टीका
नित्यत्वसाधकप्रत्यभिज्ञाया वर्णविषयकत्वसमर्थनम्
टीका
अत्र केचित्- तानेव शाटकानाच्छादयामस्तानेव शालीन्भुञ्ज्मह इतिवत् त एवेमे वर्णा इति व्यपदेशमात्रमित्याचक्षते । तदसत् । प्रत्यभिज्ञानस्य साक्षिसिद्धत्वात् । तदिदमुक्तम्- प्रत्यभि-ज्ञेति ।। प्रत्यभिज्ञैवेयं न व्यपदेशमात्रमिति । अपरे तु- गत्वादिजातिविषया प्रत्यभिज्ञा न वर्ण-विषयेत्याहुः । तदप्यसत् । सामान्यनित्यतायाः प्रमाणविरुद्धत्वात् । वर्णविषयत्वस्य स्पष्ट-प्रतिभासत्वाच्च । अन्ये तु- मन्यन्ते गौरित्यत्र गकारौकारविसर्जनीयैर्वर्णैर्व्यङ्ग्यः पदस्फोट एव प्रत्यभिज्ञायत इति । एतदप्ययुक्तम् । वर्णातिरिक्ते स्फोटे प्रमाणाभावात् । एकं पदमिति प्रत्यक्षं प्रमाणमिति चेन्न । भिन्नेष्वपि वर्णेष्वेकार्थाभिधानोपाधिनैकत्वस्य सम्भवात् । एकदेशावस्थानेन निमित्तेनानेकेष्वेव तरुषु वनमितिवत् । तदपि, वर्णानामिति प्रकृते वचनग्रहणेन सूचितम् ।
न वर्णाः प्रत्येकमर्थमभिदधति । अनेकवर्णोच्चारणवैयर्थ्यापत्तेः । नापि समुदिताः । क्रमवतां समुदायानुपपत्तेः । नित्यत्वेऽपि प्रतीतानामेवार्थाभिधायकत्वम्, प्रतीतयश्च क्रमभाविन्य इति न समुदायः सम्भवति । अतो वर्णैरनुपपद्यमानमर्थाभिधानं तदतिरिक्तं पदस्फोटं कल्पयतीति चेन्न । एकबुद्ध्युपारूढत्वेन वर्णानामेवार्थाभिधायकत्वोपपत्तेः । तदिदमुक्तं वचनमिति । एवमेव पदातिरिक्तवाक्यस्फोटनिराकरणाय वर्णेषु प्रकृतेष्वपि ‘तद्वद्वेदस्य’ इति वेदग्रहणं ‘तदेवेदं वाक्यम्’ इति वाक्यग्रहणं च करिष्यति । वर्णानामेव पदबुद्धिविषयाणामन्वितस्वार्थाभिधायकत्वेन वाक्यार्थवेदनसम्भवेन तदतिरिक्तवाक्यस्फोटकल्पकाभावादिति । अन्यथा वर्णानां स्फोट-व्यञ्जकत्वमप्यनुपपन्नम् । प्रत्येकसमुदितविकल्पस्य तत्रापि सम्भवात् । प्रथमोच्चारितेनैव वर्णेनाभिव्यक्तोऽपि स्फोटो द्वितीयाद्युच्चारणेन विशदीक्रियत इति चेन्न । निरवयवस्य वैशद्यावैशद्य-कल्पनानुपपत्तेः । न च गकारमात्रश्रवणेनाविशदाऽपि पदप्रतीतिरनुभूयते । अतो वर्णविषयैवेयं प्रत्यभिज्ञा इति स्थितम् ।
भावबोधः
