पदानां केवल..
पदानां केवलसिद्धार्थवाचकत्वाभाव निराकरणम्
मूलम्
- न च केवलसिद्धेऽर्थे व्युत्पत्त्यभावादप्रामाण्यम् । सिद्धान्वित एव व्युत्पत्ति-गृहीतेः ।
तत्त्वमञ्जरी
अत्राऽहुः- वेदानां प्रामाण्यं नित्यत्वं च समञ्जसमेव । न तु नारायणे तात्पर्यं सम्भवति । न हि केवलसिद्धेऽर्थे तात्पर्यम्; किन्तु कार्य एव । केवलं सिद्धद्वारेण बालस्य व्युत्पत्तिग्रहणासम्भ-वात् । यद्द्वारेण व्युत्पत्तिग्रहणं शब्दानां तत्र हि तात्पर्यमित्यत आह- न च केवलेति ।।
टीका
अत्र प्राभाकरास्त्वाहुः । स्यादेवोक्तं वेदप्रामाण्यादिकं समस्तम् । किं तर्हि? यदुक्तं ‘सदागमैकविज्ञेयम्’ इति वेदानां विष्णुप्रतिपादकत्वं तन्नोपपद्यते । तथाहि । वाच्यवाचक-भावसम्बन्धज्ञानलक्षणव्युत्पत्त्यपेक्षो हि शब्दोऽर्थं बोधयति नान्यथा । अन्वयव्यतिरेकाभ्यां तथाऽवगमात् । व्युत्पत्तिश्च वृद्धव्यवहारदर्शनादेव भवति । वृद्धव्यवहारश्च कार्यप्रतिपत्तिनिबन्धन इति कार्यप्रतिपादकतैव शब्दस्य युक्ता । तथाहि । ‘चैत्र जलमाहर’ इति प्रयोजकवृद्धवाक्यश्रव-णानन्तरं प्रयोज्यवृद्धस्य जलाहरणविषयां प्रवृत्तिं दृष्ट्वा पार्श्वस्थो बाल एवमाकलयति । अस्येयं प्रवृत्तिर्बुद्धिपूर्वा स्वतन्त्रप्रवृत्तित्वात् मदीयस्तनपानादिप्रवृत्तिवदिति । पुनश्चास्य प्रवृत्तिहेतुभूता बुद्धिः किंविषयेति जिज्ञासायामेवं निश्चिनोति । वृद्धस्य प्रवृत्तिहेतुभूता बुद्धिः मम प्रवृत्तिहेतुभूता बुद्धिर्यद्विषयिणी तद्विषयैव भवितुमर्हति प्रवृत्तिहेतुभूतबुद्धित्वात् मदीयप्रवृत्तिहेतुभूतबुद्धिवदिति । पुनरेवमवधारयति । यद्विषया सा बुद्धिः प्रवृत्तिहेतुभूता तद्वस्तु अस्यानेन शब्देन बोधितं तद्भाव-भावित्वात् । मम तु प्रमाणान्तरेणेत्यावयोर्विशेषः । तेन यद्बोधान्मम प्रवृत्तिस्तदनेन शब्देन बोध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थबोधकतेति । पुनश्च कोऽसौ प्रवृत्तिहेतुभूतः शब्दबोध्योऽर्थ इत्यवधारयितुं स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतार्थमनुसन्धत्ते । तत्र न तावदहं क्रियामात्रं फलमात्रं क्रियाफल-सम्बन्धमात्रं वा बुद्ध्वा प्रवृत्तः, किन्तु कार्यमेव । ममेदं कार्यमिति प्रतीत्य हि स्तनपानादावहं प्रवृत्त इति स्वप्रवृत्तेः कार्यबोधपूर्वकतां निश्चित्यायमपि कार्यबोधादेव प्रवृत्त इत्यनुमाय वाक्यस्य तावत्सामान्यतः कार्यपरतामवधारयति । ततो लिङाद्यावापे कार्यावगमदर्शनात् तदुद्धारे चादर्शनात् त एव कार्यावगतिं कुर्वन्ति । शब्दान्तराणि च तदन्वितांस्तांस्तानर्थानवगमयन्तीति आवापोद्वा-पाभ्यामधिगच्छति । एवं लोके कार्य एव गृहीतशब्दसङ्गतिर्वेदेऽपि तदेव शब्दात्प्रत्येतुमर्हति । तत्र लिङादिप्रत्ययः कार्यशरीरमेवाभिदधाति प्रकृतिस्तद्विषयम् । पदान्तराणि च प्रकृत्यर्थविशेषणं कारकं तद्विशेषणं नामधेयं नियोज्यं चाभिदधति कार्यप्रतिपत्तौ व्याप्रियन्ते । सन्निपत्योप-कारकाङ्गवाक्यानि यद्यपि कार्यान्तरशून्यानि तथाऽपि प्रधानकार्यान्वितस्वार्थाभिधायकतया कार्यप्रतिपत्तावेव व्याप्रियन्ते । मन्त्रा अपि कार्याङ्गभूतार्थस्मारकतया तत्रैव नियुक्ताः कार्य एव व्यापारवन्तः । अर्थवादा अपि तत्रैव रुचिमुत्पादयन्त उपयुज्यन्त इति कृत्स्न एव वेदः कार्ये प्रमाणम् ।
कार्यं च कृतिसाध्यत्वे सति कृत्युद्देश्यम् । कृतिश्च प्रयत्नः । तच्च लोके भावार्थो वेदे त्वपूर्वम् । अत एव वेदान्तानामपि कर्तृस्वरूपप्रतिपादकत्वेन देवताप्रतिपादकत्वेन वा कार्यपरतैव । प्रकरणभेदात्तदनङ्गीकारेऽपि ‘आत्मा ज्ञातव्यः’ इत्यपुनरावृत्तये समाम्नातेन विधिनैकवाक्यता-माश्रित्य कार्यपरत्वमेव वर्णनीयम् । तदेवं कार्यान्वित एवार्थे सर्वशब्दानां व्युत्पत्तिदर्शनात् केवलसिद्धार्थे तदभावान्न सिद्धस्वरूपे विष्णौ वेदस्य प्रतिपादकत्वं सम्भवतीति । तदेतत्प्रतिषेधति- नच केवलेति ।। केवले कार्यान्वयरहिते, स्वप्रधाने सिद्धे कार्यातिरिक्तेऽर्थे शब्दानां व्युत्पत्त्य-भावात्तथाविधे विष्णौ वेदस्य अप्रामाण्यम् अप्रतिपादकत्वमिति च नेत्यर्थः । नच कार्यान्विततयैव तत्र प्रामाण्यं भविष्यति तत्किमनेनेति वाच्यम् । स्वप्रधाने विष्णौ सर्ववेदप्रामाण्यस्याभिलषित-त्वात् । अत एव सदागमैरेक एव प्रधानविज्ञेय इत्यपि व्याख्यायते । कुतो नेत्यत आह- सिद्धेति ।। अन्वितग्रहणेन यत्प्राभाकरैः कार्यान्वितार्थताव्युत्पादनाय शब्दानामन्विताभिधानसामर्थ्यं समर्थितं तदभ्युपगम्यत एवास्माभिरिति सूचयति । एवेति कार्यान्वयनियमनिराकरणम् । गृहीतेर्दर्शनात् । कार्यान्वयनियमं विना योग्येतरान्वितस्वार्थे व्युत्पत्तिदर्शनादित्यर्थः ।
