अन्यथा ह्यद्वैतः ..

जगतो भ्रान्तिकल्पितत्वस्याङ्गीकारे दोषोक्तिः ।

मूलम्

- अन्यथा ह्यद्वैतः सर्वभावानामिति व्यर्थं स्यात् । सर्वभावानां मध्ये तस्यैक-स्यैवाद्वैतत्वमित्युक्ते समाधिकराहित्यमेवोक्तं स्यात् । अन्येषां सर्वभावानाञ्च समाधिकभावः । ‘विकल्पो विनिवर्तेत कल्पितो यदि केनचित्’ इति वाक्यशेषाच्च न कल्पितत्वमस्येति ज्ञायते । निवर्तत इत्यङ्गीकारे निवर्तेत, विद्येतेति च प्रसङ्गरूपेण कथनं यदिशब्दौ च न युज्यन्ते । विद्येतेत्यस्य चोत्पत्त्यर्थानङ्गीकारे यद्यदस्ति तत्त-न्निवर्तत इति व्याप्त्यभावान्निवर्तेतेति न युज्यते । अतः प्रपञ्चस्यानादिसत्यत्वपरमिदं वाक्यम् । अत उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यत इत्याह । अज्ञात एव द्वैतं न विद्यते । अज्ञानिनां पक्ष एव द्वैतं न विद्यत इत्यर्थः ।

तत्त्वमञ्जरी

अन्यथा नात्रोत्तमार्थमात्रमुच्यत इत्यङ्गीकारेऽद्वैतः सर्वभावानामिति व्यर्थं स्यात् । न ह्येकजीववादिपक्षेऽपि सर्वपदार्थानां द्वैताभावः    एकजीवातिरिक्तस्य सर्वस्य निवृत्त्यभ्युप-गमात् । समाधिकराहित्ये सम्भवति चाद्वैतशब्दः अद्वितीयो धनुर्धर इत्यादिवत् । सर्वभावानां चेति चशब्दोऽवधारणे    यद्ययं विकल्पो  भेदः केनचित्कल्पितो भ्रान्त्या तर्हि विनिवर्तेत बाध्येत    न च निवर्तते । तस्मान्न कल्पित एव । उभयत्रापि निवर्तेतेत्यस्य च निवर्तत इत्यर्थाङ्गी-कारे । ननु विद सत्तायामिति च धातोः विद्यमानत्वात् अत्र विदेः सत्ताऽर्थः किं न स्यादित्यत आह- विद्येतेति ।। यद्यत् सदसद्विलक्षणं तत्तन्निवर्तत इति हि व्याप्तिः तत्पक्षे ।

टीका 

कस्मादेवं व्याख्यायते, प्रतीत एवार्थः किं न स्यादित्यतोऽस्याः श्रुतेरभिप्रेतां युक्तिमाह- अन्यथेति ।। यदि द्वितीयशून्यत्वमेव तस्याः श्रुतेरर्थः स्यात् तर्हि सर्वभावानामित्येतद् व्यर्थं विगतप्रयोजनं  विरुद्धप्रयोजनञ्च स्यात्    कथमिति चेत्, सर्वभावानामित्यनेन विनैव देवोऽ-द्वैत इत्येतावता विवक्षितार्थसिद्धेः तस्य प्रयोजनशून्यत्वं स्फुटमेव । विरुद्धप्रयोजनत्वमुपपायति- सर्वेति ।। सर्वभावानामिति निर्धारणे ह्येषा षष्ठी । लक्षणान्तरासम्भवात् । तथा च कृष्णा गवां सम्पन्नक्षीरतमेत्युक्ते यथा कृष्णाया एव सम्पन्नक्षीरतमत्वम्, अन्यासां तदभाव इत्युक्तं स्यात्तथा सर्वभावानां मध्ये तस्यैकस्यैवाद्वैतत्वमित्युक्ते एकस्यैवाद्वितीयत्वम्, अन्येषां सर्वभावानां सद्वितीय-त्वमित्युक्तं भवति । न चैतद्युक्तम् । तस्याद्वितीयत्वेऽन्ये भावा एव न सन्ति । केषां सद्वितीयत्वं स्यात् । ततोऽयं द्वैतशब्दः समाधिकवाचीत्यङ्गीकर्तव्यम् । तथा च तस्यैकस्य समाधिकराहित्यम्, अन्येषां तत्साहित्यं चोक्तं भवेत् । तच्चाद्वैतमतविरुद्धमिति ।

