्वनयति । वृत्तेरप्यान्तरत्वाद्बाह्यपदं व्याचश्व्े- आत्मेति ।। तुशब्दस्यैवकारार्थत्वं प्रमाणपदाध्याहारं चाश्रित्य ‘निर्दोषन्तु’ इति वाक्यं योजयति- तन्निर्दोषेति ।। अमुख्यमिति ।। अनेनानुभव एवेत्येवकारव्याख्यानेन बलीत्येतदपि मुख्य इति व्याख्यातं भवति । नन्वेवकारोक्तप्रतिज्ञायामेव ‘निर्दोषन्तु’ इति हेतुरुक्तो न त्वनुभवो बलीत्यत्रेत्यत आह- अनुभवस्त्विति ।। उत्सर्गेणैवेति ।। अनेनैवकारो भिन्नक्रम इत्युक्तं भवति । जात्येत्यस्य श्रुतित्वोपपत्तित्वादिवद्वेदधर्मेणेत्यर्थत्वे ‘उपजीव्यविरोधे तु’ इत्युत्तरवाक्यविरोधः स्यादिति भावः ।

भावदीपः

यथावस्थितेति ।। यथार्थपदेनैतदर्थलाभः प्रमाणपद्धत्यादौ व्यक्तः । दृढीकृतो भवतीति ।। तत्रा-प्युक्तलक्षणसत्त्वेन सर्वेषां प्रामाण्याक्षतेरिति भावः । साक्षाज्ज्ञेयविषयीकारित्वादिति ।। यद्यपि पदार्थविषय-कत्वं ज्ञाने तत्करणे च तुल्यम् । न मात्रयाऽपि विशेषः । करणस्यापि ज्ञानस्येव सविषयकत्वात् । तथात्वेऽपि विषयगतज्ञेयत्वांशे ज्ञानमन्यन्नापेक्षते करणन्तु ज्ञानमपेक्षत इत्येतावन्मात्रेण साक्षादिति ज्ञानद्वारेति चोक्तम् । व्यक्तमेतत्सुधायाम् । तन्मुख्यं ज्ञानमिति वक्तव्ये शब्दपदोपादानं कुतः कथं च तत्र मुख्यत्वमित्यत आह- करणेष्विति ।। तुशब्द एवार्थ इत्युपेत्याऽह- निर्दोषकरणजन्यमेवेति ।। प्रागेवोक्तमिति ।। ‘नचानुभव-विरोध आगमस्य प्रामाण्यम् आगमप्रामाण्यानुभवस्याप्यप्रामाण्यप्राप्तेः’ इत्यत्र ‘स्वदृक्च’ इत्यत्र चेति भावः। तथाशब्दसमुच्चितमर्थमाह- तथा प्रामाण्यस्य मुख्यत्वादिति ।। तत इत्यस्यार्थोऽयम् । अन्यथेति ।। अमुख्यत्व-मुख्यत्वयोरभावेऽनुप्रमाणकेवलप्रमाणशब्दवाच्यत्वं न स्यादित्यर्थः । अत्र मुख्यामुख्यत्वं साक्षाज्ज्ञानद्वारा ज्ञेयविषयकत्वम् । उत्सर्गेणैवेति ।। अपवादविषयादन्यत्रैव प्राबल्यमित्यर्थः । स्मृतमित्यस्यार्थः । स्मर्तव्य-मिति ।। ज्ञेयमित्यर्थः । तल्लाभप्रकारमाह- जातेरिति ।। ‘न हिंस्यात् सर्वा भूतानि’ इत्यत्रोत्सर्गस्य हिंसात्व-रूपजातिविषयत्वदर्शनादिति भावः । उत्सर्गोऽनियमः । लक्षणाबीजस्य विषयविषयिभावसम्बन्धस्य सूचनायैवमुक्तिः । आगमत्वजात्यैव प्राबल्यमिति व्याख्या तूत्तरवाक्यविरोधादयुक्तेति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