भावबोधः
व्युत्पत्तिश्चेति ।। प्राथमिकी व्युत्पत्तिरित्यर्थः । तेनानन्तरभाविव्युत्पत्तेर्व्याकरणादिमूलकत्वेऽपि ‘न व्यवहारदर्शनादेव’ इत्यवधारणानुपपत्तिरिति ज्ञातव्यम् । अस्येति ।। अंशतो बाधादिवारणाय इयमिति पक्षविशेषणम् । स्वतन्त्रेति ।। विष्टिगृहीतादिप्रवृत्तौ व्यभिचारवारणायेदम् । प्रवृत्तिहेत्विति ।। उपेक्षाज्ञानादौ व्यभिचारवारणायैतदिति ज्ञातव्यम् । तद्वस्त्विति ।। तद्वस्तुबोध एतच्छब्दजन्य इत्यर्थः । तद्भावभाविबोधत्वादिति हेत्वर्थो वा । न तावदहमिति ।। कृत्यसाध्यादावप्रवृत्त्या क्रियादिज्ञानस्य प्रवृत्तिव्यभिचारादिति भावः । इत्यनु-मायेति ।। चैत्रस्य प्रवृत्तिः कार्यबोधपूर्विका बुद्धिपूर्वप्रवृत्तित्वात् मदीयप्रवृत्तिवदित्यनुमायेत्यर्थः । वाक्य-स्येति ।। प्रवृत्तिहेतुभूतार्थबोधकत्वेनावधारितवाक्यस्येत्यर्थः । पदान्तराणि चेति ।। ‘ज्योतिष्टोमेन’ इत्यादितृतीयाकारकं तत्प्रातिपदिकं नामधेयम्, ‘स्वर्गकामः’ इत्यादि च नियोज्यमिति विवेचनीयम् । सिद्धेऽपि भावबोधः
कार्यान्विते गवादिशब्दानां परेणापि व्युत्पत्तिरङ्गीक्रियत इत्यतः केवल इत्युक्तमिति ज्ञापयन् व्याचश्व्े- कार्यान्वयरहित इति ।। कार्यान्वयरहितेऽपि कार्ये लिङादीनां परेण व्युत्पत्त्यङ्गीकारात् ‘सिद्धे’ इत्युक्तमिति सूचयन् व्याचश्व्े- कार्यातिरिक्तेऽर्थ इति ।। ननु परेण वेदस्य विष्णुप्रतिपादकत्वाभावाङ्गीकारात् कथं तदप्रमा-जनकत्वलक्षणमप्रामाण्यं वेदस्य । किञ्च व्युत्पत्त्यभावलक्षणो हेतुरप्रतिपादकत्वसाधको न त्वप्रामाण्यसाधको विरुद्धत्वादित्यतोऽप्रामाण्यपदं व्याचश्व्े- अप्रतिपादकत्वमिति ।। ननु ‘विशेषणानि यानीह’ इत्याद्यपद्योक्त-विशेषणतदुपयुक्तप्रतिपादनमेव प्रतिज्ञातम् । अतथाभूतमिदं किमर्थमुच्यत इत्याशङ्क्य निराकरोति- न च कार्यान्विततयैवेत्यादिना ।। एक एव प्रधानविज्ञेय इति ।। अनेनैकशब्दस्य विष्णुगतैकत्वसङ्ख्या मुख्यत्वं चार्थ इत्युक्तं भवति । तावता विना सकलवेदार्थत्वस्य प्राधान्यस्य चालाभात् ।
भावदीपः
अत्रेति ।। विष्णोरागमज्ञेयत्वविषये अनुपपत्तिमाहुरित्यर्थः । प्रामाण्यादिकमिति ।। वेदापौरुषेयत्व-वर्णनित्यत्वादिरादिपदार्थः । तन्नोपपद्यत इत्यत्र युक्तिं ‘तदेवं कार्यान्वित एव’ इत्यादिनोपसंहारे व्यक्तं विव-क्षुस्तत्सिद्ध्यर्थमुपोद्धातमाह - वाच्यवाचकेत्यादिना ।। प्राथमिकव्युत्पत्त्यभिप्रायेणोक्तम् । वृद्धव्यव-हारदर्शनादेवेति ।। कार्ये व्युत्पत्तिप्रकारं दर्शयति- तथाहीत्यादिना ।। वायुप्रेरिततृणादिप्रवृत्तावव्यभि-चारायोक्तम्- स्वतन्त्रेति ।। निश्चिनोतीति ।। पार्श्वस्थो बाल इत्यनुकर्षः । एवमग्रेऽपि । बुद्धित्वादित्यस्योदा-सीनतृणादिबुद्धावव्यभिचाराय प्रवृत्तिहेतुभूतबुद्धित्वादित्युक्तम् । प्रमाणान्तरेणेति ।। जन्मान्तरानुभवजन्य-संस्कारादिनेत्यर्थः । आवयोरिति ।। प्रयोज्यवृद्धस्य मम चेत्यर्थः । बोधकतेतीतिपदस्य एवमवधारयतीति पूर्वेणान्वयः । क्रियामात्रं स्तनपानादिरूपम् । फलमात्रं तृप्तिरूपम् । सम्बन्धेति ।। साध्यसाधनभावरूपे-त्यर्थः । इति प्रतीत्य हीति ।। क्रियायां कार्यत्वं प्रतीत्य हीत्यर्थः । एवमग्रेऽपि कार्यपदस्य कार्यत्वमर्थो ध्येयः । सामान्यत इति ।। एतादृशः शब्दार्थः कार्यं कृतिसाध्यं वस्त्विति निर्धारणं विना तादृशवस्तुतात्पर्यकं वाक्यमित्यवधारयतीत्यर्थः । तत इति ।। सामान्यतः कार्यपरतानिश्चयानन्तरम् । इत्यावापोद्धाराभ्यामधि-गच्छतीत्यन्वयः । लिङाद्यावाप इति ।। लिङ्लोट्तव्यप्रत्ययादेरन्यतमयोगे सतीत्यर्थः । त एव लिङादय एवेत्यर्थः । तांस्तानिति ।। चैत्र जलमाहस्स्वेत्यादौ चैत्रादिपदार्थानित्यर्थः । तदेवेति ।। यद्यपि लोके मयाऽऽनयनं कार्यमिति बोधदर्शनात् क्रियाकार्यत्व एव लिङादेः शक्तिग्रहः । तत्राऽनयनादिक्रियाजन्यापूर्वशब्दितस्यान्यस्य कार्यस्याभावात् । तथाऽपि वेदे क्रियाजन्यापूर्वस्य कार्यशब्दितस्य सत्त्वात्तत्र शक्तिग्रहः । कुत एवमिति चेत् । ‘स्वर्गकामो यजेत’ इत्यादौ स्वर्गादिकामं नियोज्यं प्रति यजनादिक्रिया लिङादिशब्देन कार्यतया बोधयितुम-शक्या । कुतः ? कामी हि काम्यादन्यत् काम्याव्यवहितसाधनमेव कार्यतयाऽवगच्छतीति व्याप्तेः । नतु व्यवहितसाधनम् । क्रिया चास्थायित्वेन काम्यव्यवहितत्वान्न कार्यताबोधयोग्येति फलपर्यन्तस्थाय्यपूर्वमेव लिङादिना कार्यत्वेन बोध्यमित्यपूर्वमेव कार्यशब्दितं लिङादिवाच्यमिति । तदेवेत्युक्तिस्त्वविवक्षितविवेकेन कार्यसामान्याभिप्रायेणेति ज्ञेयम् । अत एव तत्र वेदे यजेतेत्यत्र ईतेत्यादिलिङादिप्रत्ययोऽपूर्वशब्दितकार्यशरीर मेवाभिदधातीत्ययमेवार्थः स्फुटमुत्तरवाक्येऽवगम्यते । प्रकृतिरिति ।। यजेत्ययमंशोऽपूर्वशब्दितकार्य-विषयम् अभिदधातीत्यन्वयः । यागविषयकं कार्यमिति हि किल तन्मतेऽन्वयबोधः । प्रकृत्यर्थविशेषणं कारक-मिति ।। ‘सोमेन यजेत’ ‘पशुना यजेत’ इत्यादौ करणकारकम्, ‘राजा राजसूयेन’ इत्यादौ तद्विशेषणं प्रकृत्यर्थविशेषणं राजसूयादिनामधेयम्, राजेत्यादिकर्तृरूपनियोज्यमित्यर्थः । अभिदधतीति शत्रन्तम् । अभिदधानानि भूत्वा व्याप्रियन्त इत्यन्वयः । सन्निपत्योपकारकाङ्गवाक्यानीति ।। यागोत्पत्त्यपूर्वजनक-प्रोक्षणाद्यङ्गप्रतिपादकानि ‘व्रीहीन् प्रोक्षति व्रीहीनवहन्ति’ इत्येवमादीनि वाक्यानि स्वर्गादिजनकप्रधानापूर्व-शब्दितकार्यादन्यप्रधानकार्यपराणि न भवन्ति । ‘यजेत स्वर्गकामः’ इत्यादौ यागविषयकं कार्यमितिवत् प्रोक्षणविषयकं कार्यमित्यन्वयबोधानभ्युपगमादित्यर्थः । तस्य गुणकर्मतयाऽर्थकर्मत्वाभावादिति भावः । प्रधा-नेति ।। ‘व्रीहीन् प्रोक्षति’ इत्यादौ न व्रीहित्वादिकमुद्देश्यतावच्छेदकम् । किन्तु स्वर्गादिफलाव्यवहितसाधनतया प्रधानभूतयागकार्यान्वयित्वमेवेति प्रधानकार्यान्वितव्रीह्यादिस्वार्थाभिधायकतया कार्यप्रतिपत्तावित्यर्थः । मन्त्रा इति ।। ‘व्रीहीणां मेघः सुमनस्यमानः’ इति ‘अग्निर्मूर्धा’ इत्यादयो मन्त्राः कार्याङ्गपुरोडाशादिद्रव्यदेवता-स्मारकतया तत्रैव कार्य एव विनियुक्ता इत्यर्थः । अर्थवादा इति ।। ‘वायुर्वै क्षेपिष्ठा’ इत्येवमादयः श्वेत-पश्वालम्भविषयकं कार्यं प्रशस्तमित्येवंरूपेणेत्यर्थः । कृत्युद्देश्यमिति ।। कृत्या साधयिष्यामीति इच्छाविषय इत्यर्थः । कृतिसाध्यतामात्रस्य निषिद्धेऽपि सत्त्वात्तद्व्यावृत्त्यर्थमेतत् । कृत्यसाध्यव्यावृत्त्यर्थमाद्यं विशेषणम् । तच्चेति ।। कार्यमित्यर्थः । भावार्थ इति ।। आनयनादिधात्वर्थ एवेत्यर्थः । अत एवेति ।। प्रागुक्तदिशा कृत्स्न-वेदस्य कार्यपरत्वादेवेत्यर्थः । तदनङ्गीकार इति ।। कर्मकाण्डब्रह्मकाण्डरूपप्रकरणभेदात्कर्मकाण्डगतकर्म-समवेतकर्तृदेवताप्रतिपादकत्वानङ्गीकारे ब्रह्मकाण्डगतलिङाद्यर्थकार्यपरतैवास्त्वित्यर्थः । स्वप्रधान इति ।। अनन्यशेष इत्यर्थः । वेदाप्रामाण्यस्य परासम्मतेः कथमप्रामाण्यमित्यनुवाद इत्यत आह - अप्रतिपादकत्वमिति ।। तत्रेति ।। ‘आत्मा ज्ञातव्यः’ इत्युक्तदिशा कार्यान्विततयैव विष्णौ वेदस्य प्रामाण्यं भविष्यति, सिद्धे व्युत्पत्तिकथनेन किमित्यर्थः । अभिलषितत्वादिति ।। इश्व्त्वादित्यर्थः । इत्यपि व्याख्यायत इति ।। न केवलं प्रागुक्तदिशा एकशब्दः केवलार्थः, प्राधान्यार्थोऽपि व्याक्रियत इत्यर्थः । समर्थितमिति ।। स्वग्रन्थ इति भावः । नियमेति ।। अप्रथमव्युत्पत्तेः कार्यान्वितेऽपि स्वीकारादिति भावः । गृहीतेरित्यनुवादेन शेषमाह- दर्शनादिति ।। वाक्यस्य फलितार्थमाह- कार्येति ।।
वाक्यार्थदीपिका
(श्री.टि.)