कुत एवं ‘प्रपञ्चो यदि’ इति श्लोको व्याख्यायते । जडजीवात्मकस्य सर्वस्यैकजीवाज्ञान-कल्पितत्वमेवार्थः किं न स्यादित्यत आह- विकल्प इति ।। विकल्पो भेदो यदि केनचिदज्ञानादिना कल्पितः स्यात्तदा निवर्तेत बाध्येतेति कल्पितत्वपक्षेऽनिष्टप्रसङ्गो वाक्यशेषेऽभिधीयते । प्रसङ्गस्य च विपर्यये पर्यवसानमावश्यकमिति वाक्यशेषादस्य प्रपञ्चस्य कल्पितत्वं नास्तीति विज्ञायते । तेन चास्य श्लोकस्य प्रपञ्चस्य कल्पितत्वमर्थो न भवतीत्यपि विज्ञायत इत्यर्थः । उक्तवक्ष्यमाण-ज्ञापकान्तरसमुच्चयार्थश्चशब्दः ।

भवेदेतत्सर्वं यदि श्लोकद्वये निवृत्त्यापादनं स्यात् । न चैवम् । किन्तु वस्तु(स्थिति)कथनमेतदित्यत आह- निवर्तत इति ।। वस्तुकथनस्योपलक्षणमेतत् । यद्यत्र निवृत्तिर्नाऽपाद्यते किं तर्हि स्वरूप-कथनमेवैतदित्यङ्गीक्रियते तदा विद्यमानवत्प्रतीयमानोऽप्ययं प्रपञ्चो निवर्तिष्यते । केनचित्कल्पितोऽयं विकल्पो विनिवर्तिष्यत इति वक्तव्यम् । प्रसङ्गो रूप्यते प्रतिपाद्यतेऽनेनेति प्रसङ्गरूपो लिङ्, तेन कथनं, यदिशब्दौ च न युज्यन्ते । यदिशब्दसहितस्य च लिङो यदि पर्वतो निरग्निकः स्यात्तदा निर्धूमोऽपि स्यादित्यादौ प्रसङ्ग एव दृष्टत्वात् । यद्यपि यदिशब्द एक एव । तथाऽपि स्थानद्वये पठितत्वाद्यदिशब्दावित्युक्तम् । क्वचिद्यदिशब्दश्चेति पाठः । तत्र प्रसङ्गरूपेण कथनद्वयमङ्गीकृत्य न युज्यन्त इति बहुवचनम् । लिङ एकत्वेऽपि धातुभेदेन समुदाययोर्भेदात् ।

अस्त्वेवं, तथाऽपि विद्येतेत्यस्योत्पत्त्यर्थाङ्गीकारो न युक्तः । अप्रसिद्धत्वादित्यत आह- विद्येते-त्यस्येति ।। अत्र शब्दे निविष्टस्य विदेरित्यर्थः । उत्पत्तिश्चासावर्थश्चेति विग्रहः । उत्पत्तिरर्थोऽस्येति बहुव्रीहिर्वा । तथात्वे भावप्रधानो निर्देशः । सत्तार्थाङ्गीकारे चेति शेषः । यद्यादिबलात् प्रसङ्गोऽयमिति तावन्निश्चितम् । प्रसङ्गस्य च व्याप्त्याऽवश्यं भवितव्यम् । व्याप्तिश्चोत्पत्त्यर्थाङ्गीकारे सम्भवति । उत्पत्तिमतो भावस्य विनाशनियमदर्शनात् । न तु सत्तार्थाङ्गीकारे व्याप्तिः सम्भवति, नित्येष्वात्मादिषु व्यभिचारात् । ततश्च निवर्तेतेत्यव्याप्येनाव्यापकस्याऽपादनं न युज्यते । अतस्तदुपपत्तये विदेर-प्रसिद्धमपि उत्पत्त्यर्थत्वमङ्गीकार्यमिति ।

