शिष्याज्ञानपरिकल्पितमित्यङ्गीकारे..
शिष्याज्ञानपरिकल्पितत्वनिश्चयपक्षस्य दूषणाभिधानम्
मूलम्
- शिष्याज्ञानपरिकल्पितमित्यङ्गीकारे तस्यैवाऽचार्यभावे स्वयमेव कल्पितो भवतीति सम्यग् ग्रन्थाधिगमस्यैवानर्थहेतुत्वं स्यात् । न च कस्यचिन्मुक्तिः । ग्रन्था-धिगमे तस्यैव शिष्याज्ञानपरिकल्पितत्वप्राप्तेः ।
तत्त्वमञ्जरी
शिष्याज्ञानपरिकल्पितत्वेऽपि दूषणमाह- शिष्येति ।।
टीका
निश्चितत्वपक्षेऽपि गुर्वज्ञानपरिकल्पितत्वपक्षो दूषितः । इदानी शिष्याज्ञानपरिकल्पितत्व-निश्चयपक्षे दोषमाह- शिष्येति ।। परिकल्पितं गुर्वादिकं समस्तमिति शेषः । स्वयमेव शिष्याज्ञान-परिकल्पितो भवति । न चासौ शिष्यं न बोधयतीति वाच्यम् । महावाक्यार्थाधिगमाभाव-प्रसङ्गात् । चतुर्भिश्च प्रकारैः विद्या उपयुक्ता भवतीति व्याख्यानस्यापि वाक्यार्थाधिगतिहेतुत्वेन प्रसिद्धत्वात् । तदिदमुक्तम्- सम्यग्ग्रन्थाधिगमस्येति ।। शिष्यत्वस्यानियतत्वादयमपि निश्चयो न युक्त इति भावः । न केवलमस्मिन्पक्षे कल्पकाव्यवस्थितिः । किं नाम मोक्षव्यवस्थाऽपि न सिध्यतीत्याह- न चेति ।। कुत इत्यत आह- ग्रन्थेति ।।
तथा हि-शिष्यः कल्पको गुर्वादिकं समस्तं कल्पितमित्यस्मिन्पक्षे शिष्यस्यैव मोक्षो वक्तव्यः । स च महावाक्यार्थाधिगमसाध्यः । उपलक्षणत्वपक्षे शिष्यबोधनेनैव सम्यग्भवतीत्युक्तम् । सति च शिष्ये तदज्ञानपरिकल्पितत्वप्राप्तेः इति । शिष्यत्वमुपलक्षणं न विशेषणमिति चेत्, तर्हि अनिश्चयपक्ष एवाऽपन्न इति ।
भावबोधः
चतुर्भिश्च प्रकारैरिति ।।
‘आचार्यात् पादमादत्ते पादं शिष्यः स्वबुद्धितः ।
पादं सब्रह्मचारिभ्यः पादं व्याख्यानकौशलात् ।।’
इति भावः । कल्पितत्वप्राप्तेरिति ।। साधनसम्पत्तौ कल्पितत्वप्राप्त्या न मोक्षः । कल्पितत्वप्राप्त्यर्थं शिष्यासम्पादने साधनाभावादेव न मोक्ष इति मोक्षव्यवस्थानं सिध्यतीति भावः । शिष्यत्वमुपलक्षणमिति ।। शिष्यबोधनेन गुरुत्वप्राप्तावपि प्राक् शिष्यत्वस्य स्थितत्वान्न कल्पकत्वापगमः । तदनपगमे तु कथं कल्पकत्वप्राप्तिरिति भावः। तर्ह्यनिश्चयपक्ष एवेति ।। न च ‘बहूनां दृश्यमानत्वात्’ इत्युक्तरीत्या शिष्यत्वोपलक्षितानां बहूनां दृश्य-मानत्वादस्यैव शिष्यत्वोपलक्षितस्य कल्पकत्वमिति निश्चयोऽनुपपन्न इति भावः ।
भावदीपः