अर्यत इति व्युत्पत्त्या अर्थशब्दो ज्ञेयवाची । यथाशब्दश्चानतिक्रमार्थः । तथाच ज्ञेयमनतिक्रम्य विद्यमानं यथार्थमित्यभिप्रेत्याह- यथावस्थितेति ।। ननु प्रामाण्यस्य याथार्थ्यभिन्नस्याभावाद्यार्थार्थ्यमित्यनूद्य प्रामाण्यं कथं विधीयत इत्यत आह- प्रमाणशब्दप्रवृत्तिनिमित्तमिति ।। एतेनेति ।। याथार्थ्यस्य प्रमाणशब्द-प्रवृत्तिनिमित्तत्वकथनेन, एवशब्देन अनधिगतार्थगन्तृत्वस्य प्रमाणलक्षणत्वनिराकरणेन  चेत्यर्थः  । बह्वि-त्यादि ।। बहूनामेकार्थविषयकत्वेऽधिगतार्थगन्तृत्वेन प्रामाण्यायोगादिति शङ्काया याथार्थ्यस्यैव प्रमाणलक्षण-त्वेन अन्यस्य च प्रमाणलक्षणत्वाभावेनानुपपन्नतया बहुत्वप्रमाणत्वयोस्समावेशसम्भवादिति भावः । प्रामाण्यं ज्ञेयविषयीकारित्वम् । तथा चेन्द्रियादीनां ज्ञेयविषयीकारित्वाभावाल्लक्षणस्याव्याप्तिरिति भावः । ननु ज्ञानशब्दयोरिति द्वन्द्वनिर्देशेन ज्ञानसमकक्षतया शब्दस्य गृहीतत्वाज्ज्ञानवत् शब्देऽपि ज्ञेयविषयीकारित्वं मुख्यमिति प्राप्तम् । तथाच ज्ञेयविषयीकारित्वलक्षणस्य प्रत्यक्षादित्रिष्वप्यव्याप्तेः शङ्कितत्वाच्छब्दे तत्परिहारश्च कथमित्याशङ्क्य द्वन्द्वनिर्दिष्टज्ञानशब्दयोरित्यस्य बुद्ध्या विवेकं सकृदुक्तमुख्यशब्दस्य तन्त्रन्यायं चाश्रित्य तदभिप्रायमाह- करणेष्वपीत्यादिना ।। करणेष्वपीत्यनन्तरं निर्धारणायामिति शेषः । मुख्यत्वे निमित्तमाह- इन्द्रियेति ।। सर्वथेति ।। ‘मृदब्रवीत्’ इत्यादौ क्वचिदयथार्थप्रतिपादनेऽपि न सर्वथाऽप्रामाण्यम् अपौरुषेयत्वेन तदसम्भ-वात् । अतः प्रतीतार्थे प्रामाण्यासम्भवेऽप्यर्थान्तरे प्रामाण्यसम्भवादिति भावः । वक्तुमिति ।। ‘बल्येवानुभवः’ इत्यत्रेत्यर्थः । वृत्तिरूपज्ञानस्याप्यान्तरत्वात् कथं बाह्यत्वमित्यतो बाह्यपदं व्याचश्व्े- आत्मस्वरूपेति ।। यदर्थ-मिति ।। ज्ञाने याथार्थ्यं मुख्यं तदपि न सर्वत्रैकप्रकारमित्येतदर्थमित्यर्थः । ननु बल्येवेत्येवकारस्य यथावस्थितान्वये विशेषणसङ्गतस्य तस्यायोगव्यवच्छेदकत्वादनुभवे बलित्वायोगो नास्तीत्येव प्राप्नोति नत्वनुभवस्यैव बलित्वमन्यत्र तदभावः । तथाचाग्रे सर्वापेक्षयाऽनुभवस्यैव बलित्वकथनमयुक्तमित्याशङ्क्यैवकारस्य भिन्नक्रमेणान्वयमाह- अनुभव एवेति ।। साक्षिरूपानुभव एवेत्यर्थः । तथा च विशेष्यसङ्गतस्य तस्यान्ययोगव्यवच्छेदकत्वेनानुभवस्यैव बलित्वमन्यत्र तदभावः प्राप्त इति भावः । बाह्यमिति प्रकृत इति ।। तथा च निर्दोषं बाह्यमित्येव वक्तव्यमिति

वाक्यार्थदीपिका

(श्री.टि.)

