युक्तं च विष्णोः ..

सदागमानां विष्णुसर्वोत्तमत्वपरमतात्पर्ये युक्तिनिरूपणम्

मूलम्

- युक्तं च विष्णोः सर्वोत्तमत्व एव महातात्पर्यं सर्वागमानाम् । मोक्षो हि सर्वपुरुषार्थोत्तमः ।

धर्मार्थकामास्सर्वेऽपि न नित्या मोक्ष एव हि ।

नित्यस्तस्मात् तदर्थाय यतेत मतिमान् नरः ।।’ इति भाल्लवेयश्रुतिः ।

अनित्यत्वात् सदुःखत्वान्न धर्माद्याः परं सुखम् ।

मोक्ष एव परानन्दः संसारे परिवर्तताम् ।।’ इति भारते ।

मोक्षश्च विष्णुप्रसादेन विना न लभ्यते ।

यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण ।

नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात् ।।’

इति नारायणश्रुतिः ।

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् ।।’

इति कठश्रुतिः ।

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् ।।’ इति भगवद्वचनम् ।

उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।

बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट् ।।’ इति स्कान्दे ।

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।

आनन्ददश्च मुक्तानां स एवैको जनार्दनः ।।’ इति च ।

बन्धको भवपाशेन भवपाशाच्च मोचकः ।

कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः ।।’ इति च ।।

तत्त्वमञ्जरी

विवक्षितार्थे युक्तिमाह- युक्तं चेति ।। उक्तमर्थमागमैर्दृढयति धर्मेत्यादिभिः । यमेवैष वृणुते प्रसादेन ।

टीका  

न केवलं श्रुतीतिहासपुराणसिद्धमेतत्, किं तर्हीत्यत आह- युक्तं चेति ।। युक्तिसिद्धं चेत्यर्थः । ‘पुरुषार्थस्ततोऽतः’ इति श्रुत्युक्तामेव युक्तिं प्रपञ्चयितुमियं प्रतिज्ञेति ज्ञातव्यम् । कथं युक्तमिति चेत् श्रुतिस्मृतिलक्षणो हि सर्वोऽप्याम्नायस्तावदेकमेव शास्त्रम्, भेदे प्रमाणाभावात् । शास्त्रैक्यं च विषयप्रयोजनैक्यनिमित्तम् उपाध्यन्तराभावात् । सर्वोत्तमं चेदं शास्त्रं प्रसिद्धम् । ‘वेदशास्त्रात्  परं नास्ति’  इति वचनात्    सर्वोत्तमता चास्य सर्वोत्तमप्रयोजनवत्तायामुपपद्यते नान्यथा । सर्वोत्तमं च प्रयोजनं मोक्ष एव नान्यदिति सर्वशास्त्राणां मोक्षार्थत्वे स्थिते, विषयो विचार्यते । तत्र प्रतिवाक्यं वाक्यार्थानामनेकत्वेऽपि न तैरस्य शास्त्रस्य विषयवत्ता युज्यते भेद-प्रसङ्गात् । अतो यत्प्रतिपत्त्यर्थमवान्तरवाक्यार्थप्रतिपादनं तेनैकेन महातात्पर्यगोचरेण विषयेण भवितव्यम् । यश्च ज्ञातोऽभिप्रेतप्रयोजनहेतुस्स एव तथाभावमापद्यते । अन्यथा विषयप्रयोजनयोः सम्बन्धाभावे शास्त्रस्यानुपादेयत्वप्रसङ्गात् । अभिप्रेतप्रयोजनस्य च मोक्षस्य सर्वोत्कृष्टतया ज्ञातः प्रसन्नो भगवान् विष्णुरेव हेतुः । अतस्स एव तथाविधः सकलसदागममहातात्पर्यगोचरोऽङ्गीकार्य इत्याशयवान् स्वर्गादेरेव परमपुरुषार्थतां मन्यमानानामपाकरणाय मोक्षस्य सर्वपुरुषार्थोत्तमत्वं साधयन्नाह- मोक्षो हीति ।। कुत इत्यतस्तत्र श्रुतिस्मृती पठति- धर्मेति ।। धर्मार्थकामा इति तत्साध्यं स्वर्गादिकमुच्यते । स चासावर्थश्चेति तदर्थः । परिवर्ततां परिवर्तमानानाम् । उद्देश्य इति शेषः । ‘व्यत्ययो बहुलम्’ इति परस्मैपदम् ।

