‘वाचा विरूप नित्यया’..

वेदापौरुषेयत्वे श्रुतिप्रमाणोदाहरणम्

मूलम्

- ‘वाचा विरूप नित्यया’, ‘नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम् इति, श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो याश्चान्या वाचः’ इति पैङ्गिश्रुतिः । ‘विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः । अनादिनित्या सा तच्च विना तां न स गम्यते’ इति कात्यायनश्रुतिः । ‘सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ।’ ‘कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद’ इत्यादि च ।

तत्त्वमञ्जरी

हे विरूपनूनमिदानी अभितो द्योतकाय तस्मै वृष्णे समर्थाय नित्यया वाचा सुष्ठुतिं चोदयस्वेति । मन्त्रवर्णमनूद्य व्याचक्षाणां पैङ्गिश्रुतिमप्यस्मिन्नेवार्थ आह - नित्ययेति ।। यद्यपि कर्मदेवाद्यपि श्रुत्या विज्ञेयम् । तथाऽपि परमं विज्ञेयं ब्रह्म । यद्यपि वेदानुकूलतर्कादिकमपि ज्ञापकं ब्रह्मणः, तथाऽपि परमा ज्ञापिका श्रुतिः । ब्रह्मणः सहस्रं स्वातन्त्र्यसार्वज्ञादिमहिमानः एकैकशोऽपि सहस्रधा । अत्र सहस्रशब्दोऽनन्तवाची । ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमं तमाप’ इत्यादिना तन्महिम्नोऽनन्तत्वावगमात् । ईदृशमहिमि्न ब्रह्मणि किं प्रमाणमित्याशङ्कायामाह- यावदिति ।। यावत्कालं ब्रह्म विशेषेण स्थितं वागपि कालतस्तावती विद्यते । छन्दसां वेदानां योगं ब्रह्माख्याभिधेयसम्बन्धं क आ वेद? धिष्ण्यमाधारः । धिष्ण्यं च अयम् अश्चेति धिष्ण्याः- परमः । अन्यार्थकतया प्रतीयमानामपि वाचं तं धिष्ण्यामुद्दिश्य कः प्रतिपपाद  । क इति ब्रह्मा, कर्त्राक्षेपो वा । अत्रापि वेदार्थस्य ज्ञानप्रतिपादनयोरेवोक्तत्वात् न कर्ताऽस्तीति पर्यवसीयते ।

टीका  

एवमनुमानादिना समर्थितं वेदापौरुषेयत्वं श्रुतिपुराणवाक्यैरपि साधयति- वाचेति ।। ‘तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुश्व्ुतिम्’ इति मन्त्रस्यायमर्थः- ‘अभितो द्यौः प्रकाशो यस्यासावभिद्युस्तस्मै अभिद्यवे, वृष्णे वर्षित्रे नूनं निश्चितं, हे विरूप, नित्यया वाचा वेदलक्षणया, सुष्टुतिं शोभनां स्तुतिं, चोदस्व प्रेरय- कुरु’ इति विरूपऋषिं प्रत्युच्यते । इति श्रुतिरिति शेषः । वाक्शब्दो वागिन्द्रियेऽपि प्रसिद्ध इति स्पश्वं वेदविषयां श्रुतिं पठति- नित्य-येति ।। परमं पदं परमं प्राप्यम्    इति मन्त्रमुदाहृत्य ब्राह्मणं नित्यानित्यशब्दविषयं निर्दिशति- श्रुतिर्वावेति ।। श्रुतिद्वयेन नित्यत्वमेव प्रतीतं न त्वपौरुषेयत्वमित्यतो वाक्यद्वयम् उदाहरति- विज्ञेयमिति ।। परमं विज्ञेयं मुमुक्षूणां प्रधानं प्रमेयम् । परमा ज्ञापिका प्रधानं प्रमाणम् । अनादीति तदुभयोपपादनम् । विनेति परमज्ञापकत्वे युक्त्यन्तरम् । स ब्रह्मशब्दोक्तः परमात्मा । यस्य सहस्र-मपरिमिता महिमानः प्रत्येकमपि सहस्रधा अपरिमितविधाः, तद् ब्रह्म यावद्देशकालव्यापितया विष्ठितं विशेषेण स्थितं वाक् वेदवागपि तावती तावद्देशकालव्यापिनी । प्राज्ञेन केनचित्पुरुषेण वेदस्य कृतत्वात्कथमेतदित्यत उक्तम्- कश्छन्दसामिति ।। छन्दसां वेदानां योगम् अर्थैः सह वाच्यवाचकभावसम्बन्धं को धीरो धीमान् आवेद सम्यग्वेद न कोऽपि । धिष्ण्यां बुद्धिपूर्वां वाचं वेदवाचं कः प्रति पपाद परान् प्रति प्रतिपादितवान् न कोऽपि । वेदार्थस्य ज्ञाता, ज्ञात्वा व्याख्या-ताऽपि दुर्लभः किमुत तत्कर्तेति । इति च श्रुतिरिति शेषः । प्रत्येकम् अभिप्रेतमर्थमाहेत्यध्याहारः।