एवमुपपादितं सार्धश्लोकव्याख्यानमुपसंहरति- अत इति ।। प्रपञ्चस्य प्रकृष्टस्य पञ्चविधस्य भेदस्य । द्वन्द्वात्परं श्रूयमाणः त्वप्रत्ययः प्रत्येकमभिसम्बध्यते । अनादित्वं सत्यत्वं च परम् उद्देश्यं, प्रतिपाद्यं यस्य तत्तथोक्तम् । अनादिसत्यत्वशब्दस्य नित्यसापेक्षत्वात् समासो युक्तः । ननु तर्हि ज्ञाते द्वैतं न विद्यत इति वाक्यशेषविरोध इत्यत आह- अत इति ।। यत एवं पूर्ववाक्यं भेदस्याना-दित्वं सत्यत्वञ्च प्रतिपादयतीति निश्चितम्, अत एतदपि वाक्यं भेदसत्यतामाहेति गम्यत इत्यर्थः। यद्यप्युपदेशादिति पादो नोक्तविरोधी । तथाऽपि अत्र नञ्प्रश्लेषप्रदर्शनाय तत्पाठः । कथमिदं वाक्यं भेदसत्यतामाहेत्यत आह- अज्ञात एवेति ।।  तत्त्वेऽज्ञाते सत्येव, द्वैतं न विद्यत इत्यङ्गीकार इत्यर्थः । एतदेव स्पष्टयति- अज्ञानिनामिति ।।

भावबोधः

लक्षणान्तरासम्भवादिति ।। ‘कर्तृकर्मणोः कृति’ इत्यादिसूत्रान्तरप्राप्तेरयोगादित्यर्थः । तेन चा-स्येति ।। एवञ्चास्येत्येतदावर्त्यार्थशब्दमध्याहृत्य न कल्पितत्वमस्येत्येतत्प्रकारान्तरेण व्याख्यातमिति ज्ञात-व्यम् । ननु निवर्तिष्यत इत्यर्थाङ्गीकारे इति वक्तव्यम् । निवर्तत इति कथमुक्तम् । किञ्च विद्यत इत्यर्थाङ्गीकार इत्यपि वक्तव्यम् । उत्तरत्र तस्यापि ग्रहणादित्यत आह- वस्तुकथनस्येति ।। यदिशब्दसहितस्येति ।। यद्यपि कल्पित इत्यत्र लिङ् न श्रूयते । तथाऽपि यदिशब्दबलात्स्यादिति लभ्यत इति भावः । अत एव सुधायाम् ‘केन-चिदज्ञानादिना कल्पितः स्यात्’ इत्युक्तम् । कथनद्वयमिति ।। विद्येत निवर्तेतेति कथनद्वयमित्यर्थः । ननु प्रसङ्गप्रतिपादकलिङोऽप्येकत्वात्तेन कथनमप्येकमेवेत्यत आह- लिङ एकत्वेऽपीति ।। ननूत्पत्तिर्विदि-धातोरेवार्थत्वेनाङ्गीकृता, न प्रत्ययस्यापि । तत्कथं विद्येतेत्यस्येत्युक्तमित्यत आह- अत्र शब्द इति ।। सत्तार्थाङ्गी-कारे चेति शेष इति ।। उत्पत्त्यर्थानङ्गीकारमात्रस्य यद्यदस्तीति वक्ष्यमाणव्याप्त्यभावोपपादकत्वाभावादिति भावः । उत्पत्त्यर्थाङ्गीकार इति ।। अनेन मूले ‘उत्पत्त्यर्थानङ्गीकारे’ इति वचनं तदङ्गीकारे व्याप्तिः सम्भवतीति ज्ञापयितुमुक्तमित्युक्तं भवति । इति निश्चितमिति ।। प्रतिपादयतीत्येतावन्मात्रोक्तावन्योन्याश्रयः स्यात् । वाक्यशेषविरोधाभावे पूर्ववाक्यस्यानादिसत्यत्वपरत्वम् । तस्मिन्सति वाक्यशेषस्यार्थान्तरपरत्वेन तद्विरोधाभाव इतीति भावः । अत एव प्राग् ‘यद्यादिबलात्’ इत्युक्तम् । ननु ज्ञान्यज्ञानिपुरुषापेक्षया द्वैतस्य विद्यमानत्वा-विद्यमानत्वे कथम्? वस्तुनो द्वैरूप्यायोगादित्यत आह- तत्त्वे ज्ञाते सत्येवेति ।। द्वैताभावाङ्गीकार एवात्र श्रुतावभिप्रेतो न तु वस्तुगत्या द्वैताविद्यमानत्वमित्यर्थः । एवञ्च ‘अज्ञनिनां पक्ष एव’ इत्युत्तरवाक्ये ‘तस्मादज्ञानिनां मतम्’ इति समाख्याऽनुरोधेन पक्षशब्दः प्रथमान्तः । एवकारश्चाज्ञानिनामेवेति सम्बध्यत इति सूचितं भवति ।