अन्वयव्यतिरेकाभ्यामिति ।। व्युत्पत्तिसद्भावे शब्दादर्थबोधस्तदभावे तदभाव इत्यन्वयव्यतिरेका-भ्यामित्यर्थः । व्युत्पत्तिश्च वृद्धव्यवहारदर्शनादेवेति ।। ननु कथमेतदवधारणम् । ‘शक्तिग्रहं व्याकरणोपमान-कोशाऽप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतस्सिद्धपदस्य वृद्धाः’ इति वचनेन व्युत्पत्तिप्रकाराणां बहूनां सत्त्वादिति चेन्न । व्युत्पत्तिश्चेत्यस्य प्राथमिकी व्युत्पत्तिरित्यर्थकरणात् । कार्यव्युत्पत्त्य-नन्तरभाविव्युत्पत्तिप्रकारास्ते । अतो न दोष इति भावः । अस्येयं प्रवृत्तिरिति ।। प्रवृत्तिसामान्यस्य पक्षत्वे (श्री.टि.)विष्टिगृहीतप्रवृत्तेरपि पक्षत्वापत्त्या तत्र बुद्धिपूर्वकत्वसाधने अंशे बाधः स्यादत इयमित्युक्तम् । प्रत्यक्ष-सिद्धा जलाहरणविषयेत्यर्थः । विष्टिगृहीतप्रवृत्तौ व्यभिचारवारणाय स्वतन्त्रेत्युक्तम् । स्वेच्छाधीनेत्यर्थः । वृद्धस्य प्रयोज्यवृद्धस्य । प्रवृत्तिहेतु(भूत)बुद्धित्वादिति ।। उपेक्षाज्ञाने बुद्धित्वसद्भावेऽपि कार्यविषयकत्वाभावाद् व्यभिचारः स्यादतः प्रवृत्तिहेत्वित्युक्तम् । तद्वस्त्विति ।। तद्वस्तुबोध एतच्छब्दजन्य इत्यर्थः । तद्भावभावित्वा-दिति ।। तच्छब्दप्रयोगानन्तरभावित्वादित्यर्थः । प्रमाणान्तरेणेति ।। स्तनपानादिप्रवृत्तिहेतुभूतवस्तुबोधो मम शब्दातिरिक्तानुमानरूपप्रमाणान्तरेण जात इत्यर्थः । मम प्रवृत्तिः स्तनपानादौ । प्रवृत्तिहेतुभूत इति ।। प्रयोज्यवृद्धस्येति शेषः । प्रवृत्तिहेतुभूतं स्तनपानादिप्रवृत्तिहेतुभूतम् । न तावदहमित्यादि ।। कृत्यसाध्ये चन्द्रमण्डले तक्षकचूडामण्याहरणादौ क्रियादिज्ञानमात्रस्य सत्त्वेऽपि प्रवृत्त्यभावेन व्यभिचारान्न क्रियादिज्ञान-मात्रस्य प्रवर्तकत्वमिति भावः । प्रतीत्य हीति ।। इदं मया कर्तव्यं स्तनपानत्वादिति स्तनपानादेः कार्यत्वमनुमानेन ज्ञात्वेत्यर्थः । इत्यनुमायेति ।। चैत्रस्य प्रवृत्तिः कार्यबोधपूर्विका बुद्धिपूर्वप्रवृत्तित्वान्मदीयस्तनपानादिप्रवृत्ति-वदित्यनुमायेत्यर्थः । वाक्यस्येति ।। प्रवृत्तिहेतुभूतार्थबोधकत्वेनावधारितवाक्यस्येत्यर्थः । लिङाद्यावाप इति ।। लिङ्लोट्तव्यप्रत्ययपञ्चमलकाराणां स्थापने कृत इत्यर्थः । तदुद्धार इति ।। तेषां लिङादीनां निष्कासन इत्यर्थः । त एव लिङादय एव । तदेव कार्यमेव । प्रत्येतुमर्हतीति ।। य एव लौकिकास्त एव वैदिका इति लौकिकवैदिकपदयोरभेदात् ‘लोकावगतसामर्थ्यश्शब्दो वेदेऽपि बोधकः’ इति न्यायादिति भावः । तत्रेति ।। ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिवेदवाक्ये, लिङादिप्रत्ययः ईतप्रत्ययः, कार्यशरीरं प्रयत्नरूपशाब्द-भावनारूपमभिदधाति । ‘भावनैव प्रयत्नात्मा सर्वत्राऽख्यातगोचरः । लिङोऽभिधा सैव च शाब्दभावना’ इत्यादि-तदीयवचनात् । प्रकृतिः यज् इत्येवंरूपो धातुः । तद्विषयं लिङ्वाच्यप्रयत्नविषयं यागम् । पदान्तराणि ज्योतिष्टोमेन स्वर्गकाम इत्यादिपदानि । तत्रायं विवेकः । इनेति तृतीयाविभक्तिः । प्रकृत्यर्थभूतयागविशेषणं करणकारकं यागस्य करणत्वमिति यावत्, ज्योतिष्टोमेत्येतत्प्रकृत्यर्थयागविशेषणीभूतं नामधेयम्, स्वर्गकाम इत्येतत् नियोज्यमधिकारिणम् अभिदधति सन्ति कार्यप्रतीतावेव व्याप्रियन्ते व्यापारवन्ति भवन्तीत्यर्थः ।
ननु द्विविधान्यङ्गवाक्यानि । सन्निपत्योपकारकाणि आरादुपकारकाणि चेति । दृष्टद्वारा साक्षादुपकारकाणि सन्निपत्त्योपकारकाणि । तान्येव क्वचित्स्वरूपोपकारकाणीत्युच्यन्ते । यथा व्रीहीनवहन्तीत्यादीनि । तत्रावहन-नादेर्वितुषीभावरूपदृष्टफलद्वारैव यागस्वरूपोपकारकत्वात् । अदृष्टद्वारोपकारकाण्यारादुपकारकाणि । तान्येव क्वचित्फलोपकारकाणीत्युच्यन्ते । यथा ‘इडो यजति समिधो यजति बर्हिर्यजति तनूनपातं यजति स्वाहाकारं यजति’ इति पञ्चप्रयाजादिवाक्यानि, अदृष्टद्वारा यागफले उपकारकत्वात् । तत्र सन्निपत्योपकारकवाक्यानि ‘व्रीहीनवहन्ति’ इत्यादीनि कार्यवाचकलिङादिप्रत्ययशून्यानि । तानि कथं प्रमाणानि । आरादुपकारकेष्वपि लिङाद्युपेतान्येव वाक्यानि प्रायस्सन्ति । कानिचिदेव प्रयाजादिवाक्यानि तदनुपेतानि सन्ति । तानि च कथं प्रमाणानीत्यत आह- सन्निपत्योपकारकाङ्गवाक्यानीति ।। इदमुपलक्षणम् । आरादुपकारकाणि कानिचित् (श्री.