‘न च मायाविना माया ..
सर्वदृगीश्वरदृष्टत्वेन जगतीश्वरमाया कल्पितत्वाभावस्योपपादनम्
मूलम्
- ‘न च मायाविना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ।।’ इति च ।
‘अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद् भवेत् ।
सर्वापरोक्षविद्विष्णुर्विश्वदृक्तन्न तन्मृषा ।।’ इति च ।।
तत्त्वमञ्जरी
देशकालस्वरूपव्यवहितं सर्वमप्यपरोक्षं विदन् विष्णुः विश्वं जगत् पश्यति । तस्मात् तद्विश्वं मिथ्या न ।
टीका
विश्वस्येश्वरमायाकल्पितत्वाभावेऽनुमानान्तरमपि व्याप्तिपक्षधर्मतोपपादनप्रयासनिरासाय पुराणवाक्येनैव दर्शयति- न चेति ।। चशब्दो यस्मादित्यर्थे, अवधारणे वा । मायाविना पुरुषेण मायामयं गजादिकं नैव दृश्यत इति व्यतिरेकव्याप्तिप्रदर्शनम् । विश्वमीश्वरः सदा पश्यतीति पक्षधर्मतोक्तिः । सदेति स्वरूपकथनम् । मायाव्यपि मायामयं परोक्षतो जानातीति व्यभिचारः स्यात् । तत्परिहारार्थं दृशिग्रहणम् । दृशिर्हि साक्षात्कारे वर्तते । तेनेदं न मायेति साधनत्वख्यापनेन साध्यनिर्देशः । नेश्वरमायाकल्पितमिति यावत् ।
अयमत्र प्रयोगः-विश्वं नेश्वरमायाकल्पितं तेन दृश्यमानत्वात् । यद् यन्मायाकल्पितं न तत् तेन दृश्यते यथैन्द्रजालिकं मायाविनेति । यद् येन दृश्यते तत् तन्मायाकल्पितं न भवतीत्येवम् ऋजावन्वये सम्भवति किं वक्रो व्यतिरेक उपन्यस्त इति चेत्, उच्यते- व्याप्तिप्रदर्शनं व्यभिचारनिरसनं चेत्युभयमप्यनेन कृतं भवतीति ।
ननु मायाविना मायिकं वस्तु मा दर्शि । ईश्वरेण दृश्यमानमपि विश्वं तन्मायामयं किं न स्यात् । तथा च विपक्षे बाधकाभावान्नेदं मायामयमिति अवधारणानुपपत्तिरिति चेन्न । मायाया लोकोपमत्वेऽदृष्टकल्पनाप्रसङ्गात् । अलौकिकत्वेऽविद्यामयत्वापातात् । उभयबहिर्भावे त्वस्माक-मप्रतिपक्षत्वात् । तदेवं विपक्षे बाधकसद्भावाद्युक्तमवधारणम् । तदिदमुक्तमित्यवधार्यतामिति । प्रसक्तपरिषेधेऽन्यत्राप्रसङ्गादमायामयत्वमेव सिद्ध्यति । अथ वा नेदं मायामयं मायावित्वाभिमतेन दृश्यमानत्वादिति प्रयोगः ।
पुराणवाक्येनैवात्रानुमानान्तरमाह- अपरोक्षेति ।। अत्र पूवार्धेन व्याप्तिं दर्शयति । अधिष्ठान-मापरोक्ष्येण पश्यतः तत्राऽरोपितमिथ्यार्थदर्शनं न भवेत् । अधिष्ठानापरोक्षज्ञानवता दृश्यमानं तत्राऽरोपितं न भवेदिति यावत् । अनेनान्वयो दर्शितः । यन्मिथ्या तस्य दर्शनमधिष्ठानापरोक्षदृशो न भवेदिति व्यतिरेको वा । क्वचिदित्यनेन तदुभयनियमः । यद्यपि दृशिरेवापरोक्षज्ञाने वर्तते । तथापि ‘पश्यार्थैश्चानालोचने’ इत्यादौ ज्ञानमात्रेऽपि प्रयोगादपरोक्षेत्युक्तम् ।अत एव सर्वापरोक्ष-विद्विष्णुर्विश्वदृगिति सामान्येन हेतोः पक्षधर्मतां दर्शयति- सर्वात्मनाऽपरोक्षतोऽधिष्ठानाभिमतं जानन् विष्णुः विश्वं पश्यतीति । अपरोक्षतः शुक्तिकां पश्यन्नेव तदारोपितं रजतं पश्यतीति व्यभिचारपरिहाराय सर्वेत्युक्तम् । नन्वेवं दृष्टान्ते साधनाभावः प्राप्नोति । न हि लोके कोऽपि किमपि सर्वात्मना पश्यति । मैवम् । सर्वशब्देनासाधारणाकारस्य विवक्षितत्वात् । व्याप्तिकथनेऽपि एतदनुसन्धेयम् । आप्तवाक्यादिना शुक्तिकां जानन्नपि रजतं पश्यतीति व्यभिचारनिरा-सायापरोक्षेत्युक्तम् । विष्णुरित्यसिद्धिपरिहाराय स्वरूपकथनम् । तत् तस्मात्, तत् विश्वम्, मृषा न भवतीति साधनत्वाभिव्यक्तिपूर्वकं साध्यं निर्दिशति ।