।। वचनग्रहणेनेति ।। प्रतिज्ञावाक्ये वर्णत्वरूपधर्मपुरस्कारेण वर्णानामुक्तत्वात् तद्धर्मपुरस्कारेणैव तेषां वक्तव्यत्वेऽपि पदार्थाभिधायकत्वलक्षणधर्मपुरस्कारेण वर्णानामुक्त्येत्यर्थः । एवमभिप्रायाभावे प्रतिज्ञा-हेतुवाक्ययोर्भिन्नविषयकत्वं स्यादिति भावः ।। क्रमवतामिति ।। आशुतरविनाशिनामित्यपि द्रश्व्व्यम् ।। तदिद-मुक्तं वचनमितीति ।। वर्णानामिति प्रकृतत्वेऽपि पदार्थाभिधायकत्वलक्षणधर्मपुरस्कारेण वर्णानामुक्त्या वर्णानामेवावस्थाविशेषविशिश्वनां पदार्थाभिधायकत्वं ज्ञापितमित्यर्थः ।। एवमेवेति ।। एकं वाक्यमिति प्रत्यक्षबलेन प्रत्येकसमुदितविकल्पदूषणग्रामे(से)ण पदानां संसर्गविशेषप्रतिपादकत्वान्यथाऽनुपपत्त्या च प्राप्त-वाक्यस्फोटनिरासाय, उपक्रमवाक्ये वर्णत्वपुरस्कारेण वर्णानां गृहीतत्वेन उपसंहारवाक्ये तथैव तेषां ग्राह्यत्वेऽपि संसर्गादिवाक्यार्थवेदनकरणत्वरूपवेदत्ववाक्यत्वधर्मपुरस्कारेण वर्णानां ग्रहणं करिष्यतीत्यर्थः । एवमभिप्राया-भावे उपक्रमोपसंहारयोर्भिन्नविषयत्वं स्यादिति भावः । वेदादिग्रहणलब्धं हेतुमाह- वर्णानामेवेति ।। यद्यपि पदानामेव वाक्यबुद्धिविषयाणां वाक्यार्थवेदकत्वसम्भवेनेति वक्तव्यम् । तथाऽपि ‘वर्णानामेव पदबुद्धिविषया-णामन्वितस्वार्थाभिधायकत्वेन’ इत्यस्मत्सिद्धान्ताभिप्रायेणोक्तमिति बोध्यम् । उपलक्षणं चैतत् । भिन्नेष्वपि पदेषु संसर्गविशेषाद्येकार्थाभिधानोपाधिनैकत्वस्य सम्भवेन एकं वाक्यमिति प्रत्यक्षोपपत्ते(त्ति)रिति च द्रष्टव्यम् ।
भावदीपः
।। तदपीति ।। एकार्थाभिधायकत्वेनैवानेकेष्वपि वर्णेष्वेकत्वधीरित्येतदपि करणव्युत्पत्त्याऽर्थाभि-धायकवर्णवाचिवचनपदग्रहणेन सूचितमित्यर्थः । एवं स्फोटे प्रत्यक्षप्रमाणं निरस्य अर्थापत्तिमाशङ्क्य निराह- न वर्णा इत्यादिना वचनमितीत्यन्तेन ।। क्रमवतामिति ।। क्रमेणोत्पत्तिविनाशवतामित्यर्थः ।। एकबुद्ध्यु-पारूढत्वेनेति ।। ज्ञानस्याक्षणिकत्वमतेनेदम् । क्षणिकत्वपक्षे तु पूर्वपूर्ववर्णानुभवजनितसंस्कारसचिवश्रोत्रेण सम्बद्धान्त्यवर्णज्ञानं पूर्वसर्ववर्णविषयकमित्येकबुद्ध्युपारूढत्वं ध्येयम् ।। वचनमितीति ।। एकबुद्ध्युपारूढ-वर्णसमुदाय इत्युक्तमित्यर्थः ।। वर्णेषु प्रकृतेष्विति ।। ‘नचोच्चारणकाल एव वर्णानाम्’ इति प्रकृतेष्वित्यर्थः ।। अन्यथेति ।। वर्णानामेवेत्यादिनोक्तदिशा वाक्यार्थवेदनाङ्गीकार इति वा वर्णाभिव्यक्तस्फोटेनैवार्थ-वेदनाङ्गीकार इति वाऽर्थः ।। तत्रापि सम्भवादिति ।। वर्णाः किं प्रत्येकं स्फोटाभिव्यञ्जका उत समुदिताः । नाऽद्यः । अनेकवर्णोच्चारणवैयर्थ्यात् । नान्त्यः । क्रमवतां तेषां समुदायानुपपत्तेरित्येवमिति भावः । अनुभवबलादेवं कल्प्यत इत्यत आह- नचेति ।।
वाक्यार्थदीपिका
(श्री.टि.)
