न च जीवेश्वराभेद ..

जीवेश्वराभेदे सकलागमतात्पर्यस्य निरासः

मूलम्

- न च जीवेश्वराभेद एव तात्पर्यमागमस्य ; तत्र प्रमाणाभावात् । नच जीवेश्वर-भेदः सिद्ध इत्यनुवादकत्वं भेदवाक्यानाम् ; आगमं विनेश्वरस्यैवासिद्धेः । नचानु-मानात्तत्सिद्धिः । विपर्ययेणाप्यनुमातुं शक्यत्वात् ।

तत्त्वमञ्जरी

अत्र नारायणस्य, सदागमैः सर्वजगतः प्रधानतया विज्ञेयत्वं साधयितुं सर्वज्ञमि-त्यादिप्रमाणमुपन्यस्यमानमाकर्ण्य तदसहमानैः मायिभिराक्षिप्यते- कथं सर्वागमानां सर्वोत्तमत्वे तात्पर्यम् । तत्त्वतः सर्वस्यैवाभावात् । तत्त्वमस्यादिवाक्यानां प्रामाण्यान्यथाऽनुपपत्त्या जीवेश्वरा-भेद एव हि सदागमानां तात्पर्यमिति । तत्परिहारायाऽह- न च जीवेति ।। भेदे प्रत्यक्षादिप्रमाणमङ्गी-कृत्य अभेदे तदभावो दोष उच्यते । एवञ्च भेदस्य सिद्धत्वात् तद्वादिवाक्यानामनुवादकत्वादप्रामाण्य-मित्यत आह- न च जीवेश्वरभेद इति ।। ईश्वरे केवलानुमानस्यैव दूषितत्वान्नापसिद्धान्तोऽत्र ।

टीका  

अत्राद्वैतवादिनो वदन्ति । मन्त्रब्राह्मणलक्षणस्तावद्वेदो विधिनिषेधरूपत्वात् कर्मपरोऽ-विद्यावद्विषयोऽतत्त्वावेदक एव । वेदान्तानां तु तत्वावेदकत्वेऽपि जीवेश्वराभेद एव तात्पर्यम् । तत्रोद्गीथाद्युपासनानां कर्मसमृद्ध्यर्थानामपि चित्तवृत्तित्वसाम्येन बुद्धिशुद्ध्यर्थत्वाच्चाऽम्नानम-विरुद्धम् । प्राणाद्युपासनानामपि प्राणादीनां ब्रह्मप्रतीकत्वेनाद्वैतज्ञानोपयोगित्वात् क्रममुक्ति-फलत्वाच्च पाठो न विरुद्धः । एतेन सगुणब्रह्मविद्या अपि व्याख्याताः । यद्वा क्रियाकारकफल-रूपभेदप्रपञ्चप्रतिपादकः सर्वोऽपि वेदो जीवब्रह्मणोर्निष्प्रपञ्चताप्रतिपादनपूर्वकमभेदप्रति-पादनायानुवादपर  एवेति सर्वस्याप्यागमस्य  जीवेश्वराभेद एव तात्पर्यात्कथं सर्वोत्तमत्वादि-लक्षणे विष्णौ तात्पर्यमुच्यते    सर्वोत्तमत्वादेर्भेदसापेक्षत्वेनाभेदविरोधादिति । तदेतत्प्रतिषेधति- न चेति ।। अत्रेश्वरशब्देन ब्रह्मोच्यते, तस्यैव स्वाधीनमायाशबलस्येश्वरत्वेन परैरङ्गीकृतत्वात् । ऐश्वर्यविशिष्टेन जीवस्याभेदानुपपत्तेः । कुतो नेत्यत आह- तत्रेति ।। सति हि जीवेश्वराभेदप्रतिपादके प्रधानवाक्ये तदितरेषां वाक्यानां कथञ्चित्तदेकवाक्यतां व्युत्पाद्य सर्वस्याप्यागमस्य तत्र तात्पर्यं व्याख्यातुं शक्यते । नच जीवेश्वराभेदे प्रमाणं प्रधानवाक्यमस्ति । तत्कथं तत्राऽगमस्य तात्पर्य-कल्पनम् ।

