नच स्वरूपमन्यद्वा ज्ञेयं ..

ब्रह्मणः पराभिमतस्य ज्ञातृज्ञेयरहितज्ञानरूपत्वस्य निराकरणम्

मूलम्

- नच स्वरूपमन्यद्वा ज्ञेयं ज्ञातारं च विना ज्ञानं दृष्टम् । अतो ज्ञातृज्ञेयाभावात् ज्ञानस्यापि शून्यतैव । अतः शून्यवादान्न कश्चिद्विशेषः । नच ज्ञातृज्ञेयरहितं ज्ञानं क्वापि दृष्टम् ।

तत्त्वमञ्जरी

स च विरोधो न सार्वत्रिक इत्याह- नच स्वरूपमिति ।। यदि स्वरूपं कोऽपि न जानातीति वदति तर्हि तं प्रति पृच्छामः । त्वं स्वरूपं जानासि वा न वेति । अहमपि न जानामीति वदसि चेत् आत्मस्वरूपं ज्ञात्वा हि अहंपदेनोक्तम् । अहंपदेन अहङ्कार एव उच्यते । नात्मस्वरूपमिति चेत् । अहमपि स्वरूपं न जानामीति वदतः स्वरूपस्याहङ्कारवेद्यत्वमेव निषिद्धम् । न स्वसंवेद्य-त्वम् । अप्रतिषिद्धं चानुमतमेवेत्यास्तामयं विस्तरः ।

ज्ञानस्यापि शून्यतैव ।। ज्ञानशब्दस्यापि शून्यार्थतैव तत्पक्षे ।

टीका 

ननु ज्ञानं ब्रह्म, न ज्ञातृ । ज्ञानञ्च क्रियात्वाद् यद्यपि न स्वकर्मकं तथाऽपि स्वभावात् पर-निरपेक्षमेव प्रकाशते । अतो न ब्रह्मणो लक्ष्यत्वानुपपत्तिः । नापि शून्यतापत्तिरित्यतः, स्यादेतदेवं कथञ्चिद्यदि ब्रह्मणो ज्ञानत्वं स्यात् । तदेव तु न युज्यत इति वक्तुमुपोद्धातमाह- नचेति ।। जानातिर्हि सकर्मकः प्रसिद्धः । अतस्तदर्थस्य कर्मणा भाव्यम् । कर्म च स्वरूपमन्यद्वा सम्भावितम् । क्रियात्वात् कर्त्रा च भवितव्यम् । नच ज्ञानं स्वरूपमन्यद्वा ज्ञेयं ज्ञातारञ्च विना दृष्टम् । तदेवमन्वयव्यतिरेकाभ्यां ज्ञानस्य ज्ञेयज्ञातृमत्त्वं व्यापकमिति सिद्धम् । ‘नच ज्ञेयं ज्ञातारं च विना ज्ञानं दृष्टम्’ इत्येतावति वक्तव्ये स्वरूपमन्यद्वेति वचनमुत्तरत्र दूषणसौकर्यार्थम् । तच्च वक्ष्यामः ।

ननु क्रियायाः स्ववृत्तिविरोधात् स्वरूपमित्यसम्भावितमेव । मैवम् । ज्ञानस्य स्वविषयत्वाभावे केवलान्वयव्याप्तिग्रहणानुपपत्तिप्रसङ्गात् । सर्वोपसंहारे स्वरूपं प्रविशति न केवलमिति चेन्न । स्वविषयत्वे सति अस्य वैधर्म्यस्यानुपयुक्तत्वात् ।