अस्तु मोक्षः सर्वपुरुषार्थोत्तमः सर्वोत्तमशास्त्रप्रयोजनं च । स च ब्रह्मात्मैकत्वविद्यासाध्यः कर्मसाध्यो वेति वदतां निराकरणाय तस्य विष्णुप्रसादैकसाध्यतां साधयन्नाह- मोक्षश्चेति ।। विष्णुप्रसादेन लभ्यते, तं विनाऽन्येन न लभ्यते चेत्यर्थः । तदुभयं कुत इत्यतस्तत्र श्रुति-स्मृतीरुदाहरति- यस्येति ।। परमो विचिन्त्यः प्रीत्यर्थं सर्वोत्कृष्टतया ज्ञातव्यः । लभ्यः प्राप्यः । एष परमात्मा यं वृणुते यस्य प्रसीदति तेनैव लभ्यः । कथम्? यतस्तस्य स्वां तनुं विवृणुते प्रकाशयति, ततश्चास्य स्वां तनुम् अविद्यावृतं स्वरूपं विवृणुते आविर्भावयति । अहं समुद्धर्ता भवामीत्युक्ते प्रसन्न इत्यर्थाल्लभ्यते    एवमुत्तरत्रापि ज्ञातव्यम्    आवृतिः अज्ञानम्    एकराट् स्वतन्त्रः । विरिञ्चादिष्वतिव्याप्तिपरिहारार्थमेतत् । मोक्षदः अविद्यानिवृत्तिदः । आनन्ददः स्वरूपानन्दानुभवशक्तिदः । कैवल्यद इत्यस्याप्ययमेवार्थः ।

भावबोधः

स चासावर्थश्चेतीति ।। तथा च चतुर्थ्युपपत्तिरिति भावः । उद्देश्य इति शेष इति ।। संसारदशायां मोक्षविरोधादिति भावः । परस्मैपदमिति ।। परिवर्ततामिति परस्मैपदमित्यर्थः । एवमुत्तरत्रापीति ।। प्रसादं विना मोक्षदातृत्वज्ञानादिप्रदत्वभवपाशमोचकत्वाद्यसम्भवात्तत्रापि प्रसादोऽवगम्यत इति भावः । विरिञ्चादि-ष्विति ।। उत्पत्तिकर्तृत्वादेः प्रत्येकं लक्षणत्वे सृष्टिकर्तृत्वस्य विरिञ्चे, संहारकर्तृत्वस्य रुद्रे, मोक्षदातृत्वादेर्वाय्वादा-वतिव्याप्तिपरिहारार्थमेकराडित्युक्तमित्यर्थः । अविद्यानिवृत्तिद इति ।। आनन्दद इति पृथगुक्तत्वादिति भावः। शक्तिद इति ।। आनन्दतदनुभवयोरनागन्तुकत्वादिति भावः । अयमेवार्थ इति ।। आनन्दानुभवशक्तिद इत्येवार्थः । ‘मोचकः’ इति पृथगुक्तत्वादिति भावः ।