ननु कथं नास्ति । ‘तत्त्वमसि’ इत्यादीनां जीवेश्वराभेदप्रतिपादकानां वाक्यानां विद्यमानत्वादिति चेन्न । तेषाम् ‘द्वे ब्रह्मणी वेदितव्ये’ ‘द्वा सुपर्णा’ इत्यादिजीवेश्वरभेदवाक्यविरुद्धत्वेनाभेदे प्रामाण्याभावादिति भावः । ननु प्रबलं विरोधि बाधकं भवति । समबलं च प्रतिरोधकम् । उभयथाऽपि कालातीतसत्प्रतिपक्षहेत्वोरिव विरुद्धस्याप्रामाण्यमुचितम् । नचाभेदवाक्यापेक्षया भेदवाक्यानां प्राबल्यं समबलत्वं वाऽस्ति । जीवेश्वरभेदस्य प्रत्यक्षानुमानसिद्धत्वेन तदनुवादकानां तेषां दुर्बल-त्वात् । नचाभेदः प्रमाणान्तरसिद्धो येन तद्वाक्यानामनुवादकत्वं स्यात् । अतो भेदवाक्य-विरोधेनाभेदवाक्यानामप्रामाण्यकथनमयुक्तं प्रत्युत विपर्यय एवोचित इत्यत आह-  नचेति ।।  सिद्धः प्रत्यक्षानुमानाभ्याम् । इतिशब्दो हेतौ    तथाच दौर्बल्यमिति शेषः । कुतो नेत्यत आह- आगमं विनेति ।। भेदस्तावद्धर्मिप्रतियोगिप्रतीतिसापेक्षप्रतीतिकः । तत्रेश्वरधर्मिको जीवप्रतियोगिको भेदः प्रमाणान्तरसिद्ध इति वा वक्तव्यम्, ईश्वरप्रतियोगिको जीवधर्मिक इति वा । पक्षद्वयेऽपि जीवेश्वरप्रतीत्याऽवश्यं भवितव्यम् । तत्र यद्यपि जीवः साक्षिप्रत्यक्षसिद्धस्तथाऽपीश्वरसिद्धिः किमागमेनोत प्रमाणान्तरेणेति वाच्यम् । आद्ये वक्ष्यामः । द्वितीये त्विदमुपतिष्ठते । तथाच धर्मिप्रतियोगिप्रतीत्यभावात्कथं तदधीना प्रत्यक्षादिना जीवेश्वरभेदसिद्धिः स्यात् । कथं च तद्वाक्यानामनुवादकत्वं दुर्बलत्वं वा भवेदित्येवार्थः ।

नन्वीश्वरस्य स्वभावविप्रकृष्टत्वात्प्रत्यक्षतोऽसिद्धावप्यनुमानात्तत्सिद्धिर्भविष्यति । तथाच प्रमाणान्तरेण भेदसिद्ध्युपपत्तेस्तद्वाक्यानामनुवादकत्वमेवेति चेत्, किं प्रत्यक्षागमसहाय-वताऽनुमानेनेश्वरसिद्धिरुच्यते उत तद्रहितेन । आद्ये वक्ष्यामः । द्वितीयं प्रतिषेधति- नचेति ।। तत्र हेतुमाह- विपर्ययेणापीति ।। इत्थम्भूतलक्षणे तृतीया । प्रत्यक्षागमसहायरहितस्यानुमानस्य सर्वथा विपरीतानुमानेन प्रतिरुद्धत्वात् । तथा चोक्तम् । ‘उपाधिप्रतिरोधौ तु क्व नामातीव दुर्वचौ’ इति । प्रत्यक्षादिसाहाय्ये  तु  प्रतिपक्षस्य  तद्बाधेनोपाधेश्च  पक्ष  एव  साध्यव्यापकताभङ्गेन  निराकरणं शक्यते । तदभावे तु प्रतिपक्षादिकं दुष्परिहरमेव ।

भावबोधः

कर्मसमृद्ध्यर्थानामिति ।। ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्युद्गीथोपासनाविधिप्रकरणे ‘एषा उ एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति ।’‘यदेव विद्यया करोति श्रद्धयोपनिषदा वा तदेव वीर्यवत्तरं भवति’ इति श्रवणादिति भावः । अपिशब्दो विरोधसूचनार्थः । चित्तवृत्तित्वसाम्येनेति ।। बुद्धिशुद्धिप्रयोजनक-सगुणोपासनाप्रतीकाद्युपासनोद्गीथाद्युपासनानां च प्रत्यगर्थविषयकमनोवृत्तित्वसाम्येनेत्यर्थः । बुद्धिशुद्ध्यर्थ-त्वाच्चेति ।। अन्तःकरणस्य पराग्वृत्तिनिरोधकत्वादित्यर्थः । तथा च तद्द्वाराऽद्वैतज्ञान एवोपयोगादुद्गीथाद्युपा-सनाविधायकवाक्यानाम् ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादीनामाम्नानं न विरुद्धमित्यर्थः । नन्वेवमपि वेदान्ते सृष्ट्यादिकथनस्य कथमुपयोगः । यदि च तस्य ब्रह्मणो निष्प्रपञ्चताप्रतिपादनपूर्वकमभेदप्रतिपादना-यानुवादकतयोपयोगस्तर्हि मन्त्रब्राह्मणलक्षणवेदस्यापि तथैवोपयोगसम्भवात्किमित्येवं विभज्य कथनमित्य-स्वरसादाह- यद्वेति ।। अस्मिन्पक्षे मूलस्थमागमस्येति पदमप्यसङ्कुचितार्थं भवतीति भावः । विशिश्व्-वाचकेनेश्वरशब्देन शुद्धं ब्रह्म कथमुच्यत इत्यत आह- तस्यैवेति ।। विशिष्टवाचकस्यापि विशेष्यवाचकत्वादिति भावः । अभेदे प्रामाण्याभावादिति भाव इति ।। अभेदे वेदस्य तात्पर्याभावे तत्प्रतिपादकप्रधानप्रमाणाभावस्यैव हेतुत्वात् तत्र प्रधानवाक्याभावादित्येव वक्तव्ये प्रमाणपदं प्रयुञ्जानस्य भाव इत्यर्थः । ‘प्रत्यक्षानुमानसिद्धत्वे च भेदस्य’ इत्युत्तरवाक्यानुसारेणाऽह- प्रत्यक्षानुमानाभ्यामिति ।।