प्रत्यभिज्ञैवेयमिति ।। ज्ञानमेवेदमित्यर्थः ।। जातिविषयेति ।। स एवायं गकार इत्यस्य तदेवेदं गत्वमित्यर्थः ।। सामान्यनित्यताया इति ।। जातेर्नित्यतायाः
‘मासेन शूद्रो भवति ब्राह्मणो रसविक्रयात् ।
जातेरपायो भवति महापातककारिणः ।।’
इत्यादिप्रमाणविरुद्धत्वादित्यर्थः । जातिव्यक्त्योरभेदस्यान्यत्र समर्थितत्वेनानित्यव्यक्त्यभिन्नजातेरप्यनित्यतया तन्नित्यत्वावगाहिप्रत्यभिज्ञाया जात्यनित्यत्वग्राहिप्रमाणविरुद्धत्वाद् इत्यर्थ इत्यप्याहुः । किञ्च गत्वं जातिरेव न भवति यद्विषयकतया प्रत्यभिज्ञाया अन्यथासिद्धिः स्यात् । तारत्वादिना साङ्कर्यात् । तारत्वं गत्वं विहाय तारककारे वर्तते, गत्वं च तारत्वं विहाय मन्द्रगकारे, समावेशस्तु तारगकार इति द्रष्टव्यम् ।। वर्णविषयत्व-स्येति ।। स एवायं गकार इति प्रत्यभिज्ञाया गकाररूपधर्मिविषयत्वमेव प्रतिभासते न तु गत्वरूपजातिविषयत्व-मित्यर्थः ।। सम्भवादिति ।। तथा च एकं पदमिति प्रत्यक्षम् औपाधिकैकत्वावगाहीत्यर्थः । उपाधिनिमित्त एकत्वव्यवहारः कुत्र दृश्व् इत्यत आह- एकदेशेति ।। इदम् उपलक्षणम् । ‘गौरित्युक्ते गकारौकारविसर्जनीय-वर्णातिरिक्तस्य क्वचिदप्यनुभवानारोहात् । भवानपि चक्षुषी निमील्य परिभावयतु । गौरित्युक्ते किं वर्णा एवानुभूयन्ते ततोऽतिरिक्तं वा किञ्चनेति । तस्मान्न स्फोटे प्रत्यक्षं प्रमाणम्’ इति चन्निभट्ट्युक्तं दूषणमपि द्रश्व्व्यम् । ननु वर्णानामर्थाभिधायकत्वं केन पदेन सूचितम् इत्यत आह- तदपीति ।। ‘न चोच्चारणकाल एव वर्णानामुत्पत्तिः’ इति प्रतिज्ञावाक्ये वर्णत्वरूपधर्मपुरस्कारेण वर्णानामुक्तत्वात्त एवामी वर्णा इति तद्धर्म-पुरस्कारेणैव तेषां वक्तव्यत्वे वचनमिति पदार्थाभिधायकत्वलक्षणधर्मपुरस्कारेण वर्णानामुक्त्या सूचितमित्यर्थः। एवमभिप्रायाभावे प्रतिज्ञाहेतुवाक्ययोर्भिन्नविषयत्वं स्यादिति भावः । वर्णानामेकार्थाभिधायकत्वोपाधिरेव न सम्भवत्यतो वर्णव्यङ्ग्यः पदस्फोटोऽवश्यमङ्गीकार्य इत्याशङ्कते- न वर्णा इति ।। अनेकेति ।। एकेन वर्णेन अर्थस्याभिहितत्वाद्वर्णान्तरोच्चारणं व्यर्थं स्यादित्यर्थः । क्रमवतां वर्णानाम् । आशुतरविनाशिनाञ्चेत्यपि द्रष्ट-व्यम् । क्रमवतां स्थायित्वे समुदायसम्भवात् ।। नित्यत्वेऽपीति ।। वर्णानामित्यर्थः ।। अतो वर्णैरित्यादि ।। यथोक्तं चन्निभट्टिकारेण । ‘‘तस्माद्वर्णानां समासव्यासाभ्यां वाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोटो वर्णातिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको ‘नित्यश्शब्दः स्फोटः’ इति तद्विदो वदन्ति ।’’ अत एव वैयाकरणाः ‘स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः । स्फुट्यति स्फुटीभवत्यर्थ इति स्फोटोऽर्थप्रत्यायकः’ इति स्फोटशब्दार्थं द्वेधा निरुक्तवन्तः । तथा चोक्तं पतञ्जलिना महाभाष्ये ‘अथ गौरित्यत्रैकः शब्दो येनोच्चारितेन सास्नालाङ्गूलखुरककुदविषाणानां सम्प्रत्ययो भवति स स्फोटशब्दः’ इति । तदिदमुक्तम् वचनमितीति ।। वर्णानामिति प्रकृतत्वेऽपि पदार्थाभिधायकत्वलक्षणधर्मपुरस्कारेण वर्णानामुक्त्या वर्णानामेवावस्थाविशेष-विशिष्टानां पदार्थाभिधायकत्वं वचनमित्युक्त्या ज्ञापितमित्यर्थः ।
ननु माऽस्तु पदस्फोटः । तथाऽपि पदव्यङ्ग्यो वाक्यस्फोटस्तावदवश्यमङ्गीकार्य एव । तथा हि । न पदानि (श्री.टि.)प्रत्येकं संसर्गरूपवाक्यार्थमभिदधति । अनेकपदोच्चारणवैयर्थ्यापत्तेः । नापि समुदितानि । क्रमवताम् आशुतरविनाशिनां च समुदायानुपपत्तेः । नित्यत्वेऽपि प्रतीतानामेव पदानां संसर्गाभिधायकत्वं, प्रतीतयश्च क्रमभाविन्य इति न समुदायः सम्भवति । अतः पदैरनुपपद्यमानं वाक्यार्थाभिधानं तदतिरिक्तं वाक्यस्फोटं कल्पयतीति चेत् । तत्राऽह- एवमेवेति ।। प्रतिज्ञावाक्ये वर्णत्वपुरस्कारेण वर्णानां गृहीतत्वेनोपसंहारवाक्येऽपि तेषां तथैव ग्राह्यत्वे संसर्गरूपवाक्यार्थवेदनकरणत्वरूपवेदत्ववाक्यत्वलक्षणधर्मपुरस्कारेण वर्णग्रहणं करिष्य-तीत्यर्थः । एवमभिप्रायाभावे उपक्रमोपसंहारयोर्भिन्नविषयत्वं स्यादिति भावः । एवमेवेत्यतिदिष्टं वेदादिग्रहण-लब्धं हेतुमाह- वर्णानामेवेत्यादिना ।। अन्वितस्वार्थेति ।। योग्येतरान्विस्वार्थेत्यर्थः ।। वेदनेति ।। वेद्यतेऽ-नेनेति वेदनं, वेदनहेतुत्वमित्यर्थः । ननु एकं वाक्यमिति प्रत्यक्षमेव वाक्यस्फोटे प्रमाणमिति चेन्न । भिन्नेष्वपि पदेषु संसर्गविशेषरूपैकार्थाभिधानोपाधिना एकत्वस्य सम्भवेन एकं वाक्यमिति प्रत्यक्षोपपत्तेरिति च द्रश्व्-व्यम् ।। अन्यथेति ।। पदबुद्धिविषयाणां वर्णानां वाक्यार्थवेदनकरणत्वानङ्गीकार इत्यर्थः ।। तत्रापीति ।। वर्णानां स्फोटव्यञ्जकत्वपक्षेऽपीत्यर्थः । तथा हि । न वर्णाः प्रत्येकं स्फोटं