भावबोधः

‘वाचा विरूप नित्यया’ इत्यस्य ‘नित्ययाऽनित्यया’ इत्यनेनैकवाक्यत्वभ्रमं वारयितुमाह- इति श्रुतिरिति शेष इति ।। कात्यायनश्रुतित्वभ्रमं वारयितुमाह - श्रुतिरिति शेष इति ।।

भावदीपः

पदमित्यस्यार्थः प्राप्यमिति । इति मन्त्रमिति ।। पदमित्यन्तं मन्त्रमित्यर्थः । ‘श्रुतिर्वाव’ इति ब्राह्मणं, कर्तृ । प्रधानं प्रमेयमिति ।। लक्ष्मीब्रह्मादिकं त्वप्रधानं प्रमेयमित्यर्थः । प्रधानं प्रमाणमिति ।। इतिहासादि त्वप्रधानं प्रमाणमिति भावः । तदुभयेति ।। प्रधानप्रमेयत्वप्रधानप्रमाणत्वोपपादनमित्यर्थः । ब्रह्मेति प्रकृतत्वात् कथं स इत्युक्तिरित्यत आह- स इति ।। ‘ब्रह्मेत्युक्त्या प्राप्तनपुंसकत्वशङ्कानिरासाय स इत्युक्तिः’ इति पद्मनाभतीर्थटीका । यत्तच्छब्दाध्याहारेण योजनामाह- यस्य सहस्रमिति ।। श्रुतिरिति सर्वत्राभिप्रेत-प्रथमान्तानाम् अन्वयाप्रतीतेराह- प्रत्येकमिति ।।

वाक्यार्थदीपिका

(श्री.टि.)