भावदीपः

अत्रेति ।। समतीतक्षराक्षरत्वादिविशेषणविशिश्व्े महातात्पर्यं वेदादेरित्यत्रेत्यर्थः । मन्त्रेति ।। ‘अग्नि-मीे’ इत्यादयः । ब्राह्मणेति ।। ‘उरु प्रथस्वेति पुरोडाशं प्रथयति’ ‘आग्नेय्या आग्नीध्रमुपतिष्ठते’ इत्यादयः । ‘यजेत स्वर्गकामः’ ‘नानृतं वदेत्’ इत्यादिविधिनिषेधकवाक्यानि । कर्मपर इति ।। मन्त्राणां कर्मपरत्वं कर्मगतद्रव्यदेवताप्रकाशकत्वेनेति ज्ञेयम्    ‘उद्गीथमुपासीत’ इत्यादीनां तत्रोपनिषदि आम्नानमविरुद्धमिति योजना । प्राणादीति ।। ‘यो ह वै प्राणं वेद, नाम ब्रह्मेत्युपासीत’ इत्यादीनामित्यर्थः । क्रमेति ।। अर्चिरादिक्रममुक्तीत्यर्थः । सगुणेति ।। ‘सत्यकामः सत्यसङ्कल्पः सर्वस्य वशी सर्वस्येशानः’ इत्याद्या अपि क्रममुक्तिपरत्वेन व्याख्याता इत्यर्थः । क्रियेति ।। सन्ध्यावन्दनज्योतिष्टोमभोजनादिवैदिकलौकिकक्रिया, सोमरसान्नाज्यादिकारकाणि, स्वर्गतृप्त्यादिफलेत्यर्थः । अनुवादेति ।। प्रत्यक्षादिप्राप्तस्येति भावः । ईश्वरशब्देन ब्रह्मग्रहणं कुत इत्यत आह-  तस्यैवेति ।। मायाशबलस्येति ।।  मायया शबलस्य सविशेषभावं प्राप्तस्ये-त्यर्थः । वक्ष्याम इति । ‘असर्वकर्तृत्वेनानुभवात्’ इति वाक्यव्याख्यानावसरे वक्ष्याम इत्यर्थः । इदमिति ।। ‘आगमं विना’ इत्येतद्वाक्यमित्यर्थः । धर्मिप्रतियोगीति ।। जीवप्रतियोगित्वपक्षे ब्रह्मणो धर्मित्वस्य जीव-धर्मिकत्वपक्षे प्रतियोगित्वस्य प्राप्तेरीश्वरासिद्धौ धर्मिप्रतियोगिप्रतीत्यभावादित्युक्तम् । आद्ये वक्ष्याम इति ।। ‘प्रत्यक्षादिसाहाय्ये तु’ इत्यादिनेति योज्यम् । यद्वा ‘प्रत्यक्षानुमानसिद्धत्वे च’ इत्यादिग्रन्थव्याख्याना-वसर इति वा ‘कथं चानुवादकत्वं भेदस्य प्रमाणेनासिद्धौ’ इत्यादाविति वाऽर्थः । इत्थम्भूत इति ।। कञ्चित्प्रकारं प्राप्त इत्थम्भूतः । तल्लक्षणे तज्ज्ञापने तृतीयेत्यर्थः । प्राक्तनप्रकाराद्विपरीतप्रकारम्- अकर्तृकत्वप्रकारं प्राप्तमपि साध्यमनुमातुं शक्यत्वादित्यर्थ इति भावः । कर्तृकरणाद्यर्थस्यात्रासम्भवादेवमुक्तम्- उपाधीति ।। एवं तर्ह्यनु-मानमात्रभङ्ग इत्यतो वा को वा विशेषः प्रत्यक्षसाहाय्यवत्तद्रहितानुमानयोरित्यतो वाऽह- प्रत्यक्षादिसाहाय्ये त्विति ।। पक्ष एवेति ।। हेतोर्व्याप्त्यादिमत्त्वेन पक्षे साध्यसिद्धौ तत्रोपाध्यभावादिति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