अयमत्र प्रयोगः-विवादपदं नाऽरोपितं सर्वात्मनाऽधिष्ठानापरोक्षज्ञानवता दृश्यमानत्वात् । यदेवं तदेवम् । यथोक्तविधया स्तम्भविदा दृश्यमानो न कुम्भस्तत्राऽरोपितः । अथ वा यन्नैवं तन्नैवम् । यथा शुक्तिकारोपितं रजतमुक्तरीत्या शुक्तिदर्शिना न दृश्यत इति । इदं च दुःखादेः अविद्यामयत्व-निरासेऽपि समानम् । अधिष्ठानयाथात्म्यापरोक्षज्ञानेऽपि भ्रमानुवृत्तौ कदाऽप्यनिवृत्तिप्रसङ्गः । ततश्च ब्रह्मज्ञानान्वेषणवैयर्थ्यप्रसङ्गः । अनयैव दिशा ईश्वरदृष्टत्वहेतुरपि प्रपञ्चस्य सत्यत्वेऽनुसन्धेयः । तद्दृष्टस्य स्वस्वरूपस्य सत्यत्वदर्शनात् । अन्यथेश्वरस्यापि भ्रान्तत्वापत्तेरिति ।
भावबोधः
अवधारणे वेति ।। अन्यथा व्याप्तेरसिद्धिरिति भावः । सदेति स्वरूपकथनमिति ।। पश्यतीति विशेषोक्त्यैव व्यभिचारशङ्काऽनवकाश इति भावः । ननु केनचिद् दृश्यमानमपि कस्यचिन्मायामयं भवतीतीश्वरेण दृश्यमानत्वलक्षणविशेषेण सामान्यतो मायामयत्वाभावः कथं साध्यत इत्यत आह- नेश्वरमायेति ।। मायाया इति ।। मायाया लोकोपमत्वे स्वाश्रयाव्यामोहकत्वे तेन दृश्यमाने तन्मायामयत्वस्य लोकेऽदृष्टस्यैव प्रपञ्चे पक्षे कल्पनाप्रसङ्गादित्यर्थः । तथा च वियदादिकं मायिकं दुःखादिकन्त्वाविद्यकमिति विभागो न स्यादित्यर्थः। अप्रतिपक्षत्वादिति ।। मायाशब्दवाच्यप्रकृत्याद्युपादानकत्वादेः प्रपञ्चेऽस्माभिरङ्गीकृतत्वादिति भावः । नन्वनेनानुमानेनेश्वरमायाकल्पितत्वाभावसिद्धावपि न सर्वथाऽमायामयत्वं सिद्ध्यति । अन्यमायाकल्पितत्व-सम्भवादित्यत आह- प्रसक्तेति ।। प्रपञ्चस्य मायामयत्वपक्षे ईश्वरमायामयत्वस्यैव प्रसक्तिः, न त्वन्यमायामय-त्वस्य । तैस्तथाऽनङ्गीकारादिति भावः । अथ वेति ।। अस्मिन्व्याख्याने ‘न माया’ इत्यत्रेश्वरपदसंयोजने पक्षधर्मताप्रतिपादकवाक्ये ईश्वरपदं किमर्थमित्यतो व्यभिचारवारणायेश्वरपदं मायावित्वाभिमतपरमित्य-भिप्रेत्योक्तम्- मायावित्वाभिमतेनेति ।। तत्राऽरोपितं न भवेदिति यावदिति ।। तेन तस्य व्याप्तिकथनस्य न तन्मृषेति प्रयोगानानुगुण्यं परिहरति- सामान्येनेति ।। अन्यथा सर्वापरोक्षदृगिति वक्तव्यम् । न ह्येकस्य व्याप्तिरपरस्य पक्षधर्मता वक्तुं शक्यत इति भावः । व्याप्तिकथनेपीति ।। असाधारणाकारेणाधिष्ठानापरोक्ष-ज्ञानवत इत्यर्थः । अन्यथाऽनादिः स्यादिति भावः । अनयैव दिशेति ।। अनेन ‘सर्वापरोक्षविद्विष्णुः’ इत्युत्तरार्धं प्रकारान्तरेण व्याख्यातं भवति । अस्मिन् व्याख्याने सर्वापरोक्षविदिति विपक्षे बाधकसूचनार्थमुक्तमित्य-भिप्रेत्याऽह- अन्यथेति ।। ईश्वरस्यापि सर्वापरोक्षविदोऽपीत्यर्थः ।
भावदीपः
अवधारणे वेत्युक्तं व्यनक्ति- नैव दृश्यत इति ।। तथा च नियमांशप्रवेशेनाव्यभिचारस्य सूचनाद्व्याप्तेः पुनर्दर्शनं भवतीति भावः । नैव दृश्यत इत्युक्तत्वादेव सदेत्यस्य कृत्याभावादाह- स्वरूपकथनमिति ।। उत्तरत्रा-परोक्षदृश इति ज्ञानसामान्येऽपि दृशेर्दर्शनादाह- दृशिर्हीति ।। साक्षात्कार एव प्रसिद्ध इत्यर्थः । ईश्वरदृष्टत्वेऽपि मायाव्यन्तरकल्पितत्वमस्तु इति शङ्कानिरासायोक्तम्- नेश्वरमायेति ।। ईश्वरमायाकल्पितत्वस्यैव पराङ्गीकारादिति भावः । अनेनेति ।। विपक्षे हेत्वभावप्रदर्शनपरेण व्यतिरेकव्याप्तिकथनेनेत्यर्थः । लोकोपमत्व इति ।। लोके मायाविनो माया स्वकल्पितमैन्द्रजालिकं मायाविनो न प्रदर्शयति । परव्यामोहकत्वात्तस्याः । ईश्वरनिष्ठा च माया तादृशी चेत्स्वाश्रयप्रदर्शकत्वस्य