न चैतेषां वचनानामेवाप्रामाण्यम्

वेदाप्रामाण्यनिश्चय निरासः

मूलम्

 - न चैतेषां वचनानामेवाप्रामाण्यम् ।

तत्त्वमञ्जरी

अत्राऽहुः - ईश्वरादिविषयो वेदोऽप्रमाणम्; प्रमाणान्तरायोग्यार्थत्वात्, खपुष्पाद्यस्तित्व-विषयवाक्यवत् । अथवा, आप्ताप्रणीतत्वात्, उन्मत्तवाक्यवत्, इत्यत आह - न चेति ।।

टीका  

अत्राऽहुः । यदनृतं तदप्रमाणं दृश्व्ं यथोन्मत्तवाक्यम् । अनृतं च ‘पुत्रकामः पुत्रेष्ट्या यजेत’ इत्यादिवेदवाक्यम् । कृतायामपि इष्टौ पुत्रजन्मानुपलम्भात् । एवं ‘मृदब्रवीत्’ इत्यादि, अनुमान-विरुद्धत्वात् । स्वव्याहतं चाप्रमाणं दृष्टम् । स्वव्याहतं च ‘उदिते होतव्यम् अनुदिते होतव्यम्’ इत्यादि । पुनरुक्तं चाप्रमाणम् । पुनरुक्तं च वेदवाक्यं, शाखान्तरोक्तस्य शाखान्तरेऽभिधानात् । एकस्यामपि शाखायां वाक्यावृत्तिदर्शनात् । ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति स्वयमेव विधा-नाच्च । निरर्थकं चाप्रमाणम् । निरर्थकं च ‘सृण्येव’ इत्यादि । प्रमाणान्तरसिद्धार्थं च न प्रमाणम् । तथाविधं च ‘अग्निर्हिमस्य भेषजम्’ इत्यादि वेदवाक्यम् । एवं पुराणेऽपि अनृतत्वादीनि ज्ञातव्यानि (द्रष्टव्यानि) । तद्दृष्टान्तेन अशेषस्यापि वेदादिभागस्याप्रामाण्यमनुमातव्यम् । किञ्च संवादरहितं विप्रलम्भकादिवाक्यमप्रमाणम् । तथाविधं च वेदादिकम् । एवञ्च वेदपुराणयोरप्रामाण्यात् तदन्तर्गतानामुदाहृतवाक्यानाम् अप्रामाण्यमेव । एतेषां वचनानामेव अप्रामाण्ये सति कथमेतद्बलात् विष्णोस्सदागमैकविज्ञेयत्वसिद्धिः । एवमेव वेदादिभिः निर्दोषत्वादिसिद्धिरपि परास्तेत्यत आह- न चैतेषामिति ।। चशब्दस्समुच्चये । एतच्छङ्कापरिहारसमुच्चितस्यैव उदाहृतप्रमाणस्य विवक्षित-साधकत्वात् । एवमुत्तरत्रापि बोद्धव्यम् ।

अयमभिप्रायः । किमिदमनृतत्वम् । अर्थशून्यत्वमिति चेत् । ननु एतदेवाप्रामाण्यमिति साध्याविशिष्टता स्यात् । प्रमाणान्तरविसंवादोऽनृतत्वमिति चेत् स किमापाततः सर्वथा वा । नाऽद्यः । तस्य सर्वत्र सम्भवेन अनैकान्त्यात् । द्वितीये सन्दिग्धासिद्धिः, किमत्र सर्वथा प्रमाणविसंवाद एव उत वैगुण्यादिनिमित्तं फलादर्शनादिकमिति सन्देहापरिहारात् । व्याघातेनापि किं द्वयोरप्रामाण्यं साध्यमुतान्यतरस्य । नाऽद्यः । अन्यतरप्रामाण्येऽपि व्याघातसम्भवेन सन्दिग्धकालातीतत्वस्य अनैकान्तिकत्वस्य च आपातात् । द्वितीये पक्षीकृतस्यैव प्रामाण्यसम्भवेन सन्दिग्धबाधानिस्तारात् । किञ्च व्याघातोऽपि आपाततः सर्वथा वा । नाऽद्यः । अनैकान्त्यात् । द्वितीये सन्दिग्धासिद्धिः, किमत्र सर्वथा व्याघात एव उताधिकार्यादिभेदेन व्यवस्थेति सन्देहानिस्तारात् । पौनरुक्त्यं तु प्रमाणसम्प्लवे व्यभिचाराद् अप्रामाण्यसाधकं न भवति । वैयर्थ्यं कथञ्चित् साधयेत्, तदपि नास्ति, किमिदं पुनरुक्तमेव उताधिकविवक्षादिनाऽनुवादादिरूपमिति सन्दिग्धत्वात् । एतेन प्रमाणान्तरसिद्धार्थत्वमपि निरस्तम् । नैरर्थक्यमप्यापाततश्चेद् अनैकान्ति-कम् । सर्वथा तु सन्दिग्धम्, किमत्र शक्तितात्पर्यापरिज्ञानादर्थाप्रतिपत्तिः, उत सर्वथा नैरर्थक्यादिति सन्देहात् । संवादराहित्यं च भागासिद्धम्, ‘अग्निर्हिमस्य’ इत्यादेस्संवाददर्शनात् । किमयथार्थ-त्वादेवात्र संवादो नास्ति उत तस्यार्थस्य तदेकप्रमाणकत्वादित्यन्यथासिद्धिसन्देहाच्च न प्रमाण(नाप्रामाण्य)मिति ।

भावबोधः

।। वाक्यावृत्तीति ।। ‘कुवित्सोमस्यापाम् इति’ वाक्यावृत्तिदर्शनादित्यर्थः । उदाहृतवाक्यावृत्तेरनु-वादरूपत्वेनोपपत्तौ न पुनरुक्तिज्ञापकत्वमित्यत आह- त्रिः प्रथमामिति ।। तथा चानेन वेदेन पुनरुक्ति-रस्तीत्युच्यत इति न आवृत्तेरर्थान्तरं कल्पनीयमिति भावः ।। किञ्चेति ।। वेदार्थरूपस्येश्वरादेः प्रमा-णान्तरावेद्यत्वस्योक्तत्वादिति भावः ।। सन्दिग्धकालातीतत्वस्येति ।। आहितस्य साध्यसन्देहस्या-नुमितिप्रतिबन्धकत्वात् प्रकृते त्वन्यथासिद्ध्या साध्यसन्देहस्याऽहितत्वात् ।। प्रमाणसम्प्लव इति ।। भिन्न-वक्तृकशब्दरूपप्रमाणानेकसम्प्लव  इत्यर्थः  ।।  न प्रमाणमितीति  ।।  संवादराहित्यमप्रामाण्ये प्रमाणं न भवतीत्यर्थः ।