अत्रेति ।। सर्वोत्तमत्वादिलक्षणे विष्णौ सकलवेदानां महातात्पर्यमित्यत्रेत्यर्थः । मन्त्रः ‘अग्निमीे’ इत्यादिः । ‘उरु प्रथस्वेति पुरोडाशं प्रथयति’ इति ब्राह्मणम् । अतत्त्वावेदकत्वे हेतुमाह- अविद्यावद्विषयक इति ।। अत्र विषयपदेनाधिकारी विवक्षणीयः । तथा चाविद्यावान् विषयो- अधिकारी यस्येति विग्रहः । तथा चाविद्वदधिकारिकत्वादतत्त्वावेदक इत्यर्थः । केचित्तु अविद्यावच्छब्देन प्रपञ्च उच्यते । प्रपञ्चस्याविद्यावत्त्वं नाम तदुपादानकत्वं तत्कल्पितत्वमिति यावत् । तथा चाज्ञानकल्पितकर्मादिप्रपञ्चप्रतिपादकत्वादतत्त्वावेदक इत्यर्थ इत्याहुः । ननु मन्त्रब्राह्मणलक्षणस्य वेदस्यातत्त्वावेदकत्वेन तत्र तात्पर्याभावेऽपि वेदान्तानां तत्र तात्पर्यमस्त्वि-त्यत आह- वेदान्तानां त्विति ।। अभेद एवेति ।। न सर्वोत्तमत्वादिलक्षणे विष्णावित्येवकारार्थः । ननु कथं वेदान्तानामभेदपरत्वं, तत्र ‘ओमित्येतक्षरमुद्गीथमुपासीत’ इत्याद्युद्गीथोपासनावाक्यानामपि सत्त्वात् । उद्गीथाद्यु-पासनावाक्यानां च ‘एषा उ एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति । य एतदेवं विद्वानक्षरमुद्गीथ-मुपास्ते’ इति कर्मसमृद्धिफलकत्वश्रवणादित्यत आह- तत्रोद्गीथाद्युपासनानामिति ।। कर्मसमृद्ध्यर्थाना-मिति ।। कर्मणा जायमाना या स्वर्गादिरूपा समृद्धिस्तत्फलिकानामित्यर्थः । चित्तवृत्तित्वसाम्येनेति ।। यथा वेदान्तेषु प्राणाद्युपासनाः सगुणोपासनाश्च कथ्यन्त एवमुद्गीथाद्युपासनाश्च कथ्यन्ते । प्राणाद्युपासनावद् उद्गीथोपासनायाश्च चित्तवृत्तित्वसाम्येन प्रत्यगर्थविषयकमनोवृत्तित्वसाम्येन, उपासनात्वसाम्येनेति यावत्, आम्नानं कथनम् अविरुद्धम् इत्यर्थः । हेत्वन्तरमाह- बुद्धिशुद्ध्यर्थत्वाच्चेति ।। प्राणाद्युपासनावदुद्गीथाद्युपासना-नामप्यन्तःकरणस्य पराग्वृत्तिनिरोधकत्वादित्यर्थः । ननु तथाऽपि वेदान्तस्थानां ‘प्राणं ब्रह्मेत्युपासीत’ इत्यादीनां प्राणादिप्रतीकोपासनावाक्यानां का गतिरित्यतो गतिमाह- प्राणाद्युपासनानामिति ।। औतज्ञानोपयोगित्वे हेतुकथनम्- प्राणादीनां ब्रह्मप्रतीकत्वेनेति ।। ब्रह्मप्रतिबिम्बत्वेनेत्यर्थः । विम्बप्रतिबिम्बयोरभेदेन ब्रह्मप्रतिबिम्ब-त्वेन प्राणाद्युपासनाया औतज्ञानोपयोगित्वादिति भावः । हेत्वन्तरमाह- क्रममुक्तिफलत्वाच्चेति ।। क्रमेण जायमाना या मुक्तिस्तत्फलकत्वादित्यर्थः । तथा च प्राणाद्युपासनायां कृतायामादौ प्राणादिप्राप्तिर्भवति । पश्चाद्ब्रह्मभावरूपा मुक्तिभर्वतीत्यर्थः ।

ननु तथाऽपि वेदान्तस्थानां ‘यस्सर्वज्ञस्सर्ववित्’ इत्यादीनां सार्वज्ञादिगुणविशिष्टब्रह्मप्रतिपादकवाक्यानां का गतिरित्यत आह- एतेनेति ।। सगुणब्रह्मविद्याया अप्यद्वैतज्ञानोपयोगित्वेन क्रममुक्तिफलकत्वेन चेत्यर्थः। (श्री.टि.) आदौ सगुणोपासनं विना निर्गुणब्रह्मोपासने बुद्ध्यनारोहात्सगुणोपासनस्य निर्गुणोपासनोपयोगि-त्वम् । यथोक्तम्-