भावदीपः

अस्याः श्रुतेरिति ।। औतः सर्वेति श्रुतिव्याख्यानपराया ‘औतं परमार्थतः’ इति श्रुतेरित्यर्थः । तस्याः श्रुतेरिति ।। ‘सर्वभावानाम् इति श्रुतेरित्यर्थः । निर्धारण इति ।। द्वितीयस्य तृतीयपादे ‘यतश्च निर्धारणम्’ इति सूत्रे जातिगुणक्रियाभिस्समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । यतो निर्धारणं ततोऽपि शब्दरूपात्षष्ठी भवतीत्युक्तत्वादिह च भावेभ्यो देवस्याद्वैतत्वगुणेन पृथक्करणात्तत्र षष्ठी निर्धारण इत्यर्थः । उदाहरणन्त्वाकर एवाग्रे व्यक्तम् । लक्षणेति ।। ‘षष्ठी शेषे’ इत्यादिषष्ठीविधायकसूत्रान्तरेत्यर्थः । एवशब्दसामर्थ्यलब्धमर्थमुपपाद्य विरुद्धप्रयोजनकत्वं व्यनक्ति । न चैतदिति ।। सर्वभावानां मध्य इत्यादिनोक्तमित्यर्थः । यदि द्वितीयशून्यत्वमेव तस्याः श्रुतेरर्थः स्यात्तर्हीत्यनुषङ्गः । एतन्न च युक्तमित्यर्थः । कुत इत्यतोऽयुक्ततां व्यनक्ति- तस्येति ।। आवश्यकमिति ।। इतिशब्दो हेत्वर्थः । देव इत्युक्तस्येत्यर्थः । न कल्पितत्वमस्येति वाक्ये अस्येत्यस्य ‘प्रपञ्चो यदि’ इति श्लोकस्येति भेदपञ्चकस्येति चार्थद्वयमुपेत्य योजयति- वाक्यशेषादिति ।। उक्तेति ।। मायामात्रपदोक्त-ज्ञापकद्वयेन निवर्तेतेत्यादिवक्ष्यमाणेन च समुच्चयार्थ इत्यर्थः । आपाद्यानुगुणाऽपादकघटनायाऽह- वस्तुकथनस्येति ।। प्रसङ्गरूपेण कथनद्वयमिति ।। श्लोकद्वय इति योज्यम् । प्राङ्निवर्तत इत्यङ्गीकार इत्यादिमूलवाक्यस्य मन्त्रद्वयोक्तप्रसङ्गपरतया व्याख्यानात्सार्धश्लोकेत्यग्रेतनग्रन्थाच्चेति ज्ञेयम् ।

ननु मूले प्रसङ्गरूपाभ्यामित्यनुक्त्वा मन्त्रानुरोधेन प्रसङ्गरूपेणेत्युक्त्या लिङ एकत्वावगमात्कथं प्रसङ्गद्वय-कथनमित्यत आह- लिङ एकत्वेऽपीति ।। यद्यपि विकल्प इति मन्त्रे धातुभेदो न श्रूयते । तथाऽप्यज्ञानादिना कल्पितस्स्यादिति स्याच्छब्दाध्याहारेण प्रसङ्गशरीरस्योक्तत्वादस्ति धात्वोर्भेदः । तद्भेदेन तदन्तसमुदाय-योर्भेदात्प्रसङ्गद्वयकथनाङ्गीकारेण बहुवचनं युक्तमित्यर्थः । निवर्तेत विद्येतेति मूलोक्तलिङन्तपदद्वयपरप्रसङ्गद्वय-कथनमित्यादिग्रन्थ इत्यप्याहुः । समुदायस्योत्पत्त्यर्थत्वाभावादाह- अत्रेति ।। विद्येतेति शब्द इत्यर्थः । आपाद्याऽ-पादकयोरवैयधिकरण्यायाऽह- इति शेष इति ।। नन्वनादित्वपदस्य प्रपञ्चपदेन साकाङ्क्षस्य कथं सत्यपदेन समास इत्यत आह- नित्येति ।। देवदत्तस्य गुरुकुलमित्यादाविवेति भावः । निश्चितमिति ।। प्रसङ्गरूपाद्युप-पत्तिबलादिति भावः । इत्याहेत्यत्रेतिशब्दात्परमेतदपि वाक्यमिति कर्त्रध्याहारपूर्वं प्रकृतं कर्मकारकमाह- एतदपि वाक्यं भेदसत्यतामाहेतीति ।। अत इत्यस्यान्वयाय साध्यमाह- इति गम्यत इति ।। द्वैताभावपरत्वे तु अस्य पादस्य पूर्ववाक्यविरोधेनाप्रामाण्यापत्तेरिति भावः । कथमिदं वाक्यं भेदसत्यतामाहेत्यत आह- अज्ञात एवे-तीति ।। यद्यप्ययमर्थोऽत्र न वचनवृत्त्या प्रतीयते । तथाऽपि द्वैताभावपक्षस्य तत्त्वाज्ञानिमतत्वेन निन्दनात्तद्बलेन द्वैतसत्यत्वं प्राप्तम् । ‘ऐकात्म्यं नाम यदिदम्’ इत्यादाविवेति भावः । अज्ञाते द्वैतं न विद्यत इति भ्रमनिरासायाऽह- तत्त्वेऽज्ञात इति ।। अनन्वयनिरासायाऽह- इत्यङ्गीकार इति ।।