अस्तु ज्ञानस्य ज्ञातृज्ञेयवत्ता व्यापिका । ततः किमित्यत आह- अत इति ।। यत एवं ज्ञानस्य ज्ञातृज्ञेयवत्त्वं व्यापकं,  नच तदुभयमस्ति ब्रह्माख्यस्य ज्ञानस्य । तथा हि- न तावत्तस्य ज्ञाताऽ-स्ति । ततोऽन्यस्य वस्तुनोऽभावात् । पारतन्त्र्यप्रसङ्गाच्च । नापि ज्ञेयमस्ति । तद्धि स्वरूपं वा स्यादन्यद्वा । नाद्यः । स्वक्रियाविरोधभयेन तदनङ्गीकारात् । न द्वितीयः । वास्तवस्य परस्याभा-वात् । अवास्तवस्यापि मुक्तावभावात् । तथाच व्यापकाभावाद् व्याप्यस्य ज्ञानस्याप्यभाव एव । किञ्चैवं शशविषाणादेः शून्यस्याप्येवं सिद्धिः किं न स्यात् । तदपि स्वप्रकाशज्ञानरूपमित्यङ्गीकर्तुं शक्यत्वात् । तथात्वेऽप्यस्माकं कुतस्तत्सिद्धिरिति चेत्, ब्रह्मणोऽपि कुतः सिद्धिः । (स्व)वयमेव ब्रह्मेति चेत् समानं शून्येऽपीत्याशयवानाह- अत इति ।। उक्तरूपज्ञाततायाः शून्येऽपि सम्भवादित्यर्थः । ब्रह्मवादस्येति शेषः ।

ननु कर्तृकर्मणी कारकविशेषौ । कारकं च क्रियोत्पत्तावुपयुज्यते । नच ब्रह्मज्ञानं क्रियारूपम् । नाप्युत्पत्तिमत् । अतो जन्यज्ञानस्य ज्ञातृज्ञेयवत्तानियमेऽपि ब्रह्मज्ञानस्य तद्रहितस्यापि सत्ता भविष्यतीत्यत आह- नचेति ।। क्वापीत्यनेन नित्यानित्ययोरविशेषं सूचयति ।

अयं भावः । ज्ञानमिति जानाते रूपं न वा । नेति पक्षे दृष्टहानिरदृष्टकल्पना च स्यात् । आद्ये कथं क्रिया न स्यात् । भावे ह्ययं प्रत्ययो, न करणादाविष्टः । नचोत्पत्तावेव क्रिया कारकमपेक्षत इति नियमः । अस्ति ब्रह्मेत्यादौ नित्याया अपि सत्तायाः कर्तृसापेक्षतादर्शनात् । अन्यथा लकारानुत्पत्तिप्रसङ्गः । तस्मादुत्पादनेन विनाऽप्यविनाभावमात्रेण धात्वर्थस्य कर्त्रादिव्याप्तत्व-मस्त्येवेति ।

भावबोधः

स्यादेतदेवं कथञ्चिदिति ।। वृत्तिरूपं ज्ञानं साक्षिरूपपरमपेक्ष्यैव प्रकाशते । साक्षिरूपं तु स्वकर्मकमेव सत्प्रकाशत इति ज्ञानं स्वभावात् परनिरपेक्षमेव प्रकाशत इत्युक्तमित्यभिप्रेत्य कथञ्चिदित्युक्तम् । स्वक्रिया-विरोधभयेनेति ।। कर्मीभूतस्य स्वस्य क्रियात्वविरोधभयादित्यर्थः । शून्येऽपीति ।। असत्यपीत्यर्थः । अत एव पूर्वं शशविषाणादेरिति शून्यं विशेषितम् । अत्र सर्वत्र शून्यपदस्य बाह्याभिमतशून्यपरत्वे पूर्वोत्तर-वाक्यासङ्गतिरित्यवधेयम् । क्वापीत्यनेनेति ।। तथा च ‘न च स्वरूपमन्यद्वा’ इत्यनेनास्य न पुनरुक्तत्वमिति द्रष्टव्यम् ।