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ।।’ इति ।

तथा सगुणब्रह्मप्राप्तिद्वारा निर्गुणब्रह्मैक्यप्राप्तेः क्रममुक्तिफलकत्वमिति भावः । नन्वेवमपि वेदान्ते ‘सदेव सोम्येदमग्र आसीत्तत्तेजोऽसृजत’ इत्यादिसृष्ट्यादिकथनस्य कथमुपयोगः । यदि च ‘एकमेवाद्वितीयम्’ इति ब्रह्मणो निष्प्रपञ्चताप्रतिपादनपूर्वकमभेदप्रतिपादनायानुवादकतया सृष्ट्यादिकथनस्योपयोगस्तर्हि मन्त्रब्राह्मण-लक्षणवेदस्यापि ब्रह्मणो निष्प्रपञ्चताप्रतिपादनपूर्वकमभेदप्रतिपादनाय कर्माद्यनुवादकत्वेनोपयोगसम्भवात् ‘मन्त्र-ब्राह्मणलक्षणस्तावद्वेदः’ इत्यादिना विभज्य कथनमयुक्तमित्यस्वरसादाह- यद्वेति ।। पूर्वस्मिन् पक्षे मूलस्थ-मागमस्येति वेदान्तमात्रपरत्वेन सङ्कुचितार्थम् । अस्मिन् पक्षे त्वसङ्कुचितार्थं भवतीति द्रष्टव्यम् । क्रिया यागादि-रूपा । कारकं कर्त्रादि । फल स्वर्गादि । ननु जीवेश्वराभेदे सर्वोत्तमत्वे चेत्युभयत्रापि तात्पर्यमस्त्वित्यत आह- सर्वोत्तमत्वादेरिति ।। नन्वीश्वरस्यापि विशिष्टत्वात्परेण विशिष्टयोरभेदानङ्गीकाराज्जीवेश्वराभेद एवेत्यसदनुवाद इत्यत आह- अत्रेश्वरशब्देनेति ।। उच्यत इति ।। लक्षणया प्रतिपाद्यत इत्यर्थः । विशिष्टवाचकेनेश्वरपदेन शुद्धं ब्रह्म कथं लक्ष्यत इत्यतो लक्षणाबीजं शक्यसम्बन्धमुपपादयति- तस्यैवेति ।। शुद्धब्रह्मण एवेत्यर्थः । माया-शबलस्य मायावच्छिन्नस्य । लक्षणाबीजभूतमुख्यार्थानुपपत्तिं दर्शयति- ऐश्वर्येति ।। प्रधानवाक्ये महावाक्ये । तदेकवाक्यतामिति ।। त्वदुक्तरीत्या तेन महावाक्येनैकवाक्यतामित्यर्थः । उचितं लोक इति शेषः । न ह्येवं प्रकृतेऽस्तीत्याह- न चेति ।। अस्तीति ।। येन तद्विरुद्धस्याभेदागमस्य कालातीतसत्प्रतिपक्षहेत्वोरिवाप्रामाण्यं स्यादिति भावः । दुर्बलत्वादिति ।। भेदवाक्यानां प्रमाणान्तरसिद्धभेदप्रतिपादकत्वेनापूर्वतालक्षणतात्पर्य-लिङ्गाभावेन दुर्बलत्वादित्यर्थः । नन्वभेदस्यापि प्रमाणान्तरसिद्धत्वेन तद्वाक्यानामप्यनुवादकत्वेन दुर्बलत्वमेवेत्यत आह- न चाभेद इति ।। विपर्यय एवेति ।। अभेदवाक्यविरोधेन भेदवाक्यानामेवाप्रामाण्यकथनमुचितमि-त्यर्थः ।

भेदस्तावदिति ।। भेदस्य ससम्बन्धिकपदार्थत्वेन सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानसाध्यत्वादिति भावः    अथवा भेदस्य अन्योन्याभावरूपत्वेन तस्य प्रतियोग्यधिकरणज्ञानसाध्यत्वादिति भावः  । आद्ये वक्ष्याम इति ।। आगमेनेश्वरसिद्धावुच्यमानायां येनाऽगमेन ‘यः सर्वज्ञः’ इत्यादिनेश्वरसिद्धिस्तेन भिन्नत्वेनैव सिद्ध इति तद्विरोधेनाभेदागमस्याप्रामाण्यप्रसङ्ग इति ‘कथं चानुवादकत्वम्’ इत्यत्र वक्ष्याम इत्यर्थः । द्वितीये त्विति ।। प्रमाणान्तरेणेश्वरसिद्धिरिति द्वितीयपक्षोत्तरत्वेन इदम् ‘आगमं विना’ इति मूलवाक्यम् उपतिष्ठते प्राप्नोतीत्यर्थः । तथा चाऽगमं विनेत्यस्य प्रमाणान्तरेणेत्यर्थो द्रष्टव्यः । धर्मिप्रतियोगिप्रतीत्यभावादिति ।। ईश्वरस्य कदाचिद्धर्मित्वात् कदाचित्प्रतियोगित्वादित्यर्थः । किमनेन दूषणमुक्तं भवतीत्यत आह- तथा चेति (श्री.टि.) ।। आद्ये वक्ष्याम इति ।। प्रत्यक्षागमसाहाय्यवताऽनुमानेनेश्वरसिद्धौ तेन भिन्नत्वेनैव सिद्धिरिति तद्विरोध एवाभेदागमस्य स्यादित्यादिकं ‘कथं चानुवादकत्वम्’ इत्यत्रैव वक्ष्याम इत्यर्थः । (‘न चानुमानात् तत्सिद्धिः’ इति मूलवाक्यस्य प्रत्यक्षागमसाहाय्यरहितादनुमानादीश्वरसिद्धिर्न चेत्यर्थो द्रष्टव्यः ।) ननु विपर्ययस्या-नुमातुं शक्यत्वे कर्तृकरणत्वयोरभावेन  ‘कर्तृकरणयोस्तृतीया’ इत्यनेन तृतीयाया अयोगादाह- इत्थम्भूतलक्षण इति ।। कञ्चन प्रकारं प्राप्त इत्थम्भूतः तल्लक्षणे तत्प्रकारज्ञापके तृतीया स्यादिति सूत्रार्थः । छात्रेणोपा-ध्यायमद्राक्षीदित्युदाहरणम् । प्रकृते चानुमातुं शक्यत्वरूपं प्रकारं प्राप्त ईश्वर इत्थम्भूतः । तत्र प्रकारस्यातिप्रसक्तौ सत्यां विपर्ययस्य तज्ज्ञापकत्वात्तत्र तृतीयेत्यर्थः । वाक्यार्थमाह- प्रत्यक्षेति ।। क्व नामातीवदुर्वचाविति ।। सर्वत्रातीव सुवचावेवेत्यर्थः । नन्वेवं सत्यनुमानमात्रोच्छेदः । न च प्रत्यक्षादिसाहाय्यवत्यनुमाने नोपाधि-प्रतिपक्षाविति नानुमानमात्रोच्छेद इति वाच्यम् । तत्साहाय्यवत्त्वमात्रेणाप्युपाधिप्रतिपक्षयोः परिहारसम्भवादित्यत आह- प्रत्यक्षादिसाहाय्ये त्विति ।।