भावदीपः

श्रुतीति ।। ‘सर्वोत्कर्षे’ इति श्रुतिः । ‘द्वाविमौ’ इतीतिहासः । ‘मुख्यं च’ इति पुराणम् । अपौनरुक्त्याय आह- पुरुषार्थ इति ।। विषयप्रयोजनैक्यमिति ।। ‘अर्थैकत्वादेकं वाक्यम्’ इति जैमिन्युक्तेरिति भावः । परिशेषाच्चेत्याह- उपाध्यन्तरेति ।। तथाभावं महातात्पर्यविषयत्वम् । अन्यथेति ।। यो ज्ञातः प्रयोजनहेतुः तादृशस्य विषयत्वाभावे शास्त्रस्य विषयस्य ज्ञाप्यज्ञापकभावः, विषयस्य प्रयोजनस्य च हेतुहेतुमद्भावरूप-सम्बन्धाभावेन विषयफलाभ्यामसम्बद्धं शास्त्रमनुपादेयं स्यादित्यर्थः । विषयप्रयोजनयोरित्यत्र शास्त्रेणेति वा तयोरन्योन्यमिति वा सम्बन्धाभावेनेत्यर्थः । अस्त्वेवं प्रकृते किमायातमित्यत आह- अभिप्रेतेति ।। तथाविध इति ।। सर्वोत्कृश्व्तया ज्ञातो मोक्षहेतुभूत इत्यर्थः । तस्यार्थायेति धीनिरासायाऽह- स चासाविति ।। नित्यभूतमोक्षरूपप्रयोजनायेत्यर्थः । संसारस्थानां मोक्ष इत्यस्यायोग्यतापराहतत्वाद्वा साकाङ्क्षत्वाद्वाऽऽह- उद्देश्य इति शेष इति ।। ‘वृतु वर्तने’ इत्यस्याऽत्मनेपदित्वात् ‘तङानावात्मनेपदम्’ इत्युक्तेः शानच्प्रत्ययान्तत्वेन भाव्यतया शतृप्रत्ययान्तत्वेन कथं परिवर्ततामिति परस्मैपदनिष्पन्नरूपोक्तिरित्यत आह- व्यत्यय इति ।। व्यतिरेकोक्तिरूपलक्षणमित्युपेत्य वा चशब्दोऽनुक्तसमुच्चय इति मत्वा वा यस्येत्यादिवक्ष्यमाणवाक्यानुरोधेनान्वयं चाऽह- विष्णुप्रसादेनेति ।। प्रकृतानुगुणतया अर्थमाह- सर्वोत्कृष्टतया ज्ञातव्य इति ।। लभ्य इत्यनुवादः प्राप्य इति व्याख्या । अन्वयव्यतिरेकयोर्द्वयोरपि लाभायैवकारं भिन्नक्रममुपेत्याऽह- तेनैवेति ।। वाक्यमावृत्त्या-र्थान्तरमाह- ततश्चेति ।। स्वतनुप्रकाशतः इत्यर्थः । एवमुत्तरत्रापीति ।। मोक्षदत्वानन्ददत्वमोचकत्वकैवल्य-दत्वानां बन्धकस्य हरेः प्रसन्नतया विनाऽयुक्तत्वात् प्रसादो लभ्यत इति ज्ञातव्यमित्यर्थः । विरिञ्चादिष्विति ।। उत्पत्त्यादेः प्रत्येकं लक्षणत्वेन विरिञ्चे सृष्टिकर्तृत्वस्य, रुद्रे संहर्तृत्वस्य, एवमन्ये धर्मा अन्यत्र प्रसक्ता अत एकराडित्युक्तिः । स्वातन्त्र्ये सत्युत्पत्त्यादिकर्तृत्वस्यान्यत्राभावादिति भावः । आनन्दद इत्यनेनापौनरुक्त्यायाऽह- अविद्यानिवृत्तिद इति ।। आनन्दस्य नित्यसिद्धस्य दानं नाम किमित्यत आह-आनन्दानुभवशक्तिद इति ।।

वाक्यार्थदीपिका

(श्री.टि.)