वाक्यार्थदीपिका

(श्री.टि.)

विवक्षितार्थेति ।। द्वितीयशून्यत्वरूपविवक्षितार्थेत्यर्थः । ननु निर्धारणे ह्येषा षष्ठीति कुतः? ‘कर्तृ-कर्मणोः कृति’ इति सूत्रेण कर्तरि कर्मणि वा किं न स्यादित्यत आह- लक्षणान्तरेति ।। सर्वभावानां कर्तृत्व-कर्मत्वरूपार्थस्य प्रकृतेऽयोगेन सूत्रान्तरप्राप्तेरसम्भवादित्यर्थः । गवां मध्ये । प्रपञ्चस्य भेदपञ्चकस्य । कल्पित-त्वाभावे ज्ञापकान्तरस्यानुक्तत्वाद्वाक्यशेषाच्चेति चकारो व्यर्थ इत्यत आह- उक्तवक्ष्यमाणेति ।। द्वैतस्य भ्रान्तिकल्पितत्वाभावे परमेश्वरेण ज्ञातत्वरक्षितत्वरूपं ज्ञापकं मायामात्रपदेन पूर्वमुक्तम् । वस्तुस्थितिकथन-परत्वनिरासेनाऽपादनत्वसमर्थनपरं यद्यादिशब्दरूपं, ‘ज्ञाते द्वैतं न विद्यते’ इति वाक्यशेषरूपं ‘जीवेश्वरभिदा च’ इति प्रमाणरूपं च ज्ञापकान्तरं वक्ष्यमाणं द्रष्टव्यम् । वस्तुस्थितीति ।। प्रपञ्चो विद्येत विद्यत इव दृश्यते । निवर्तेत इदानी निवृत्त्यभावात् उत्तरत्र निवर्तिष्यते । केनचिदज्ञानादिना कल्पितो विकल्पितो भेदो निवर्तेतेदानी निवृत्त्यभावाद्विनिवर्तिष्यते बाध्यत इति वस्तुस्थितिकथनपरमेवैतत्, नाऽपादनरूपमित्यर्थः । ननु निवर्तत इत्यङ्गीकार इतिवद् विद्यत इत्यर्थाङ्गीकार इत्यपि वक्तव्यम् । उत्तरत्र तस्यापि ग्रहणादित्यत आह- वस्तुकथन-स्येति ।। वस्तुस्थितिकथनस्येत्यर्थः । तथा च निवर्तत इत्यङ्गीकार इत्यस्य वस्तुस्थितिकथनपरत्वस्याङ्गीकार इत्यर्थो द्रष्टव्यः । यदिशब्दसहितस्य च लिङ इति ।। कल्पितो यदि केनचिदित्यत्र न लिङ् श्रूयते, तथाऽपि (श्री.टि.) यदिशब्दबलात् कल्पितः स्यादिति लभ्यत इति भावः । अत एव सुधायां ‘यदि केनचिदज्ञानादिना कल्पितः स्यात्’ इत्युक्तम् । स्थानद्वये श्लोकद्वये । कथनद्वयमिति ।। विद्येत निवर्तेति प्रसङ्गरूपेण कथनद्वयं लिङ्द्वयमिति यावदित्यर्थः । ननु लिङोऽप्येकत्वेन प्रसङ्गरूपेण कथनद्वयाभावाद् यदिशब्दश्चेति पाठे न युज्यन्त इति बहुवचनमनुपपन्नमेवेत्यत आह- लिङ एकत्वेऽपीति ।। धातुभेदेनेति ।। ‘विद सत्तायाम्’ ‘वृतु वर्तने’ इति धात्वोर्भेदेनेत्यर्थः । वृतुधातोरेव नीत्युपसर्गबलेन निवृत्त्यर्थत्वमिति द्रष्टव्यम् । समुदाययोरिति ।। तत्तद्धातुसम्बद्धयोर्लिङोरपीत्यर्थः । ननु विदिधातोरेवोत्पत्त्यर्थकत्वं न प्रत्ययस्यापि । तस्य कर्तृत्वार्थकत्वात् । एवं च प्रत्ययसहितस्य विद्येतेत्यस्योत्पत्त्यर्थकत्वाभावात्‘विद्येतेत्यस्योत्पत्त्यर्थानङ्गीकारे’ इति कथमुक्तमत आह- अत्र शब्द इति ।।  विद्येतेति शब्दे निविष्टस्य विदेर्धातोरित्यर्थः    तथात्वे बहुव्रीहित्वे । भावप्रधान इति ।। उत्पत्त्यर्थत्वानङ्गीकार इत्यर्थः ।