व्यञ्जयन्ति, अनेकवर्णोच्चारणवैयर्थ्या-पत्तेः । नापि समुदिताः, क्रमवतामाशुतरविनाशिनां च समुदायानुपपत्तेरिति भावः । वर्णानां प्रत्येकमेव स्फोट-व्यञ्जकत्वमित्यङ्गीकृत्य तत्रोक्तदोषपरिहारमाशङ्कते- प्रथमेति ।। अभिव्यक्तः, ईषदभिव्यक्तो न विशद इत्यर्थः। स्फोटः पदस्फोटः ।। निरवयवस्येति ।। अखण्डस्येत्यर्थः । वैशद्यावैशद्ययोरवयवविशेषप्रतीत्यधीनत्वादिति भावः । प्रथमोच्चारितवर्णेनाभिव्यक्त इत्येतदेवायुक्तमित्याह- नचेति ।। न हीत्यर्थः । पदप्रतीतिः पदस्फोट-प्रतीतिः ।। वर्णविषयैवेति ।। न स्फोटविषयेत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
गत्वादिजातिविषयेति ।। गत्वादिजात्यभेदविषयेत्यर्थः । न चैवं तज्जातीयोऽयमित्याकारत्वापत्ति-रिति वाच्यम् । जात्यभेदादधिकस्य जातिगतजातित्वस्य प्रतीतावेव तदाकारत्वादिह च जातित्वस्याप्रतीतेरि-त्याशयात् ।। वर्णविषयत्वस्येति ।। अन्यथा ‘स एवायं घटः’ इत्यादिप्रत्यभिज्ञाया अपि घटत्वादिजात्यभेद-विषयत्वाऽपत्त्या व्यक्यभेदस्य न क्वापि सिद्धिः स्यादिति भावः । वैयाकरणमतमनुवदति- अन्ये त्विति ।। व्यङ्ग्य इति ।। स्फोटस्य नित्यत्वाङ्गीकारेण वर्णानां तदारम्भकत्वानुपपत्तेरिति भावः ।। एकमिति ।। वर्णानाम् अनेकतया एकत्वावगाहिप्रत्ययविषयत्वासम्भवेन एकं पदमित्यबाधितप्रत्यक्षस्य स्फोटं विनाऽनुपपत्तिरिति भावः ।। एकार्थेति ।। न चैवमेकार्थप्रत्यायकत्वेन एकत्वप्रत्ययः, ततश्च एकार्थप्रत्यय इत्यन्योन्याश्रयः स्यादिति वाच्यम् । एकार्थप्रत्यायकत्वस्य समयग्राहकप्रमाणादेव सिद्धत्वेन एकत्वप्रत्ययानपेक्षणात्, तदनवकाशात् । पदार्थप्रतिपत्त्यन्यथाऽनुपपत्तिरेव पदस्फोटे प्रमाणमित्याशङ्कते- नेति ।। अनेकेति ।। गौरित्यत्र सर्वेषामपि वर्णानां गोरूपैकार्थाभिधायकत्वे गकारौकारविसर्जनीयानामन्यतमेन तदर्थावगमात् तन्मात्रार्थकशेषवर्णवैयर्थ्या-पत्तेरित्यर्थः ।। क्रमवतामिति ।। वर्णानां क्रमभावित्वेन एकवर्णसमयेऽन्यस्याभावान्न समुदायः सम्भवती-त्यर्थः । श्रोत्रं नित्यद्रव्यग्राहकं निरवयवेन्द्रियत्वात् मनोवदित्यनुमानेन नित्यत्वसिद्धेर्न वर्णानामनित्यत्व-(पां.