भेदे शास्त्रभेदे । उपाध्यन्तरेति ।। विषयप्रयोजनैक्यव्यतिरिक्तस्य निमित्तान्तरस्याभावादित्यर्थः । वेदशास्त्रादिति ।। वेदयन्तीति व्युत्पत्त्या वेदशब्दवाच्यश्रुतिस्मृतिलक्षणशास्त्रादित्यर्थः । मोक्षार्थत्वे मोक्षप्रयोजन-कत्वे । भेदप्रसङ्गादिति ।। अर्थैक्याभावेन वाक्यभेदप्रसङ्गादित्यर्थः । तथाभावं महातात्पर्यगोचरत्वम् । अन्य-थेति ।। अभिप्रेतप्रयोजनहेतुभूतस्य विषयत्वानङ्गीकार इत्यर्थः । सम्बन्धेति ।। जन्यजनकभावरूपसम्बन्धे-त्यर्थः । अनुपादेयत्वप्रसङ्गादिति ।। वक्तृश्रोत्रोरभिमतमनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणान्तराप्राप्तमर्थं प्रतिपादयतां वाक्यानां समूहस्यैव शास्त्रत्वादिति भावः । तथाविधः सर्वोत्कृष्टः । मन्यमानानामिति ।। ‘न स्वर्गादेः फलान्तरम्’ इत्यादिवचनानुसारेणेति शेषः । ननु तदर्थमित्येवोक्तावपि तादर्थ्यस्य प्रतीतत्वाच्चतुर्थ्यनुप-पत्तिरित्यत आह- स चासावर्थश्चेति ।। केचित्तु, तस्यार्थस्तदर्थ इत्यन्यथाप्रतीतिवारणाय व्याचष्टे- स चासाविती-त्याहुः । ननु संसारे परिवर्तमानानां तद्दशायां परानन्दरूपमोक्षाभावात्परानन्दो मोक्ष एवेत्येतद्बाधितार्थमतो व्याचश्व्े- उद्देश्य इति शेष इति ।। परानन्दरूपमोक्ष एव प्रार्थ्य इत्यर्थः । ननु संसारे परिवर्ततामिति कथम् । न च वाच्यं परीत्युपसर्गपूर्वकाद् वृतु वर्तन अस्माद्धातोः ‘लटः शतृशानचावप्रथमासमानाधिकरणे’ इति सूत्रेण परस्मैपदिनि लटः शत्रादेशे, शकारऋवर्णयोर्लोपे वृत् अत् इति जाते, गुणे तस्य रपरत्वे वतर्् अत् इति जाते, ‘उगिदचां सर्वनामस्थानेऽधातोः’ अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यादिति सूत्रेण उगित्त्वान्नुमागमे, उम् इत्यस्य लोपे ‘मिदचोऽन्त्यात्परः’ अन्त्यादचः परो मित्स्यादिति सूत्रेण मित्त्वादन्ते जाते वर्तन् त् इति जाते, ‘संयोगान्तस्य लोपः’ इति तकारलोपे परिवर्तन् इति भवति । तस्य षष्ठीबहुवचनं परिवर्ततामिति भव-तीति । वृतुधातोर्नित्यात्मनेपदित्वात् । तथा च परीत्युपसर्गपूर्वकाद् वृतुधातोः ‘लटः शतृशानचौ’ इति सूत्रेणाऽत्मनेपदिनि लटः शानजादेशे शकारचकारयोर्लोपे गुणे रपरत्वे ‘आने मुक्’ आने परे अदन्ताङ्गस्य मुगागमस्स्यादिति सूत्रेण मुक् इत्यागमे उक् इत्यस्य लोपे ‘आद्यन्तौ टकितौ’ इति कित्त्वादन्ते जाते परिवर्तम् आन परिवर्तमानेति आत्मनेपदिनि रूपं भवति तस्य षष्ठीबहुवचनं परिवर्तमानानामित्येव भवेन्न तु परिवर्त-तामित्यत आह- व्यत्ययो बहुलमिति परस्मैपदमिति ।। धातूनां परस्मैपदित्वात्मनेपदित्वयोर्बहुलं व्यत्ययो भवतीति सूत्रार्थः । एवं चाऽत्मनेपदिधातोरपि व्यत्ययेन परस्मैपदित्वमाश्रित्य परिवर्ततामित्युक्तमिति भावः।