अनुकूलेन तर्केण सनाथे सति साधने ।

साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः ।।’

इति वचनादिति भावः । अत्र तर्केणेति प्रमाणोपलक्षणम् ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

अविद्यावद्विषयक इति ।। अविद्वदधिकारिक इत्यर्थः । नन्वेवमतत्त्वावेदकवाक्यविहितत्वात् कर्मफलसमृद्ध्यर्थतया कर्माश्रितत्वाच्च उद्गीथाद्युपासनानाम् ‘समुद्रं मनसा ध्यायीत’ इत्यादिवाक्यविहितसमुद्र-ध्यानादिवत्कर्मकाण्ड एवोक्तोपासनानामाम्नानं स्यान्न तत्त्वावेदकेषु वेदान्तेषु इत्याशङ्क्य चित्तवृत्तित्वेन रूपेण विद्यासाम्याद्युक्तं तासां वेदान्तेष्वाम्नानमित्याह- तत्रेति ।। नन्वेवं वेदान्ते ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्युद्गीथोपासनानां वाक्यानां सत्त्वात् समुद्रध्यानादेरपि मानसत्वेनोद्गीथाद्युपासनावद्विद्यासाम्याद्वेदान्तेष्वेव पाठप्रसङ्ग इत्यरुच्या हेत्वन्तरमाह- बुद्धिशुद्ध्यर्थत्वाच्चेति ।। बुद्धिशुद्धिद्वारा निर्विशेषज्ञानार्थत्वादित्यर्थः । ननु प्राणादेरिव सर्वस्य ब्रह्मप्रतीकतया तत्प्रतिपादनस्याप्यद्वैतज्ञानोपयोगसम्भवात्सर्वस्यापि वेदान्तेष्वेव पाठः स्यादित्यतो विशेषहेतुमाह- क्रममुक्तीति ।। एतेनेति ।। क्रममुक्तिफलकत्वेनेत्यर्थः । ननु च यागादिनित्य-कर्मणामपि बुद्धिशुद्धिद्वारा निर्विशेषज्ञानार्थत्वान्मानससङ्कल्परूपतयोपासनावद्विद्यासाम्याच्चेहैव पाठप्रसङ्गः । एकवाक्यत्वसम्भवे कर्मब्रह्मकाण्डभेदेन द्वैराश्यकल्पनानुपपत्तिश्चेति पूर्वत्रारुच्या पक्षान्तरमाह- यद्वेति ।। ब्रह्मो-च्यत इति ।। ब्रह्म लक्ष्यत इत्यर्थः । लक्षणाबीजशक्यसम्बन्धमुपदर्शयति- तस्यैवेति ।। मुख्यार्थानुप-पत्तिमप्युपदर्शयति- ऐश्वर्येति ।। प्रमाणमित्यस्य व्याख्यानं प्रधानवाक्यमिति । द्वा सुपर्णेतीति ।। न च ‘द्वा सुपर्णा’ इति मन्त्रोक्ते स्थित्यदने बुद्धिजीवगते एव ‘तावेतौ सत्त्वक्षेत्रज्ञौ’ इति पैङ्गिरहस्यब्राह्मणेनास्य मन्त्रस्य ‘आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः’ ‘एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः’ इत्यादिश्रुतिस्मृतिषु (पां.टि.) सत्त्वक्षेत्रज्ञशब्दार्थत्वेन प्रसिद्धबुद्धिजीवविषयत्वेन व्याख्यातत्वात् । तथा च बुद्धिजीवभेदाभिधायकत्व-मेवास्य युक्तम् । न तु जीवेशभेदाभिधायकत्वम् । मन्त्रोक्तस्थित्यदनयोर्जीवेशगतत्वाभावात् । तत्कथं द्वा सुपर्णेत्यादिश्रुतिविरुद्धत्वं तत्त्वमसीत्यादिवाक्यानामिति वाच्यम् । ब्राह्मणे, सत्त्वशब्दस्य तु ‘ऊनं न सत्त्वेष्वधिको बबाधे’ इति प्रयोगात् ‘सत्त्वमस्त्री तु जन्तुषु’ इति नामानुशासनात् ‘सत्त्वं जीव इति प्रोक्तः’इति स्मृतेश्च जीव-परत्वेन, क्षेत्रज्ञशब्दस्य च

प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।

क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंयुतम् ।।’