भावदीपः

‘अनृतव्याघातपुनरुक्त्यादिदोषेभ्यः’ इति पूर्वपक्षगौतमसूत्रोक्तरीत्या बौद्धमतमनूद्य तन्निरासकत्वे-नोत्तरवाक्यमवतारयति- अत्राऽहुरिति ।। वेदाप्रामाण्यवादिनो बौद्धा इति योज्यम् । अत एव तन्मतरीत्योदा-हरणोपनयाख्यावयवद्वयात्मकान्येवानुमानान्याह- यदनृतमित्यादिना ।। इत्यादीत्यनन्तरं वाक्यमित्यनुषङ्गः। एवमग्रेऽपि ।। अनुमानविरुद्धत्वादिति ।। मृन्न वक्त्री जडत्वादित्यनुमानविरुद्धत्वादित्यर्थः ।। दृष्टमिति ।। ‘गिरिरग्निमान्नाग्निमान्’ इत्यादिवाक्यमिति योज्यम् ।। शाखान्तरोक्तस्येति ।। ‘अग्निहोत्रं जुहोति’ इत्येकत्रोक्तस्य शाखान्तरेऽपि उक्तेरिति भावः ।। वाक्यावृत्तीति ।। ‘कुवित्सोमस्यापामिति, कुवित्सोमस्या-पामिति’ इत्येवमिति भावः ।। त्रिःप्रथमामिति ।। ‘पञ्चदश सामिधेनीरनुब्रूयात्’ इति दर्शपूर्णमासप्रकरणे श्रुतपञ्चदशत्वं तत्प्रकरणपठितानामेकादशानां सामिधेनीशब्दितानां प्रवोवाजा’ इत्यादिकानामृचां कथं सम्पाद्य-मित्यत उच्यते त्रिरिति । प्रथमाम् आद्याम् ऋचं त्रिरन्वाह, त्रिरुत्तमाम् । एवं पञ्चदश सम्पद्यन्त इति ।। विधाना-च्चेति ।। वाक्यावृत्तेरित्यनुषङ्गः । तन्मात्रस्यास्त्वप्रामाण्यम्, सर्वस्य वेदस्य कुतस्तदित्यत आह- तद्दृष्टान्ते-नेति ।। ‘तत्सामान्यादितरेषु तथात्वम्’(१-२-२३) इति जैमिनिसूत्रात् कृत्स्नोऽपि वेदोऽप्रमाणम्, वेदवाक्य-त्वात्, अनृतादिवेदवदित्याद्यनुमातव्यमित्यर्थः ।। तथाविधं च वेदादिकमिति ।। मानान्तराग्राह्यार्थबोधकत्वा-दिति भावः । एवकारतात्पर्यं व्यनक्ति- एतेषामिति ।। समुच्चय इत्युक्तं व्यनक्ति- एतच्छङ्केति ।। अप्रामाण्यशङ्के-त्यर्थः । न चेति वक्ष्यमाणस्थलेऽपि बोध्यमित्याह- एवमुत्तरत्रापीति ।। प्रागुक्तयुक्तीनां का गतिरित्यत आह- अयमभिप्राय इति ।। विसंवाद इति ।। फलानुपलभ्य इत्यर्थः ।। सर्वत्रेति ।। दूरस्थघटादिज्ञानेऽपी-त्यर्थः ।। फलादर्शनादिकमिति ।। पुत्रकामेष्ट्यादेः फलोत्पादकत्वादर्शनमादिपदार्थः । मृदब्रवीदित्यादावभि-मानिनये मृदादिशब्दानां चेतनार्थत्वाभ्युपगमेन जडत्वहेतोस्तत्रासिद्धिरिति स्फुटत्वादत्र तदनुक्तिः ।। सन्दिग्ध-कालातीतत्वस्येति ।। यद्यपि सन्दिग्धे न्यायः प्रवर्तत इति साध्यतदभावसन्देहरूपबाधसन्देहस्यानुमानाङ्गत्वेन न दोषत्वम्, तथाऽप्युपाध्यादिसन्देहाहितबाधसन्देहस्य दोषत्वादिह च व्याहतत्वादिहेतुरग्निमत्पर्वते गिरिरग्नि-मान्नाग्निमानित्यादाविवान्यतराप्रामाण्येनापि उपपत्त्योभयाप्रामाण्येऽप्रयोजक इत्यप्रयोजकत्वशङ्कया, शशशृङ्गं तीक्ष्णं न तीक्ष्णमित्यादाविव द्वयमप्यप्रमाणमुत गिरिरग्निमान्नाग्निमानित्यादाविवान्यतरदेवाप्रमाणमिति बाध-सन्देहस्याऽहितत्वाद्दोषत्वमेवेति भावः ।। अनैकान्तिकत्वस्य चेति ।। गिरिरग्निमान्नाग्निमानित्यादिव्याहत-वाक्य इति भावः ।। द्वितीय इति ।। अन्यतरदप्रमाणमिति पक्षे, यद्वाक्यं पक्षीकृत्याप्रमाणमिदमिति साध्यते तदा व्याघातरूपहेतोः पक्षीकृतवाक्यादन्यवाक्याप्रमाण्येनाप्युपपत्त्या पक्षीकृतवाक्याप्रामाण्यसाधनेऽप्रयोजक-त्वेन तत्सन्देहाहितस्येदं वाऽप्रमाणं तद्वाऽप्रमाणमित्यादिरूपेण जायमानबाधसन्देहस्य दोषत्वात् सन्दिग्ध-बाधानिस्तारादित्युक्तम्- अनैकान्त्यादिति ।। घटोऽयं द्रव्यं चेत्यादाविति भावः ।। अधिकार्यादीति ।। केषाञ्चिच्छाखिनामुदिते केषाञ्चिदनुदिते इत्येवमित्यर्थः ।। प्रमाणसम्प्लव इति ।। अक्षादिप्रमाणसम्प्लव इति वा नानाकर्तृकशब्दरूपप्रमाणमेलन इति वाऽर्थः ।। सन्दिग्धत्वादिति ।। तथा च सन्दिग्धासिद्धिरिति भावः। एतेनेति ।। प्रमाणसम्प्लवे व्यभिचारकथनेनेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