।। कर्मसाध्यो वेति ।। ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति वचनादिति भावः । उत्तरत्र ‘यस्य प्रसादात्’ इति श्रुतौ मोक्षस्य विष्णुप्रसादलभ्यत्वं कथ्यते तदनुसारेण प्रतिज्ञावाक्यस्यापि तथैवाभिप्रायमाह-विष्णुप्रसादेन लभ्यत इति ।। अन्यथा मोक्षस्य विष्णुप्रसादालभ्यत्व एव वाक्यमुदाहर्तव्यं स्यान्न तु लभ्यत्वे । तथा च ‘यस्य प्रसादात्’ इति वाक्योदाहरणमयुक्तं स्यादिति भावः । स्वां तनुं स्वकीयां तनुम् । प्रकाशयति अपरोक्षज्ञानविषयो भवतीत्यर्थः । ‘परमो विचिन्त्यः- परमत्वेन विचिन्त्यः’ इत्यभिप्रेत्य सर्वोत्कृष्टतया ज्ञातव्य इत्युक्तम् । प्रीत्यर्थमिति प्रसादस्यात्र मोक्षसाधनत्वाकथनात्पूरितमिति ज्ञातव्यम् । स्वां तनुमित्यस्यैव विवरणम्- अविद्यावृतं स्वरूपमिति ।। जीवस्वरूपमित्यर्थः । एवमुत्तरत्रापीति ।। ‘उत्पत्तिस्थितिसंहाराः’ इति वाक्ये (श्री.टि.) ‘अज्ञानां ज्ञानदः’ इति वाक्ये ‘बन्धको भवपाशेन’ इति वाक्ये चेत्यर्थः । प्रसादं विना मोक्षदातृत्व-ज्ञानदत्वभवपाशमोचकत्वाद्यसम्भवात्तेष्वपि वाक्येष्वर्थात्प्रसादोऽवगम्यत इति ज्ञातव्यमित्यर्थः । उत्पत्तिकर्तृत्वादेः प्रत्येकं लक्षणत्वे सृष्टिकर्तृत्वस्य विरिञ्चे, संहारकर्तृत्वस्य रुद्रे, मोक्षदातृत्वस्य वायौ ‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’ इति वचनात्, अज्ञानबन्धदातृत्वयोर्दुर्गादेव्यामतिव्याप्तिपरिहारार्थमेकराडित्युक्तमित्यर्थः । तथा च स्वातन्त्र्ये सत्युत्पत्तिकर्तृत्वं, स्वतन्त्रत्वे सति संहारकर्तृत्वमित्यादिरूपेण लक्षणस्य विवक्षितत्वान्न विरिञ्चादिष्वतिव्याप्तिरिति भावः । सृष्ट्याद्यष्टकर्तृत्वस्य विशिष्टस्यैव लक्षणत्वेऽतिव्याप्त्यभावात् स्वरूपकथनाय तद्विशेषणमिति ज्ञातव्यम्- अविद्यानिवृत्तिद इति ।। लिङ्गशरीरभङ्गद इत्यर्थः । ‘आनन्ददः’ इति पृथगुक्तत्वा-दिति भावः । शक्तिद इति ।। जीवस्याऽनन्दानुभवस्वरूपत्वेन अनागन्तुकत्वाच्छक्तिद इत्युक्तमिति भावः। ‘भवपाशाच्च मोचकः’ इति पृथगुक्तत्वादाह- अयमेवार्थ इति ।। आनन्दानुभवशक्तिद इत्ययमेवार्थ इत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

युक्तेः पूर्वमेवोक्तत्वात् पुनस्तत्प्रतिज्ञाया वैयर्थ्यमित्यत आह- पुरुषार्थ इत्यादि ।। धर्मादेः प्रयोजनसाधनत्वेऽपि प्रयोजनत्वाभावात् नित्यत्वेन तत्परत्वसिद्धावपि कथं सर्वपुरुषार्थोत्तमत्वसिद्धिरित्यतो धर्मादिशब्दानां लक्षणया स्वर्गादिपरत्वेन धर्मादिपरत्वाभावान्नानुपपत्तिरिति भावेन लक्षणाप्रयोजकीभूतशक्य-सम्बन्धोपदर्शनपूर्वकं तच्छब्दानां लक्षणया तत्परत्वं दर्शयति- धर्मेत्यादिना ।। उच्यते लक्ष्यत इत्यर्थः । तदर्थ-शब्देनैव तादर्थ्यस्योक्तत्वात् न तदर्थायेति चतुर्थ्या किञ्चित्प्रयोजनमित्यतस्तदवैयर्थ्याय प्रकारान्तरेण व्याचश्व्े- स चासावित्यादिना ।। संसारदशायां मोक्षस्य विरुद्धत्वेन असम्भवादपेक्षितं पूरयति- उद्देश्य इतीति ।। ‘वृतु वर्तने इत्यस्य आत्मनेपदित्वात् तस्माल्लटि तस्य शानचि ‘आने मुक्’ इति मुगागमे परिवर्तमानानामिति भवितव्यम्, परिवर्ततामिति परस्मैपदं तु कथमित्यत आह- व्यत्यय इति ।। अयं भावः ‘व्यत्ययो बहुलम्’ इत्यस्मिन् सूत्रे ‘छन्दसि शायजपि’ इति पूर्वसूत्रात् छन्दस्यपीत्यस्य अनुवृत्तौ छन्दसि व्यत्ययो भवति, अपिशब्दाद् यथाप्राप्तं च इत्येतावन्मात्रेण इष्टसिद्ध्या बहुलग्रहणं व्यर्थमित्याशङ्कायाम् ‘बहुलग्रहणं सर्वविधिव्यभिचारार्थम्’ इति वृत्तौ प्रकृताप्रकृतसर्वविधिव्यत्ययलक्षणव्यभिचारार्थत्वं बह्वर्थादानप्रवृत्तिनिमित्तकबहुलग्रहणस्य प्रदर्श्य, तत्सङ्ग्राह्यप्रदर्शनपरतया उदाहृते-

सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च ।

व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ।।’

इति श्लोके उपग्रहशब्देन

य आत्मनेपदाद्भेदः कश्चिदर्थस्य गम्यते ।

अन्यतश्चापि लादेशात् मन्यन्ते तमुपग्रहम् ।।’

इत्युक्त्यनुसारेण स्वार्थत्वपरार्थत्वव्यक्तत्वाव्यक्तत्वरूपक्रियासाधनविशेषस्य मुख्यव्यावृत्त्या प्रतिपादनेऽपि तद्व्यक्तिनिमित्तात्मनेपदपरस्मपैदयोरपि ग्रहणाद् इच्छतीति प्राप्ते ‘सब्रह्मचारिणमिच्छतः’ इत्यादिप्रयोगाणां (पां.टि.) दर्शनाद् युक्तम् अन्यपदित्वेन, लोकसिद्धस्यापि वेदे अन्यपदित्वमित्यर्थस्य सिद्धत्वेन ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति वाक्येन पुराणस्यापि वेदत्वात्, वृतु वर्तन इत्यस्याऽत्मनेपदिनोऽपि लटि शतरि परिवर्ततामिति परस्मैपदम् उपपन्नमिति ।

।। वदतामिति ।। औतवादिनां मीमांसकानां चेति क्रमेण सम्बन्धः । ननु ‘मोक्षश्च विष्णुप्रसादं विना न लभ्यते’ इति उत्तरमूलानुसारेण विष्णुप्रसादादन्येन असाध्यतां साधयन्नाहेत्येव ग्रन्थावतारस्य कर्तव्यत्वाद् विष्णु-प्रसादैकसाध्यतां साधयन्नाहेति कथं ग्रन्थावतार इत्यतो मोक्षश्चेत्यादेरुत्तरग्रन्थस्य न मोक्षस्य भगवत्प्रसादातिरिक्त-साधनसाध्यत्वाभावमात्रप्रतिज्ञात्वम् । तथा सति तदर्थमात्रप्रतिपादकश्रुत्यादेरेवोदाहर्तव्यत्वेन मोक्षस्य भगवत्-प्रसादलभ्यत्वतदन्यालभ्यत्वरूपार्थद्वयोपपादकश्रुत्याद्युदाहरणासङ्गतिप्रसङ्गात्, किन्तु मोक्षस्य भगवत्प्रसाद-साध्यत्वतदन्यालभ्यत्वरूपार्थद्वयविषयकमेवेति युक्त एव मोक्षस्य भगवत्प्रसादैकसाध्यतां साधयन्नाहेति ग्रन्था-वतार इति भावेन उदाहरिष्यमाणप्रमाणानुसारेण मोक्षश्चेत्यादिप्रतिज्ञावाक्यमुभयप्रतिज्ञापरतया व्याचश्व्े- विष्णु-प्रसादेनेत्यादिना ।। तेषामिति वाक्ये प्रसादस्याश्रुतत्वात् कथमुक्तार्थप्रमाणतया उदाहरणमित्यतोऽश्रुतत्वात् प्रसादस्यागमतया तत्र प्रमाणत्वासम्भवेऽपि अन्यथानुपपत्त्या तद्गमकत्वमस्त्येवेति युक्तं तत्र प्रमाणीकरणमिति भावेन अर्थतस्तदवगमं दर्शयति- अहं समुद्धर्ता भवामीत्युक्त इत्यादिना ।। एवमुत्तरत्रापीति ।। उत्पत्तीत्याद्युत्तरवाक्येऽपि प्रसादस्याश्रवणाद् आगमतया तेषामुक्तार्थे