लोकमायायामदृष्टस्य कल्पनाप्रसङ्गादित्यर्थः । अलौकिकत्वे लौकिक-मायाविलक्षणत्वे । स्वाश्रयस्य भ्रमकरत्वरूपत्वे त्वविद्यामयत्वापातात् । अज्ञानस्य स्वाश्रयव्यामोहनाव्यामोहन-भेदेन मायाऽविद्याभेदस्य ‘न चैकजीवाज्ञानपरिकल्पितं समस्तम्’ इत्येतदवतारिकायां परप्रक्रियायामुपन्यस्त-त्वात् । तथा च तद्द्वैविध्यभङ्ग इति भावः । अप्रतिपक्षत्वादिति ।। मायाशब्दितभगवदिच्छाप्रकृत्यादिनिर्मितत्वेन तन्मयत्वस्येष्टत्वादिति भावः । नन्वीश्वरेण दृष्टत्वात्तदीयमायाकल्पितत्वाभावेऽपि मायाव्यन्तरमाया-कल्पितत्वमस्तु, तस्यादृश्यं चास्त्वित्यत आह- प्रसक्तेति ।। परैरीश्वरमायाकल्पितत्वस्यैवाङ्गीकारेण तस्यैव भावदीपः
प्रसक्तत्वादन्यदीयमायामयत्वेऽप्रसङ्गात् मायामयत्वसामान्याभावः सिद्ध्यतीति भावः । ‘न च मायाविना माया’ इत्यादिना व्याप्तिमुक्त्वा ‘ पश्यतीदमीश्वरः’ इत्युक्त्या स एवात्र मायावित्वेनाभिमतो नान्य इति भावेन सामान्याभावसिद्धिकं स्पष्टं प्रयोगमाह- अथ वेति ।।
अपरोक्षदृशः पुंस एवेदं रूप्यमिति मिथ्यावस्तुनो दर्शनात् कथमिदं व्याप्तिप्रदर्शनमित्यत आह- अधिष्ठान-मिति ।। सर्वात्मनेति योज्यम् । व्याप्यव्यापकस्वरूपव्यक्त्या व्याप्तिशरीरं निष्कृष्य दर्शयति- अधिष्ठानेति ।। अत्रापि सर्वात्मनेति योज्यम् । अत एव वक्ष्यति- सर्वात्मनेति । व्याप्तिकथनेऽप्येतदनुसन्धेयमिति च । तदुभ-येति ।। अन्वयव्यतिरेकोभयेत्यर्थः । अपरोक्षज्ञाने वर्तत इति ।। ‘दृशिर् प्रेक्षणे’ इति धातुपाठादिति भावः । पश्यार्थैरिति ।। अनालोचनेऽचाक्षुषज्ञाने वर्तमानैः पश्यार्थैः दृशिधात्वर्थकैः धातुभिर्योगे युष्मदस्मदादेशास्त्वमा-वित्यादयो न भवन्तीति सूत्रे अनालोचन इत्युक्त्या ज्ञानसामान्येऽपि दृशिधातुरस्तीति ज्ञापनादपरोक्षपदमर्थवदिति भावः । अत एवेति ।। अपरोक्षे प्रसिद्धत्वादेवेत्यर्थः । अन्यथा विश्वापरोक्षदृगित्युच्येतेति भावः । सर्वेत्युक्त-मिति ।। सर्वप्रकारेणेत्युक्तमित्यर्थः । आप्तवाक्यादिनेति ।। प्रबलदोषाहितापरोक्षभ्रमस्य परोक्षाधिष्ठान-गतविशेषदर्शनानिवर्त्यत्वादिति भावः । असिद्धिपरिहाराय स्वरूपकथनमिति ।। सर्वात्मनाऽधिष्ठाना-परोक्षज्ञानवता दृश्यमानत्वादिति वक्ष्यमाणहेतोः न केनापि तादृशेन दृश्यमानत्वमस्ति, अतोऽसिद्धो हेतुरिति शङ्कानिरासाय सर्वज्ञेश्वरेण दृश्यमानत्वमिति प्रदर्शनायोक्तं विष्णुपदं, न तु व्यभिचारवारकतया व्याप्तिग्रह-णाय । अतस्स्वरूपकीर्तनमेतदित्यर्थः । तदित्यस्याऽवृत्तिमुपेत्याऽह-तत्तस्मात्तद्विश्वमिति ।। सर्वात्मनेति ।। अधिष्ठानासाधारणाकारेणेत्यर्थः । विशेषणानां कृत्यं प्रागेवोक्तम् । उक्तेति ।। सर्वात्मनाऽधिष्ठानापरोक्षज्ञानवता दृश्यमान इत्यर्थः । व्यतिरेकमाह- यन्नैवमिति ।। उक्तरीत्येति ।। सर्वात्मनाऽपरोक्षतश्शुक्तिदर्शिनेत्यर्थः । समानमिति ।। विगीतं दुःखादिकं नाऽरोपितं सर्वात्मनाऽधिष्ठानभूतात्मापरोक्षज्ञानवता दृश्यमानत्वादि-त्युक्तिसम्भवादिति भावः । नन्वत्र सर्वापरोक्षदृग् ईश्वरो जीवो वा । नाऽद्यः । तेन दृश्यमानत्वेऽपि तदज्ञाना-कल्पितत्वरूपानारोपितत्वस्यापि सत्त्वात् । नान्त्यः । अहमर्थस्य सर्वात्मनाऽपरोक्षतो भानेऽपि तस्यानधिष्ठान-त्वात् । अधिष्ठानभूतनिर्विशेषचितश्च नापरोक्ष्यमिति चेन्न । अहमिति प्रत्यये विशेष्यभानस्यापि चन्द्रिकादा-वुपपादनादिति ज्ञेयम् । हेतोरप्रयोजकत्वनिरासाय