कल्पित इत्यत्र शेषोक्त्याऽनुवदति- स्वयमेव शिष्याज्ञानेति ।। महावाक्येति ।। तत्त्वमसी-त्याद्यैक्यवाक्येत्यर्थः । चतुर्भिश्च प्रकारैरिति ।। ‘ग्रहणाध्ययनप्रवचनसंव्यवहारेभ्यः’ इति व्याकरणभाष्योक्त-रीत्या, ग्रहणं गुरुमुखात्, अध्ययनं चिन्तनम्, प्रवचनं शिष्यबोधनम्, संव्यवहारः तत्र तत्र सभासु व्यवहारः, इत्येवं चतुर्भिः प्रकारैरित्यर्थः ।
‘आचार्यात्पादमादत्ते पादं शिष्यः स्वबद्धितः ।
पादं सब्रह्मचारिभ्यः पादं व्याख्यानकौशलात् ।।’
इत्यपि प्रकारचतुष्टयमाहुः । सम्बन्धटीकाऽनुगुण्यमस्य मूलस्य न प्रतीयत इत्यत आह- शिष्यत्वस्येति ।। अयमपीति ।। ऐक्यप्रवणः शिष्यः कल्पक इति निश्चय इत्यर्थः । कल्पितत्वप्राप्तेरिति ।। तथा च न मोक्षनिश्चय इति भावः । सत्यपि शिष्ये गुरुत्वप्राप्तावपि प्राक्तनशिष्यत्वेन कल्पकत्वोपपत्तेर्मोक्षनिश्चय इति भावेन शङ्कते- शिष्यत्वमुपलक्षणमिति ।। कादाचित्कं सदपि कल्पकत्वनिश्चायकं भविष्यतीति भावः । अनिश्चयेति ।। शिष्यत्वोपलक्षणयुतानामनेकेषां दृश्यमानत्वेनायमेवेति निश्चये नियामकाभावेनानिश्चयपक्ष एवाऽपन्न इति दृश्यत्वानुमाने प्रागुक्तदिशा साध्याप्रसिद्धिरित भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
शिष्याज्ञानेति ।। स्वशिष्याज्ञानपरिकल्पितो भवतीत्यर्थः । शिष्यं स्वशिष्यम् । कुतो न वाच्यमित्यत आह- महावाक्यार्थेति ।। शिष्यबोधनरूपव्याख्यानाभावे तत्त्वमसीत्यादिमहावाक्यार्थभूतैक्यज्ञानाभाव-प्रसङ्गादित्यर्थः । ननु व्याख्यानाभावे महावाक्यार्थाधिगमाभावः कुतः? श्रवणमननाभ्यामेव तदुपपत्तेरित्याशङ्का-परिहाराय सम्यक्पदाभिप्रायमाह- चतुर्भिरिति ।।
‘आचार्यात्पादमादत्ते पादं शिष्यः स्वबुद्धितः ।
पादं सब्रह्मचारिभ्यः पादं व्याख्यानकौशलात् ।।’
इति वचनोक्तैः चतुर्भिः प्रकारैरित्यर्थः । तथा च व्याख्यानाभावे एकप्रकारन्यूनतया सम्यङ्महावाक्यार्थाधिगमो न स्यादित्यर्थः । कल्पकाव्यवस्थितिरिति ।। सर्वस्यापि शिष्यरूपैकजीवाज्ञानपरिकल्पितत्वे तस्यैव गुरुत्वप्राप्तौ स्वशिष्याज्ञानपरिकल्पितत्वप्राप्त्या न तस्य कल्पकत्वम् । तच्छिष्यस्यैव कल्पकत्वे तस्याप्येवमेवेति कल्पका-व्यवस्थितिरित्यर्थः । उक्तमिति ।। चतुर्भिश्च प्रकारैरित्यादिनेत्यर्थः । परिकल्पितत्वप्राप्तेरिति ।। तथा च न मोक्ष इति शेषः । तथा हि- शिष्यादिबोधनरूपसाधनसम्पत्तौ स्वस्य कल्पितत्वप्राप्त्या न मोक्षः । कल्पितत्वाप्राप्त्यर्थं शिष्यासम्पादने व्याख्यातृत्वाभावेन सम्यङ्महावाक्यार्थाधिगमरूपसाधनाभावादेव