उत्पत्त्यर्थानङ्गीकारमात्रस्य  यद्यदस्तीति  वक्ष्यमाणव्याप्त्यभावोपपादकत्वाभावादाह - सत्तार्थाङ्गीकारे चेति ।। व्याप्त्याऽवश्यं भवितव्यमिति ।। ‘व्याप्तिर्स्काप्रतिहतिः’ इत्यादिना तर्कस्याङ्गपञ्चकमभिधाय, अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत्’ इति कारिकायामुक्तत्वेन व्याप्त्यभावे तर्कस्य प्रशिथिलमूल-त्वाऽपत्त्याऽऽभासत्वाऽपत्तेर्व्याप्त्याऽवश्यं भवितव्यमिति भावः । ध्वंसव्यावृत्त्यर्थं भावस्येत्युक्तम् । अव्याप्ये-नेति ।। सत्त्वस्य निवृत्तिं प्रत्यव्याप्यत्वेनाव्याप्येन सत्त्वेनाव्यापकस्य निवर्तनस्याऽपादनं निवर्तेतेत्यनेन क्रियमाणं न युज्यत इत्यर्थः। नन्वनादिसत्यताशब्दस्य प्रपञ्चशब्देन सापेक्षत्वेन समर्थत्वात्तेनैव समासो वक्तव्यो न पर-पदेन । ‘सापेक्षमसमर्थवद्भवति’ इति वचनात् । तथा च प्रपञ्चानादिसत्यतापरमिति वक्तव्यमित्यत आह- अनादिसत्यत्वशब्दस्येति ।। नित्यसापेक्षत्वादिति ।। उत्थिताऽकाङ्क्षावत्त्वादित्यर्थः । ‘सापेक्षमसमर्थवद्भवति’ इति  वचनमनित्यसापेक्षविषयम् । उत्थाप्याऽकाङ्क्षास्थलविषयमिति यावत् । अस्य तूत्थिताऽकाङ्क्षावत्त्वादन्येन पदेन समासेऽपि पूर्वपदेनाऽकाङ्क्षा न विहन्यते, देवदत्तस्य गुरुकुलमितिवदित्यर्थः । नोक्तविरोधीति ।। तथा च न सह पठितव्य इत्यर्थः । नञ्प्रश्लेषेति ।। अज्ञात इति नञ्प्रश्लेषेत्यर्थः । तथा चोपदेशादिति पादोदाहरणाभावे नञ्प्रश्लेषप्रदर्शनं न सम्भवतीति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