टि.) प्रयाजादिवाक्यान्यप्यत्र ग्राह्याणि । अत एव कण्ठतोऽनुक्तिरिति ज्ञेयम् । मन्त्राणामपि कार्ये प्रामाण्यमुपपादयति- मन्त्रा अपीति ।। अर्थेति ।। देवतादिरूपार्थेत्यर्थः । तत्रैवेति ।। कार्याङ्गभूतार्थस्मारण एवेत्यर्थः । नन्वर्थवादानां स्तुतिपरत्वेन कथं कार्ये प्रामाण्यमित्यत आह- अर्थवादा अपीति ।। तत्रैवेति ।। विधिबोध्ये कार्य एवेत्यर्थः । रुचिमिति ।। प्राशस्त्यबोधनेन शीघ्रं मनःप्रवृत्तिमित्यर्थः । यत्र कार्ये कृत्स्नवेदप्रामाण्यं तत्कार्यं नाम किमित्यत आह- कार्यं चेति ।। चन्द्रमण्डलादावतिव्याप्तिवारणाय सत्यन्तम् । विषपानादावति-व्याप्तिवारणाय विशेष्यमिति द्रश्व्व्यम् । तच्च कार्यम् । लोके भावार्थो वेदे त्वपूर्वमिति ।। भावार्थो धात्वर्थः। अयं भावः । गामानयेत्यादिलौकिकवाक्ये आनयनरूपधात्वर्थ एव कृतिसाध्यः कुत्युद्देश्यश्च । वेदे तु यजेतेत्यादौ अपूर्वमदृष्टमेव कृतिसाध्यं कृत्युद्देश्यम् । ‘कामी हि काम्याव्यवहितपूर्वक्षणवर्त्येव साधनत्वेनावैति’ इति न्यायेन यागादेः क्रियात्मकत्वेन चिरविनष्टस्य काम्यभूतस्वर्गाव्यवहितपूर्वक्षणवर्तित्वाभावादपूर्वस्य च तथात्वात्तदेव लिङर्थभूतं स्थायि कार्यम् । तथा च यजेतेत्यस्य यागेन अपूर्वं भावयेदित्यर्थ इति तत्सम्प्रदाय इति । ननु वेदान्त-भागानां कथं कार्यपरत्वमित्यत आह- अत एवेति ।। कृत्स्नस्यापि वेदस्य कार्यपरत्वादेवेत्यर्थः । वेदान्ताना-मपीति ।। तदन्तर्गतानामित्यर्थः । ‘विज्ञानघन एवैभ्यो भूतेभ्यः समुत्थाय’ इत्यादीनां कार्याङ्गभूतकर्तृस्वरूप-प्रतिपादकत्वम् । ‘वाग्वाव नाम्नो भूयसी’ इत्यादीनां कार्याङ्गभूतदेवतास्वरूपप्रतिपादकत्वं मन्तव्यम् ।
ननु कर्मकाण्ड एव कार्यवाचिलिङादीनां सत्त्वेन ब्रह्मकाण्डानां वेदान्तानां कथं कर्मकाण्डस्थकार्याङ्गभूत-कर्त्रादिस्वरूपप्रतिपादकत्वेन कार्यपरत्वं ? प्रकरणभेदादित्याशङ्क्य निराकरोति- प्रकरणभेदादिति ।। ब्रह्म-प्रकरणकर्मप्रकरणयोर्भेदादित्यर्थः । तदनङ्गीकार इति ।। वेदान्तवाक्यानां कर्मकाण्डस्थकार्याङ्गभूतकर्त्रादि-प्रतिपादकतानङ्गीकार इत्यर्थः । वेदान्त एव कार्यवाचकलिङादेस्सद्भावात्तदङ्गभूतकर्त्रादिस्वरूपप्रतिपादकत्वं वेदान्तवाक्यानामुपपद्यत एवेत्याह- आत्मा ज्ञातव्य इतीति ।। एकवाक्यतामित्यत्र वेदान्तानामिति वर्तते । कार्याङ्गभूतकर्त्रादिस्वरूपप्रतिपादकत्वेनेत्यर्थः । सर्वशब्दानां कार्यपरत्वोपपादनस्य प्रयोजनं दर्शयन्नुपसंहरति- तदेवमिति ।। कार्यान्विते सिद्धेऽपि गवादिशब्दानां परेणापि व्युत्पत्तिरङ्गीक्रियत इत्यतः केवल इत्युक्तमित्यभिप्रेत्य तद्व्याचश्व्े - कार्यान्वयरहित इति ।। अत एव स्वप्रधाने स्वयमेव प्रधाने न केनाप्यन्वित इत्यर्थः । कार्यान्वय-रहितेऽपि कार्ये लिङादीनां परेण व्युत्पत्तिरङ्गीक्रियत एवेत्यतस्सिद्ध इत्युक्तमिति सूचयन् व्याचश्व्े - कार्याति-रिक्तार्थ इति ।। अप्रामाण्यमित्यत्र केवलसिद्धेऽर्थ इत्यनुवर्तत इत्यभिप्रेत्य आह- तथाविध इति ।। कार्यान्वय-रहितत्वेन कार्यातिरिक्तत्वेन च केवलसिद्धार्थभूत इत्यर्थः । तथा च कार्यानन्वितः कार्यातिरिक्तोऽर्थस्सिद्धार्थ इति सिद्धार्थलक्षणं सूचितं भवति । अत्र कार्यानन्वितस्सिद्धार्थ इत्युक्ते कार्येऽतिव्याप्तिः स्यात् । कार्यस्य कार्यान्वयाभावात् । अतः कार्यातिरिक्त इत्युक्तम् । तावत्युक्ते घटमानयेति वाक्यगते आनयनान्विते घटेऽतिव्याप्तिः स्यादत उक्तं कार्यानन्वित इति । इति पदकृत्यं द्रश्व्व्यम् । ननु परेण वेदस्य व्युत्पत्त्यभावेन विष्णुप्रतिपादकत्वाभाव एवाङ्गीकृतो न तु तदप्रमाजनकत्वलक्षणमप्रामाण्यम् । तथात्वे ‘स्यादेवोक्तं वेद-(श्री.टि.) प्रामाण्यादिकं समस्तम्’ इत्युक्तविरोधापत्तेः । अतोऽसदनुवादोऽयम् । किञ्च व्युत्पत्त्यभावलक्षणो हेतुः पदानामप्रतिपादकत्वसाधक एव । न त्वप्रामाण्यसाधकः । पदानां व्युत्पत्त्यभावे ज्ञानमात्राजनकत्वप्राप्त्या अप्रमारूपज्ञानजनकत्वरूपाप्रामाण्यसाधकत्वाङ्गीकारे हेतोर्विरुद्धत्वापातादित्यतोऽप्रामाण्यपदं व्याचश्व्े- अप्रतिपादकत्वमिति ।। ननु भवन्मतेऽपि कार्यान्वित एवेश्वरे सदागमानां प्रामाण्यं भविष्यति । अतः कार्यान्वयरहिते केवलसिद्धेऽर्थे वेदानामप्रतिपादकत्वस्य भवतामपीश्व्त्वात्कथं तन्निराकरणमित्याशङ्क्य निराकरोति- न च कार्यान्विततयैवेति ।। तत्र ईश्वरे । अनेन अप्रामाण्यं न चेति निराकरणेन । स्वप्रधाने कार्यान्वयरहिते । किमत्र ज्ञापकमिति चेत् सदागमैकविज्ञेयमित्यत्रैकशब्द एवेति ब्रूमः । ननु तत्रैकशब्दस्य दुरागमादिव्यावृत्त्यर्थं केवलार्थतया व्याख्यातत्वात्कथं तस्य स्वप्रधाने विष्णौ सर्ववेदप्रामाण्यस्याभिलषितत्व-ज्ञापकत्वमित्यत