भावदीपः

शून्यत्वापत्तिरिति ।। असत्त्वापत्तिरित्यर्थः । ‘स्वभावात्प्रकाशते’ इत्युक्तेरिति भावः । तदर्थ-स्येति ।। ज्ञानस्येत्यर्थः । वक्ष्याम इति ।। अत इत्युत्तरवाक्यव्याख्यानावसरे ‘तद्धि स्वरूपं वा स्यादन्यद्वा’ इत्यादिनेति भावः । स्ववृत्तीति ।। स्वविषयकत्वेत्यर्थः । केवलान्वयेति ।। इदमभिधेयं ज्ञेयत्वादित्यत्र यज्ज्ञान-विषयस्तदभिधेयमित्यत्र ज्ञानस्य ज्ञानविषयत्वावश्यम्भावादिति भावः । स्वक्रियाविरोधेनेति ।। अन्यविषये स्वस्य क्रियात्वेऽपि स्वविषये स्वस्य क्रियात्वविरोधेन, स्वकर्मकत्वविरोधेनेति यावत् । एवं सिद्धिरिति ।। स्वरूपप्रकाशेनैव सिद्धिरित्यर्थः । विशेष इत्यत्र कस्येत्याकाङ्क्षायामाह- ब्रह्मवादस्येति ।। भावे ह्ययं प्रत्यय इति ।। ल्युट्प्रत्यय इत्यर्थः । ‘ज्ञा अवबोधने’ इत्यतो ‘भावे ल्युट् च’ इति सूत्रेण ल्युटि ‘युवोरनाकौ’ इत्यनादेशे ज्ञानमिति रूपत्वादिति भावः । अन्यथा लकारेति ।। अस्तीत्यत्र कर्त्रर्थकत्वाभावे ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ इति चकारात् कर्तरि च लडादयो भवन्तीत्युक्तेर्लट्प्रत्ययो न स्यादित्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