स्फुटमेवेति ।। अतस्तदनुपपादनं ग्रन्थकारस्य युक्तमेवेति भावः । लक्षणान्तरेति ।। स्वस्वामिभावरूपसम्बन्धादिरूपार्थान्तरेत्यर्थः । तथा सति भेदप्रसङ्गादिति भावः । ननु निवर्तत इत्यर्थाङ्गीकारे विद्यत इत्यर्थाङ्गीकारे चेति वक्तव्यम् । तत्कथं निवर्तत इत्येवोक्तमित्यत आह- वस्तुकथनस्येति ।। यदिशब्द-सहितस्येति । यद्यपि कल्पित इत्यत्र लिङ् न श्रूयते । तथाऽपि यदिशब्दबलात्स्यादिति लभ्यते । ‘केनचिद-ज्ञानादिना कल्पितः स्यात्’ इति टीकाकृता पूर्वमुक्तत्वादिति द्रष्टव्यम् । कथनद्वयमिति । ‘विद्येत निवर्तेतेति’ ‘कल्पितः स्यान्निवर्तेत’ इति च कथनद्वयमित्यर्थः । ननु प्रसङ्गप्रतिपादकलिङोऽप्येकत्वात्तेन कथनमप्येकमेवेति कथं प्रसङ्गद्वयाङ्गीकारेण बहुवचनोपपत्तिरित्यत आह- लिङ एकत्वेऽपीति ।। ननूत्पत्तिर्विदिधातोरेवार्थत्वेनाङ्गी-(पां.टि.) कृता, न प्रत्ययस्यापि । तत्कथं ‘विद्येतेत्यस्य’ इत्युक्तमित्यत आह- अत्र शब्द इति ।। विद्येतेति शब्द इत्यर्थः । उत्पत्त्यर्थानङ्गीकारमात्रस्य यद्यदस्तीति वक्ष्यमाणव्याप्त्यभावोपपादकत्वाभावादाह- सत्तार्थाङ्गी-कारे चेति शेष इति ।। ननु व्याप्त्यभावो न दोषः । शब्दविधयैवास्य वाक्यस्य बोधकत्वसम्भवादित्यत आह- यद्यादिबलादिति ।। अवश्यम्भवितव्यमिति ।। व्याप्तिहीनस्य प्रसङ्गाभासत्वादिति भावः । नन्वनादि-सत्यत्वपदस्य प्रपञ्चस्येत्येतत्सापेक्षात्वात्सापेक्षस्य च ‘सापेक्षमसमर्थं भवति’ इति न्यायेन वृत्तावुपसर्जनपदस्या-प्रधानार्थाभिधायिना भाव्यत्वेनाप्रधानत्वस्य, स्वविशेषणापेक्षया च प्रधानत्वस्याऽवश्यकत्वादेकस्यैकदा प्रधानत्वैकार्थीभावयोरसम्भवेनासमर्थत्वान्न परशब्देनानादिसत्यत्वपरमिति समासः सम्भवति । ‘समर्थः पदविधिः’ इति समासविधौ समर्थाधिकारेण निरपेक्षस्यैव तद्विधानादित्यतः, पूर्वकायो नाभेः, देवदत्तस्य गुरुकुलमित्यादौ समासदर्शनेन नित्यसापेक्षस्य तत्सिद्ध्या पूर्वादिशब्दवत्ससम्बन्धिशब्दत्वेन नित्यसापेक्ष-स्यानादिसत्यत्वशब्दस्य परशब्देन समासो युक्त इत्याह- अनादिसत्यत्वशब्दस्येति  ।।  इति निश्चित-मिति ।। प्रतिपादयतीत्येतावन्मात्रोक्तावन्योन्याश्र-यात् । वाक्यशेषविरोधाभावे पूर्ववाक्यस्यानादिसत्यत्वपर-त्वम् । तस्मिन् सति वाक्यशेषस्यार्थान्तरपरत्वेन तद्विरोधाभाव इतीति भावः । अत एव प्राक् ‘यद्यादिबलात्’ इत्युक्तम् । ननु ज्ञान्यज्ञानिपुरुषभेदेन कथं द्वैतस्य विद्यमानत्वाविद्यमानत्वे । तथात्वे वस्तुनो द्वैरूप्यप्रसङ्गात् । न हि विरुद्धाकारद्वयालिङ्गित वस्त्वस्तीत्यत आह- तत्त्वेऽज्ञात इति ।।

लघुप्रभा

(व्या.टि.) 