तर्कमाह- अधिष्ठानेति ।। हेतुसत्त्वेऽपि साध्याभाव इत्यर्थः। अस्तु को दोष इत्यत आह- ततश्चेति ।। भ्रमानिवृत्तिप्रसङ्गतश्चेत्यर्थः । सत्यपि तज्ज्ञाने तदनिवृत्तेरिति भावः। विश्वदृगित्युक्त्याऽन्यत्स्वपक्षसाधनमपि सूचितमित्याह- अनयैव दिशेति ।। विवादपदं सत्यम् ईश्वरदृष्टत्वादिति हेतुरपीत्यर्थः । को दृष्टान्त इत्यत आह- तद्दृष्टस्येति ।। विपक्षे बाधकमाह- अन्यथेति ।। तद्दृष्टस्याप्यसत्त्व इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
यस्मादित्यर्थ इति ।। तथा च तेनेति सङ्गच्छत इति भावः । अवधारणे वेति ।। अन्यथा व्याप्ति-प्रदर्शनासिद्धेरिति भावः । ननु सदापदं व्यर्थम् । न च मायावी मायामयं परोक्षतस्तदानी जानातीति व्यभिचार-(श्री.टि.) परिहाराय सदेत्युक्तमिति वाच्यम् । दृश्यते पश्यतीत्यपरोक्षज्ञानोक्त्यैव व्यभिचारपरिहारात्तद्व्यर्थ-मेवेत्यत आह- सदेति स्वरूपकथनमिति ।। दृशिग्रहणमिति ।। दृश्यत इति दृशिग्रहणमित्यर्थः । कथं तेन व्यभिचारपरिहार इत्यत आह- दृशिर्हीति ।। मायावी मायामयं परोक्षत एव जानाति नापरोक्षत इति न व्यभिचार इति भावः । साधनत्वख्यापनेनेति ।। सहेति शेषः। ननु केनचिद् दृश्यमानमपि कस्यचिन्मायामयं भवत्येव । अत ईश्वरेण दृश्यमानत्वरूपविशेषेण न मायेति सामान्यतो मायामयत्वाभावः कथं साध्यत इत्यतस्तदपि विशेषपरतया व्याचष्टे- नेश्वरमायाकल्पितमिति यावदिति ।। वक्र इति ।। भावेन भावसाधनेऽभाव-योर्व्याप्तेर्वक्रत्वादिति भावः । उपन्यस्त इति ।। ‘न च मायाविना माया’ इति श्लोकेनेत्यर्थः । प्रदर्शनमित्यनन्तरं तेनेति शेषः । व्यभिचारनिरसनं चेति ।। व्यतिरेकव्याप्तिप्रदर्शनेन साध्याभाववति हेत्वभावलाभाद्धेतोः साध्य-व्यभिचारनिरसनमपि कृतं भवतीत्यर्थः । अप्रयोजकतामाशङ्कते- नन्विति ।। अवधारणानुपपत्तिरिति ।। अवधार्यतामित्युक्तनिश्चयरूपावधारणानुपपत्तिरित्यर्थः । मायाया लोकोपमत्व इति ।। स्वाश्रयाव्यामोहक-त्वेनैन्द्रजालिकार्थहेतुभूतमायासादृश्य इत्यर्थः । अदृष्टकल्पनाप्रसङ्गादिति ।। तेन दृश्यमाने तन्मायामयत्वस्य लोकेऽदृष्टस्यैव प्रपञ्चे कल्पनाप्रसङ्गादिति भावः । अलौकिकत्व इति ।। लोकमायाविलक्षणत्वे स्वाश्रय-व्यामोहकत्व इति यावत् । अविद्यामयत्वापातादिति ।। मायायाः स्वाश्रयव्यामोहकत्वेऽविद्यात्वापत्त्या विश्वस्याऽविद्यकत्वप्रसङ्गादित्यर्थः । तथा च वियदादिकं मायिकं दुःखादिकन्त्वाविद्यकमिति विभागो न स्यादिति भावः । अप्रतिपक्षत्वादिति ।। मायाशब्दवाच्यप्रकृत्याद्युपादानकत्वादेः प्रपञ्चेऽस्माभिरङ्गीकृतत्वादिति भावः। नन्वेवमीश्वरमायाकल्पितत्वाभावसिद्धावपि न सर्वथा मायामयत्वाभावसिद्धिः । अन्यमायामयत्वस्यापि सम्भवादिति चेन्न । परैरन्यमायामयत्वानङ्गीकारेणाप्रसक्तेः । प्रसक्तेश्वरमायामयत्वस्याभावसाधने परिशेषात् सर्वथाऽमायामयत्वमेव सिद्ध्यतीत्याह- प्रसक्तेति ।। पूर्वमन्यमायाकल्पित्वस्याप्रसङ्गादीश्वरमायाकल्पित-त्वाभावे साध्ये परिशेषादमायामयत्वमेव सिध्यतीत्युक्तम् । इदानीन्तु सर्वथाऽमायामयत्वमेव साध्यतयाऽभिप्रे-तम् । ईश्वरपदं च सामान्येन मायावित्वाभिमतपुरुषपरमित्याशयेनाऽह- अथ वेति ।। ईश्वरमादाय पक्षे हेतूपपादनं द्रष्टव्यम् । इति प्रयोगः ‘न च मायाविना’ इत्यनेन सूचित इति शेषः ।