ज्ञानं ब्रह्मेति ।। धात्वर्थक्रियारूपं यद् ज्ञानं तदात्मकं ब्रह्मेत्यर्थः । न ज्ञात्रिति ।। तथात्वे क्रियायाः कर्तृत्वापत्तेः क्रियाकर्तृभावस्य च विरुद्धत्वादिति भावः । ज्ञानं च क्रियात्वाद्यद्यपि न स्वकर्मकमिति ।। ब्रह्मणो ज्ञानरूपधात्वर्थक्रियात्वं तावत्सिद्धम् । ज्ञानं च क्रियात्वात् कर्मसापेक्षम् । तच्च कर्म न तावदन्यत् । वास्तवस्य तस्याभावात् । अवास्तवस्य मुक्तावभावात् । अतः स्वकर्मकमेव तदिति वक्तव्यम् । तन्न सम्भ-वति । क्रियायाः कर्मत्वापत्तेः । क्रियाकर्मभावस्य च विरुद्धत्वादिति भावः । परनिरपेक्षमेवेति ।। कर्मनिरपेक्ष-मेवेत्यर्थः । अत इति ।। लक्ष्यार्थोपस्थितिसम्भवादित्यर्थः । शून्यतेति ।। असत्त्वेत्यर्थः । स्यादेतदेवं कथञ्चि-दिति ।। अभावेच्छादौ सत्प्रतियोगित्वसविषयकत्वादेस्स्वभावत्वदर्शनेन विषयसापेक्षत्वस्य ज्ञानस्वभावत्वेन स्वभावात् परनिरपेक्षमेव ज्ञानमित्ययुक्तमित्याशयेन कथञ्चिदित्युक्तमिति मन्तव्यम् । जानातिरिति ।। ‘ज्ञा अवबोधने’ इति धातुरित्यर्थः । तदर्थस्य ज्ञाधात्वर्थभूतस्य ज्ञानस्येत्यर्थः । भाव्यमिति ।। न ह्यकर्तृका क्रिया लोके दृश्व्ेति भावः । इति वचनमिति ।। विविच्य ज्ञेयवचनमित्यर्थः । तच्चेति ।। दूषणसौकर्यमित्यर्थः । वक्ष्याम इति ।। ‘अतो ज्ञातृज्ञेयाभावात्’ इति मूलव्याख्यानसमय इत्यर्थः । स्ववृत्तीति ।। यथा घटे ज्ञानमित्यत्र ज्ञानस्य घटे वृत्तिर्नाम तद्विषयकत्वमेव एवं ज्ञानरूपक्रियायाः स्वस्मिन् वृत्तिर्नाम स्वविषयकत्वमेव वाच्यम् । (श्री.टि.) तच्च विरुद्धमित्यर्थः । अत एव ज्ञानस्य स्वविषयकत्वाभाव इति वक्ष्यति । स्वरूपमित्यसम्भावित-मिति ।। स्वरूपं ज्ञेयमिति ज्ञानरूपक्रियात्मकस्य ब्रह्मणो ज्ञेयत्ववचनमसम्भावितमित्यर्थः । स्वविषयत्वाभाव इति ।। स्ववृत्तिविरोधेन स्वविषयकत्वाभावेऽङ्गीकृते सतीत्यर्थः । केवलान्वयव्याप्तीति ।। यत्प्रमेयं तदभिधेय-मिति व्याप्तिज्ञानं प्रमेयत्वादिरूपेण स्वविषयकमेवेति वक्तव्यम् । अन्यथा केवलान्वयित्वभङ्गापत्तेरिति भावः। शङ्कते- सर्वोपसंहार इति ।। यत्प्रमेयं तदभिधेयमिति सर्वोपसंहारेण व्याप्तिग्रहे ज्ञानस्वरूपं प्रमेयत्वेन रूपेणैव प्रविशति    न केवलं ज्ञानस्वरूपं  ज्ञानत्वेन रूपेण तत्र प्रविष्टमिति न केवलान्वयव्याप्तिग्रहणानुपपत्तिरि-त्यर्थः । स्वविषयकत्वे सतीति ।। सर्वोपसंहारेण व्याप्तिज्ञाने यथाकथञ्चित्स्वविषयकत्वे सिद्धे सति ज्ञान-स्वरूपस्य प्रमेयत्वेन रूपेणैव प्रवेशो न ज्ञानत्वेनेति वैधर्म्यस्यानुपयुक्तत्वादित्यर्थः । तस्य ब्रह्मरूपज्ञानस्य । पारतन्त्र्येति ।। अन्येन ज्ञेयत्वाङ्गीकारे पराधीनत्वप्राप्तेरिति भावः । ‘तच्च वक्ष्यामः’ इत्युक्तं दर्शयति- नापि ज्ञेयमस्तीत्यादिना ।। स्वक्रियाविरोधभयेनेति ।। कर्मीभूतस्य स्वस्य क्रियात्वविरोधभयेनेत्यर्थः । किञ्चैव-मिति ।। ज्ञातृज्ञेयशून्यस्यापि ब्रह्मणः स्वप्रकाशज्ञानरूपत्वाङ्गीकार इत्यर्थः । शून्यस्य अत्यन्तासतः । एवं ब्रह्मवत् । अस्माकं कुत इति ।। अस्मान् प्रति कुतः प्रमाणाच्छशविषाणादिसिद्धिरित्यर्थः । अस्मदीयज्ञाना-गोचरत्वेऽस्मान् प्रति तत्सिद्ध्यसम्भवादिति भावः । ब्रह्मणोऽपीति ।। तस्याप्यस्मदीयज्ञानागोचरत्वेऽस्मान् प्रति तत्सिद्धेरप्यसम्भवादिति भावः । नन्वहमिति जीवस्य स्वप्रकाशतया नित्यसिद्धत्वात्तदभिन्नस्यापि ब्रह्मणः स्वप्रकाशतया नित्यसिद्धिर्युक्तेत्याशङ्कते- स्वयमेवेति ।। जीव एवेत्यर्थः । वयमेव ब्रह्मेत्यपि क्वचित् पाठः । शून्येऽपीति ।। शशविषाणादिरूपासत्यपीत्यर्थः । उक्तरूपज्ञानताया इति ।। ज्ञातृज्ञेयशून्यज्ञानरूपताया इत्यर्थः । शून्येऽपि सम्भवादिति ।। असत्यपि सम्भवादित्यर्थः । न कश्चिद्विशेष इत्यनन्तरमध्याहार्यमाह- ब्रह्मवादस्येति ।।