सौगतास्तु ‘सोपनीतिमुदाहृतिम्’ इति वचनादवयवद्वयमेव दर्शयन्ति- यदनृतमिति ।। एवं मृदब्रवीदित्यादीति ।। अप्रमाणमिति शेषः ।। अनुमानविरुद्धत्वादिति ।। मृत् न वक्त्री, जडत्वादित्यनु-मानविरुद्धत्वादित्यर्थः ।। शाखान्तरोक्तस्येति ।। ऋक्शाखायामुक्तस्यैव सहस्रशीर्षेत्यादेर्यजुःशाखा-यामप्यभिधानादित्यर्थः ।। वाक्यावृत्तीति ।। ‘कुवित्सोमस्यापामिति’, ‘मरुद्भिरग्न आगहि’, ‘उलूखल-सुतानाम्’, ‘आतून इन्द्र’ इत्यादिवाक्यानामावृत्तिदर्शनादित्यर्थः । उदाहृतवाक्यानामनुवादादिरूपत्वेना-प्युपपत्तेर्न पुनरुक्तिज्ञापकत्वमित्यत आह- त्रिःप्रथमामन्वाहेति ।। प्रथमामृचं त्रिः- त्रिवारमन्वाह- अवो-चम् । उत्तमाम्- अन्तिमाम् ऋचं त्रिरन्वाहेत्यर्थः । तथा चानेन वाक्येन वेदे पुनरुक्तिरस्तीत्युच्यते । अतो न वाक्यावृत्तेरर्थान्तरं कल्पनीयमिति भावः ।। निरर्थकं चेति ।। कचटतपानां जबगडदत्वादिकमिवेत्यर्थः । प्रमाणान्तरसिद्धार्थमिति ।। प्रमाणान्तरसिद्धार्थप्रतिपादकमित्यर्थः ।। तथाविधं चेति ।। अग्नेर्हिमनिवारक-त्वस्य स्पार्शनप्रत्यक्षसिद्धत्वादिति भावः । ननूक्तरीत्या केषाञ्चिदेव वेदपुराणवाक्यानामप्रामाण्येऽपि नाशेषवेदा-प्रामाण्यं प्राप्तम् । अतस्तेन विष्णोः सदागमैकविज्ञेयत्वादिसिद्धिर्भविष्यतीत्यत आह- तद्दृष्टान्तेनेति ।। अनृतव्याहतादिवाक्यदृष्टान्तेनेत्यर्थः ।। अनुमातव्यमिति ।। तथा चावशिष्टो वेदभागः पुराणभागश्च, अप्रमा-णम्, वाक्यत्वात् सम्प्रतिपन्नवेदपुराणवाक्यवदित्यनुमातव्यमित्यर्थः ।। तथाविधं च वेदवाक्यमिति ।। वेदार्थभूतेश्वरस्वर्गादेः प्रमाणान्तरावेद्यत्वस्योक्तत्वादिति भावः । न चैतेषां वचनानामेवेति मूलं योजयति- एवं चेति ।। एवकाराभिप्रायं वदन् मूलेऽध्याहार्यं दर्शयति- एतेषामित्यादिना ।। एवमेवेति ।। एवं वेदपुराण-योरेवाप्रामाण्यात् तदन्तर्गतानाम् ‘वर्जितस्सर्वदोषैर्यो गुणसर्वस्वमूर्तिमान्’ इत्यादीनां तृतीयपरिच्छेदे द्वितीय-परिच्छेदे चोदाहरिष्यमाणानामपि वाक्यानामप्रामाण्यात्तद्बलाद्विष्णोर्निर्दोषत्वाशेषसद्गुणत्वादिसिद्धिस्तृतीय-परिच्छेदे द्वितीयपरिच्छेदे च क्रियमाणा परास्तेत्यर्थः । ननु कथं चशब्दस्समुच्चयार्थः । एतेषां वचनानामप्रामाण्यं च नास्तीत्येतत्समुच्चेयस्यान्यस्यादर्शनादित्यत आह- एतच्छङ्केति ।। तथा च न केवलम् ऋगाद्या इत्युदाहृत-प्रमाणेन सदागमैकविज्ञेयत्वादिरूपविवक्षितार्थसिद्धिः । किं नामैतेषां वचनानामप्रा-माण्यशङ्का च नास्ती-त्यर्थः । अप्रामाण्यशङ्कानिरासाभावे उदाहृतप्रमाणेन विवक्षितार्थसिद्धेरयोगादिति भावः ।। एवमुत्तरत्रापी-ति ।। यत्र समुच्चेयो नास्ति समुच्चयार्थश्चशब्दश्चास्ति तत्रैतद्रीत्या शङ्कानिराससमुच्चितस्यैवोक्तप्रमाणस्य विवक्षितार्थसाधकत्वाददोष इति बोद्धव्यमित्यर्थः ।

नन्वेतेन  कथमनृतत्वादिहेतूनां  वेदाप्रामाण्यसाधकत्वं  निराकृतमित्यत  आह-  अयमभिप्राय इति ।। नन्वित्यस्य निश्चयेनेत्यर्थः ।। प्रमाणान्तरविसंवाद इति ।। प्रमाणान्तरविरोध इत्यर्थः । न तु प्रमाणान्तर-संवादाभाव इत्यर्थः । तथात्वे संवादरहितं चाप्रामाणं दृष्टमिति शङ्काग्रन्थस्य, संवादराहित्यं च भागासिद्धमित्युत्तर-ग्रन्थस्य च पौनरुक्त्यं स्यादिति ध्येयम् ।। सर्वत्रेति ।। ‘केशवं पतितं दृष्ट्वा पाण्डवा हर्षनिर्भराः । रुदन्ति कौरवाः सर्वे’  इति  प्रमाणभूते  वाक्य आपाततः प्रमाणान्तरविरोधसद्भावादनैकान्त्यमित्यर्थः ।। द्वितीय (श्री.टि.) इति ।। उक्तवाक्ये तु न सर्वथा प्रमाणान्तरविरोधः । के- उदके शवं- पतितं दृष्ट्वा बका हर्षनिर्भराः काकाश्च सर्वे रुदन्तीत्यर्थे प्रमाणान्तरविरोधाभावाद् अतो न व्यभिचार इति भावः । सन्दिग्धासिद्धिमेवोपपादयति-  किमत्रेति ।। ‘पुत्रकामः पुत्रेष्ट्या यजेत’ इत्यादौ ।। प्रमाणविसंवाद एवेति ।। तन्निमित्तकमेव फलादर्शनादिक-मिति शेषः ।। वैगुण्येति ।। कर्तृकर्मादिवैगुण्येत्यर्थः । सन्दिग्धकालातीतत्वं सन्दिग्धानैकान्तिकत्वं चोपपाद-यितुमुक्तम्- अन्यतरप्रामाण्येऽपीति ।। नन्वत्र कथं सन्दिग्धकालातीतता । वाक्यद्वयं पक्षीकृत्य अप्रामाण्यं साधनीयम् । तत्र द्वित्वावच्छिन्ने यत्र कुत्रचिदेकत्राप्रामाण्यरूपसाध्याभावस्य निश्चितत्वादिति चेत्, सत्यम् । द्वित्वावच्छिन्नस्यान्यतरस्य प्रामाण्येऽपि व्याहतिर्यद्यपि सम्भवति, तथाऽपि द्वित्वावच्छिन्नस्य कस्य वाक्यस्या-प्रामाण्यं साध्यत इति पृष्टे, यद्युदित इति वाक्यस्यानुदित इति वाक्यस्य वेति ब्रूयात्, तर्हि तस्य वस्तुगत्या प्रामाण्यमेव किं न स्यादित्युभयोरप्रामाण्यं सन्दिग्धबाधितम् । यथा हि नदीतीरे पञ्चफलानां वस्तुतस्सत्त्वेऽसत्त्वे वा पञ्चफलानि सन्ति न सन्तीति वाक्ययोर्व्याहतत्वेऽपि सन्तीत्यस्य वा न सन्तीत्यस्य वा प्रामाण्यमेव भवति नोभयोरप्रामाण्यं तद्वत् । तथा व्याहतयोरुभयोर्मध्ये वस्तुतो यत्प्रमाणं तत्र व्याहतत्वमस्ति नास्ति चाप्रामाण्यमित्यनैकान्त्यमित्यर्थः ।