अनुमानादिनेति ।। वेदोऽपौरुषेयोऽप्रमितकर्तृकत्वादित्यनुमानम्, आदिपदेन सामान्यसिद्धि-परिशेषसङ्ग्रहः । अन्ये तु प्रमेयसमर्थनं स्वपक्षसाधनेन बाधकपरिहारेण च भवति । तथा चानुमानग्रहणेना-प्रमितकर्तृकत्वसामान्यसिद्धिपरिशेषरूपस्वपक्षसाधकसङ्ग्रहः । आदिपदेन सकर्तृकत्वाभावे प्रामाण्यं न स्यात्, तस्य परतन्त्रत्वादित्यादिबाधकपरिहारसङ्ग्रह इत्याहुः । वर्षित्र इति ।। भक्ताभिलषितसेचकायेत्यर्थः । प्रेर-येति ।। ‘चुद प्रेरणे’ इति धातोरित्यर्थः । तत्तात्पर्यमाह - कुर्विति ।। विरूपनामा ऋषिः स्वात्मानं प्रति वक्तीत्यर्थः । ‘वाचा विरूप नित्यया’ इत्यस्य ‘नित्ययाऽनित्यया’ इत्यनेनैकवाक्यताभ्रमं वारयितुं वाचा विरूप नित्ययेत्यनन्तरमध्याहार्यमाह - इति श्रुतिरिति शेष इति ।। प्रसिद्ध इति ।। न स्पष्टं वेदवागर्थक इति भावः । अर्चिरादीनां कार्यब्रह्मणश्च प्राप्यत्वात् परममित्युक्तम् । शब्दविषयं शब्दप्रतिपाद्यम् । प्रधानं प्रमेय-मिति ।। प्राधान्येन ज्ञेयमित्यर्थः । उभयोपपादनमिति ।। ब्रह्मणोऽनादिनित्यत्वेन धर्मादिप्रमेयवैलक्षण्यात् परमविज्ञेयत्वम् । श्रुतेश्चानादिनित्यत्वेनेतरप्रमाणवैलक्षण्यात् परमप्रमाणत्वमित्येवं ब्रह्मणः परमविज्ञेयत्वं, श्रुतेः प्रधानप्रमाणत्वं चेत्युभयोपपादनम् ‘अनादिनित्या सा तच्च’ इत्यनेन कृतमित्यर्थः । युक्त्यन्तरमिति ।। ‘श्रुतिः, परमा ज्ञापिका- प्रधानं प्रमाणम्, इतरप्रमाणावेद्यवस्तुप्रमापकत्वाद् व्यतिरेकेण प्रत्यक्षादिवत्’ इति युक्त्यन्तरमनेनोक्तमित्यर्थः । ‘नेन्द्रियाणि नानुमानम्’ इत्यादिवाक्याद्धेतुसिद्धिरिति भावः । ननु विना तां न तद्गम्यत इति वक्तव्यं, न तु स इति पुंलिङ्गप्रयोग इत्यत आह - स ब्रह्मशब्दोक्त इति ।। एतदिति ।। ब्रह्मवत्सर्वदेशकालव्याप्तिरूपमाहात्म्यमित्यर्थः । न कोऽपीति ।। तथा च वेदार्थस्य ज्ञाता दुर्लभ इत्यर्थः । बुद्धिपूर्वामिति ।। वेदार्थं सम्यग् ज्ञात्वेति यावदित्यर्थः । न कोऽपीति ।। तथा च व्याख्याताऽपि दुर्लभ इत्यर्थः । इति चेत्यनेनास्याः कात्यायनश्रुतित्वं प्रतीयते । अत आह - इति च श्रुतिरिति शेष इति ।। ‘वाचा विरूप नित्यया’ इति श्रुतिः, पौङ्गिश्रुतिः, कात्यायनश्रुतिः, सहस्रधेति च श्रुतिरभिमतमर्थं वेदापौरुषेयत्वमाहेति प्रत्येकमध्याहारः कार्य इत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

अनुमानादिनेत्यादिपदेन प्रत्यभिज्ञादेः परामर्शः । विरूपेति स्वात्मानं प्रति सम्बोधनम् । न त्वपौरुषेयत्वमिति ।। तत्प्रत्यायकपदाभावादिति भावः ।

लघुप्रभा

(व्या.टि.)

