तद्वशत्वज्ञापनार्थं ..

श्रुतेद्वैतपरत्वपक्षे ब्रह्मविज्ञानेन सर्वविज्ञानस्य कथने हेतुनिरूपणम्

मूलम्

- तद्वशत्वज्ञापनार्थं च ‘सदेव सोम्येदमग्र आसीत्’ इत्यादि सृष्टिकथनम् । एकविज्ञानेन सर्वविज्ञानं च प्राधान्यम् किञ्चित्सादृश्यात् कारणत्वाच्च । न तु तदन्यस्य मिथ्यात्वात् । न हि सत्यज्ञानेन मिथ्याज्ञानं भवति ।

तत्त्वमञ्जरी

सदित्यादिनाऽऽदौ द्वितीयस्याभावः किमर्थमुच्यत इत्यत आह- तद्वशत्वेति ।। इदमग्र अस्मादग्रे । ‘तत् तेजोऽसृजत’ इत्यादिसृष्टिकथनम् । अत्राऽह - ‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति’ इत्येकविज्ञानेन सर्वविज्ञाने प्रतिज्ञाते ‘कथं नु भगवः स आदेशो भवति’ इति श्वेतकेतुना पृश्व् उद्दालको यथा सोम्येति ब्रह्मजगतोः प्रकृतिविकारभावे दृष्टान्तमुक्त्वा वाचारम्भणमित्या-दिना विकारस्य मिथ्यात्वं प्रकृतेः सत्यत्वं चोपदिशति हीत्यत आह- एकेति ।।

टीका 

स्यादेतत् । ‘सर्वं खल्विदं ब्रह्म’ इति सर्वस्य प्रपञ्चस्य ब्रह्मात्मकत्वमुक्त्वा तत्कथमित्या-काङ्क्षायाम् ‘तज्जलानिति शान्त उपासीत’ इति तज्जत्वात् तल्लत्वात् तदनत्वादिति सर्वस्य ब्रह्मोपा-दानकत्वं प्रागुक्तम् । उपादानत्वं च न परिणामित्वेन । निर्विकारित्वश्रुतिविरोधात् । किन्तु जगदारोपाधिष्ठानत्वेन । यथा शुक्तिकाया रजतोपादानत्वम् । तद् जगतो ब्रह्मोपादानत्वं प्रपञ्चयितुं षष्ठस्य पूर्वार्धः प्रवृत्तः । तत्र श्वेतकेतुं प्रत्युद्दालकेन ‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ इत्येकस्य ब्रह्मणो ज्ञानेन सर्वस्य ज्ञानं भवतीत्युक्तम् । तन्न युक्तम् । अन्यज्ञानेनान्यज्ञानस्य क्वाप्यदर्शनादित्यभिप्रायेण ‘कथं नु भगवः स आदेशो भवति’ इति श्वेतकेतुनाऽऽक्षिप्ते कार्यस्योपादानादनन्यत्वान्नानुपपत्तिरित्याशयवतोद्दालकेन मृदादिदृष्टान्तपूर्वकं ब्रह्मणो जगदुपादानत्वं प्रपञ्चयितुं ‘सदेव सोम्येदमग्र आसीत् तदैक्षत तत्तेजोऽसृजत’ इत्यादिना सृष्टिरुक्ता । तथा च ब्रह्मव्यतिरिक्तस्य सर्वजगतो मिथ्यात्वं षष्ठाद्यार्धस्य निश्चितम्    अन्यथा सृष्टिकथनमसङ्गत स्यात् । तत्कथं पूर्वार्धविरुद्धभेदपरत्वमुत्तरार्धस्य व्याख्यायते । किं नाम ‘तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यात्’ इति उक्तस्यार्थस्योपपत्तये सर्वजीवानां ब्रह्मणाभेद एवोत्तरार्धेन प्रतिपाद्यत इति युक्तमिति ।