ननु कथमत्र सन्दिग्धबाधस्य दोषत्वम्? साध्याभावसन्देहरूपबाधसन्देहस्य ग्राह्यसंशयपर्यवसन्नत्वेन तस्या-नुमित्यनुकूलत्वेन तदप्रतिबन्धकत्वादिति चेदुच्यते । स्वारसिकसंशयस्यैवानुमानाङ्गत्वं न त्वाहितसंशयस्य । प्रत्युत तस्यानुमितिप्रतिबन्धकत्वमेव । प्रकृते च व्याहतत्वरूपो हेतुरप्रामाण्यरूपसाध्यं विनाऽन्यतरप्रामाण्ये-नाप्युपपद्यत इत्यन्यथासिद्ध्या साध्यसन्देहस्याऽहितत्वेन युक्तं सन्दिग्धबाधाभिधानमिति भावः ।। अनै-कान्त्यादिति ।। केशवं पतितमित्यादिवाक्य इत्यर्थः ।। प्रमाणसम्प्लव इति ।। भिन्नवक्तृकैकार्थप्रतिपादक-शब्दरूपप्रमाणानामेव सम्प्लव इत्यर्थः । प्रत्यक्षादिप्रमाणसम्प्लव इत्यर्थस्तु चिन्त्यः । तत्र पुनरुक्तत्वहेतोरेवा-भावादिति द्रष्टव्यम् । ननु पौनरुक्त्यस्याप्रामाण्यसाधकत्वाभावेऽपि व्यर्थत्वसाधकत्वं तु स्यादित्याशङ्क्याऽह- व्यर्थत्वमिति  ।।  द्वितीयेयम्    अधिकविवक्षादिनाऽनुवादादिरूपत्वान्न  व्यर्थत्वसाधकत्वमित्यभिप्रेत्य कथञ्चिदित्युक्तम् । अधिकविवक्षा अधिकविधानम् । आदिपदेन निषेधग्रहणम् । अनुवादादीत्यादिपदेन दार्ढ्यार्थकाभ्यासरूपत्वग्रहणम् ।। एतेनेति ।। प्रत्यक्षादिप्रमाणसम्प्लवे व्यभिचारेणेत्यर्थः ।। अनैकान्तिक-मिति ।। ‘वाश्चारेड्ध्वजधक् धृतोड्वधिपतिः कुध्रेड्जजानिः’ इत्यादावित्यर्थः ।। सर्वथेति ।। वाश्चारेडित्यादौ तु न सर्वथा नैरर्थक्यम् । जलचरेश्वरमकरध्वजदहनकर्ता भूधरेश्वरहिमवद्गिरिजन्यपार्वतीभार्यकः श्रीमहादेव  इत्यर्थ-सम्भवेन  हेतोरेवाभावान्न व्यभिचार इति भावः । तदेवोपपादयति- किमत्रेति ।। सृण्येवेत्यादावित्यर्थः । इतोऽपि न संवादराहित्यस्याप्रामाण्यसाधकत्वम् अन्यथासिद्धिसन्देहादित्याह- किमयथार्थत्वादेवेति ।। न प्रमाणमिति ।। संवादराहित्यमप्रामाण्यप्रमापकं न भवतीत्यर्थः । यद्वाऽनृतत्वादिहेतुजातमप्रामाण्ये प्रमाणं न भवतीत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु विष्णोः सदागमैकविज्ञेयत्वसाधकतया आचार्योदाहृतवाक्येष्वप्रामाण्यकारणानाम् अनृतत्वा-दीनामनुपलम्भात् कथम् ‘न चैतेषामेव वचनानामप्रामाण्यम्’ इति शङ्कावकाश इत्यतः, नात्रोदाहृतवाक्यानाम् अनृतत्वादिभिरप्रामाण्यसाधनमभिमतम् येनोक्तदोषः स्यात्, किन्तु अनृतत्वादिभिस्तत्तद्वेदैकदेशाद्य-प्रामाण्यसिद्धौ, वेदत्वेन तत्साम्यादुदाहृतानामप्यप्रामाण्यमिति हेत्वन्तरेणैवाप्रामाण्यसाधनस्याभिमतत्वाद् युक्ता शङ्केति भावेनाऽह- अत्राऽहुरिति ।। बौद्धमते उदाहरणोपनययोर्द्वयोरेवाऽवयवत्वात् तथैवोदाहरति-  यदनृतमित्यादिना ।। एवं मृदब्रवीदित्यादीति ।। अप्रमाणमिति शेषः ।। अनुमानेति ।। मृन्न वक्त्री जडत्वा-दित्यनुमानविरुद्धत्वादित्यर्थः ।। स्वव्याहतं चेति ।। ‘अग्निहोत्रं जुहोति’ इति वाक्यविहितहोमानुवादेन एकं वाक्यम् उदितकालं विधत्ते, अपरम् अनुदितम् । न चैक एव होमस्तदा तदा कर्तुं शक्यः । न च कालरूपगुणानुरोधेन प्रधानभूतहोमानुवृत्तिर्युक्ता । नाप्युदितादिवाक्ये होमाभ्यासः श्रूयते । अतः परस्परव्याघातादप्रमाणमेवेत्याशयः। इदं च विध्योरेव व्याघातोदाहरणम् । आदिपदेन तु ‘अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ इत्यादिरूपस्य विधिनिषेधयोर्व्याघातोदाहरणस्य परिग्रहः । अत्र हि पूर्ववाक्येन विहितस्य ग्रहणस्योत्तरवाक्ये प्रतिषेधात् । अप्राप्तविषयकविधेरेवार्थवादत्वेन प्रकृते च पूर्ववाक्येनैव प्राप्ततया अप्राप्तेरभावात् ‘नातिरात्रे’ इत्यस्य नार्थवादत्वम् । सामान्यविषये विधौ विशेषविषयकस्य नञः पर्युदासरूपेण विधिवाक्यशेषत्वेन, प्रकृते च विधिनिषेधयोरुभयोरपि विशेषविषयकत्वेन ‘नातिरात्रे’ इत्यस्य पर्युदासत्वासम्भवादिति द्रश्व्व्यम् ।। शाखान्तरेऽप्यभिधानादिति ।। न च भिन्नभिन्नशाखास्थे एककर्मविधायके वाक्यद्वये यत्र वाक्ये द्रव्यदेवताख्ययागरूपं वा, इतिकर्तव्यताभूयस्त्वं वा तदेव विधायकम्, इतरत्तु तदनुवादेनेतिकर्तव्यता-विधायकमित्यङ्गीकाराद् अपूर्वार्थप्रतिपादकत्वेन न पौनरुक्त्यमिति वाच्यम् । तथाऽपि यत्र शाखाद्वयस्थे वाक्यद्वयेऽपि द्रव्यदेवताख्ययागरूपं वा, इतिकर्तव्यतासाम्यं वा तत्रोक्तप्रकारासम्भवेन पौनरुक्त्यमेवेत्यत्र तात्पर्यात् ।