द्यौः प्रकाश इति ।। दीव्यतेर्द्युतिकर्मत्वादिति भावः । यस्यासावभिद्युरिति ।। यद्यपि ‘गोतो णित्’ इत्यत्र ओत इति सामान्यग्रहणादोकारान्तपदमात्रस्य णिद्वद्भावाद् गोशब्दवद्रूपमिति अभितो द्यौः प्रकाशो यस्यासावभिद्यौरित्येव टीकायां निर्देष्टव्यम् । स्त्रीप्रत्ययान्तत्वाभावेन ‘गोस्त्रियोरुपसर्जनस्य’ इति ह्रस्वासम्भ-वात् । गव इतिवदभिद्यव इति चतुर्थी भवति । तथाऽपि छन्दसि ‘अभिद्यवः सुम्नायन्तो हवामहे’ ‘हन्मनाहन्नभिद्यून्’ इति जस्शसोः प्रयोगात् ‘गोस्त्रियोः’ इति सूत्रेण वेदे स्त्रीलिङ्गमात्रस्य ह्रस्वो न तु स्त्रीप्रत्ययान्तस्येति नियम इति ज्ञापनादत्रापि तदनुकरणं कृतम् । सुष्टुतिमिति ।। ‘उपसर्गात्’ इति षत्वं ततः ष्टुत्वम् । ननु कथमत्रोपसर्गसंज्ञा, ‘सुः पूजायाम्’ इति कर्मप्रवचनीयसञ्ज्ञाविधानेनोपसर्गसंज्ञाबाधात् । ‘आकडारादेका संज्ञा’ इति नियमित-त्वात् । अतः सूक्तं सुस्तुतमित्यादिवत् षत्वं दुर्लभमित्यत आह- शोभनामिति ।। सौष्ठवं हि पूजा । न चात्र सौष्ठवं विवक्षितमिति भावः । ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति वा समाधिरवधेयः । चोदस्वेति ।। णिजभावश्छान्दसः । विरूपमृषिमिति । विरूपेति स्वात्मानं प्रति सम्बोधनमित्यन्यत्र । वागिन्द्रिये प्रसिद्ध इति ।। ‘अथ वाचा व्याहरति’ ‘यद्धि मनसा ध्यायति तद्वाचा वदति’ इत्यादाविति भावः । स्पष्टामिति ।। स्पष्टत्वं चास्याः श्रुतिपदनिर्देशाद्विज्ञेयम् । मूले श्रुतेरसमाप्तत्वादितिशब्दो व्यर्थ इत्याशङ्क्याऽह - इतीति ।। आवृत्त्या योज्यम् । तदुभयेति ।। परमज्ञाप्यत्वज्ञापकत्वेत्यर्थः । उपपादनमिति ।। अनादिनित्यत्वस्योभयस्मिन् हेतूकरणादिति भावः ।