भावः । तत्स्वरूपेति ।। बाह्यज्ञानस्वरूपेत्यर्थः । कथमनेन तत्स्वरूपनिरूपणमित्यतस्तद्दर्शयति- इन्द्रियेत्यादिना ।। अमुख्यं बाह्यज्ञाने याथार्थ्यमिति शेषः । प्रकृतोपयोगं दर्शयति- एतेनेति ।। सर्वापेक्षयाऽ-नुभवस्य बलित्वकथनेनेत्यर्थः । इत्युक्तमिति ।। ‘न चानुभवविरोध आगमस्य प्रामाण्यम्’ इति वाक्येनोक्तं साक्ष्यनुभवस्य प्राबल्यमित्यर्थः । मूले तथाशब्दस्य समुच्चयार्थत्वात्तत्समुच्चेयमाह- तथा प्रामाण्यस्येति ।। अन्यथा तन्न स्यादिति ।। ज्ञानप्रामाण्यस्य मुख्यत्वाभावेऽनुप्रमाणप्रामाण्यस्य अमुख्यत्वाभावे अक्षादित्रय-स्यानुप्रमाणत्वव्यवहारो ज्ञानस्य केवलप्रमाणत्वव्यवहारश्च न स्यादित्यर्थः । ज्ञानसमकक्षताप्रतीतिमिति ।। प्राबल्यविषयेऽपि शब्दस्य साक्षिरूपज्ञानसमकक्षताप्रतीतिमित्यर्थः । तस्यापवादमाहेति ।। ‘तन्मुख्यं ज्ञान-शब्दयोः’ इत्यनेन करणेष्वपीन्द्रियलिङ्गापेक्षया शब्दविशेषस्य वेदस्य याथार्थ्यं मुख्यम् इन्द्रियलिङ्गयोरेव तस्य सर्वथा अयाथार्थ्याभावादित्येवं वेदस्य प्रामाण्यनियमः सूचित इत्युक्तम्, तस्यापवादमाहेत्यर्थः । तेषु त्रिष्वागमस्य जात्या वेदत्वादिधर्मेण प्राबल्यमित्यर्थाङ्गीकारे ‘उपजीव्यविरोधे तु न प्रामाण्यम्’ इत्यत्राप्रामाण्यकथनं बाधितं स्यादतो जात्येत्येतद्व्याचष्टे- उत्सर्गेणैवेति ।। जातिशब्दस्योत्सर्गवाचित्वशङ्कानिरासायोक्तम् । जातिग्रहणे-नेति ।। समानविषयकत्वं लक्षणाबीजमुख्यार्थसम्बन्ध इत्याशयेनोक्तम् । जातेरुत्सर्गविषयत्वादिति ।। उत्सर्गविषयकत्वादित्यर्थः । यथा ‘न हिंस्यात्’ इत्यत्राहिंस्यत्वं सर्वभूतेषु प्राप्नोतीत्युत्सर्गो बहुव्यापी बहुपदार्थ-विषयक इति यावत् । एवं पराभिप्रेता जातिर्बहुव्यापिनी अनेकानुगतत्वाङ्गीकारादित्येवं जात्युत्सर्गयोः समान-विषयकत्वसद्भावेन जातिपदमुत्सर्गलक्षकमिति भावः । यद्वा उत्सर्गविषयत्वाद् उत्सर्गविषयतावच्छेदकत्वा-दित्यर्थः । उत्सर्गविषयता केनचिदवच्छिद्यते तदवच्छेदिका च जातिः । यथा न हिंस्यादित्यादावुत्सर्गविषयता-वच्छेदकं सर्वभूतत्वादिधर्मः । एवं च अवच्छेद्यावच्छेदकभावसम्बन्धसद्भावाज्जातिपदमुत्सर्गलक्षकमित्याशयः। निरवकाशादेरित्यत्र आदिपदेन श्रुतिग्रहणम् । वेदस्यापीति ।। अपौरुषेयत्वेन प्रमितस्यापि न प्रतीतार्थे प्रामाण्यमित्यर्थः । प्रकृतोपयोगं दर्शयति- अनेनेति ।। उपजीव्यविरोधे आगमस्याप्यप्रामाण्यकथनेनेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु याथार्थ्यं प्रामाण्यमित्ययुक्तम् । तथा हि । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथा-शब्दार्थाः । तत्र च ‘यथाऽसादृश्ये’ इत्यसादृश्यार्थकस्यैव यथाशब्दस्याव्ययीभावसमासविधानात्सादृश्यार्थकस्य यथाशब्दस्यार्थशब्देनाव्ययीभावसमासानुपपत्त्या समासान्तरस्य चासामर्थ्यादिना प्रतिहतत्वेन प्रकृते सादृश्यार्थ-कस्य यथाशब्दस्य परिग्रहानुपपत्तेः । वाक्यशेषाभावेनार्थयोग्यतायास्तद्वीप्साया वा प्रामाण्यापत्त्या च योग्यता-वीप्सार्थस्यापि परिग्रहानुपपत्तेः पदार्थानतिवृत्त्यर्थस्येदं ग्रहणमिति वाच्यम् । तथाऽर्थशब्दस्याप्यभिधेयादि-वाचिनोऽव्याप्त्यादिप्रसङ्गाद्विषयापरपर्यायवस्तुवचनस्यैवेदं ग्रहणमिति वाच्यम् । तथा च ‘अर्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणम्’ इति अर्थाव्यभिचारित्वं प्रमाणत्वमिति फलितोऽर्थः । तत्र च प्रमाणस्यार्थाव्यभि-चारित्वं किमर्थव्याप्यत्वमभिमतं किं वा यावदर्थगोचरत्वम् । आद्येऽपि व्याप्तिः किं देशतः किं वा कालतः । नाऽद्यः । प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः । न द्वितीयः । अतीतादिविषयप्रमाणेष्वव्याप्तेः । नान्त्यः। (पां.टि.) असर्वज्ञविज्ञानानां तत्करणानां चाप्रामाण्यप्रसङ्गादित्यतो नात्रार्थाव्यभिचारित्वमर्थव्याप्यत्वादिक-मभिमतं येनोक्तदोषः स्यात् । किं नाम विषयीकृतस्यार्थस्य यथावस्थितत्वमेवेति न कश्चिद्दोष इत्याशयेन याथार्थ्यमित्येतदनुवादपूर्वकं तस्यार्थमाह- यथाऽवस्थितज्ञेयविषयीकारित्वमिति ।। अत्राविवक्षितयथावस्थित-ज्ञेयविषयीकारित्वस्य गमनेऽतिव्याप्तित्वाद्यथावस्थितस्वोपाधिकज्ञेयत्वोपेतविषयकत्वं लक्षणत्वेन वाच्यम् । तच्च ज्ञेयत्वं प्रत्यनुपाधिभूतकरणेष्वव्याप्तमित्याशङ्कते- नन्विति ।। साक्षादिति ।। ज्ञेयत्वं प्रत्युपाधित्वेनेत्यर्थः। ज्ञानद्वारेति ।। ज्ञेयत्वोपाधिभूतज्ञानं प्रति निमित्तत्वेनेत्यर्थः । तथा चोपाधित्वोपाधिनिमित्तत्वलक्षणावान्तर-विशेषणवत्त्वेऽपि ज्ञानकरणयोः स्वसम्पादितज्ञेयत्वोपेतविषयकत्वमविशिष्टमेवेति भावः । समकक्षताप्रतीतिं द्वन्द्वनिर्देशप्रसक्ताम् । ननु जातिशब्दस्योत्सर्गेऽशक्तत्वात्कथमुत्सर्गपरत्वमित्यतो लक्षणयेत्याह- जातिग्रहणे-नेति ।। लक्षणाबीजभूतशक्यसम्बन्धमाह- जातेरिति ।। सामान्यस्येत्यर्थः । उत्सर्गविषयत्वात् उत्सर्गं प्रति विषयत्वात् । तथा चोत्सर्गस्य सामान्यविषयकत्वाद्विषयवाचकेन जातिपदेन विषयिण उत्सर्गस्य लक्षणा युक्तेति भावः ।

लघुप्रभा

(व्या.टि.)