नन्वेकस्मिन् यजुरादिरूपवेदे आध्वर्यवौद्गात्रादिसर्वकर्मानुपदेशेन ‘स त्रिभिर्विधीयते’ इति वचनात् त्रयी विना सर्वाङ्गोपेतकर्मानवगतेर्वेदत्रयस्याप्यध्येतव्यत्वनियमेऽपि, एकैकस्यां तैत्तिरीयादिरूपायां शाखायां सर्वाध्वर्य-वादिकर्मोपदेशेन काण्वादिशाखान्तरस्याध्येतव्यत्वनियमाभावात्, तत्तच्छाखाध्यायिनं प्रति तत्तद्वाक्यस्य व्यवस्थाबोधकत्वादपौनरुक्त्यमेवेत्यरुचेराह-  एकस्यामपि शाखायामिति  ।।  वाक्यावृत्तीति ।। ‘कुवित्सोमस्यापामिति’ इत्यादिवाक्यावृत्तिदर्शनादित्यर्थः । ननु उदाहृतवाक्यावृत्तेरनुवादादिरूपत्वेनोपपत्तेर्न पौनरुक्त्यज्ञापकत्वम् । यत्र हि शपथरूपत्वं वा, प्रकृतोपयोगिप्रमेयान्तरकथनेन पुनस्तदुपसंहाररूपत्वं वा, अधिकविवक्षादिकं वा नास्ति केवलज्ञातज्ञापकत्वमात्रं तत्रैव पौनरुक्त्यस्य दोषत्वादित्यरुचेराह- त्रिः प्रथमा-मिति ।। तथाविधं चेति ।। वेदाद्यर्थस्येश्वरस्य प्रमाणान्तरावेद्यत्वोक्तेरिति भावः । यद्यप्यत्र निरर्थकत्वादीना-मनेकेषां पृथगप्रामाण्यहेतुत्वेनोपादानं न युक्तम् । व्याघातनिरासकेनाऽपाततः सर्वथा वेति विकल्पनिरासकन्यायेन, (पां.टि.)आपाततो नैरर्थक्यम् अनैकान्तिकं, शक्तितात्पर्यापरिज्ञानात् तदर्थाप्रतीतेः, सर्वथा नैरर्थक्यं तु असिद्धम् इत्येवंरूपेण नैरर्थक्यस्य, अनृतत्वनिरासकन्यायेन प्रमाणान्तरविसंवादस्य, पौनरुक्त्यनिरासकन्यायेन च प्रमाणान्तरसिद्धार्थत्वस्य सपरिहारत्वात् । संवादराहित्यस्य चासिद्धत्वात्, अपूर्वतासम्पादकत्वेनादोषत्वाच्च पृथगुपादानस्याऽनावश्यत्वात् । अत एव  ‘तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः’  इति गौतमसूत्रे त्रयाणामेवोक्तिः । अत एव च सुधायामप्यनृतत्वादीनां त्रयाणामेवाप्रामाण्यहेतुत्वेनोक्तिश्च । अत एवात्र टीकाया-मनृतत्वादिदोषपरिहारातिदेशादिना नैरर्थक्यादिनिरासोऽपि । तथाऽप्यत्र टीकायां नैरर्थक्यादीनामनेकेषाम् अप्रामाण्यहेतुत्वेनोपादानं स्पष्टत्वायेति स्वामिनः ।