आह- अत एवेति ।। स्वप्रधाने विष्णौ सर्ववेदप्रामाण्यं यतोऽभिलषितमत एवेत्यर्थः । अभिलषि-तैतत्प्रमेयलाभार्थमिति यावत् । एक एवेति ।। एको भगवानेव कार्यानन्विततया एकविज्ञेयो मुख्यविज्ञेयः, प्रधानविज्ञेयः । ‘एके मुख्यान्यकेवलाः’ इति वचनेन एकशब्दस्य प्राधान्यरूपमुख्यार्थत्वादित्यर्थः । समर्थितं स्वग्रन्थे । तदभ्युपगम्यत एवेति ।। अस्माभिरपि योग्येतरान्विते स्वार्थे शब्दानां व्युत्पत्तिरङ्गीकृतैवेत्यर्थः । यथोक्तमनुव्याख्याने ‘शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते । अतोऽन्विताभिधायित्वम्’ इति । ननु कार्यान्विते आनन्तरिकी अस्माभिरप्यङ्गीक्रियत एवातः कथमवधारणमित्यत आह- एवेति कार्यान्वयनिय-मेति ।। कार्यान्वित एव व्युत्पत्तिरिति परोक्तकार्यान्वयनियमनिराकरणार्थक एवैवशब्दो न तु कार्यान्विते व्युत्पत्तिनिराकरणार्थ इत्यर्थः । कार्यान्वित एवार्थे सर्वशब्दानां व्युत्पत्तिदर्शनात्केवलसिद्धेऽर्थे तदभाव इति परेणोक्ते तत्प्रतिपक्षतया सिद्धान्वित एव व्युत्पत्तिदर्शनादित्येव वक्तव्यम् । न तु गृहीतेरुपादानादिति असङ्गतत्वात्, अतो गृहीतेरिति पदं व्याचश्व्े - दर्शनादिति ।। वाक्यार्थमाह- कार्यान्वयेति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु यदि वेदप्रामाण्यादिकं समस्तमभ्युपगतं तदा पर्यवसितं विवादेनेति पृच्छति- किं तर्हीति ।। वेदप्रामाण्यादेरविप्रतिपन्नत्वेऽपि विवादविषयीभूतस्यार्थान्तरस्य सत्त्वान्न तत्पर्यवसानमिति भावेन विवादविषयं दर्शयति- यदुक्तमिति ।। वृद्धो व्युत्पन्नः । तद्व्यवहारो- वाक्योच्चारणप्रवृत्त्यादिरूपतच्चेष्टा । वक्ष्यमाणानुमाने पक्षहेतुसिद्ध्यर्थमाह- चैत्रेति ।। बालोऽव्युत्पन्नः । इयं प्रवृत्तिरिति ।। स्वतन्त्रप्रवृत्तिरित्यर्थः । उन्मत्तप्रवृत्त्यंशे बाधवारणाय स्वतन्त्रेति पक्षविशेषणम् । हेतौ च तत्रैव व्यभिचारवारणाय तदिति द्रश्व्व्यम् । ममेति ।। प्रवृत्तिहेतुभूतमद्बुद्धिसमानविषयेत्यर्थः । स्वबुद्धौ शब्दजन्यत्वाभावेन तद्दृश्वन्तेन शब्दजन्यत्वानुमानासम्भवात् प्रकारान्तरेण तत्प्रकारं दर्शयति- पुनरिति ।। दृष्टान्ते वक्ष्यमाणसाध्यसिद्ध्यर्थमनुसन्धानप्रकारं दर्शयति- पुनश्चेति ।। तत्र न तावदिति ।। क्रियाफलबोधयोर्वर्तमानापदेशादौ, क्रियाफलसाध्यसाधनभावरूपसम्बन्धज्ञानस्य च भूतादौ प्रवृत्तिव्यभिचारादिति भावः । नन्वस्तु लौकिकशब्दानां कार्यपरत्वम् । वैदिकशब्दानां तु तत्कुत इत्याशङ्क्य लोकवेदयोः पदपदार्थानामैक्यस्य ‘प्रयोगचोदनाभावादर्थैकत्वमविभागात्’ इत्यधिकरणसिद्धत्वाल्लोके कार्यपरत्वे (पां.टि.)सिद्धे वेदेऽपि तत्परत्वमवर्जनीयमित्याशयेनाऽह- एवमिति ।। ननु वैदिकसर्वशब्दानां कार्यप्रतिपादकत्वे पर्यायत्वप्रसङ्ग इत्यत आह- तत्रेति ।। कार्यशरीरमिति ।। नियोगापरपर्यायमपूर्वमित्यर्थः । प्रकृतिस्तद्विषय-मिति ।। नियोगविषयं धात्वर्थमित्यर्थः । लिङ्गाद्यर्थनियोगस्य विषयमन्तरेणानुपपद्यमानतया कुत्र नियोग इति विषयाकाङ्क्षायां धात्वर्थस्यैव नियोगप्रतीत्यनुबन्धित्वरूपविषयत्वेन सम्बन्धादिति भावः । उपलक्षणं चैतत् । तत्करणं चेत्यपि द्रश्व्व्यम् । यागविषयकनियोगस्य साध्यतया प्रतीयमानस्यापि साक्षात्कृत्यसाध्यत्वेन स्वस्य कृतिसाध्यतानिर्वाहस्य विषयतयाऽन्वितस्य यागादेर्धात्वर्थस्यैव नियोगनिष्पत्त्यनुबन्धित्वरूपकरणत्वेनापि सम्बन्धादिति भावः । नन्वस्त्वेवं प्रधानविधेः कार्यपरत्वं तथापि समग्रस्य कर्मकाण्डस्य कथं तत्परत्वमित्यतस्ता-वत्सन्निपत्योपकारकाङ्गवाक्यानां तत्परतां दर्शयति- सन्निपत्येति ।। सन्निपत्य आहत्य शेषिणि द्रव्ये अतिशय-मादधदुपकारकं सन्निपत्योपकारकं तच्च तदङ्गं चेति तत्तथोक्तम् । एवमाराद्दूरेणापूर्वव्यवधानेन शेषिणि उपकारक-मारादुपकारकमिति विवेकः । सन्निपत्योपकारकाङ्गवाक्यान्यपि प्रधानकार्यान्वितस्वार्थप्रतिपादकतया कार्य-प्रतिपत्तावेव व्याप्रियन्त इति सम्बन्धः ।