उच्यते- भवेदुत्तरार्धस्यैक्यपरत्वं भेदपरत्वाभावश्च यदि पूर्वार्धे जगतो मिथ्यात्वमुच्यते । न चैतदस्ति । तत्प्रतिपादकादर्शनात् । ननूक्तं सृष्टिकथनं तत्प्रतिपादकमिति    तदसत्  । स्यादेवं कथञ्चिद् यद्युपादानत्वमत्राभिप्रेतं स्यात् । न चैवम् । ‘तदैक्षत तत्तेजोऽसृजत’ इतीच्छापूर्वक-स्रष्टृत्वस्योक्तत्वात् । न हि मृदादिकं तथा । किन्तु घटादीनां कुलालस्येव निमित्तत्वमेव । एवं सति सृष्टिकथनमसङ्गत स्यात् । निमित्तत्वकथनस्य प्रयोजनाभावादित्यत आह- तद्वशत्वेति ।। चशब्दोऽवधारणे तुशब्दार्थे वा, सृष्टिकथनं तु तद्वशत्वज्ञापनार्थमेवेति । कार्यस्य निमित्तकारण-वशतायाः प्रसिद्धत्वात् । सर्वस्यापि जगतो ब्रह्मवशत्वज्ञापनार्थं निमित्तकारणत्वाभिप्रायेणेदं सृष्टिकथनम् । अतो नासङ्गतमिति ।

ननु जगतो ब्रह्मवशत्वज्ञापनमपि न प्रकृतोपयोगि । एकविज्ञानेन सर्वविज्ञानं हि प्रकृतम् । तदुपपादनार्थं च सृष्टिकथनम् । एकविज्ञानेन सर्वविज्ञानं च ब्रह्मव्यतिरेकेण जगतोऽभावमभि-प्रेत्योक्तम् । अन्यथाऽनुपपत्तेः । तच्चोपादानत्वे ज्ञापिते सिद्ध्यति । न तु तद्वशत्वे ज्ञापित इत्युपादानत्वज्ञापनार्थमेव सृष्टिकथनम् । न तु निमित्तत्वाभिप्रायेण तद्वशत्वज्ञापनार्थमित्यत आह- एकेति ।। एकविज्ञानेन सर्वविज्ञानं च ब्रह्मणो जगत्प्रति प्रधानत्वं, जगता सत्तादिकिञ्चित्सादृश्यं, जगन्निमित्तकारणत्वं च हेतूनभिप्रेत्योक्तम् । न च जगतस्तद्वशत्वेन विना तस्य जगत्प्रति प्राधान्यं सिद्ध्यतीत्यतस्तद्वशत्वज्ञापनार्थं निमित्तकारणत्वाभिप्रायेण सृष्टिकथनं सङ्गतमेव । एतेन कारणत्वहेतुविवरणार्थं च सृष्टिकथनं सङ्गच्छत इति सूचितम् ।

नन्वेकविज्ञानेन सर्वविज्ञानं प्राधान्यादिहेतुकमत्रोक्तमिति कुतः ? हेत्वन्तरस्याभावात् । ननूक्तं जगतो ब्रह्मोपादानकत्वेन ततोऽनन्यत्वमत्र हेतुरिति । तन्न । ब्रह्मोपादानकत्वं हि जगतो न परेण साक्षादङ्गीकृतम् । ‘निष्कलं निष्क्रियं शान्तम्’ इत्यादिश्रुतिविरोधात् । किन्तु मिथ्याभूतजगदारोपस्य ब्रह्माधिष्ठानमिति तदुपादानमुच्यते । ब्रह्माश्रितमायैव तु मुख्यमुपादानम् । तथा च ब्रह्मोपादान-कत्वादित्यस्य ब्रह्मण्यारोपितत्वादित्यर्थः । न चैतस्य ब्रह्मविज्ञानेन सर्वविज्ञानहेतुत्वं सम्भवती-त्याह- न त्विति ।। तदन्यस्य ब्रह्मव्यतिरिक्तस्य मिथ्यात्वाद् ब्रह्मण्यारोपितत्वात् कारणादेक-विज्ञानेन सर्वविज्ञानं तु न सम्भवतीत्यर्थः । कुत इत्यत आह- न हीति ।। अधिष्ठानज्ञानेनाध्यस्तस्य ज्ञानं भवत् क्वापि नोपलब्धम्, येनाधिष्ठानभूतब्रह्मज्ञानेन तत्रारोपितसर्वज्ञानं सम्भावयाम इति ।

भावबोधः

स्यादेव कथञ्चिदिति ।। सृष्टिप्रकरणेन ब्रह्मणि जगदुपादानत्वप्रतिपादनेऽपि जगतो ब्रह्मपरिणामत्वमेव प्राप्नोति न मिथ्यात्वम् । तत्रारोपितत्वमेव तदुपादानत्वमिति विवक्षायां तवापि सृष्टिकथनमसङ्गत स्यादिति भावेन कथञ्चिदित्युक्तम् । चशब्द इति ।। उपलक्षणमेतत् । एतेन कारणत्वहेतुविवरणार्थत्वं चेति वक्ष्यमाण-रीत्याऽनुक्तसमुच्चयार्थश्चेत्यपि द्रष्टव्यम् ।