युक्त्यन्तरमिति ।। श्रुतिः परमज्ञापिका गमकान्तरागम्यगमकत्वाद् रूपे चक्षुरिवेति युक्तिरुपात्तेत्यर्थः । तदिति नपुंसकेन प्रकृतस्य स इति पुंलिङ्गेन परामर्शोऽयुक्त इत्याशङ्क्य परमात्मशब्दाध्याहारेण योजयति- परमात्मेति ।। श्रुतिर्ब्रह्मशब्दं निर्वक्ति- सहस्रधेति ।। तत्रोद्देश्यविधेयभावप्रकटनाय यत्तच्छब्दाध्याहारेण योजयति- यस्येति ।। ‘सहस्रशब्दोऽप्यमितं यतो वक्त्यमितान्यतः’ इत्यैतरेयोदाहृतमानेन सहस्रशब्दस्य अनन्त-नामत्वात् ‘मय्यनन्तगुणेऽनन्ते’ इत्युपबृंहणानुसारेण व्याचश्व्े- अपरिमिता इति ।। सहस्रधाशब्दस्य ‘सङ्ख्याया विधार्थे धा’ इति धाप्रत्ययान्तस्य ‘अनन्ते गुणतः’ इत्युपबृंहणानुसारेणाऽह- प्रत्येकमिति ।। तद्ब्रह्मेतिपदं पूर्वत्र विधितयोत्तरत्रानुवादतया चेति व्याख्येयम् । यावत्पदं तु ‘यत्तदेतेभ्यः परिमाणे वतुप्’ इति यत् परिमाणम् अस्येत्यर्थे वतुपि ‘आ सर्वनाम्नः’ इत्याकारादेशे निष्पन्नम् इत्युपेत्यानुवदति- यावदिति ।। परिमाणं चात्र नोर्ध्वतादि,  किन्तु  देशकालव्यापनमिति तद्भावकथनपूर्वकं विष्ठितपदं व्याचष्टे- देशकालेति ।। विशेषेणे-ति ।। ‘उपसर्गात्’ इति तिष्ठतेः सस्य षत्वं ततः श्व्ुत्वं चेति भावः । तावतीति ।। पूर्वस्माद्वतुपि ‘उगितश्च’ इति ङीबिति भावः । तद्भावमाह- तावद्देशकालेति ।। यद्यप्यत्र यावद् ब्रह्मेत्याद्येव प्रकृतोपयोगि, ब्रह्मवद् वाचि अपि अनादिनित्यत्वप्रतिपादनात् । तथाऽप्यत्र ब्रह्मशब्दो न रूढः, किन्तु गुणपूर्तिवाचीति ज्ञापनाय पूर्वांशोदाहर-(व्या.टि.) णम् । ननु पूर्वश्रुतिवदुत्तरश्रुतावपौरुषेयत्वप्रतिपादनात् किं तदुदाहरणेनेत्यतः साऽपि कैमुत्य-न्यायेनापौरुषेयत्वं प्रतिपादयतीति वक्तुकामः ‘क’ इति श्रुतिमवतारयति- प्राज्ञेनेति ।। अत्र ‘प्रज्ञादिभ्योऽण्’ इति स्वार्थिकोऽण् बोध्यः । अत्र छन्दःशब्दो न अनुष्टुप्छन्द इत्यादाविव वर्णसङ्ख्यापरः, किन्तु ‘श्रोत्रियश्छन्दोऽ-धीते’ इतिवद्वेदपर इति व्याचष्टे- वेदानामिति ।। योगशब्दस्योपायार्थत्वभ्रमं वारयति- अर्थैः सहेति ।। धीमानिति ।। ‘ऊषसुषिमुष्कमधो रः’ इत्यत्राप्यन्येभ्योऽप्युपसङ्ख्यानादत्रापि धीशब्दान्मत्वर्थीयो रप्रत्यय इति भावः  । आङोऽर्थः सम्यगिति । अत्र ‘किमः कः’ इति प्राप्तस्य कादेशस्य आक्षेपार्थत्वात् तस्य विपर्यये पर्यवसानापेक्षत्वात्तदाह- न कोऽपीति ।। बुद्धिशब्दपर्यायस्य धिष्ण्याशब्दस्य तत्पूर्विकायां वाचि लक्षणां मत्वा व्याचश्व्े - बुद्धिपूर्वामिति ।। ‘छन्दसि व्यवहिताश्च’ इति सूत्रादुपसर्गस्य व्यवधानेनान्वयं दर्शयति- प्रतिपपादे-ति ।। वेदनं विपर्यये पर्यवसाय्य प्रतिपादनमपि विपर्यये पर्यवसाययति- न कोऽपीति ।। इदं प्रकृताभिप्रायेण । अनुव्याख्याने तु ‘कस्त्वा युनक्तीत्याह प्रजापतिर्वै कः’ इति ब्राह्मणानुसारेण कशब्दस्याकारान्तत्वं ब्रह्मार्थत्वं चोक्तम्-

कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।

ब्रह्मैको नैव चान्योऽस्ति क इत्यस्योभयार्थतः’ इति ।

कैमुत्येन वेदापौरुषेयतासिद्धिं दर्शयति- वेदार्थस्येति ।। ननु वाचेत्यारभ्य प्रत्येकं श्रुतिरिति पदस्य प्रथमान्तत्वेन कर्तृवाचकत्वेऽपि क्रियाकारकपदाभावेनानन्वय इत्यत आह- प्रत्येकमिति ।। तथा चाध्याहृतक्रियाकर्मभ्यां श्रुतेरन्वय इति भावः ।