पुराणवाक्येनैवेति ।। व्याप्तिपक्षधर्मतोपपादनप्रयासनिरासायेति शेषः । व्याप्तिमिति ।। अन्वयव्याप्तिं व्यतिरेकव्याप्तिं चेत्यर्थः । तदुभयमप्युपपादयति- अधिष्ठानमित्यादिना ।। ननु दृशेः साक्षात्कारार्थत्वादधि-ष्ठानमापरोक्ष्येण पश्यत इत्यनुपपन्नम् । तत्रारोपितमिथ्यादर्शनं न भवेदित्येतदपि तन्मृषेति निगमनसूचित-वक्ष्यमाणप्रयोगाननुगुणमित्यत आह- अधिष्ठानापरोक्षज्ञानवतेति ।। अत्र यत्किञ्चिदपरोक्षज्ञानवता दृश्यमाने शुक्तिरजते व्यभिचारवारणायाधिष्ठानेत्यध्याहृतम् । शुक्तिलक्षणाधिष्ठनापरोक्षज्ञानवता दृश्यमाने रङ्गारोपितरजते व्यभिचारवारणाय तत्रेत्युक्तम् । यस्मिन्नधिष्ठानेऽपरोक्षज्ञानं तत्रेत्यर्थः । तदुभयनियम इति ।। व्याप्तिद्वये व्यभिचाराभावः प्रदर्शित इत्यर्थः । अपरोक्षज्ञान इति ।। तथाच मूलेऽपरोक्षपदं गतार्थमिति भावः । ज्ञान-(श्री.टि.) मात्रेऽपीति ।। पश्यार्थैरित्यस्य ज्ञानार्थैरिति वृत्तिकारैर्व्याख्यतत्वादिति भावः । प्रयोगादिति ।। दृशेः प्रयोगदर्शनादित्यर्थः । ‘पाघ्राध्मा’ इत्यादिना सूत्रेण दृशेः पश्यादेशविधानादिति द्रष्टव्यम् । तेन पश्यतेरेव ज्ञानमात्रे प्रयोग न तु दृशेरतः कथमेतदिति निरस्तम् । अत एवेति ।। यतो दृशिर्ज्ञानसामान्यार्थकोऽत एवेत्यर्थः। सामान्येनेति ।। विदिति ज्ञानसामान्यस्यैवोदितत्वात् । अन्यथा सर्वापरोक्षदृगिति वक्तव्यम् । न ह्येकस्य व्याप्तिरन्यस्य पक्षधर्मता वक्तुं युक्तेति भावः । कथमित्यतस्तद्विवृणोति- सर्वात्मनेति ।। सर्वशब्दस्यार्थ-कथनमिदम् । पश्यतीति पक्षधर्मतां दर्शयतीति सम्बन्धः । शुक्तिकां पश्यन् इदन्त्वेनेत्यर्थः । सर्वेत्युक्तं सर्वात्मनेत्युक्तमित्यर्थः । किमपि सर्वात्मनेति ।। पलपरिमाणयुक्ततयेत्यर्थः । तथात्वे सार्वज्ञं स्यात् । ‘एकञ्च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः । न समर्थः’ इति वचनादिति भावः । असाधारणाकारस्य शुक्तित्वादि-रूपाधिष्ठानगतासाधारणाकारस्य । एतदिति ।। सर्वात्मनेत्येतद्विशेषणमित्यर्थः । अन्यथा न्यूनता स्यादिति भावः । आप्तवाक्यादिनेति ।। अपरोक्षभ्रमस्य परोक्षविशेषदर्शनमात्रानिवर्त्यत्वादिति भावः । असिद्धि-परिहारायेति ।। अस्मदादिषु सर्वात्मना जगदधिष्ठानापरोक्षज्ञानाभावात्पक्षे हेतोरसिद्धिरित्याशङ्कायां पक्षे विष्णु-ज्ञानमादाय हेतूपपादनार्थं विष्णुग्रहणं न तु हेतुशरीरप्रविष्टतयेति भावः । साधनत्वाभिव्यक्तीति ।। साधन-त्वाभिव्यञ्जकपञ्चमीविभक्तिपूर्वकमित्यर्थः । तथा च ‘लिङ्गस्य वचनं हेतुस्साधकत्वप्रकाशकम्’ इति कारिका-वचनात्साधकत्वाभिव्यञ्जकपञ्चमीविभक्त्यन्तलिङ्गवचनरूपहेतुपूर्वकमिति यावत् । साध्यं साधयितुं योग्यं साध्यं, साध्यधर्मविशिष्टधर्मिरूपं पक्षं निर्दिशतीति । ‘हेतुपूर्वं पुनःपक्षवचो निगमनं मतम्’ इति कारिकावचनात् निगमयतीति भावः । सर्वात्मनेति ।। असाधारणाकारेणेत्यर्थः । उक्तविधयेति ।। ‘सर्वात्मना’ इत्या-द्युक्तविधयेत्यर्थः । एवमुक्तरीत्येत्यपि व्याख्येयम् । इदं चेति ।। ‘अपरोक्षदृशः’ इत्यादिनोक्तमनुमानमित्यर्थः। अप्रयोजकत्वशङ्कापरिहाराय विपक्षे बाधकतर्कमाह-अधिष्ठानयाथात्म्येति ।। इष्टापत्तिरिति चेत्तत्राऽह- तत-श्चेति ।। ब्रह्मज्ञानेत्यतः पूर्वं विश्वभ्रमनिवृत्तिसाधनीभूतेति शेषः कार्यः । ‘सर्वापरोक्षविद्विष्णुः’ इत्युत्तरार्धं प्रकारान्तरेण व्याख्याति- अनयैव दिशेति ।। तथा च प्रपञ्चः सत्यः ईश्वरदृष्टत्वात् तत्स्वरूपवदिति प्रयोगो द्रष्टव्यः । तद्दृष्टस्येति ।। ईश्वरदृष्टस्य स्वस्वरूपस्येत्यर्थः । अस्मिन् व्याख्याने ‘सर्वापरोक्षवित्’ इत्येतद्विपक्षे बाधकसूचनार्थमुक्तमित्यभिप्रेत्याऽह- अन्यथेति ।। ईश्वरदृष्टस्यापि सत्यत्वाभाव इत्यर्थः । ईश्वरस्यापीति ।। सर्वापरोक्षविदोऽपीत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