कस्य केन समुच्चय इत्यत आह- एतच्छङ्केति ।। अनृतत्वादिहेत्वनिरासात् प्रतिज्ञामात्रमेतदित्यतोऽपौरु-षेयत्वादिति ग्रन्थेनोक्तहेतूनाम् अप्रामाण्याभावनिश्चयप्रयुक्तनिश्चितान्यथासिद्ध्याद्युक्त्या सूचिततन्निश्चय-पूर्वकालीनतत्सन्दिग्धासिद्धेः न तत् इत्यभिप्रेत्य, सन्दिग्धान्यथासिद्ध्यादिना हेतुदूषणं ग्रन्थाभिप्रायतया वर्णयति- अयमभिप्राय इति ।। किमिदमिति ।। अर्थशून्यत्वं प्रमाणान्तरविसंवादो वेति किमोऽर्थः । आद्यमाशङ्कते- अर्थेति ।। अर्थः ‘पुत्रकामः पुत्रेष्ट्या यजेत’ इत्यादिवाक्यबोध्यः पुत्रजन्मपुत्रेष्ट्योः साध्यसाधनभावः, तच्छून्यत्वं तद्वद्व्यभिचारित्वम् । कृतायामपि पुत्रेष्टौ पुत्रजन्मानुपलम्भादित्यर्थः ।। साध्याविशिष्टतेति ।। ततश्च सन्दिग्धा-सिद्धिरिति भावः । द्वितीयमाशङ्कते- प्रमाणान्तरेति ।। सर्वत्रेति ।। प्रमाणीभूते प्रत्यक्षादौ इत्यर्थः ।। अनै-कान्त्यादिति ।। सत्यपि तत्राऽपाततः प्रमाणान्तरविसंवादे अप्रामाण्यविरहादिति भावः । सन्दिग्धासिद्धत्वमेव दर्शयति- किमत्रेति ।। सन्दिग्धकालातीतत्वस्येति ।। यद्यपि पक्षे साध्यसन्देहो न प्रतिबन्धकः, अनुमान-मात्रोच्छेदप्रसङ्गात् । प्रत्युत गुण एव । असन्दिग्धे न्यायः प्रवर्तत इत्यङ्गीकारात् । तथाऽपि स्वारसिकस्य तस्याप्रति-बन्धकतायामप्याहितस्य प्रतिबन्धकत्वमेव । अन्यथोपाध्याहिततत्सन्देहस्याप्यप्रतिबन्धकत्वप्रसङ्गात् । प्रकृते च अन्यथासिद्ध्या तत्संशयस्याऽहितत्वात् प्रतिबन्धकत्वमिति भावः । अनैकान्तिकत्वस्य चेति ।। इदं रजतम् इत्यादिप्रत्यक्षादिविरुद्धे नेदं रजतमिति प्रत्यक्षादौ, सत्यपि व्याहतत्वे द्वयोरप्रामाण्यविरहादिति भावः । अनैकान्त्यादिति । प्रमाणीभूतप्रत्यक्षानुमानादाविति शेषः । ननु प्रत्यक्षादौ प्रवृत्तस्य प्रत्यक्षान्तरादेरप्रामा-ण्याभावेऽपि शब्दप्रामाण्ये सप्रयोजनत्वस्य व्यापकत्वात् पुनरुक्ते च वैयर्थ्येन तन्निवृत्तौ तद्व्याप्यप्रामाण्य-निवृत्तिरावश्यकीत्याशङ्कायामाह- वैयर्थ्यं त्विति ।। कथञ्चिदित्यनेन सूचितं तत्परिहारमाह- तदपीति ।। एतेनेति  ।।  प्रमाणसम्प्लवे व्यभिचारेणेत्यर्थः । तत्र सत्यपि प्रमाणान्तरसिद्धार्थत्वे चाप्रामाण्यविरहादिति भावः । अनैकान्तिकमिति ।। प्रमाणतयाऽभ्युपगतलौकिकवाक्ये सत्यप्यापाततो निरर्थकत्वेऽप्रामाण्यविरहा-दिति भावः । न प्रमाणमितीति ।। संवादराहित्यं नाप्रामाण्ये प्रमाणमित्यर्थः । इतीत्यस्य इत्यभिप्राय इति पूर्वेणान्वयः ।

लघुप्रभा

(व्या.टि.)

अत्र बौद्धराद्धान्तं ‘न चैतेषाम्’ इत्यनेन दूषयितुमनुवदति- अत्राऽहुरित्यादिना ।। बौद्धमतरीत्या (व्या.टि.) उदाहरणोपनयौ दर्शयति-  यदनृतमित्यादिना ।। गूढाभिसन्धिरनृतत्वहेतुमुपनयति- अनृतं चेति ।। आदिपदेन ‘वाजपेयेन स्वाराज्यकामो यजेत’ इत्यादिदृष्टफलवाक्यपरिग्रहः । अन्यत्राप्यतिदिशति- एवमिति ।। अत्राऽदिपदेन ‘आपोऽब्रुवन्’ इत्यादेर्ग्रहः ।। अनुमानविरुद्धत्वादिति ।। न च दृष्टिविरोधमपहाया-नुमानविरोधोक्तिरयुक्तेति वाच्यम् । आदिकालीनमृदाद्यभिप्रायेणास्योक्तत्वात् । हेत्वन्तरमुदाहृत्योपनयति- स्वव्याहतं चेति ।। एवमुत्तरत्रापि बोध्यम् । इत्यादीत्यादिपदेन ‘अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति’ इति विरुद्धार्थवाक्यपरिग्रहः ।। शाखान्तरोक्तस्येति ।। अग्निहोत्रादेरित्यर्थः । ननु शाखान्तराधि-करणन्यायेन पुरुषान्तरं प्रत्यर्थवत्त्वान्न पुनरुक्तिर्दोषायेत्यत आह- एकस्यामपीति ।। वाक्यावृत्तीति ।। ‘वाचं देवा उपजीवन्ति विश्वे’ इत्यादेरिति भावः । न केवलं दृष्टा पुनरुक्तिरपि तु श्रुता चेत्याह- त्रिरिति ।। ‘दर्शपूर्णमासयोः पञ्चदश सामिधेनीरन्वाह’ इति ‘समिधामाधाने षेण्यण्’ इति षेण्यणि, णित्त्वादादिवृद्धौ षित्त्वात् ङीषि ‘यस्येति च’ इत्यकारलोपे, ‘हलस्तद्धितस्य’ इति यलोपे च निष्पन्नसामिधेनीशब्दितानां समिधाधानसाधनभूतानां प्रवोवाजीयानामृचां पाञ्चदश्यं विधाय, श्रुतैकादशर्चां पाञ्चदश्यसम्पत्तये आवृत्त्या सङ्ख्यापूर्तिः श्रूयते ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति । त्रिरिति ‘द्वित्रिचतुर्भ्यः सुच्’ इति सुजन्तम् आवृत्तिवचनम् । प्रथमामृचं त्रिवारमनुब्रूयात्, तथोत्तमाम्-अन्त्यां च त्रिरनुब्रूयादिति तदर्थः । उत्तमशब्दस्त्वन्त्ये ‘गुरूपोत्तमयोः’ इत्यादा-वभियुक्तप्रयुक्तः । ततश्चावृत्त्या सङ्ख्या पूर्यत इति मीमांसकहृदयम् ।। सृण्ये(ण्वे)वेत्यादिकमिति ।। आदि-पदेनाप्रतीतार्थवाङ्मात्रपरिग्रहः । हेत्वन्तरं चोदाहृत्योपनयति- प्रमाणान्तरेति ।। भेषजमित्यादीति ।। आदि-पदेन ‘सूर्य एकाकी चरति’ इत्यादिसिद्धार्थपरिग्रहः ।। पुराणेऽपीति ।। ‘तस्य मुक्तिः करे स्थिता’ इत्यादावि-त्यर्थः ।। तद्दृष्टान्तेनेति ।। ‘तत्सामान्यादितरेषु तथात्वम्’ इति न्यायादिति भावः ।। तथाविधमिति ।। वेदार्थस्य तदेकप्रमाणकत्वादित्यर्थः । निगमयति- एवं चेति ।। मौल एवकारः कैमुतिकार्थ इत्युपेत्य तन्न्यायविषयं दर्शयति- वचनानामिति ।। एतमेव न्यायमन्यत्राप्यतिदिशति- एवमिति ।। सिद्धिर्निश्चयः । वाक्याप्रामाण्य-निश्चयस्यार्थनिश्चयविरोधित्वादिति भावः ।