कथमिति ।। साधारणप्रवृत्तिनिमित्तं विना साधारणशब्दप्रयोगादिति भावः । यथार्थस्य भावो याथार्थ्यम् । तत्र यथाशब्दोऽनतिक्रमार्थः । न तु योग्यतावीप्सार्थः । वाक्यशेषाभावेन योग्यताया अर्थानां वा प्रामाण्यप्रसक्तेः । नापि सादृश्यवचनः । अव्ययीभावविधाने ‘यथाऽसादृश्ये’ इति विशेषणात् । अतोऽनतिक्रमे यथाशब्दः । यथार्था युक्तय इत्यादौ भावप्रधानयथार्थशब्दादर्शआद्यजन्ताट्टाप् । यथाशब्दस्य बहुव्रीहिर्वा । अर्थशब्दोऽपि नाभिधेयादिवाची । अव्याप्त्यापत्तेः । नापि विषयापरपर्यायवस्तुवाची । क्रियादावतिप्रसक्तेः । अपि तु ‘अर्थत्वमर्यतैव स्यात्’ इत्याद्यनुभाष्यभाषितभङ्ग्या योगेन ज्ञेयवाचीत्यभिप्रेत्य व्याचश्व्े- यथाऽवस्थित-ज्ञेयविषयीकारित्वमिति ।। नन्वनधिगतार्थगन्तृत्वादिपरोक्तलक्षणे सम्भवति कथं ‘याथार्थ्यमेव’ इत्यव-धारणमित्यत आह- एवशब्देनेति ।। स्मृत्यनुवादयोरपि प्रामाण्येन तत्र परोक्तलक्षणस्याव्याप्तेरिति भावः ।

ननु याथार्थ्यमप्यव्याप्तम् । स्मृतिकाले पूर्वावस्थाया अभावेन स्मृतेरपि तदयोगात् । न च स्मृतिर्निवृत्त-पूर्वावस्थतयाऽर्थमवगाहते । पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः । अतो यथार्थानुभवसमानविषयाऽपि स्मृतिरर्था-तादवस्थ्यादयथार्थैवेति चेत् । तदनेन किमुक्तं भवति । स्वकालेऽर्थस्य तदवस्थात्वाभावाद् अयाथार्थ्यं स्मृतेरिति वा पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थात्वेन विषयीकरणादिति वा । नाऽद्यः । अतीतादिविषयानुमानादिप्रामाण्यप्रच्युतिप्रसक्तेः । न द्वितीयः । सर्वप्रमाणाप्रामाण्यप्राप्तेः । कस्यापि सर्वात्मनाऽविषयीकरणात् । न तृतीयः । असिद्धेः । तस्माद्याथार्थ्यं न स्मृत्यव्याप्तम् । एवमनुवादेऽपि याथार्थ्यं समर्थनीयम् । ननु तथाऽपि स्मृतेः प्रामाण्याभावेनासङ्ग्राह्यत्वाद्याथार्थ्यमतिव्याप्तमिति चेत् । कुतः स्मृतेः प्रामाण्यं नास्ति । किं साधकाभावादुत बाधकात् । तत्रापि निष्फलत्वरूपाद्बाधकाद् अथ वा प्राकट्यापरपर्याय-ज्ञातताऽजनकत्वरूपाद् उताज्ञातज्ञानत्वाभावादाहोस्विद् अनपेक्षत्वाभावाद् अथाननुभवत्वात् । नाऽद्यः । लोक-(व्या.टि.) व्यवहारस्य सत्त्वात् । ‘स्मृतिः प्रत्यक्षम्’ इति श्रुतिसद्भावाच्च । स्मृतिः प्रमाणपदवाच्या यथार्थत्वात् प्रत्यक्षादिवदित्यनुमानाच्च । न चात्रानुभवत्वमुपाधिः । समव्याप्तिपक्षे संशयादौ व्याप्त्यसम्भवात् । विषमव्याप्तित्व-पक्षेऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् । स्मृतिव्यतिरिक्तत्वस्य पक्षव्यावृत्त्यर्थविशेषणतया तादृशज्ञानत्व-रूपानुभवत्वस्य पक्षेतरत्वरूपत्वाच्च । द्वितीयेऽपि नाऽद्यः । सर्वस्मृतिपक्षीकरणे कासाञ्चित्स्मृतीनां सफलतोप-लम्भेन भागासिद्धेः । करणदोषबाधकप्रत्यययोरेवाप्रामाण्ये तन्त्रत्वेन विफलत्वस्याप्रयोजकत्वाच्च । तृणादि-दर्शनादावनैकान्त्याच्च । धर्माधर्मजन्यतया कथञ्चित्साफल्यसाधनस्य तृणादिदर्शनादाविव स्मृतावपि सुवच-त्वाच्च । एतेनैकदेशपक्षीकरणमप्यपास्तं वेदितव्यम् । न द्वितीयः । ज्ञाततायां प्रमाणाभावेन प्रत्यक्षादावनै-कान्त्यात् । तत्सत्त्वेऽपि धारावाहिकज्ञानेऽनैकान्त्याच्च । संशयविपर्यययोरपि समानन्यायेन ज्ञातताजनकत्वेन हेतोरसाधारण्याच्च । तृतीयेऽनधिगतार्थगन्तृत्वस्य प्रमाणत्वमुत व्यापकमात्रत्वम् । आद्येऽपि धर्मिणमादाया-नधिगतार्थगन्तृत्वं प्रकारं वा । नाऽद्यः । नित्यवस्तुविषयाणामप्रामाण्यापत्तेः । व्याप्यवत्तयाऽवगतमर्थे व्यापकवत्तया  विषयीकुर्वतोऽनुमानस्य  पृथगवगतानर्थान्  संसृष्टतया  गोचरयतः  शब्दस्य  चाप्रामाण्या-प्रसङ्गाच्च । न द्वितीयः । धारावाहिकज्ञानानामप्रामाण्यप्रसक्तेः । कथञ्चिद्धारावाहिकज्ञानानामनधिगतवर्तमान-कालविषयत्वेन तादृशत्वे स्मृतेरपि वर्तमानतत्कालतयाऽनुभूतमर्थमतीततत्कालतयाऽवगाहिन्यास्तस्य वक्तुं शक्यत्वाच्च । संशयविपर्यययोरपि प्रामाण्यप्रसङ्गाच्च । अनधिगततथाभूतार्थत्वविवक्षायाम् अनधिगतविशेषण-वैयर्थ्यात् । स्मृतिव्यावृत्त्यर्थत्वेऽन्योन्याश्रयात् । द्वितीयेऽपि प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्य-दर्शनमात्रात् सिद्ध्यति उत व्यभिचारादर्शनसहकृतादथ विपक्षे बाधकोपेतात् । नाऽद्यः । अतिप्रसङ्गात् । न द्वितीयः । धारावाहिनि व्यभिचारदर्शनात् । अतिप्रसङ्गापरिहाराच्च । न तृतीयः । तदभावात् ।

अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्टपेषणं स्यादिति चेन्न । किमिदं पिष्टपेषणं नाम । किमधिगतेऽर्थेऽ-धिगत्यन्तरस्यानुदयः, किं वा विफलत्वम्, यद्वाऽविशिष्टफलत्वमथ वाऽनपेक्षितफलत्वम् । नाऽद्यः । स्यादप्येवं यदि ज्ञानाभावोऽपि ज्ञानसामग्य्रेकदेशः स्याद् ज्ञानं वा प्रतिबन्धकं भवेत् । न चैवम्, स्मृतेरेवानुदयप्रसङ्गात् । न द्वितीयः । उक्तोत्तरत्वात् । न तृतीयः । आद्येऽप्यापत्तेः । न चतुर्थः । तृणादिदर्शने हेयदर्शने च प्रसङ्गात् । नाप्यनपेक्षत्वाभावादिति चतुर्थः । प्रामाण्यस्यानपेक्षत्वेन व्याप्तौ प्रमाणाभावात् । किञ्च किमनपेक्षत्वं सर्वथा अथ ज्ञानान्तरानपेक्षत्वम् । नाऽद्यः । अनित्यप्रमाणानां स्वसामग्य्रापेक्षत्वेनाप्रामाण्यापातात् । द्वितीयेऽप्यर्थपरिच्छेदे ज्ञानान्तरानपेक्षत्वमुत समानविषयकज्ञानान्तरानपेक्षत्वम् । नाऽद्यः । ज्ञानातिरिक्तार्थपरिच्छेदाभावात् । स्मृतावप्येवं सुवचत्वाच्च । द्वितीयेऽपि धर्मिणमादाय समानविषयकत्वं प्रकारं वा । नाऽद्यः । अनुमित्यादावप्य-भावात् । न द्वितीयः । स्मृतावपि सत्त्वात् । एवमनुभूतित्वं नाम स्मृतिव्यतिरिक्तज्ञानत्वं वा स्मृतित्वानधिकरण-ज्ञानत्वं वा नियमेन प्रत्युत्पन्नासाधारणकारणप्रत्ययत्वं वा । नाऽद्यः । स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वेनासिद्धेः। द्वितीयेऽपि स्मृतित्वं जातिर्वा संस्कारमात्रजन्यज्ञानत्वं वा । नाऽद्यः । जातेराकृतिव्यङ्ग्यत्वेन गुणे चाऽकृतेरभावे-(व्या.