क्रियारूपत्वमङ्गीकृत्याप्याह- नाप्युत्पत्तिमदिति ।। उत्पत्तिमत्क्रियारूपं न भवतीत्यर्थः । येन तदुत्पत्तौ कर्तृकर्मकारकापेक्षा स्यादिति भावः । ब्रह्मज्ञानस्येति ।। नित्यभूतस्येत्यर्थः । तद्रहितस्यापीति ।। ज्ञातृ-ज्ञेयरहितस्यापीत्यर्थः । सत्तेति ।। तथा च न ब्रह्मवादस्य शून्यवादाविशेष इति भावः । क्वापीत्यनेनेति ।। तथा च ‘न च स्वरूपमन्यद्वा ज्ञेयम्’ इत्यनेनास्य न पुनरुक्तता । नियमद्योतनार्थत्वादिति भावः । नित्यानित्ययो-रिति ।। ज्ञानयोरिति शेषः । नैतावन्मात्रमुक्तशङ्कापरिहाराय पर्याप्तमित्यत आह- अयं भाव इति ।। जानाते-रिति ।। ‘ज्ञा अवबोधने’ इति धातोरित्यर्थः । दृष्टहानिरिति ।। दृष्टस्य ज्ञाधातुरूपत्वस्य हानिरदृष्टस्य धात्वन्तररूपत्वस्य च कल्पना स्यादित्यर्थः । कथं क्रिया न स्यादिति ।। तथा च ‘न च ब्रह्मज्ञानं क्रियारूपम्’ इत्युक्तमसद् इति भावः । ननु ज्ञायतेऽनेनेति ज्ञानमिति करणेऽपि ल्युटो विहितत्वात्करणस्य क्रियारूपत्वा-भावादुक्तमसदित्यत आह- भावे हीति ।। धात्वर्थरूपक्रियायाम् अयं प्रत्ययो ल्युड्प्रत्ययः । हीत्यनेन ‘ल्युड् भावे’ इति स्मरणं सूचयति । तथा च ‘ज्ञा अवबोधने’ अस्माद्भावे ल्युट्प्रत्यये ‘लशक्वतद्धिते’ इति सूत्रेण (श्री.टि.) लकारलोपे ‘हलन्त्यम्’ इति टकारलोपे युकारस्य ‘युवोरनाकौ’ इति सूत्रेणानादेशे ज्ञा अनेति जाते अकारस्य पूर्वरूपे (ज्ञप्ति)र्ज्ञानमिति भाव एवायं प्रत्ययो द्रष्टव्य इत्यर्थः । न करणादाविष्ट इति ।। तथात्वे ब्रह्मणः कारणत्वापत्तेरिति भावः । ननु क्रियारूपत्वेऽपि नित्यत्वान्न कारकापेक्षेति चेत्तत्राऽह- न चोत्पत्तावे-वेति ।। कुतो न नियम इत्यत आह- अस्तीति ।। सत्ताया इति ।। ‘अस भुवि’ इति धात्वर्थभूताया इत्यर्थः । अन्यथेति ।। नित्याया अपि सत्तायाः कर्तृसापेक्षतानङ्गीकार इत्यर्थः । लकारेति ।। अस्धातोः कर्तरि लट्प्रत्यये तस्य तिप् इत्यादेशे ‘हलन्त्यम्’ इति पकारलोपे अस्तीति रूपम् । तथा च सत्तायाः नित्यत्वेन कर्तृसापेक्षत्वाभावे कर्त्रर्थलट्प्रत्ययानुत्पत्तिप्रसङ्गेनास्तीति रूपनिष्पत्तिर्न स्यादिति भावः । अविनाभावमात्रेणेति ।। द्रव्यत्व-संयोगवत्त्वादाविवेति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