ननु च ‘समिधो यजति’ इत्यारादुपकारकाङ्गवाक्यानामिव ‘व्रीहीनवहन्ति’ इत्यादिसन्निपत्योपकारकाङ्ग-वाक्यानामप्यङ्गकार्यान्विततस्वार्थप्रतिपादकतया कार्यपरत्वमस्तु, तत् किमिति प्रधानकार्यान्वितस्वार्थप्रति-पादकतया कार्यपरत्वाश्रयणमित्याशङ्क्य, आरादुपकारकाङ्गवाक्यस्थलिङादीनां प्रधानकार्यानुवादकत्वानुप-पत्त्या तत्प्रकृत्यर्थविषयक-तत्प्रकृत्यर्थकरणक-नियोगान्तरप्रतिपादकतया आरादुपकारकाङ्गवाक्यानामङ्ग-कार्यान्वितस्वार्थप्रतिपादकत्वेन कार्यपरत्वसम्भवेऽपि सन्निपत्योपकारकाङ्गवाक्यस्थलिङादीनां प्रधाननियोगा-नुवादकत्वस्यैव सम्भवेन तत्परित्यागेनाङ्गकार्यप्रतिपादकतया तदन्वितस्वार्थप्रतिपादकाया सन्निपत्योप-कारकाङ्गवाक्यानां कार्यपरत्वानिर्वाहात् । प्रधानकार्यान्वितस्वार्थप्रतिपादकतया कार्यपरत्वाश्रयणमुचित-मित्याशयेनोक्तम्- कार्यान्तरशून्यानीति ।। ततश्च यद्यपि सन्निपत्योपकारकाङ्गवाक्यानि कार्यान्तरशून्यानि अङ्गकार्यशून्यानीति यावत् । तद्वाक्यस्थलिङादेस्तत्प्रकृत्यर्थविषयकतत्प्रकृत्यर्थकरणकनियोगान्तराप्रतिपादक-त्वात् । ततश्च न तदन्वितस्वार्थप्रतिपादकतया कार्यपराणीति शेषः । तथाऽपि प्रधानकार्यान्वितस्वार्थपरा-ण्येव । तद्वाक्यस्थलिङादेः प्रधाननियोगानुवादकत्वात् । ततश्च प्रधानकार्यान्वितस्वार्थाभिधायकतया कार्य-परत्वाश्रयणमुचितमित्यपेक्षितपूरणेन वाक्ययोजना द्रश्व्व्या । भवेदेतदेवं यद्यारादुपकारकाङ्गवाक्यस्थलिङादीनां प्रधाननियोगानुवादकत्वाभावः सन्निपत्योपकारकाङ्गवाक्यस्थलिङादेश्च न तदनुवादकत्वमिति स्यात् । तदेव कुत इति चेत्, शृणु तर्हि प्राभाकरसिद्धान्तरहस्यम् । सन्निपातिवाक्येषु आरादुपकारकवाक्येषु च श्रूयमाणा ये लिङादिप्रत्ययास्तैः प्रथममधिकृतदर्शादिप्रधाननियोगप्रत्यभिज्ञानेन तदनुवादशङ्कया न नियोगान्तरमुच्यते, किन्तु तैर्वाक्यैः प्रकृत्यर्थ एव योग्यविशेषणविशिष्ट उपस्थाप्यते । ततश्च तद्वाक्यस्थो लिङादिशब्दः प्रकृत्यर्थावहननाद्य-न्वितमेव प्रधाननियोगं बोधयति अवघातान्वितः प्रधाननियोग इति । इदमेव च तन्मते ग्राहकग्रहणमि-(पां.टि.) त्युच्यते । ततश्च ग्राहकेण सन्निपातिनामवघातादीनामारादुपकारकाणां प्रयाजादीनां च ग्रहणाविशेषेऽ-प्यस्ति कश्चिद्विशेषः । आरादुपकारकाणां ग्राहकग्रहणाख्यप्रमाणप्रमितं ग्राहकैदमर्थ्यं प्रधाननियोगस्य स्ववाक्य-प्रतिपन्नेन यजिरूपेण विषयेण करणेन चावरुद्धत्वेन विषयाद्यन्तरानाकाङ्क्षतया न विषयादित्वेन सम्भवतीति करणोपकरणद्वारा निर्वाह्यमित्यनुपपत्त्यात्मकेन चातुर्थिकेनोपादानप्रमाणेन विषयैदमर्थ्यं तेषां बोध्यते । न च तेषां विषयानुप्रवेशो दृष्टद्वाराऽदृष्टद्वारा वा सम्भवतीत्यतः प्राक्प्रतिपन्नस्य प्रधाननियोगानुवादकत्वस्य परित्यागेन तत्प्रकृत्यर्थविषयकतत्प्रकृत्यर्थकरणकनियोगान्तराभिधायकत्वमेव तद्वाक्यस्थलिङादीनां, सन्निपातिनां त्ववघा-तादीनां ग्राहकग्रहणेन करणैदमर्थ्यसिद्धावपि प्रकृतप्रधाननियोगस्य यजिरूपेण विषयेण करणेन चावरुद्धतयाऽ-वहननादेर्विषयादित्वेन प्रधाननियोगान्वयबाधादन्विताभिधानान्यथानुपपत्तिप्रसूतार्थापत्तिरूपचातुर्थिक-प्रमाणेनोपपादनेन विषयैदमर्थ्यसिद्ध्या तस्य च क्रत्वर्थव्रीह्यादिद्रव्यवैतुष्यसम्पादकतया प्रधानापूर्वविषयनिर्वर्तक-तया विषयानुप्रवेशसिद्धेर्न प्राक्प्रतिपन्नप्रधाननियोगानुवादकत्वपरित्याग इति तद्वाक्यस्थलिङादिभिः प्रधान-नियोगानुवादेन तदन्वितप्रकृत्यर्थविधानात्प्रधानकार्यान्वितस्वार्थपरत्वमेवेति दिक् ।
नन्वेवमपि न मन्त्राणामर्थवादानां च कार्यपरत्वसिद्धिरिति कथं समस्तस्य वेदस्य कार्यपरत्वमित्यत आह- मन्त्रा अपीत्यादिना ।। कार्यं चेति ।। कृतिसाध्यत्वमात्रं भावार्थसाधारणमित्यतः कृत्युद्देश्यमित्युक्तम् । तावन्मात्रं च फलसाधारणमित्यतः कृतिसाध्यमित्युक्तम् । भावार्थ इति ।। धात्वर्थ इत्यर्थः । अपूर्वमिति ।। ‘स्वर्गकामो यजेत’ इत्यादौ स्वर्गकामं नियोज्यं प्रति लिङ्शब्देन क्रियायाः कार्यत्वेन बोधयितुमशक्यत्वात्फल-पर्यन्तावस्थाय्यपूर्वमेव कार्यतया बोध्यत इत्यपूर्वमेव कार्यमित्यर्थः । नन्वेतावता कर्मकाण्डस्य कृत्स्नस्य कार्य-परत्वप्राप्तावपि वेदान्तानां कार्यपरत्वासिद्धेर्न कृत्स्नस्य वेदस्य कार्यपरत्वमित्यत आह- अत एवेति ।। लोके कार्य एव गृहीतशब्दसङ्गतिकतया सिद्धार्थबोधकत्वानुपपत्तेरेवेत्यर्थः । कर्तृस्वरूपप्रतिपादकत्वेनेत्यत्र च कर्माङ्ग-भूतेत्युपस्कर्तव्यम् । ततश्च मन्त्रार्थवादादिन्यायेन कर्माङ्गभूतकर्तृस्वरूपप्रतिपादकतया तद्देवताप्रतिपादकतया च वेदान्तानामपि कार्यपरत्वाद्युक्तमेव समस्तस्य वेदस्य कार्यपरत्वमिति भावः । कार्यान्विते व्युत्पत्तेः सिद्धान्तेऽ-प्यङ्गीकारात् तन्निवृत्त्यर्थकैवकारानुपपत्तिमाशङ्क्य नात्रैवकारः कार्यान्विते व्युत्पत्तिनिवृत्त्यर्थो येनोक्तदोषः स्यात् । किन्तु तन्नियमनिवृत्त्यर्थक एवेति न तद्विरोध इति तदर्थमाह- एवेतीति ।।
लघुप्रभा
(व्या.टि.)