भावदीपः

तज्जत्वादिति ।। ब्रह्मजातत्वाद्ब्रह्मणि लयवत्त्वाद्ब्रह्मणा चेष्टमानत्वात्तज्जलानित्युच्यते प्रपञ्च इत्यर्थः। प्रागुक्तमिति ।। तत्त्वमसीति नवकृत्वोऽभ्यासात्पूर्वं पञ्चमे उक्तमित्यर्थः । निर्विकारत्वेति ।। ‘निष्कलं निष्क्रियम् एकधैवानुद्रष्टव्यम्’ इत्यादिश्रुतीत्यर्थः । तमादेशमिति ।। आदिश्यत इत्यादेशस्तम् । उपदिश्यमान-मर्थम् अप्राक्ष्यः पृष्टवानभूः किमित्यर्थः    येनेति  ।।  येन ब्रह्मणा श्रुतेन अश्रुतं श्रुतं भवतीत्यादिरर्थः । तथा चेति ।। तज्जलानिति वाक्योक्तस्य सदेव सोम्येत्यादिप्रपञ्चितस्योपादानत्वस्यारोपाधिष्ठानत्वरूपत्वे सतीत्यर्थः । षष्ठाद्यार्धस्येति ।। षष्ठाध्यायगतपूर्वार्धस्येत्यर्थः । ‘तस्मादु हैवम्’ इत्यत्र तस्माद्वैश्वानरज्ञानस्याति-शयितत्वादेवेत्येवकारार्थ उशब्दः । एवंवित् ‘मूर्धैव सुतेजाः’ इत्युक्तप्रकारेण वैश्वानरविदित्यर्थः । इत्युक्त-स्येति ।। पञ्चमान्तोक्तस्यात्मनि वैश्वानर इत्युक्तस्याभेदस्येत्यर्थः । स्यादेवं कथञ्चिदिति ।। उपादानत्वस्य ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिनोक्तारोपाधिष्ठानत्वरूपस्य ज्ञानमध्यस्तज्ञानहेतुर्नेति वा अधिष्ठानत्व-रूपोपादनत्वस्य लोकवेदाप्रसिद्धस्य कल्पनेन पूर्वोत्तरार्धयोर्मिथ्यात्वपरत्वमभेदपरत्वं च स्यादित्यर्थः । शङ्कते- एवं सति सृष्टिकथनमसङ्गत स्यादिति ।। चशब्दस्यार्थद्वयं व्यनक्ति- सृष्टिकथनं त्विति ।। मूले निमित्त-त्वोक्त्यैव कथं तद्वशत्वलाभ इत्यत आह- कार्यस्येति ।। निमित्तेति ।। कर्तृरूपेति योज्यम् । तच्चोपादानत्वं इति ।। आरोपाधिष्ठानत्वरूपोपादानत्व इत्यर्थः । एतेनेति ।। कारणत्वाच्चेति कथनेनेत्यर्थः । कुत इत्यस्योत्तरमाह- हेत्वन्तरस्याभावादिति ।। साक्षादिति ।। परिणामितयेत्यर्थः । अधिष्ठानमितीतिशब्दो हेत्वर्थः । हेतौ पञ्चमीति भावेन मिथ्यात्वादित्यस्यार्थमाह- आरोपितत्वात्कारणादिति ।।

वाक्यार्थदीपिका

(श्री.टि.)