टि.) नासम्भवात् । द्वितीये संस्कारमात्रजन्यत्वं नाम तदितराजन्यत्वं वा तदसाधारणकारणकत्वं वा । नाऽद्यः । अदृष्टादिजन्यत्वेनासिद्धेः । न द्वितीयः । स्मृतेर्मानसत्वेन संस्कारकारणत्वाभावेनासिद्धेः । स्मृतेर्मानसत्त्वं ‘तन्मया पूर्वं कृतमित्येतन्मया मनसा विज्ञातं स्मृतमपि’ इति साक्षिसिद्धम् । एतेन पूर्वानुभवावच्छिन्नार्थगोचरा स्मृतिर्न स्वयं यथार्थेति निरस्तम् । अनुभववच्छुद्धार्थविषयत्वस्यापि स्मृतमित्यादौ साक्षिसिद्धत्वात् । एतेन स्मरणस्य प्रामाण्ये संस्कारस्याप्यनुप्रमाणत्वेन तत्त्रैविध्यं भज्येतेति निरस्तम् । मनसः करणत्वात् । न च साक्षात्काररूपत्वलक्षणप्रत्यक्षफलत्वं कथमिति वाच्यम् । साक्षात्कारताया अपि साक्षिसिद्धत्वात् । न चातीतेन मनसः प्रत्यासत्त्यभावान्न तत्प्रत्यक्षजन्यत्वमिति वाच्यम् । अतीतानागतविषयकयोगिज्ञानस्य ‘अपश्यमव्यये-मीयया’ इत्यादिप्रमाणेन साक्षात्कारत्वे सिद्धे योगजधर्मसहकृतस्येव, स्मृतेरपि साक्षात्कारत्वे साक्षिसिद्धे पूर्वानु-भवजनितसंस्कारसाचिव्यस्य प्रत्यासत्तित्वसम्भवात् । तस्मान्न संस्कारमात्रजन्यत्वं तदसाधारणकारणजन्यत्व-मिति । न तृतीयः । स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात् । त्वन्मतेऽप्युद्बुद्धसंस्कारस्य नियमेनाव्यवहित-कालीनसाधारणकारणत्वेन तज्जन्यस्मृतौ तत्सत्त्वाच्च । स्मृतेरपि कदाचित् प्रत्युत्पन्नसंस्कारतज्जन्यत्वसम्भ-वाच्च । न च तादृशस्मृतिव्यावृत्तये नियमेनेत्युक्तमिति वाच्यम् । अवच्छेदकेन विना नियतस्य ज्ञातुमशक्यत्वेना-नुभूतित्वस्यावच्छेदकत्वे आत्माश्रयापातेन अवच्छेदकान्तराभावेनासम्भवात् । किञ्च किमपि वा भूयादनुभूति-त्वम् । तथाऽपि किमनुभूतित्वं लक्षणमिति कृत्वाऽननुभूतित्वात् स्मृतिरप्रमाणमित्युच्यते । किं वा घटादिदृष्टान्ता-वष्टम्भेन । आद्येऽन्योन्याश्रयत्वम् । द्वितीये स्मृतिरेव केनापोद्यते अस्मृतित्वेनानुभूतिरप्यपोद्यताम् । तस्मात् साधकाद्बाधकाभावात् स्मृतिप्रामाण्यनिर्णये परोक्तं लक्षणं तत्राव्याप्तं नाभ्युपगम्यते । विस्तृतं च सर्वमेतत् सुधायाम् । अस्योक्तोपयोगं दर्शयति- एतेनेति ।। दृढीकरणं तु न्यायशास्त्रेऽधिगतार्थस्यापि याथार्थ्येन प्रामाण्य-कथनेनेति ज्ञेयम् ।