तेनेति तच्छब्दश्रवणाद्यस्मादित्यर्थकतया चशब्दं व्याख्याति- यस्मादित्यर्थ इति ।। अवधारणे वेति ।। अन्यथा व्याप्तिप्रदर्शनासिद्धेरिति भावः । ननु पश्यतीत्यपरोक्षज्ञानोक्त्यैव व्यभिचारपरिहारात्सदेति व्यर्थमित्यत आह- सदेतीति ।। साधनत्वख्यापनेनेति ।। सहयोगे तृतीया । ननु परेण मायात्वस्यानभ्युपगमेन तदभावसाधनस्य सिद्धसाधनत्वात्कथं न मायेति निगमनम् । न च तस्य न मायाजन्यमित्यर्थकत्वाद्युक्तं निगमनमिति वाच्यम् । केनचिद्दृश्यमानस्याप्यन्यमायामयत्वस्य सम्भवादप्रयोजकत्वेनेश्वरेण दृश्यमानत्वेन (पां.टि.) मायामयत्वाभावसाधनासम्भवादित्यतस्तदुक्तेरभिप्रायमाह - नेश्वरमायाकल्पितमिति याव-दिति ।। लोकोपमत्व इति ।। स्वाश्रयाव्यामोहकत्वेनैन्द्रजालिकार्थहेतुभूतमायातुल्यत्व इत्यर्थः । अदृष्टेति ।। तेन दृश्मानस्य तन्मायामयत्वकल्पनस्यादृष्टत्वादिति भावः । अलौकिकत्व इति ।। लोकमायाविलक्षणत्वे स्वाश्रयव्यामोहकाविद्यात्वापत्त्या विश्वस्याऽविद्यकत्वप्रसङ्गात् । वियदादिकं मायिकं दुःखादिकन्त्वाविद्यकमिति पराभिमतविभागाभावप्रसङ्गादिति भावः । अप्रतिपक्षत्वादिति ।। मायाशब्दवाच्येश्वरेच्छानिमित्तकत्वस्य तच्छब्दवाच्यप्रकृत्युपादानकत्वस्य चास्मभिरङ्गीकृतत्वादिति भावः । नन्वनेनेश्वरमायामयत्वाभावसिद्धावप्यन्य-मायामयत्वाभावस्यासिद्ध्या कथममायामयत्वावधारणमित्यत आह- प्रसक्तेति ।। अस्मिन् पक्षे बहुकुसृष्ट्या-श्रयणं मन्वानः पक्षान्तरमाह- अथ वेति ।।
वर्तत इति ।। तथा च मूलेऽपरोक्षपदं व्यर्थमिति भावः । पश्यार्थैरिति ।। दर्शनं पश्यः, अस्मादेव निपातनाद्भावे शप्रत्ययः । ‘पाघ्राध्मा’ इति पश्यादेशः । पश्योऽर्थो येषान्ते पश्यार्थाः । यदि तु पश्यतीति पश्य इति ‘पाघ्रा-ध्माधेट्दृशःशः’ इति कर्तरि शः क्रियते ततो द्रष्ट्रर्थैरित्यर्थः स्यात् । ततश्चानालोचने इति आलोचनविपर्यासोऽनर्थकः स्यात् । न ह्यालोचनार्था द्रष्ट्रर्था भवन्ति । आलोचनं चाक्षुषज्ञानम् । तस्य पर्युदस्तत्वात् । ‘दृशिरिह ज्ञानमात्रे वर्तते अदर्शनं लोप इत्यत्र यथा’ इति आकरे स्थितत्वादिति भावः । अत एवेति ।। यतोऽत्र दृशिर्ज्ञान-सामान्यार्थकोऽत एवेत्यर्थः । सामान्येनेति ।। विदिति ज्ञानसामान्यस्यैवोदितत्वात् । अन्यथा सर्वापरोक्षदृगिति ब्रूयात् । न ह्येकस्य व्याप्तिरन्यस्य पक्षधर्मतेति युज्यत इति भावः । एतदिति ।। सर्वात्मनेत्येतदित्यर्थः । अन्यथा न्यूनत्वप्रसङ्गादिति भावः । आप्तवाक्यादिनेति ।। अपरोक्षभ्रमस्य परोक्षविशेषदर्शनानिवर्त्यत्वादिति भावः । हेतुगतविशेषणानां व्यभिचारवारकत्वनियममभ्युपेत्याऽह- स्वरूपकथनमिति ।। अत्राप्रयोजकत्वपरिहाराय विपक्षे बाधकतर्कमाह- अधिष्ठानेति ।। व्यावर्तकाकारेणाधिष्ठानज्ञानेऽपीत्यर्थः । ततश्चेति ।। ब्रह्मज्ञानेऽपि तदनुवृत्त्या तदनिवृत्तेरिति भावः । ननु च व्याप्तिविकलत्वादस्य हेतोः कथं सत्यत्वसाधकत्वमित्यत आह- दृष्टस्येति ।। तथाप्यप्रयोजकत्वान्न सत्यत्वसाधकत्वमस्येत्यत आह- अन्यथेति ।।
लघुप्रभा
(व्या.टि.)