टि.) मित्यत्राऽह- नित्यत्वेऽपीति ।। प्रतीतानामेवेति ।। अप्रतीयमानानां प्रत्यायकत्वस्य सर्वपदार्थ-प्रतीतिप्रसङ्गदुष्टत्वेनासम्भवदुक्तिकत्वादिति भावः । अस्तु तर्हि प्रतीतानामेवार्थाभिधायकत्वमित्यत आह- प्रतीतयश्चेति ।। वर्णव्यञ्जकध्वनिजनकोच्चारणस्य प्रतिनियतत्वेनाऽशुतरविनाशित्वेन क्रमिकत्वेन च तज्जन्य-ध्वनीनां तज्जन्यप्रतीतीनामपि तादृशत्वेन, एकप्रतीतिकालेऽपरप्रतीत्यभावान्न तासां समुदायः सम्भवतीत्यर्थः। एकबुद्ध्युपारूढत्वेनेति ।। पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतान्त्यवर्णविषयकश्रोत्रजनितसदसदनेक-वर्णविषयकानुभवारूढत्वेनेत्यर्थः । ‘पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतम् अन्त्यवर्णसन्निकृष्टं श्रोत्रमनेकेष्वपि वर्णेष्वेकां पदबुद्धिं जनयति’ इति पद्धतावुक्तत्वात् । यद्वा पूर्वपूर्वसंस्कारसहितोत्तरोत्तरानुभवाऽहितातिपटुसंस्कार-जन्यनिखिलवर्णविषयैकस्मृत्युपारूढत्वेनेत्यर्थः । ‘एकस्मृतिसमारूढानामेकार्थप्रत्यायकत्वोपपत्तेः’ इति सुधायामुक्तत्वात् । न च वर्णानां सर्वगतत्वेन नित्यत्वेन च तत्र दैशिकस्य कालिकस्य वा क्रमस्यायोगाद् एक-स्मृतिसमारूढानां बुद्धिक्रमस्याप्ययोगात् क्रमरहितस्याप्यर्थप्रत्यायकत्वे राजा जारेत्यादावर्थभेदप्रतीतेर्निर्निबन्ध-नत्वप्रसङ्गान्न एकस्मृत्युपारूढानामर्थप्रत्यायकत्वमिति वाच्यम् । अनुभवक्रमोपहितानामेव वर्णानां स्मृत्याऽ-वगाहनाङ्गीकारेण बौद्धक्रमस्यैव सम्भवेन क्रमवतामेव वर्णानामर्थप्रत्यायकत्वाभ्युपगमेन क्रमव्युत्क्रमयोर-विशेषाऽपादनासम्भवात् । न चानुभवक्रमरूपोपाधेः पूर्वमननुभवान्न स्मृतिविषयत्वमिति वाच्यम् । क्रमिक-तत्तद्वर्णानुभवानन्तरं क्रमविशिष्टानुभवानामेव साक्षिणाऽनुभवोपपत्तेरिति दिक् ।
ननु कथं वेदादिग्रहणमात्रेण पदातिरिक्तवाक्यस्फोटस्याभावनिर्णय इत्यतः स किम् एकं वाक्यमिति प्रतीतिबलात् कल्पनीयः किं वाक्यार्थप्रतीत्यन्यथाऽनुपपत्त्या वा । नाऽद्यः । एकदेशावस्थानेन निमित्तेनानेकेषु तरुषु वनमिति प्रतीतिवदनेकेष्वपि पदेषु एकार्थप्रत्यायकत्वेनोपाधिना एकत्वसम्भवेनान्यथासिद्धत्वादित्यभिप्रेत्य द्वितीयं दूषयति- वर्णानामेवेति ।। एकबुद्ध्युपारूढत्वेन वर्णानामेकार्थप्रत्यायकत्वानङ्गीकारे बाधकं चाऽह- अन्यथेति ।। सम्भवादिति ।। तथा च प्रत्येकपक्षे वर्णान्तरवैयर्थ्यम्, समुदायस्तु न सम्भवतीति प्रागुक्त एव दोष इति भावः । ननु च यथा रत्नपरीक्षकस्य पुनःपुना रत्नतत्त्वं वीक्षमाणस्य पञ्चषाणि रत्नदर्शनानि प्रत्येकं