प्रमाणत्वासम्भवेऽपि प्रसादं विना मोक्षदातृत्वज्ञानदातृत्वाद्यसम्भवेन प्रसादस्यार्थतो लाभेन अन्यथानुपपत्त्या उक्तार्थोपपादकत्वाद् युक्तं तदुपपादकतया प्रमाणीकरणमिति ज्ञातव्यमित्यर्थः । किं एकराडिति विशेषणेनेत्यत तत्प्रयोजनमाह- विरिञ्चादि-ष्विति ।। समुदितस्य तत्राभावेऽपि व्यर्थविशेषणत्वेन तस्यालक्षणत्वात् लक्षणभूतस्योत्पत्तिकर्तृत्वस्य विरिञ्चे, संहारकर्तृत्वस्य रुद्रे, मोक्षदातृत्वादेश्च वायौ सत्त्वेन तत्र अतिव्याप्तिपरिहारार्थम् एकराडिति विशेषणम् । ततश्च उत्पत्त्यादिकर्तृत्वस्य अन्यत्र सत्त्वेऽपि स्वातन्त्र्येण तदभावात् न तत्रातिव्याप्तिरिति युक्तं तस्य तद्व्यवच्छेदकत्व-मिति भावः । आनन्दद इति आनन्ददातृत्वस्य पृथगुक्तत्वेन तदर्थत्वायोगात् मोक्षद इत्येतद् अविद्यानिवृत्तिदत्व-मात्रपरतया व्याचश्व्े- मोक्षदो अविद्यानिवृत्तिद इति ।। शक्तिद इति ।। आनन्दतदनुभवयोः स्वरूपतया नित्यसिद्धत्वेन तद्दानासम्भवादिति भावः ।। अयमेवेति ।। आनन्दानुभवशक्तिद इत्ययमेवेत्यर्थः ।

लघुप्रभा

(व्या.टि.)

युक्तीति ।। महातात्पर्ययुक्तीत्यर्थः । विषयप्रयोजनैक्येति ।। अर्थैक्यसूत्रादिति भावः । शास्त्रैक्येन विषयप्रयोजनैक्यं प्रसाध्य तदुत्तमत्वेन तदुत्तमत्वं साधयति- सर्वोत्तममिति ।। आयुर्घृतमितिवत् साध्यसाधन-योरभेदोपचारादिति भावेनाऽह- तत्साध्यमिति ।। परस्मैपदं शतेत्यर्थः ।। विष्णुप्रसादेनेति ।। श्रुतौ चिन्तनप्रकारप्रदर्शनाय परमग्रहणं मत्वा व्याचश्व्े- सर्वोत्कृष्टतयेति ।। लभ्यः प्राप्य इति ।। ‘पोरदुपधात्’ इति यत् । अन्यथा ण्यन्तात् ‘अचो यत्’ इति यति नुम्प्रसङ्गादिति भावः । फलितं वा, प्रतीत्यध्याहृत्य ‘यम्’ इत्युपपदविभक्तिं वृणोतेः प्रसादार्थत्वं च मत्वा वाऽऽह- यस्येति ।। स्वशब्दं ब्रह्मपरतया व्याख्याय जीवपरतया (व्या.टि.) व्याख्याति- अविद्याऽवृतमिति ।। अर्थादिति ।। भगवतो वितथशपथाभावादिति भावः । अज्ञानमिति ।। भावरूपमेव । अभावस्याऽवरणरूपत्वानुपपत्तेरिति भावः ।। एकराट् स्वतन्त्र इति ।। असहा-यार्थैकशब्दोपपदाद्राजतेः क्विपि ‘व्रश्च’ इति षत्वे जश्त्वे चर्त्वे च रूपमिति भावः ।। मोक्षदोऽविद्यानिवृत्तिद इति ।। ‘विश्वमायानिवृत्तिः’ इत्युक्तेरिति भावः ।