इति मोक्षधर्मादिवचनानुरोधेन ब्रह्मपरत्वेन बुद्धिजीवपरत्वाभावेन स्थित्यदनयोर्बुद्धिजीवगतत्वालाभात् । अन्यथा द्वा सुपर्णेत्यस्मादुत्तरं ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः’ इत्यादिकमयुक्तं स्यात् । बुद्धौ पुरुषशब्दस्य मुह्यमानत्ववीतशोकत्वादेश्चायुक्तत्वादिति भावः । प्रामाण्येति ।। अनेन मूले प्रमाणेति भावप्रधानो निर्देश इत्युक्तं भवति । भेदस्तावदिति ।। ससम्बन्धिकपदार्थत्वादिति भावः । आद्ये वक्ष्याम इति ।। ‘कथं चानुवादकत्वं प्रमाणेनासिद्धौ । सिद्धौ च कथमभेदवाक्यस्याबाधः’ इत्यादिनेति शेषः । आद्ये वक्ष्याम इति ।। कथं चेत्यादिनैवेति शेषः । विपर्ययस्य कर्तृत्वकरणत्वहेतुत्वानामभावेन कर्तृकरणयोर्हेतौ वा तृतीयाया अनुप-पत्तेराह- इत्थम्भूतलक्षणे तृतीयेति ।।

लघुप्रभा

(व्या.टि.)

एवं प्राभाकरमतं निरस्याद्वैतिमतं निरसितुमनुवदति- अत्रेत्यादिना ।। मन्त्रब्राह्मणोपनिषद्रूपस्य त्रिविधस्य वेदभागस्य तत्त्वावेदकत्वातत्त्वावेदकत्वाभ्यां प्रामाण्यद्वैविध्यमभिप्रेत्य विषयविभागमाह- मन्त्र-ब्राह्मणलक्षण इत्यादिना ।। अत्र मन्त्रप्रसिद्धिमत्त्वं मन्त्रसामान्यलक्षणम् । ‘शेषं ब्राह्मणम्’ इत्युक्तदिशा मन्त्रभिन्नवेदत्वं ब्राह्मणत्वम्  । उपनिषदां ब्राह्मणपरिव्राजकन्यायेन तत्त्वावेदकत्वविशेषविवक्षया पृथग्ग्रह-णम् । मन्त्रोपनिषद्भिन्नमेव वा ब्राह्मणम् । अधिकं तु गुरुप्रभायां विचारितम् । तावदिति क्रमार्थम् । विषयं निर्दिशति- कर्मपर इति ।। तत्र हेतुः । विधिनिषेधरूपत्वादिति ।। अधिकारिणमनुकरोति- अविद्यावद्विषय इति ।। अविद्वद्विषय इत्यर्थः । ‘अज्ञानां कर्मसङ्गिनाम्’ इत्युक्तेः । अतत्त्वावेदकत्वे हेतुं वाऽऽह- अविद्यावद्विषय इति ।। अविद्याकार्यविषय इत्यर्थः । शिश्व्ं वेदभागं निर्दिशति- वेदान्तानां त्विति ।। तत्त्वावेदकत्वेऽपीति तदभिमतप्रामाण्यनिर्देशः । तद्विषयमाह- जीवेश्वरेति ।। जीवब्रह्माभेद एवेत्यर्थः । ननूद्गीथाद्युपासनानां कर्मसमृद्ध्यर्थानां जपादिविधिवत्कर्मपरवाक्यैकवाक्यताप्रतीतेः कथमद्वैतपरतेत्याशङ्क्य तदेकवाक्यतां प्रकारान्त-रेणोपपादयति- तत्रेति ।। चित्तवृत्तिसाम्येनेति प्रकारान्तप्रदर्शनम् । साम्येन ऐकाग्य्रोण अन्तःकरणस्य पराग्वृत्ति-निरोधद्वारेणेत्यर्थः । चित्तवृत्तित्वेति पाठे ब्रह्मविद्यया मानसत्वेन साम्येनेत्यर्थः । बुद्धीति ।। अन्तःकरणशुद्धिद्वारा निर्विशेषज्ञानार्थत्वादित्यर्थः । पूर्वप्रकारमन्यत्रापि समुच्चिनोति । प्राणादीति ।। एवमिति शेषः । सुधानुरोधात् वाक्यान्तरसाधारणप्रकारद्वयमुक्त्वा असाधारणप्रकारद्वयं दर्शयति- प्राणादीनामिति ।। औतज्ञानेति ।। (व्या.टि.) प्रतीकस्यैव ब्रह्मत्वेन प्रतिपत्तव्यत्वादित्यर्थः । क्रममुक्तीति ।। सगुणनिर्गुणमुक्त्योः क्रमिकत्वा-दित्यर्थः । यथोक्तं परेण