एवं सदागमैकविज्ञेयत्वे प्रमाणतयोक्तसदागमानां प्रामाण्यादिकं प्रसाध्याधुना सदागमैकविज्ञेयत्वं विष्णोः साधयितुमुत्तरो ग्रन्थः । तत्र प्राभाकरमतं दूषयितुमनुवदति- अत्रेति ।। नोपपद्यत इत्यतः परं व्युत्पत्त्यभावादिति शेषः । तमेवोपपादयति- तथा हीति ।। बोधयति पदार्थं स्मारयतीत्यर्थः । व्युत्पत्तेः शाब्द-बोधोपयोगं साधयति- अन्वयेति ।। कारणाभावेन व्युत्पत्त्यभावं वक्तुं व्यवहारं कारणतयाऽवधारयति- व्यवहारदर्शनादेवेति ।। व्यवहाराभावश्च तन्निबन्धनाभावनिबन्धन इत्याशयानो व्यवहारस्य कार्यप्रतिपत्ति-निबन्धनत्वमुपपादयति- तथा हीति ।। अत्र प्रयोजकप्रयोज्यशब्दौ प्रवर्तकप्रवर्तनीयपरौ । आकलयतीति ।। (व्या.टि.) ‘कल कामधेनुः’ सर्वार्थ इत्यर्थः । आलोचयतीत्यर्थः । स्वतन्त्रेति ।। कर्तृप्रवृत्तित्वादित्यर्थः । ‘स्वतन्त्रः कर्ता’ इति सूत्रात् । अबलात्कारितप्रवृत्तित्वादिति यावत् । प्रमाणान्तरेण अनुमानेन । आवयो-रिति ।। अयं चाहं च आवां तयोरित्यर्थः । ‘त्यदादीनि सर्वैर्नित्यम्’ इति अस्मद एकशेषः, ‘त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते’ इति वचनात् । अनुसन्धत्ते परामृशति । वाक्यस्य पदसमूहस्य । आवापे प्रक्षेपे । त एव लिङादय एव । कार्यशरीरमेवेति ।। कार्यस्वरूपमित्यर्थः, अधिकरणशरीरमितिवत् । तैरपूर्वे लिङादीनां शक्तिस्वीकारादिति भावः । प्रकृतिर्धातुः । तद्विषयं तज्जनकक्रियाम् । नामधेयं ज्योतिष्टोमादिनामधेयम् । ‘भागरूप-नामभ्यो धेयः’ इति धेयप्रत्ययः । अभिदधतीति शत्रन्तं बहुवचनम् । व्याप्रियन्त इति ।। ‘पृङ् व्यायामे’ प्रायेण व्याङ्पूर्वः, तौदादिको रिङ् इयङिति भावः । सन्निपत्योपकारकेति ।। ‘यैस्तु द्रव्यं चिकीर्ष्यते’ इति जैमिनिसूत्रोक्तदिशा द्रव्यचिकीर्षाद्वारोपकारकाण्यवघातादीनि सन्निपत्योपकारकाङ्गानि । ‘यैस्तु द्रव्यं न चिकीर्ष्यते’ इति तत्रैवोक्त्या साक्षादुपकारकाणि प्रयाजादीन्यारादुपकारकाणि । न तु दृष्टार्थत्वादृष्टार्थत्वाभ्यां तद्भेदः । सन्निपत्योपकारकाणामपि प्रोक्षणादीनामदृष्टार्थत्वात् । यद्यपि नियमादृष्टमवघातादावप्यस्ति । वैतुष्य-मात्रस्य नखनिर्लुण्ठनेनापि सम्भवेन तत्र विध्यानर्थक्यात् । तथाऽपि नियमादृष्टं नियमफलमपि न तत्क्रियोद्देश्य-मिति तत्त्यागः । एवमुत्तरत्रापि ‘मन्त्रैरेव स्मर्तव्यम्’ इति नियमादृष्टस्य तत्रापि सत्त्वादिति रहस्यम् । अत्र केचित्पञ्चप्रयाजेषु स्वधाकारं यजतीत्यपि पठन्ति । तत्स्वाध्यायानध्ययननिबन्धनम् ।
अर्थस्मारकतयेति ।। प्रयोगसमवेतद्रव्यदेवतारूपार्थस्मारकतयेत्यर्थः । यद्यपि शब्दोऽनुभावकस्तथापि इषेत्वे-त्यादिमन्त्राः पूर्वानुभूतान् स्वार्थाननुष्ठानकाले ज्ञापयन्तीति तथोच्यन्त इत्यदोषः । अर्थवादा अपीति ।। ‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादिस्तुतिरूपा बोध्याः । अत्र क्षेपिष्ठा क्षिप्रतरा । ‘स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः’ एषां यणादि परं लुप्यते पूर्वस्य च गुण इष्ठादिषु, इति वचनात् क्षिप्रशब्दादिष्ठनि रूपं बोध्यम् । रुचिमिति ।। ‘प्ररोचना चाङ्गतयोपयुज्यते’ इत्युक्तेरिति भावः । निन्दार्थवादानामपि न हि निन्दान्यायेनान्यस्तुतिपरत्वात्कृत्स्न एवेत्युक्तम् । कार्यं लक्षयति- कृतीति ।। लोकवेदयोस्तत्स्वरूपं निरूपयति- भावार्थ इति ।। अपूर्वमिति च ।। ‘भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत’ इति जैमिनिसूत्रात् । तर्हि वेदान्तानामप्रामाण्यं प्रसज्येत । न चेष्टमिदम् । तेषां वेदवादित्वाभिमानादित्यत आह- अत एवेति ।। कार्यपर-तैवेति ।। देवतामुद्दिश्य हविस्त्यागरूपक्रियायां कर्तृदेवतयोरपेक्षणात्तद्द्वारा कार्यपरतेत्यर्थः । प्रकरणभेदात् कर्म-ब्रह्मकाण्डरूपत्वेन प्रकरणभेदादित्यर्थः । विधिनैकवाक्यतामिति ।। ‘विधिना त्वेकवाक्यत्वात्’ इति न्यायादिति भावः । केवलसिद्धार्थ इति ।। केवलेति कार्यान्वयाभावप्रदर्शनम् । सिद्धेति कार्यत्वाभावप्रदर्शनम् । निगमयति- नेति ।। कैवल्यं दर्शयति- कार्येति ।। फलितमाह- स्वप्रधान इति ।। सिद्धपदस्वरसायातमाह- कार्येति ।। किमनेनेति ।। सिद्धव्युत्पत्तिसमर्थनेनेत्यर्थः । अभिलाषं शब्दव्युत्पत्त्या दर्शयति- प्रधानेति ।। ‘एके मुख्यान्य-केवलाः’ इत्यमरोक्तेरिति भावः । अन्वितपदलब्धं दर्शयति- अन्वितेति ।। एवकारव्यावर्त्यं दर्शयति- एवे-तीति ।। अन्वयप्रतियोगिविशेषनियमश्च निवारितो नान्विताभिधानवाद इति भावः ।