स्यादेतदेवं कथञ्चिदिति ।। वृत्तिरूपं ज्ञानं साक्षिरूपपरमपेक्ष्यैव प्रकाशते । साक्षिरूपन्तु स्वकर्मकमेव सत्प्रकाशत इति ज्ञानस्वभावात् परनिरपेक्षमेव प्रकाशत इत्ययुक्तमित्यभिप्रेत्य कथञ्चिदित्युक्तम् । तच्चेति ।। दूषणसौकर्यं चेत्यर्थः । वक्ष्याम इति ।। ‘नापि ज्ञेयमस्ति’ इत्यादिनेति शेषः । स्वरूपमितीति ।। स्वरूपं ज्ञेयमित्यसम्भावितमित्यर्थः । ज्ञानस्येति ।। यत्प्रमेयं तदभिधेयमिति व्याप्तिज्ञानस्य स्वविषयत्वमभ्युपेयम् । अन्यथा सर्वोपसंहारेण व्याप्तिग्रहासिद्धिप्रसङ्गादिति भावः । स्वक्रियाविरोधभयेनेति ।। कर्मीभूतस्य स्वस्य क्रियात्वविरोधभयेनेत्यर्थः । शून्यस्यापीति ।। असतोऽपीत्यर्थः । न तु शून्यवाद्यभिमततत्त्वरूपशून्यस्य । अत एव शशविषाणादेरित्युक्तमिति ध्येयम् । तथात्वेऽपीति ।। स्वप्रकाशज्ञानरूपतया तस्य शून्यं प्रति सिद्धत्वेऽपीत्यर्थः । अस्माकमिति ।। अस्मदीयज्ञानागोचरत्वेनास्मान्प्रति तत्सिद्ध्युपायाभावादिति भावः । ‘न च स्वरूपमन्यद्वा’ इत्यनेनैव ज्ञातृज्ञेयरहितज्ञानस्य निराकृतत्वात्पुनस्तदाशङ्क्य निराकरणमयुक्त-मित्यतोऽवतारयति- ननु कर्तृकर्मणी इति ।। ननु भाव इव करणादावपि ल्युड्विधानान्न जानातिरूपत्वमात्रेण क्रियात्वनिश्चय इत्यत आह- भावे हीति ।। भावार्थे ह्ययं प्रत्यय इत्यर्थः । ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्तेरेव सुप्रसिद्धत्वादिति भावः । सत्तायाः परानपेक्षत्वे दूषणमाह- अन्यथेति ।। ‘लः कर्मणि’ इति कर्तरि तद्विधानादिति भावः ।

लघुप्रभा

(व्या.टि.)