न मोक्ष इति मोक्षव्यवस्था न सिध्यतीति भावः । उपलक्षणमिति ।। शिष्यः कल्पक इत्यस्यापि शिष्यत्वोपलक्षितः कल्पक इत्येवार्थः । तथा च शिष्यबोधनेन गुरुत्वप्राप्तावपि प्राक् शिष्यत्वस्य स्थितत्वेनेदानी तदुपलक्षितत्वानपगमान्न कल्पक-त्वापगम इति कल्पकव्यवस्थितिर्युक्ता । कल्पकत्वानपगमे च तस्य कल्प्यत्वाभावान्मोक्षव्यवस्था च सेत्स्यतीति भावः । तर्ह्यनिश्चयपक्ष एवाऽपन्न इति ।। तथा च ‘न च बहूनां दृश्यमानत्वात्’ इति प्रागुक्तरीत्या शिष्यत्वोप-लक्षितानां बहूनां दृश्यमानत्वादस्यैव शिष्यत्वोपलक्षितस्य कल्पकत्वमिति निश्चयोऽनुपपन्न इति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
चतुर्भिश्च प्रकारैरिति ।।
‘आचार्यात्पादमादत्ते पादं शिष्यः स्वबुद्धितः ।
पादं सब्रह्मचारिभ्यः पादं व्याख्यानकौशलात् ।।’
इति वचनप्रतिपन्नैः चतुर्भिः प्रकारैरित्यर्थः । अयमपीति ।। शिष्याज्ञानपरिकल्पितमित्ययमपीत्यर्थः । उक्त-मिति ।। चतुर्भिश्च प्रकारैरित्यादिनेति शेषः । ननु शिष्यः कल्पक इत्यस्य शिष्यत्वोपलक्षितः कल्पक इत्येवार्थः। (पां.टि.) एवं च शिष्यबोधनदशायां गुरुत्वप्राप्तावपि प्राक् शिष्यत्वस्य स्थितत्वान्न कल्पकत्वागमः । तदनपगमे तु कथं कल्प्यत्वप्राप्तिरिति भावेन शङ्कते- शिष्यत्वमिति ।। तर्हीति ।। ‘न च बहूनां दृश्यमानत्वात्’ इत्युक्तरीत्या शिष्यत्वोपलक्षितानां च बहूनां दृश्यमानत्वादस्यैव शिष्यत्वोपलक्षितस्य कल्पकत्वमिति निश्चयोऽनुपपन्न इति भावः ।
लघुप्रभा
(व्या.टि.)
विशेष्यदलं निर्दिशति- गुर्वादिकमिति ।। अभावेति ।। बोधनाभावेति शेषः । चतुर्भिरिति ।। उद्दिष्टचतुर्षु बोधनस्यापि गणितत्वादिति भावः । प्रसिद्धत्वादिति ।। ‘स एतां मनुष्येषु विब्रूयाद्यथा यथाह वै ब्रूयात्तथाऽधिको भवति’ इति श्रुतौ ‘ग्रहणाध्ययनप्रवचनसंव्यवहारेभ्यः’ इति महाभाष्ये,
‘आचार्यात्पादमादत्ते पादं शिष्यः स्वबुद्धितः ।
सखिभ्यः पादमादत्ते पादं व्याख्यानकौशलात् ।।’
इति स्मृतौ चेत्यर्थः । शिष्यस्याऽचार्यभावेन शिष्यत्वप्रच्युत्या कथमयं शिष्यकल्पकपक्षदोष इत्यत आह- शिष्यत्वस्येति ।। अनियतत्वादिति ।। कादाचित्कशिष्यत्वस्य गुरावपि सत्त्वेनानिर्णय इत्यर्थः । मोक्षाव्यव-स्थानं दर्शयति- तथा हीति ।। दृढसंस्कारादिति पञ्चम्याः ‘न कदाचिद्भेदनिवृत्तिः निवर्तकाद्वैतज्ञानाभावात्’ इति मूलेनान्वयः ।