स्वव्याख्यानदार्ढ्याय  परापव्याख्यां  दूषयितुमुपक्षिपति- कस्मादेवमिति ।। विरुद्धप्रयोजनं चेति ।। विरुद्धं विपरीतं प्रयोजनं यस्येति, विरुद्धं विहतं प्रयोजनम् उद्देश्यमिति वेति विगृह्य उद्देश्यविघातः अनिष्टप्राप्तिश्चेति व्याख्येयम् । आद्यस्यानुक्त्या न्यूनतां परिहरति- स्फुटमेवेति ।। निर्धारण इति ।। ‘यतश्च निर्धारणम्’ इतिसूत्रादित्यर्थः । उक्तं भवतीति ।। फलिष्यतीत्यर्थः । विहतप्रयोजनत्वमाह- न चैतद्युक्त-मिति ।। उक्तं भवेत् ।। फलिष्यतीत्यर्थः । तस्यानिष्टत्वमुपपादयति- तच्चेति ।। वाक्यशेषे कल्पितत्वाभावो न वाक्यार्थ इति कथं तद्विरोध इत्यतो न वाक्यविधया तदर्थावबोधः, किन्तु दूषणानुमानविधयेत्याशयेन तद्वाक्यं व्याचष्टे- विकल्प इत्यादिना ।। ‘न कल्पितत्वमस्य’ इत्येतदावृत्त्या योजयति- अस्य प्रपञ्चस्येत्यादि ।। वस्तुकथनमेतत् । लिङन्तं लडर्थत्वेन विवक्षितमित्यर्थः । लिङि प्रसङ्गरूपपदं निर्वक्ति- रूप्यत इति ।। रूपयतेः करणे ‘घञर्थे कविधानम्’ इति कप्रत्यय इति भावः । लिङोऽर्थान्तरसम्भवादाह- यदिशब्दसहितस्येति ।। प्रसङ्गस्यैवेत्यर्थान्तरवारणम् । स्थानद्वयेऽपीति ।। घटक इत्यादौ घटशब्दस्य द्व्यच्कत्वं यथा । द्वयमिति ।। विद्येतेति निवर्तेतेति च द्वयमित्यर्थः । धातुभेदेनेति ।। विदिवृतिभेदेनेत्यर्थः । प्रकृतिप्रत्ययसमुदायप्राप्तेराह- अत्र शब्द इति ।। विद्येतेतिशब्द इत्यर्थः ।

नन्वेतदभित्तिकचित्रायितप्रसङ्गत्वस्यैवानिश्चयादित्यत आह- यद्यादीति ।। यदिपूर्वो लिङ् यद्यादिस्तद्बला-दित्यर्थः । अव्याप्येन आपादकेन अव्यापकस्य आपाद्यस्येत्यर्थः । पृथगुभयार्थत्वायाऽह- द्वन्द्वात्परमिति ।। (व्या.टि.) ननु कथमिदं विज्ञायते । किं द्वन्द्वसमासाद्भावप्रत्ययः उत भावप्रत्ययान्ताद् द्वन्द्वसमासः । नाऽद्यः। अनादित्वं सत्यत्वं चेति भावप्रत्ययान्तत्वेन प्रदर्शयिष्यमाणविग्रहानुपपत्तिर्भावप्रत्ययान्तस्य समाससमर्थना-नुपपत्तिश्च । न द्वितीयः । द्वन्द्वात्पर इति पूर्ववाक्यानुपपत्तिः  । तस्माद्दुर्गमेयं फक्किकेति चेत्, शृणु । द्वन्द्वात्परो भावप्रत्ययः । न च प्रत्येकमभिसम्बध्यत इत्यस्यायुक्तिः । प्रत्येकमभिसम्बध्यत इत्यस्य प्रत्येकं संयोज्यते । योग्यतया प्रत्येकमन्वीयते । स्वप्नमायादिकेष्वित्यत्रत्यादिशब्दवदित्यर्थात् । न च भावप्रत्ययेन विग्रहप्रदर्शना-नुपपत्तिः । तस्य स्वप्नादिके मायादिकेष्वित्यत्रेव फलितप्रदर्शनपरतोपपत्तेः । न च त्वान्तस्य समाससमर्थनपरोत्तर-वाक्यानुपपत्तिः । त्वान्तस्य परशब्देन समाससमर्थनपरतोपपत्तेः । नित्यसापेक्षत्वादिति ।। ध्रुवापेक्षत्वादि-त्यर्थः । अयं भावः । त्वान्तस्य भाववाचकस्य भवितृवाचकषष्ठ्यन्तप्रपञ्चपदसापेक्षत्वेऽपि तस्यासामर्थ्यहेतुत्वा-भावेन गमकत्वाद्देवदत्तस्य गुरुकुलमितिवत्परपदेन समास इति । विरोध इति ।। औते ज्ञाते द्वैतं न विद्यत इत्यर्थप्रतीतेरित्यर्थः । आहादेशप्रकृतिभूतस्य ब्रूञः कर्मापेक्षायामाह- भेदसत्यतामाहेति ।। प्रश्लेषदर्शना-येति ।। वादर् अज्ञात इति स्थिते ‘अतो रोरप्लुतात्’ इति रोरुत्वे गुणे ‘एङः पदान्तात्’ इति पूर्वरूपे च वादोऽज्ञात इति भवतीति सन्धिज्ञापनार्थमित्यर्थः । वस्तुतो विद्यमानस्याज्ञानिनां पक्षेऽप्यविद्यमानत्वायोगादङ्गीकार इति शेषोक्तिः ।