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ।।’ इति ।

पूर्वोक्तमन्यत्राप्यतिदिशति- एतेनेति ।। एवं पृथक्पृथगद्वैतपरैकवाक्यतामभिधाय सर्वसाधारणैकप्रकारेणापि तां दर्शयति- यद्वेति ।। भेदप्रपञ्चेति ।। भिद्यत इति भेदः । ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इति घञ् । भिन्नप्रपञ्चेत्यर्थः । सिद्धान्त्यभिमततात्पर्यमाक्षिपति- कथमिति ।। नन्वस्तूभयत्र तात्पर्यम् । दीक्षणीयवाङ्-नियमन्यायेनेत्यत आह- सर्वोत्तमत्वादेरिति ।। उभयतात्पर्यसम्भवेऽपि न विरोध्युभयतात्पर्यम् । वस्तुनो द्वैरूप्यापत्तेरिति भावः । नन्वन्यथानुवादोऽयम् । तन्मते ईश्वरस्यापि विशिष्टत्वेन तेन तदभेदानभ्युपगमादित्यतो गौणीयं वृत्तिरित्याह- अत्रेति ।। लक्षणाबीजमाह- तस्यैवेति ।। मायाशबलस्येति ।। अज्ञानचित्रितस्ये-त्यर्थः । परैरिति ।। यथोक्तं सङ्क्षेपशारीरके - ‘अज्ञानकल्पितजगत्परमेश्वरत्वजीवत्वभेदकलुषीकृतभूरिभावः’ इति । मुख्यार्थेऽनुपपत्तिं दर्शयति- ऐश्वर्येति ।। मूलाशयं विकासयति- सति हीति ।। अयं भावः । ‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्’ इति जैमिनिना अर्थैक्यनिबन्धनमेकवाक्यत्वमित्युक्तम् । प्रधानवाक्यस्यैवाभावे केनेतरेषामर्थैक्यं स्यादिति भावः । द्वा सुपर्णेत्यादीत्यादिपदेन ‘भिन्नोऽचिन्त्यः’ इत्यादिपरिग्रहः । अत्र द्वा सुपर्णेतिवाक्यस्य ‘तावेतौ सत्त्वक्षेत्रज्ञौ’ इति पैङ्गिरहस्यब्राह्मणे सत्त्वक्षेत्रज्ञपरत्वोक्तावपि ‘सत्त्वं जीव इति प्रोक्तः’ ‘प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् । क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंयुतम्’ इत्यादिप्रमाणैः सत्त्वक्षेत्रज्ञशब्दयोर्जीवब्रह्मपरतया चन्द्रिकाश्रुत्यर्थसारादौ निपुणतरमुपपादितत्वान्न बुद्धिजीवपरत्वं भ्रमित-व्यम् । विरुद्धत्वेनेति ।। बाधितत्वेन, प्रतिरुद्धत्वेनेत्यर्थः । प्रामाण्येति ।। प्रमापकत्वेत्यर्थः । प्रतिबन्दी मोचयति- न चाभेद इति ।। इतिशब्द इति ।। ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यभिधानात् । इति वा वक्तव्य-मिति ।। इति विकल्पे अन्यतरकल्पाश्रयेणोत्तरं वक्तव्यमिति शेषपूरणेन योजनीयम् । वक्ष्याम इति ।। ‘सिद्धौ च कथमभेदवाक्यस्याबाधः’ इत्यत्रेति भावः । तदधीनेति ।। ‘अध्युत्तरपदात्’ इति खप्रत्ययः । तस्मिन्नधि इति विगृह्य ‘सप्तमी शौण्डैः’ इति सप्तमीतत्पुरुषो बोध्यः । शौण्डादिष्वधिशब्दपाठात् । एवार्थ इति ।। एवस्यार्थ इति विगृह्य षष्ठीतत्पुरुषो बोध्यः । न च ‘चतुर्थी तदर्थार्थ’ इति चतुर्थीसमासं विधाय ‘अर्थेन नित्यसमासो विशेष्यलिङ्गता च’ इति वार्तिकोक्तेः कथं षष्ठीसमास इति वाच्यम् । तत्रोद्देश्यपर्यायस्यार्थशब्दस्य ग्रहणेऽपि अभिधेयपर्यायस्यानभिधानात् । स्वभाव इति ।। ‘तदव्यक्तमाह हि’ इत्यव्यक्तस्वभावोक्तेरित्यर्थः । वक्ष्याम इति ।। प्रत्यक्षानुमानसिद्धत्वे चेति मूल इत्यर्थः । इत्थम्भूतलक्षणे तृतीयेति ।। अनुमानस्य प्रत्यक्षागमसहाय-राहित्यं प्रतिरुद्धत्वं वा कश्चित्प्रकारः । तज्ज्ञापके विपरीतानुमाने तृतीयेत्यर्थः । यद्वा इत्थम्भूतो विशिष्टस्तल्लक्षणे विशेषणे तृतीया, वैशिष्ट्यं तृतीयार्थः । तथा च विपर्ययेण विरोधेन विशिष्टस्य साध्यस्यानुमातुं शक्यत्वाद्, विरुद्धसाध्यकत्वरूपविपर्ययविशिष्टस्यानुमानस्य वा कर्तुं शक्यत्वादित्यर्थः । ससहायासहायाभ्यां सिद्ध्यसिद्धी (व्या.टि.) दर्शयति- प्रत्यक्षागमेति ।। तद्बाधेनेति ।। प्रत्यक्षादिबाधेनेत्यर्थः । पक्ष एवेति ।। प्रत्यक्षादिना पक्ष एव साध्यनिश्चयादित्यर्थः । दुष्परिहरमिति खलन्तम् ।