तज्जलानित्यत्र तज्जेत्यस्य व्याख्यानम्- तज्जत्वादिति ।। लेत्यस्य व्याख्यानम्- तल्लत्वादिति ।। तस्मिन् लीयमानत्वादित्यर्थः । अन् इत्यस्यार्थः- तदनत्वादिति ।। तद् ब्रह्म अनं चेष्टकं यस्य तत् तदनं तत्त्वादित्यर्थः । प्रागुक्तमिति ।। पञ्चमप्रपाठक उक्तमित्यर्थः । अन्यज्ञानेनेति ।। न हि घटज्ञानेन पटज्ञानं सम्भवतीत्यर्थः । नानुपपत्तिरिति ।। अन्यज्ञानेनान्यज्ञानस्य क्वाप्यदर्शनादित्यनुपपत्तिर्नास्तीत्यर्थः । मिथ्या-त्वमिति ।। उपादानत्वं प्रतिपादयितुं सृष्टिरुक्ता । उपादानत्वं च आरोपाधिष्ठानत्वम् । तच्च मिथ्यात्वं विना न सम्भवतीत्यर्थः । अन्यथेति ।। सदेव सोम्येत्यादेरारोपाधिष्ठानत्वरूपोपादनत्वप्रतिपादकत्वाभाव इत्यर्थः । उपपत्तय इति ।। चण्डालजीवस्य वैश्वानरपदोक्तब्रह्मणाऽभेदं  विना  चण्डाले  प्रदत्तस्य वैश्वानरे हुतत्वरूपार्थ-स्योपपन्नत्वाभावादिति भावः । उत्तरार्धेनेति ।। तथा च सर्वं खल्विदं ब्रह्मेति पञ्चमपूर्वभागोक्तमिथ्यात्व-प्रतिपादकत्वं षष्ठपूर्वार्धस्य, पञ्चमान्तोक्तार्थविवरणरूपत्वं षष्ठोत्तरार्धस्येति भावः । स्यादेतदेवं कथञ्चि-दिति ।। सृष्टिप्रकरणेन ब्रह्मणो जगदुपादानत्वप्रतिपादनेऽपि भास्कररीत्या जगतो ब्रह्मपरिणामत्वमेव प्राप्नोति न मिथ्यात्वम् । मायिरीत्या तत्रारोपितत्वमेव तदुपादनकत्वमिति विवक्षायां तत्रापि सृष्टिकथनमसङ्गतमेव स्यादिति भावेन कथञ्चिदित्युक्तम् । अत्र पूर्वार्धे । नन्वीक्षापूर्वकस्रश्व्ृत्वस्योक्तावप्युपादानत्वमेव किं न स्यादिति चेन्न । घटाद्युपादाने मृदादावीक्षापूर्वकस्रश्व्ृत्वादर्शनादित्याह- न हीति ।। उपादानत्वमत्राभिप्रेतं न चेत् कीदृशं कारणत्व-मभिप्रेतमिति पृच्छति- किन्त्विति ।। उत्तरमाह- घटादीनामिति ।। चशब्दोऽवधारण इति ।। एतेन, कारणत्वहेतुविवरणार्थं च सृष्टिकथनमिति वक्ष्यमाणरीत्याऽनुक्तकारणत्वसमुच्चयार्थश्चेति ज्ञातव्यम् । तदुभयं दर्शयति- सृष्टिकथनन्त्विति ।। अन्यथेति ।। जगतो ब्रह्मव्यतिरेकेण सत्त्व इत्यर्थः । अन्यज्ञानेनान्यज्ञानस्य क्वाप्यदर्शनादिति भावः । तच्चेति ।। एकविज्ञानेन सर्वविज्ञानं चेत्यर्थः । उपादानत्वे ज्ञापित इति ।। कार्यस्य (श्री.टि.) कारणानन्यत्वेन तद्विज्ञानेन तद्विज्ञानसम्भवादिति भावः । एतेनेति ।। एकविज्ञानेन सर्वविज्ञाने कारणत्वस्य निमित्तत्वकथनेनेत्यर्थः । उत्तरमाह- हेत्वन्तरेति ।। अत्र एकविज्ञानेन सर्वविज्ञाने । साक्षा-दिति ।। तत्परिणामतयेत्यर्थः । श्रुतिविरोधादिति ।। निष्कलमित्यादिनिर्विकारत्वश्रुतिविरोधादित्यर्थः । ननु तत्परिणामित्वरूपं  मुख्यमेवोपादानत्वं  किं    स्यात्  किं तदारोपाधिष्ठानत्वकथनेनेत्यत आह- ब्रह्मा-श्रितेति ।। मायैवेति ।। न तु ब्रह्मेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

स्यादेतदेवं कथञ्चिदिति ।। सृष्टिप्रकरणेन ब्रह्मणो जगदुपादानत्वप्रतिपादनेऽपि जगतो ब्रह्म-परिणामत्वप्राप्तावपि न मिथ्यात्वप्राप्तिरिति भावेन कथञ्चिदित्युक्तम् । तुशब्दार्थो वेति ।। वाशब्दस्तुशब्दार्थश्चेति चशब्दार्थः । अत एवोभयार्थत्वाश्रयणेनैव लब्धवाक्यार्थप्रदर्शनमुत्तरत्र टीकायां विवक्षितमिति द्रष्टव्यम् । ननु जगत्प्रति ब्रह्मण आरोपाधिष्ठानत्वमेव उपादानत्वं चेत् तर्हि जगत्सृष्ट्यनुपपत्तिः, तत्प्रति विकारिणोऽन्यस्या-भावादित्यत आह- ब्रह्माश्रितेति ।।

लघुप्रभा

(व्या.टि.)