।। चशब्दः समुच्चय इति ।। ननु पृथगेकक्रियान्वयः समुच्चय इति हि समुच्चयलक्षणम् । अत्र चशब्दस्य वचनान्वये तत्पूर्व(र्वं)वचनाभावेनानन्वयः । अप्रामाण्यपदान्वये प्रामाण्यप्रसक्त्या व्याहतिरिति, कस्यां क्रियायां केन कस्य समुच्चय इति न ज्ञायत इत्यतो मन्दानुजिघृक्षया आशयमुद्घाटयति- एतच्छङ्कापरिहारेति ।। अयं भावः । सदुक्तिभिः साधयिष्यामीति साधनक्रियाकरणतयोक्तसदुक्तीनामप्रामाण्यशङ्कापरिहारसमुच्चितानाम् अकुण्ठितशक्तितया साधकत्वम् इति, उक्ताप्रामाण्यशङ्कापरिहारेण सहैकसाधनक्रियासम्बन्धात् समुच्चयो युक्त इति । एतमेव न्यायमुत्तरत्राप्यतिदिशति- एवमिति ।। ननु कथमुक्तहेतुषु जाग्रत्सु प्रतिज्ञामात्रेणोक्तशङ्कापरिहार इत्यत आह- अयमभिप्राय इति ।। परकीयगूढाभिसन्धिमुद्घाटयितुं पृच्छति- किमिदमिति ।। उद्घाटयति- अर्थशून्यत्वमिति ।। नन्विति खल्वित्यर्थेऽव्ययम् ।। प्रमाणान्तरेति ।। अत्र प्रमाणान्तरशब्देन सजातीय-(व्या.टि.) विजातीयरूपोभयं विवक्षितम् । तत्र फलशब्दितं विजातीयं प्रमाणम् । सजातीयं प्रत्यक्षादि । तत्र पुत्रेष्ट्यादिवाक्याप्रामाण्यहेतुतयोक्तं फलादर्शनरूपं विजातीयप्रमाणविसंवादं दूषयितुं विकल्प्य पृच्छति- स किमिति ।। आपातत इति ।। यथाकथञ्चित् फलादर्शनमित्यर्थः ।। सर्वथा वेति ।। सति कारणान्तरे प्रतिबन्धकाभावे च सति अदृश्यमानफलकहेतुबोधकत्वादिति वाऽनुमीयत इत्यर्थः ।। तस्येति ।। अविचारितस्ये-त्यर्थः ।। सर्वत्रेति ।। कारणान्तराभावप्रतिबन्धकप्रयुक्तादर्शनफलकहेतुबोधके प्रमाणवाक्येऽपीत्यर्थः । अत्र पुत्रेष्ट्यादीति वाक्ये । वैगुण्यादीत्यादिपदेन प्रतिबन्धकं गृह्यते ।। फलादर्शनादिकमिति ।। विरुद्धफलदर्शनम् आदिपदोक्तम् । एवं सजातीयप्रत्यक्षादिप्रमाणविसंवादोऽपि किमापाततः सर्वथा वेति विकल्पः कार्यः । तस्य मानान्तरविरुद्धार्थबोधकत्वमात्रं वा, तादृशतात्पर्यविषयार्थबोधकत्वं वेत्यर्थः । आद्येऽनैकान्त्यम् । द्वितीये मृदादिवच(नादि)नवाक्ये सर्वथा प्रत्यक्षादिविरोध एव, उत मृदादिपदजातस्य देवतापरतया वचनादिकमुपपन्नमिति सन्देहापरिहारादिति तद्दूषणोद्धारश्चोह्यः । अन्यथा न्यूनताऽऽप(त्ति)त्तेरिति सुधीभिरूहनीयम् ।

व्याघातहेतुं दूषयति- व्याघातेनापीति ।। अन्यतरप्रामाण्ये(नापी)पीति ।। अपिना उभयाप्रामाण्या-विनाभावं वारयति । अयं भावः । यद्यपि स्वारसिकः संशयः पक्षतारूपत्वेनानुमित्यङ्गम्, तथाऽप्याहित-त्वाद्बाधसन्देहः प्रतिबन्धकः । आधानं पक्षीयव्याघातधर्मिकोभयाप्रामाण्यनिमित्तकोपपत्त्यन्यतरप्रामाण्यनिमित्त-कोपपत्तिकोटिकसन्देहेनेत्यवधेयम् । यद्यपि च उभयाप्रामाण्ये वाक्यद्वयार्थस्य भावाभावरूपस्य विरोधभङ्गापत्त्या अन्यतराप्रामाण्येनैवेति निश्चीयते,  तथाऽपि उभयाप्रामाण्येनापि सम्भवमुपेत्यायं  ग्रन्थः  प्रवृत्तः    वस्तुतो निश्चित एव बाधः ।। अनैकान्तिकत्वस्य चेति ।। गिरिरग्निमान्नाग्निमानिति वाक्य इत्यर्थः । द्वितीयं दूषयति- द्वितीय इति ।। अन्याप्रामाण्येनापि व्याघातसम्भवादिति भावः । अत्रापि व्याघातधर्मिकतत्तदुपपत्तिकोटिक-सन्देहेन बाधसन्देहाधानम् । विकल्पेन दोषान्तरं वक्तुं प्रतिजानीते- किञ्चेति ।। अनैकान्त्यादिति ।। ‘बृहत्तुलै-रप्यतुलैः’ इत्यादिविरोधाभासालङ्कारवति काव्ये व्यभिचारादित्यर्थः ।। अधिकार्यादीति ।। आदिपदेनाश्व्यादि-देवताभेदः । यथोक्तं प्रातर्युजीयमन्त्रे ‘पुरा गृध्रादररुषः पिबाथ’ इति । उदितहोमस्त्वग्निहोत्रादिविषयः  । अभ्युपगमविकल्पेन वा । अत एवोक्तं गौतमसूत्रे ‘अभ्युपेतकालभेदे दोषवचनात्’ इति । श्रूयते हि ‘यदुदिते जुहोति श्यामोऽस्याऽहुतिमभ्यवहरति’ इति दोषवचनम् ।। प्रमाणेति ।। शब्दप्रमाणेत्यर्थः । व्यर्थत्वमित्य-मन्तम् । वैफल्यमित्यर्थः ।। अधिकेति ।। सहप्रयोगादिरूपेत्यर्थः । आदिना विधिनिषेधौ । आग्नेयादिपौर्णमासी-त्रिकस्य सहप्रयोगाय पौर्णमास्यां पौर्णमास्येत्यनुवादः ।। एतेनेति ।। किमिदं प्रसिद्धार्थम्, उतापूर्वार्थमिति सन्दिग्धत्वेनेत्यर्थः ।। अनैकान्तिकमिति ।। अव्युत्पन्नाप्रतीतार्थवाक्य इत्यर्थः ।। अपरिज्ञानादिति ।। स्वस्यासार्वज्ञ्येन सतोरपि शक्तितात्पर्ययोरज्ञानसम्भवादिति भावः । वस्तुतो निरुक्तपर्यालोचनेऽर्थप्रतीतेर्निश्चि-तासिद्धिः ।