उक्तदोषानुद्दिधीर्षुरन्यानपेक्षप्रकाशत्वं स्वप्रकाशत्वमित्युपेत्य चोदयति- नन्वित्यादिना ।। पूर्व-मेकक्रियायां कर्तृकर्मभावविरोधान्न ब्रह्मणो ज्ञातृज्ञेयभाव इत्युक्तम् । अधुना क्रियात्वान्न कर्तृकर्मभाव इत्याह- ज्ञानं ब्रह्मेति ।। क्रियात्वादिति च । न स्वकर्मकमिति ।। उपलक्षणमेतत् । स्वकर्तृकमित्यपि  ग्राह्यम् । क्रियात्वस्य कारकत्वाभावे हेत्वौचित्यात् । अतो नेति ।। लक्षणाबीजस्य स्वरूपसिद्धेः सत्त्वादित्यर्थः । शून्य-तेति ।। ब्रह्मस्वरूपसत्ताया अपि ब्रह्मवदेव निरपेक्षं प्रकाशनादित्यर्थः । उपोद्घातमिति ।। तदुपयोग्यर्थमि-त्यर्थः । जानातिरिति श्तिपा धातुनिर्देशः । सकर्मक इति ।। कर्माकाङ्क्षाविनाभूतः । अतः सकर्मकः । तच्चार्थद्वारेत्याह- अत इति ।। तदर्थस्य ज्ञानस्य । अनेन ज्ञानं सकर्मकम्, तथा प्रसिद्धधात्वर्थत्वादित्यनुमानं (व्या.टि.)सूचयति । क्रियात्वादिति ।। धात्वर्थत्वादित्यर्थः । क्रियावाचिन इति धात्वर्थे क्रियापदव्यवहारात् । क्रियात्वमात्रस्य वृद्ध्यादौ व्यभिचारदर्शनात्कर्मसाधनेन प्रयोगः । क्रियायाः कर्त्रविनाभावात्तत्वेन कर्तारं साधयति- कर्त्रा भवितव्यमिति ।। एवं पृथग् हेतुद्वयं विधाय साध्यद्वयेऽप्येकं ज्ञानत्वहेतुं वक्तुं तस्य कारकद्वयाविनाभावं दर्शयति - न च ज्ञानमिति ।। उपसंहरति - तदेवमिति ।। ज्ञानस्येति भावप्रधानः । एवमुत्तरत्रापि । उपोद्घातमाह- व्यापकमिति ।। अधिकोक्तिं परिहरति- सौकर्यार्थमिति ।। तच्चेति ।। दूषणमित्यर्थः । विकल्पानुपपत्तिं स्वव्याहत्या चोदयति- स्ववृत्तीति ।। क्रियाकारकभावस्य पूर्वापरभावरूपस्याऽश्रयविषयभावरूपस्य चैकस्मिन् स्वस्मिन्वृत्तिविरोध इत्यर्थः । अथवा क्रियायाः कारकानुप्रवेशविरोधादित्यर्थः । स्वरूपमिति ।। ज्ञेयज्ञातृ-विशेषमित्यर्थः । तत्र ज्ञानस्य स्वकर्तृकत्वं कर्त्रन्तराभावेन सिसाधयिषुः स्वकर्मकत्वं विपक्षे बाधकेन साधयति- मैवमिति ।। केवलान्वयीति ।। प्रमेयत्वादेरित्यर्थः । स्वरूपमिति ।। व्याप्तिज्ञानमित्यर्थः । अन्यथा तत्रैव व्यभिचारेण तस्य केवलान्वयित्वभङ्गप्रसङ्गादित्यर्थः । केवलमिति ।। स्वातन्त्र्येणेत्यर्थः । सतीति ।। स्वप्रवेशे सिद्धे सतीत्यर्थः । वैधर्म्यस्य वैलक्षण्यमात्रस्यानुपयुक्तत्वात् कर्तृकर्मभेदानुपयुक्तत्वेनार्थान्तरत्वमित्यर्थः । फल पृच्छति- किमिति ।। ब्रह्माख्यज्ञानस्य ज्ञाता किं ब्रह्मान्यः, उत ब्रह्मैव वेति विकल्प्याऽद्यं निराह- ततोऽन्यस्येति ।। वस्तुन इति ।। सत्यस्येत्यर्थः । पारतन्त्र्येति ।। क्रियाश्रयस्य कर्तृत्वेनान्यस्य कर्तृत्वे ब्रह्मज्ञानाख्यक्रियाश्रयत्वापातादित्यर्थः । ब्रह्माख्यप्रतीतेः परायत्तत्वापाताद्वा । न द्वितीयः । ज्ञानक्रियाया एव ज्ञातृत्वे स्ववृत्तिविरोधादिति बहिरेवोपस्कर्तव्यम् । ज्ञातृनिराकरणानन्तरं ज्ञेयं निराकरोति- नापीति ।। स्वक्रियाविरोधेति ।। स्वकर्मकक्रियाविरोधेत्यर्थः । क्रियाया एव स्वजन्यफलाश्रयत्वरूपकर्मत्वासम्भवादिति यावत् । न द्वितीय इति ।। अन्यदिति द्वितीयो नेत्यर्थः । तथाहि । तदन्यद्वास्तवं मृषा वेति विकल्प्याऽद्यं निराह- वास्तवस्येति ।। द्वितीयं पराह- अवास्तवस्येति ।। मुक्ताविति ।। निर्विषयत्वे तात्पर्यम् । अविद्या-निवृत्तावाविद्यकाभावात् । अनेनानादितो ब्रह्मणो भ्रमत्वमभिप्रैति । निगमयति- तथाचेति ।। अतिप्रसङ्गेन दूषयति- किञ्चेति ।। एवमिति ।। स्वप्रकाशतया सिद्धावित्यर्थः । तत्र प्रसङ्गस्याऽपादकं व्याकरोति- अङ्गीकर्तु-मिति ।। तत्सिद्धिः शून्यसिद्धिः । सिद्धिरिति ।। अस्माकमिति वर्तते । समानमिति ।। स्वयमेव शून्यमित्युत्तरं समानमित्यर्थः । ‘नित्यभावनया भातं तद्भावं योगिनं नयेत्’ इति शून्यवादादित्यर्थः ।