फलस्यैव ज्ञेयविषयीकारित्वं न करणस्येति मन्वानः शङ्कते- नन्वित्यादिना ।। अर्धाङ्गीकारेण परिहरति- सत्यमिति ।। ज्ञानधर्मत्वमङ्गीक्रियते न तस्यैवेत्यर्थः । स्पश्व्ीकरोति- द्विविधमिति ।। प्रमाणमिति ।। यथा-वस्थितज्ञेयविषयीकारीत्यर्थः । मुख्यत्वं व्यनक्ति- साक्षादिति ।। ज्ञेयत्वोपाधित्वेनेत्यर्थः । ज्ञानद्वारेति ।। ज्ञाननिमित्तत्वेनेत्यर्थः । अमुख्यमिति ।। वैवक्षिकमित्यर्थः । यथाश्रुतपरत्वे पद्धतिविरोधापत्तेः । तथा हि । ‘करणविषयस्तु ज्ञानविषयवद् विवेक्तव्यः’ इति । ‘ज्ञानस्य यथा साक्षाद्विषयस्तथा करणस्यापि’ इत्युक्तेः । विषयविषयिभावो हि स्वभावः । अन्यानपेक्षस्यैव स्वभावत्वात् । तस्यान्यापेक्षायां स्वभावत्वहानेः । न चात्रा-मुख्यत्वादिविरोधः । अभिप्रायसद्भावात् । तथा हि । अत्र याथार्थ्यपदेन स्वोपाधिनिमित्ताभ्यां यज्ज्ञेयं तद्विषयी-कारित्वम् । तत्रार्थस्य ज्ञेयत्वे ज्ञानमुपाधिः, करणं निमित्तम् । तत्रोपाधितया ज्ञेयविषयीकारि ज्ञानम् । निमित्तत्वेन तद्विषयीकारि करणम् । ज्ञानस्योपाधित्वेन केवलपदप्रयोगः । करणस्य निमित्तत्वेनानुप्रमाणपदप्रयोगः । नतु साक्षाज्ज्ञेयविषयीकारित्वाभावात् । तन्मात्रेण चामुख्यत्वम् । यथा वैदिकपदानां भगवति परममुख्यवृत्त्यपेक्षयाऽ-(व्या.टि.) न्यत्रामुख्यत्वव्यपदेशः । एवमिहापि वैवक्षिकामुख्यत्वम् । न मुख्यामुख्यत्वमिति बोध्यम् । स्पष्टतरमेतदुपासनापादीयसुधायामिति न कोऽपि विरोध इत्यलम् । करणप्रामाण्येऽपि वैवक्षिकमुख्यत्वामुख्यत्वे स्त इत्याह- करणेष्वपीति ।। शब्दविशेषस्येति ।। सामान्ये बाधादिति भावः । सर्वथेति तच्छङ्काभावं सूच-यति । तेनाप्रामाण्यशङ्काशून्यप्रामाण्यं वेदे मुख्यम्, शङ्किताप्रमाण्येष्वमुख्यमिति भावः । द्वन्द्वनिवेशेन प्राप्तां ज्ञानसामान्यभ्रान्तिं वारयति- आत्मस्वरूपातिरिक्तमिति ।। एवशब्दो भिन्नक्रम इत्याह- अनुभव एवेति ।। तुशब्दोऽवधारणार्थ इति मत्वाह- निर्दोष एवेति ।। (एवेति ।।) एतेन ‘निर्दोषत्वातिनियमे तद्बलिष्ठतमं मतम्’ इत्यनुव्याख्यानोक्तो याथार्थ्येऽपि विशेषोऽवसेय इत्युक्तं भवति । अस्यापि पूर्वोपयोगं दर्शयति- एते-नेति ।। केवलानुप्रमाणशब्दवाच्यतया प्रामाण्यस्य मुख्यत्वामुख्यत्वे साधयति- अमुख्यत्वादेवेति ।। व्यापकसङ्गतोऽयमेवकारो वह्निमत्त्वादेवेतिवत् । ज्ञेयत्वनिमित्ततया साक्षाज्ज्ञेयविषयीकारित्वादित्यर्थः । मुख्य-त्वादेवेति ।। ज्ञेयत्वोपाधित्वेन साक्षाज्ज्ञेयविषयीकारित्वादित्यर्थः । अनेन ज्ञानप्रामाण्यं मुख्यं केवलशब्द-वाच्यत्वात् । करणप्रामाण्यममुख्यमनुप्रमाणशब्दवाच्यत्वादिति व्यतिरेकिद्वयं सूचितम् । विपक्षे बाधकमाह- अन्यथेति ।। प्रतीतिमिति ।। ज्ञानतत्करणयोः साक्षादसाक्षात्त्वभेदेऽप्यनाशङ्कितदोषत्वोक्त्या ‘ज्ञानशब्दयोः’ इति सहनिर्देशेन च प्राप्तां समत्वप्रतीतिमित्यर्थः । तस्येति ।। यथार्थज्ञानसाधनत्वस्येत्यर्थः । अपवादम् अपवाद-विषयताम् । जातिपदेनोत्सर्गलक्षणायां बीजमाह- जातेरिति ।। सामान्यस्येत्यर्थः । उपजीव्यविरोधस्य सार्वत्रिकापवादकत्वाभावादाह- निरवकाशादेरिति ।। आदिपदेन परीक्षितत्वपटुत्वादिबलवत्परिग्रहः । स्वभावप्रबलस्येत्यर्थः । अस्यापि पूर्वोपयोगमाह- अनेनेति ।।