(व्या.टि.)  सृण्येवेत्यृगर्थस्त्वित्थम् । भूतांशो नाम ऋषिः, ‘भूतांशोऽश्विनोः काममप्राः’ इत्यन्ते कीर्तनात्, शरीरजरामरणनिवारणकामो निदर्शनत्रिकेण विशेषणद्वन्द्वत्रिकं पिपादयिषुरश्विनौ अभिष्टौति- सृण्येवेति ।। सृण्येव जर्भरी तुर्फरीतू । प्रसिद्धभर्तृवद्भर्तारौ प्रसिद्धहन्तृवत् हन्तारौ चेत्यर्थः । तथैव निरुक्तं निरुक्ते यास्केन  ‘सृण्येवेति द्विविधा सृणिर्भवति भर्ता च हन्ता च । तथाऽश्विनौ चापि भर्तारौ । जर्भरी भर्तारावित्यर्थः । तुर्फरीतू हन्तारौ’ इति । तयोर्देवभिषक्त्वेन औषधदानाऽदानाभ्याम् उभयविधत्वात् । तथा हि श्रुतम् ‘अश्विनौ वै देवानां भिषजौ ताभ्यामेवास्मै भेषजं करोति’ इति । नैतोशेवतुर्फरी पर्फरीका । नैतोशेव श्येनश्यावाविव । नितरां तुसति खण्डयतीति नितोसः, सस्य शो निरुक्तत्वात् । ततः ‘तस्यापत्यम्’ इत्यण् । तदपत्यभूताविवेत्यर्थः सम्पद्यते । तुर्फरी क्षिप्रहन्तारौ । पर्फरीका किसलयभूतौ कोमलावित्यर्थः । निदर्शने ‘श्येनो गृध्राणाम्’ इति,  श्येनो वै वयसां पतिष्ठः’ इति च पक्षिश्रैष्ठ्यम्, ‘यथा वै श्येनः’ इति क्षिप्रहन्तृत्वं च प्रसिद्धम् । अश्विनोरपि ‘आशु वानाद् गतेरश्वी’ इति ऋग्भाष्यदिशा प्रसिद्धम् । पर्फरीकशब्दस्तु ‘पर्फरीकादयश्च’ इत्यौणादिकसूत्रेण निपातितः । तथैव निरुक्तं यास्केन ‘नितोशस्यापत्यं नैतोशो नैतोशेव’ इति । उदन्यजेव जेमना मदेरू । उदन्यजे इव उदकजे इव समुद्रोद्भूतचन्द्रज्योतिषी इव, रत्ने इव वा । जेमना सर्वातिशयितकान्तिमन्तौ, मदेरू सुखिनौ चेति । तथैव निरुक्तं निरुक्ते ‘उदन्यजेवेत्युदकजे इव रत्ने सामुद्रे चान्द्रमसे वा’ इति । ता मे जराय्वजरं मरायु । ता, तौ ‘सुपां सु लुक्’ इति डा, हे अश्विनौ जरायु ‘किञ्जरयोः श्रिणः’ इति जरोपपदस्येणो ञुणि, वृद्धौ च जरामेतीति जरायुः गर्भाशयः । ‘गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम्’ इत्यमरः । जरायुजत्वाद् जरायु । हेतुहेतुमतोरभेदव्यपदेश आयुर्वै घृतमितिवत् । जीर्यतेर्म्रियतेश्च बाहुलकायुप्रत्यये जीर्यमाणं, मरायु म्रियमाणम्,  सपत्नं दुर्मरायुम्’  इति  प्रयोगात्, शरीरम् अजरम्, उपलक्षणम् अमरं च कुरुतम् इति । तथैव निरुक्तं ‘जरायु शरीरमजरमजीर्णम्’ इति ।

माधवस्तु ‘निगमनिरुक्तानुरोधेन वेदार्थं वच्मि’ इति प्रतिज्ञाय निगमविरुद्धं व्याख्यासीत् । तथा हि । सृणिरङ्कुशः सरणसाधनत्वात् । तदर्हत इति सृण्यौ, अर्थात् कुञ्जरौ । ताविव जर्भरी जृम्भमाणौ । तुर्फरीतू हिंसन्तौ । नितोशतिर्वधकर्म तत्कारिणौ । नैतोशौ योद्धारौ । तुर्फरी त्वरमाणौ । पर्फरीका शोभायुक्तौ । उदन्यतिः पिपासार्थः ‘अशनायोदन्या’ इति निपातनात्, तत्र जातौ उदन्यजौ प्रावृषिकचातकौ । जेमना उदकवन्तौ । जेमशब्दात् पामादिविहितो नप्रत्ययः । तौ यथोदकलाभेन मत्तौ भवतः, तथा यौ मदेरू तौ मे जरायु मरायु च जरणमरणकर्म अर्थात् शरीरम्, अजरममरं च कुरुतमिति । तन्न । श्रौतार्थपरत्वसम्भवे आर्थिकार्थस्वीकारायो-गात् । पर्फरीकापदस्य शोभानामस्वपाठात् । नितोशतेरलौकिकधातुत्वाच्च । निरुक्ते नितोशस्यापत्यं नैतोश इति तद्धितार्थत्वकथनविरोधाच्च । जेमशब्दस्य उदके वृत्त्यभावात् । स्तुत्यनानुगुण्याच्चेति ।। तदेकेति ।। एकशब्दोऽ-त्राप्यवधारणार्थः । नाप्रामाण्यमिति निगमः । अप्रामाण्यनिश्चयो न सम्भवतीत्यर्थः ।