क्रियोत्पत्ताविति ।। उत्पत्तावेव क्रिया कारकमपेक्षते । ‘क्रियां कुर्वद्धि कारकम्’ इति शाब्दिकप्रयोगादि-त्यर्थः । क्रियारूपमिति ।। तस्य परिमाणवत्त्वेन द्रव्यत्वादित्यर्थः । नापीति ।। अनन्तमित्यानन्त्यवचनादि-त्यर्थः । अनेन क्रियात्वहेतोरसिद्धिरुक्ता भवति । निगमयति- अत इति ।। अनेन ज्ञानत्वहेतोर्जन्यज्ञानत्वेन सोपाधिकतामाचष्टे । अविशेषमिति ।। क्वापीत्यस्य नित्येऽनित्ये चेत्यर्थात् । अनेनोपाध्यभावस्य साध्याभाव-व्यभिचारं चोदयता उपाधेरप्रयोजकतोक्ता भवति । कथमनेन क्रियात्वहेतोरसिद्धिपरिहार इत्यत आह- अयं भाव इति ।। ज्ञानमिति ।। सत्यं ज्ञानमिति ब्रह्मविशेषणं ज्ञानपदमित्यर्थः । दृष्टेति ।। व्याकरणव्युत्पन्नस्य (व्या.टि.) हानिरव्युत्पन्नस्य परिग्रह इत्यर्थः । कथमिति ।। धात्वर्थत्वादित्यर्थः । अनेन ब्रह्मरूपं ज्ञानं क्रिया, जानाति प्रकृतिपदवाच्यत्वादित्यनुमानं सूचयति । ननु ‘ज्ञानान्येतानि भिन्नानि’ इत्यादौ करणेऽपि प्रयोगान्न क्रियात्वनिश्चय इत्यत आह- भावे हीति ।। अयं प्रत्यय इति ।। अत्रत्यो ल्युडिति भावः । ‘विज्ञानं ब्रह्म’ इति समाख्यानादिति भावः । अनेन भावप्रत्ययान्तत्वेन विशिनष्टि । क्रियाकारकसम्बन्धे द्वारनियमं वारयति- न चेति ।। अन्यथेति ।। अकर्मकधातोरभावार्थत्वे कर्त्रर्थतानियमेन तदभावे कर्तृलकारो न स्यादित्यर्थः । विनाऽपीति ।। व्याप्तावविनाभाव एव प्रयोजको न कार्यकारणभाव इति भावः । क्रियां निर्वक्तुं धात्वर्थ-स्येत्युपसंहारः । अस्त्येवेति व्याप्त्यवधारणम् ।