रत्नस्वरूपमवगाहमानान्यपि न सहसैव समानासमानजातीयव्यावृत्तं रत्नतत्त्वमवभासयन्ति । किन्तु पूर्वपूर्व-दर्शनजनितभावनासचिवचेतोलब्धजन्मनि चरमे चेतसि चकास्ति रत्नतत्त्वम् । तथा व्यञ्जयन्तोऽपि प्रत्येकमिमे वर्णा न प्रागेव स्फुटतरं स्फोटमवभासयितुमीशते, अपि तु अल्पम् । पूर्वपूर्वाभिव्यक्तिजनितसंस्कारसचि-वोत्तराभिव्यक्तिक्रमेण अन्योऽन्यो वर्णः स्फुटतरं स्फोटज्ञानमाधत्त इति न वैयर्थ्यम् । द्वितीयादीनामपि, पूर्वेषां तदभावे तदभिव्यक्तिजनितसंस्काराभावेन अन्त्यवर्णस्यासहायतया व्यक्तावभासहेतुत्वासम्भवादित्यभिप्रेत्य शङ्कते- प्रथमोच्चारितवर्णेन चेति ।। किमत्र वैशद्यावैशद्ये अर्थगते अभिमते किं वा ज्ञानगते इति विकल्पं मनसि निधायाऽद्यं दूषयति- निरवयवस्येति ।। सर्वांशानाम् अनुभूयमानता हि वैशद्यम् । किञ्चिदंशानामननुभव-श्चावैशद्यम् । न च निरंशस्य स्फोटस्योक्तरूपे वैशद्यावैशद्ये सम्भवत इत्यर्थः । द्वितीयं दूषयति- नचेति ।। नापि पूर्वपूर्ववर्णैरस्फुटमुत्तरोत्तरैर्विशदं तज्ज्ञानं कस्याप्यनुभवसिद्धमित्यर्थः ।
लघुप्रभा
(व्या.टि.)
अस्य प्रत्यभिज्ञात्वं वर्णविषयत्वं च दृढीकर्तुं परपक्षान् प्रतिक्षिपति- अत्र केचिदित्यादिना ।। प्रत्यभिज्ञेतीत्यतः परं नामकीर्तनेनेति शेषः । उक्तिप्रकारं दर्शयति- प्रत्यभिज्ञैवेति ।। ‘तदेवेदमिति विरोधात्’ इत्येतावता सम्भवे नामकीर्तनस्यान्यथा वैयर्थ्यादित्यर्थः ।। प्रमाणेति ।। ‘मासेन शूद्रो भवति ब्राह्मणो रसविक्र-यात्’ इत्यादिनेत्यर्थः ।। वर्णविषयत्वस्येति ।। व्यक्तिविषयत्वस्य स्पष्टप्रतिभासत्वेऽपि जातिविषयत्वकल्पने सोऽयं घट इत्यत्रापि तत्त्वाऽपत्त्या व्यक्तिस्थायित्वासिद्ध्यापातात् । सोऽयं गकार इत्यादौ ‘वर्णात्कारः’ इति कारप्रत्ययप्रयोगान्यथाऽनुपपत्त्या च तज्जनकप्रतीतेर्व्यक्तिविषयकत्वं वाच्यम् । वैयाकरणमतं दूषयितुमनुवदति- अन्ये त्विति ।। गौरित्यत्रेति ।। श्रुते पुनः श्रूयमाण इति शेषः । प्रत्यभिज्ञायत इति ।। स एवायं गौरिति शब्द इतीति शेषः । अनेन वर्णविषयिणी नास्त्येव प्रत्यभिज्ञा, पदविषयिणी तु प्रत्यभिज्ञा वर्णसमुदायातिरिक्त-स्फोटविषयिणीति ध्वनितम् ।। एकमिति ।। अनेकेष्वैक्याभावादन्यगोचरं प्रत्यक्षमिति भावः । उपचारोऽय-मित्युपेत्य तन्निमित्तमाह- एकार्थेति ।। अत्र एकशक्तिपर्याप्त्यधिकरणत्वमुपाधिः । तेन घटाः इत्यादिबहुवचनान्ते सर्वोभयादिशब्देषु च बोध्यानामनेकत्वेनैकबोध्यकत्वस्योपाधित्वायोगेऽपि शक्यतावच्छेदकस्य घटत्वादेर्न्यायनये एकत्वरूपगुणाभावेन, अस्मन्मते व्यक्तिभेदेन भिन्नत्वेन नानार्थके नानात्वेनैकशक्यतावच्छेदककत्वस्य च उपाधित्वायोगेऽपि न दोषः । नानार्थके शक्त्यन्तरपर्याप्त्यधिकरणत्वेऽपि एकशक्तिपर्याप्त्यधिकरणत्वानपा-यात् । वर्णानामधिकरणत्वेऽपि पर्याप्त्यधिकरणत्वाभावात् । एकाक्षरनिघण्टुप्रतिपन्नशक्तिपर्याप्त्यधिकरणत्वं पदत्वं चाभिमतमेव वर्णस्य । इदं च शक्तं पदमिति पक्षमुपेत्येत्यवधेयम् । तन्निदर्शयति- एकदेशावस्थाने-नेति ।। एतन्निराकरणं नोन्मूलमित्याह- तदपीति ।। वचनग्रहणेनेति ।। करणसाधनत्वात् तत्पदस्येति भावः । शाब्दिकोऽर्थापत्तिं स्फोटे प्रमाणयितुं वर्णाः किं प्रत्येकमर्थमभिदधति, मिलित्वा वा इति विकल्पं हृदि निधायाऽद्यं निराह- न(च) वर्णाः प्रत्येकमिति ।। अनेकेति ।। युगपदेकार्थाभिधित्सयेति शेषः ।। समुदा-येति ।। मेलनेत्यर्थः ।। क्रमेति ।। पौर्वापर्येत्यर्थः ।। एकबुद्धीति ।। पूर्वपूर्ववर्णानुभवजन्यसंस्कारसह-कृतान्तिमवर्णानुभवे समूहालम्बने, तावदनुभवजन्यसमूहालम्बनरूपस्मृतौ वा उपारूढत्वेनेत्यर्थः ।। अन्वि-तेति ।। योग्येतरान्वितेत्यर्थः ।। कल्पकाभावादिति ।। अन्यथाऽनुपपत्तिभङ्गादित्यर्थः । एकं वाक्यमिति प्रत्यक्षं एकशक्तिविषयमुख्यविशेष्यकान्वयबोधजनकत्वेनानेकपदेषूपपन्नं न कल्पकमिति भावः ।। अन्य-थेति ।। प्रमितवर्णपरित्यागेनाप्रमितस्फोटकल्पन इत्यर्थः ।। विकल्पस्येति ।। अन्यतरपरिग्रहे दोषस्य चेत्यर्थः । तथा हि । किं वर्णाः पदानि वा किं पदस्फोटं वा वाक्यस्फोटं वा प्रत्येकं व्यञ्जयन्ति उत मिलित्वा । नाऽद्यः । अनेकोच्चारणवैयर्थ्यात् । न द्वितीयः । क्रमोत्पत्तिकानां वर्णानां पदानां तत्प्रतीतीनां वा मेलनासम्भवा-दिति । वर्णेनेत्युपलक्षणम् । पदेनापीति ग्राह्यम् । स्फोट इति सामान्येन द्वयोक्तिः ।। निरवयवस्येति ।। तथाऽभ्युपगतस्येत्यर्थः ।। अविशदाऽपीति ।। येन वैशद्याय द्वितीयोच्चारणकल्पनेति ।। अनुभूयत इति ।। विपक्षेऽनुभवविरोधं सूचयति । अनेन निरवयवत्वेन बह्ववयवताया विषयीकृतत्वरूपं विषयगतं वैशद्यं स्फोट-प्रतीतेरेवाभावे ज्ञानगतं वैशद्यञ्च नाऽशङ्कनीयमिति सूचितम् । उपसंहरति- अत इति ।।