उपपादनप्रयासेति ।। प्रतिवादिनो वादिन्यनाश्वासात् । इत्यर्थ इति ।। अव्ययानामनेकार्थत्वादि-त्यर्थः । उदाहरणवाक्यं दर्शयति- मायाविनेति ।। ‘अस्मायामेधास्रजो विनिः’ इति मत्वर्थीयो विनिः । मयटो अभावेऽपि तदर्थोऽवसेय इत्याह- मायामयमिति ।। उपनयं विविनक्ति- विश्वमित्यादिना ।। स्वरूपकथनमिति ।। अव्यावर्तकत्वादित्यर्थः । उदाहरणवाक्ये दृशिग्रहणमिति ।। उपनये पश्यतीति तिङ्प्रकृतितयेति शेषः । ‘पाघ्राध्मा’ इति पश्यस्य दृश्यादेशत्वादिति भावः । अस्यापरोक्षार्थत्वे हि तत्परिहारः स्यात्, कथं तदित्यत आह- दृशिर्हीति ।। हिशब्देन ‘दृशिर् प्रेक्षणे’ इति धातुपाठप्रसिद्धिं सूचयति । साधन-त्वेति ।। तेनेति हेतुत्वार्थतृतीययेति भावः । एवमागमं प्रयोगपरतया व्याख्याय प्रयोगं दर्शयति-अयमत्रेति ।। व्यतिरेकव्याप्तिप्रदर्शनानौचित्यं शङ्कते- यद्येनेति ।। ऋजाविति ।। पक्षधर्मतासमानाधिकरण इत्यर्थः । वक्र (व्या.टि.) इति ।। तद्व्यधिकरण इत्यर्थः । लाघवेन समाधत्ते- व्याप्तिप्रदर्शनमिति ।। अन्वये प्रदर्शिते व्यभिचारनिरासाय वाक्यान्तरमपेक्षितं स्यात् । व्यतिरेके प्रदर्शिते साध्येन विना भावनिरसने मुखतो व्यभिचार-निरसनमनुषङ्गतोऽविनाभावप्रदर्शनमप्येकेन वाक्येन कृतं स्यादिति लाघवमित्यर्थः । मा दर्शीति चिण्णन्तम् । अवधारणेति ।। विपक्षप्रतिक्षेपानुपपत्तिरित्यर्थः । माया किं लोकोपमा, उतालौकिकीति विकल्पं हृदि निधायाऽद्यं निराह- लोकोपमत्व इति ।। ‘त्वतलोर्गुणवचनस्य’ इति पुंवद्भावः । अदृष्टेति ।। लोकादृष्टेत्यर्थः । द्वितीयं निराचश्व्े- अलौकिकत्व इति ।। लोकसिद्धार्थापरिग्रहे पारिभाषिकमायाशब्दितत्व इत्यर्थः । उभयबहिर्भाव इति ।। ‘इन्द्रो मायाभिः’, ‘यज्ञस्य मायया’ इत्यादाविव शक्तिरूपत्व इत्यर्थः । अप्रतिपक्षत्वादिति ।। तस्यैव स्वपक्षत्वेनाविरोधित्वादित्यर्थः । ननूक्तविधयेश्वरमायामयत्वासम्भवेनामायामयत्वावधारणं कुतः । न हि किञ्चिद्विशेषाभावे सामान्याभावसिद्धिरित्यत आह- प्रसक्तप्रतिषेध इति ।। शङ्कितपक्षनिरासेऽन्यत्रा-नाशङ्कनाद्यावद्विशेषाभावसिद्ध्या सामान्याभावसिद्धिरिति भावः । एवं पुराणे ईश्वरग्रहणेन सामान्यतो दृष्टपरतया व्याख्याय अप्रयोजकत्वाऽशङ्का बाधकेनापनीता । अत्रेश्वरग्रहणमतन्त्रीकृत्य दृष्टपरतया व्याख्याति- अथ वेति ।। अत्र तु सामान्यनिषेधेन विशेषशङ्काशङ्कुरेव न लगतीति भावः ।
पुराणवाक्येनैवेति ।। न पुनः स्वयं प्रयुज्य व्याप्तिपक्षधर्मतोपपादनप्रयासाद्यायासेनेति अनभिमतव्यावृत्तिः। ‘नरं च नारायणमेव चाऽदौ ततः सुतौ द्वौ जनयाम्बभूवतुः’ इतिवत् । अत्रेति ।। बाह्यविश्वमायामयत्व इत्यर्थः। अन्वयं दर्शयति- अधिष्ठानमिति ।। अत्राव्याप्यस्याव्यापकेन सम्बन्धप्रदर्शनाद्वैयधिकरण्यमित्यतोऽभि-सन्धिमाह- अधिष्ठानेति ।। व्याप्तिः केत्यत आह- अनेनेति ।। एवं मिथ्यादर्शनमित्यस्यैकपद्यं हृद्यवरुध्यान्वय-प्रदर्शनपरतया व्याकृतम् । अधुना मिथ्यापदपार्थक्येन व्यतिरेकप्रदर्शनपरतया व्याचश्व्े- यन्मिथ्येति ।। उभ-येति ।। अन्वयव्यतिरेकोभयस्येत्यर्थः ।