पूर्वप्रक्रमासङ्गत्या नाद्वैतं श्रुत्यर्थ इत्युक्ते, ततोऽपि प्रक्रमासङ्गत्या तद्विरोधेन च न द्वैतं श्रुत्यर्थ इति शङ्कते- स्यादेतदित्यादिना ।। तज्जलानित्यस्य परकीयव्याख्यानं दूषयितुमनुवदति- तज्जत्वादित्यादिना ।। विश्वं तज्जलानिति क्विबन्तम् । ततो जायत इति तज्जं, तत्र लीयत इति तल्लं, ततोऽनितीति तदन् इति । तदधि-ष्ठितोत्पत्तिलयचेष्टादिमत्त्वात्तदुपादानकमित्यर्थः । पूर्वार्ध इति विषमांशत्वात्पुंलिङ्गः । ‘अर्धं समेऽशके’ इत्यभि-धानात् । अप्राक्ष्य इति लृङन्तेन तथा प्रश्नाकरणेनाकौशलं सूचयति । अनन्यत्वादिति ।। तद्व्यतिरेकेणा-भावादित्यर्थः । अन्यथेति ।। उपादानत्वानभिसन्धाने इत्यर्थः । निगमयति- तत्कथमिति ।। उक्तस्येति ।। चण्डालात्मवैश्वानराभेदस्येत्यर्थः । यद्यप्युपक्रमादुपसंहारस्य प्राबल्याविरोधी परानुरोधो न्याय्य इत्युक्तं स्मार-यितव्यम् । तथापि तच्छिष्यैरेवोह्यतामित्यनुशयानो विरोध एवात्र नास्तीत्याह- भवेदित्यादिना ।। किं मिथ्यात्वे पदं प्रमाणं वाक्यं वा । नाऽद्य इत्याह- तत्प्रतिपादकेति ।। पदस्येत्यर्थः । द्वितीयं शङ्कते- नन्विति ।। वाक्यार्थतयाऽपि तस्याप्रतीतेराह- कथञ्चिदिति ।। उक्तत्वादिति हेतोरप्रसिद्धिपरिहाराय । अनेन न सदुपादानम् ईक्षापूर्वकस्रष्टृत्वात् कुलालवदित्यनुमानमनुसंहितम् । अस्य व्यतिरेकव्यभिचारं वारयति- न हीति ।। निमित्तत्व-मेवेत्युपसंहारेण तदपि साध्यीकरणीयमिति सूचयति । प्रत्यवतिष्ठते- एवं सतीति ।। चशब्देनोक्तानुमतिप्रतीते-राह- चशब्द इति ।। तथाऽर्थत्वेऽन्वयं दर्शयति- कथनं त्विति ।। निमित्तकारणेति ।। कर्त्रित्यर्थः । प्रसिद्ध-त्वादिति ।। लोक इति शेषः । परमप्रक्रमासङ्गतिं शङ्कते- नन्विति ।। अभिप्राये किं मानमित्यतः सर्वतोऽनुप-पत्तिर्बलीयसीत्याह- अन्यथेति ।। प्रधानत्वमित्यादित्रितयं हेतूनित्येकशेषवृत्तिविग्रहप्रदर्शकम् । नन्वेकविज्ञानेन सर्वविज्ञानस्य प्राधान्यहेतुकत्वे ग्रन्थान्तर इव प्राधान्यज्ञापनार्थमेव सृष्ट्यादिकथनमिति वक्तव्यम् । तद्वशत्व-ज्ञापनार्थमिति तु कुत इत्यत आह- न चेति ।। तदविनाभूतत्वात्तदर्थमेव तद्दानमिति भावः । हेत्वन्तर-विवरणमप्यस्य फलिष्यतीत्यतिदिशति- एतेनेति ।। सङ्गच्छत इति ।। ‘समो गम्यृच्छिभ्याम्’ इत्यात्मने-(व्या.टि.) पदम् । तस्यापि तद्वशत्वज्ञापनार्थत्वादिति भावः । साक्षादिति ।। परिणामित्वेनेत्यर्थः । मुख्य-मिति ।। मायामयत्वश्रुतेरिति भावः । सम्भावयाम इति ।। दृष्टान्तस्य सम्भावकत्वादित्यर्थः ।