नन्वपरोक्षपदस्य दृशिनैकार्थ्यात्सहप्रयोगानुपपत्तिरित्यत आह- यद्यपीति ।। प्रयोगादिति ।। दर्शनं पश्यः शप्रत्यययान्तो निपातः । अनालोचन इति विषयसप्तमी । तथाचानालोचनविषयैः पश्यार्थैरित्यनेनापरोक्ष-ज्ञानार्थकानां दृश्यादीनां सामान्यप्रत्यायकत्वमुक्तम् । न तु मुख्यता ‘ज्ञोऽविदर्थस्य’ इति यथा । ‘पश्यार्थैश्चा-नालोचने’ इत्येवं व्याख्यातं वैयाकरणैः- पूर्वमन्वादेशे त्वामादीनादेशानुक्त्वा तत्प्रतिषेधकमिदं सूत्रम् । अचाक्षुषज्ञानार्थैर्धातुभिर्योगेनैते आदेशाः स्युरिति । तथैवोदाहृतम्-चेतसा त्वां समीक्षत इति । दृशिसमार्थ ईक्षत्यादिरुदाहृतो न दृशिः । प्रत्युत प्रत्युदाहृतः, आलोचने तु भक्तस्त्वा पश्यति चक्षुषेति । राजाऽमनुष्यपूर्वा सभा इतिवत् । तथा च टीकाकारोदाहृतसूत्रे दृशेः ज्ञानमात्रे प्रयोगोऽसिद्ध इति भाति । तथाऽपि सूत्रे पश्यार्थग्रहणानर्थक्यप्रसङ्गाद्दृशिसमार्थ एवोदाहर्तव्य इति समार्थस्य प्रयोगे सिद्धे दृशेरपि प्रयोगः सिद्धप्राय इत्यभिप्रायतः प्रयोगादित्युक्तम् । अथ वा दृशेः तिङन्तस्य प्रयोगाभावेऽपि अनालोचने पश्यार्थैरिति शप्रत्ययान्त-प्रयोगाभिप्रायेणेत्थमकथीति । अत एवास्वरसादादिग्रहणम् । तेन च ‘दृशोऽनालोचने कन् च’ इति सूत्रमुपा-(व्या.टि.) देयम् । तद्ध्येवं काशिकायां व्याख्यातम् ‘त्यदादिषूपपदेषु अनालोचनार्थाद्धातोः कन् चात्क्विन् । धातुश्च दृशिरेव स्वरूपग्रहणात् । ‘आ सर्वनाम्नः’ इत्याकारे यादृक् यादृशः तादृक् ताद्दशः इत्युदाहृत्य आलोचने तमिवेमं पश्यन्ति तद्दर्श इति प्रत्युदाहृतम् । तथा चात्र दृशेर्ज्ञानमात्रे प्रयोगः सिद्ध इति तदभिप्रायेण टीका नेया । यत्तु भट्टोजिः ‘ दृशोऽनालोचने’ इत्येतदज्ञानार्थाद्धातोरिति व्यवीवरत्, तत्काशिकादिप्राचीनग्रन्थविरु-द्धम् । उदाहरणप्रत्युदाहरणं विरुद्धम् । सौत्रानालोचनपदस्वारस्यविरुद्धं च । किञ्चाज्ञानार्थादिति व्याख्याने महाभाष्यविरोधः । तत्र हि कर्मकर्तरि व्युत्पत्तिर्दर्शिता । तथा हि ‘तमिवेमं पश्यन्ति जनाः स इवायं पश्यति ज्ञानविषयो भवतीत्यर्थः’ इति । ‘अनालोचने किम् । तं पश्यन्तीति तद्दर्शः कर्मण्यण्’ इति प्रत्युदाहरणाच्च, ज्ञानसामान्यार्थकत्वं दृशेः प्रतीयते । इति मात्सर्यमुत्सार्य सुधीभिराकलनीयमिति दिक् । दृशेरापरोक्ष्ये मुख्यतां साधयति- अत एवेति ।। विश्वदृगिति पक्षधर्मताप्रदर्शनाय सामान्येनाऽपरोक्ष्यविशेषणेन विना दर्शयतीत्यर्थः। केचित्तु सामान्येनेत्येतत् सर्वापरोक्षविदिति ज्ञानसामान्यवाचिविदिधातुनेति दृशेर्ज्ञानमात्रार्थोपोद्बलकतया व्याचख्युः । दर्शनप्रकारमाह-सर्वात्मनेति ।। विष्णुर्विश्वदृगित्यस्यैव हेतुत्वमस्तु किमधिकेनेत्यतस्तत्कृत्यमाह- अपरोक्षत इति ।।
सर्वशब्दार्थमजानानः शङ्कते- नन्वेवमिति ।। अभिसन्धिमुद्घाटयति- सर्वशब्देनेति ।। एतदिति ।। सर्वपद-मित्यर्थः । अन्यथा व्यभिचारेणाव्यभिचारप्रदर्शनासम्भवादिति भावः । अपरोक्षपदकृत्यमाह- आप्तवाक्यादि-नेति ।। सोपाधिकभ्रमाभिप्रायेण प्रबलदोषाभिप्रायेण वेदमिति मन्तव्यम् । स्वरूपेति ।। ‘विष्णोर्नुकम्’ इति श्रुत्युक्ताचिन्त्यवीर्यत्वरूपस्वरूपसम्भावकविशेषणमित्यर्थः । शेषं निगमनमित्याह- तत्तस्मादिति ।। आगमं प्रयोगपरतया व्याख्याय प्रदर्शयति- विवादपदमित्यादिना ।। इदं प्रयोगद्वयमान्तरस्याविद्यामयत्वेऽपि दर्शयति- इदं चेति ।। विपक्षे बाधकमाह- अधिष्ठानेति ।। कदाऽपीति ।। अनिवर्तकत्वसाम्यादि-त्यर्थः । पूर्वं विष्णुपदं स्वरूपकथनपरतया व्याख्यायाधुना विष्णुर्विश्वदृगित्यस्य स्वतन्त्रहेतुपरतया व्याचश्व्े- अनयैवेति ।। अस्य व्याप्तिं दर्शयति- तद्दृष्टस्येति ।। विपक्षे बाधकमाह- अन्यथेति ।। इति भेदे मिथ्यात्ववादिबहुजीववादिनिरासः।