सर्वशब्दावाच्यस्य ..
मायावादिमते ब्रह्मणः सर्वप्रमाणाज्ञेयत्वापातेन शून्यत्वापादनम्
मूलम्
- सर्वशब्दावाच्यस्य लक्षणाऽपि न दृष्टेति न तस्य शास्त्रगम्यत्वम् । अतोऽ-वाच्यत्वादज्ञेयत्वाच्छून्यमेव तदिति प्राप्तम् । नच स्वेनापि ज्ञेयत्वं तैरुच्यते । कर्तृ-कर्म्मविरोध इति हि ते वदन्ति ।।
तत्त्वमञ्जरी
एकमेवाद्वितीयमित्यभिन्नं ब्रह्म शास्त्रगम्यं हीत्यत आह - सर्वशब्देति ।। नहि शास्त्रेणा-वाच्यं शास्त्रगम्यम् । तल्लक्ष्यते परन्नोच्यत इति चेत् । मैवम् । सर्वशब्दावाच्यस्य लक्षणापि न युक्ता हि । पुरुषादिशब्दैरुच्यमाना हि लोके ‘मञ्चाः क्रोशन्ति’ इत्यादिमञ्चादिशब्दैर्लक्ष्यन्ते । सर्वप्रमाणविरुद्धत्वस्य मुहुरुपन्यासः तात्पर्यार्थः प्रमेयान्तरानुसन्धानार्थो वा । तथाचोक्त-मनुव्याख्या-याम्- मानमेयविशेषेण पुनरुक्तिर्न जायत इति । मनोवाचामगोचरं हि शून्यवादी च शून्यं मन्यते । ननु ज्ञानात्मकं हि वयं ब्रह्म ब्रूमः । कथं तस्य शून्यत्वमित्यत आह - नच स्वेनेति ।। यथा स्वस्य स्वस्कन्धारोहणे तथा सर्वत्रापि कर्तुः कर्मत्वे अनुभवविरोध इति हि ते वदन्ति ।
टीका
किञ्चाभेदे श्रुतीनां तात्पर्यमभिलषता मायावादिना वक्तव्यम्- किमभेदो ब्रह्म-स्वरूपम् उत ततोऽन्यः । आद्ये ब्रह्मण्येव तदङ्गीकृतं भवति । श्रुतिगम्यत्वे सति पश्चात्तत्र तात्पर्यं चिन्त्यम् । शब्देन ह्यर्थे प्रतिपादिते किमयमन्यार्थं प्रतिपाद्यते, किं वा स्वप्रधान इति चिन्ता-वसरः । नच ब्रह्मणः श्रुतिगम्यत्वं, दूरे तत्र श्रुतीनां तात्पर्यम् । तथा हि- ब्रह्म किं वाक्यार्थः स्यात् पदार्थो वा । नाऽद्यः । असंसर्गभेदरूपत्वात्, तयोरेव वाक्यार्थत्वात् । द्वितीये किं तत्र वचनवृत्तिः, उत लक्षणा, अथ गौणी । नाऽद्यः । चतुष्टयी हि वाचकानां शब्दानां गतिः । जातिशब्दाः गुणशब्दाः क्रियाशब्दाः द्रव्यशब्दाश्चेति । तत्र जातिनिमित्ताः शब्दाः यथा ब्राह्मण इति । गुणनिमित्ताः यथा शुक्लो दण्डीति । क्रियानिमित्ताः यथा पाचक इति । द्रव्यशब्दा यदृच्छानिमित्ता यथा डित्थ इति । तत्र तावदाद्यं प्रकारत्रयं न ब्रह्मणि सम्भवति । जातिगुणक्रियारहितत्वाङ्गीकारात् । वैदिकपदाना-मसाङ्केतिकत्वान्न चतुर्थोऽपि प्रकारः । ततः सर्वशब्दावाच्यं ब्रह्मेति स्थितम् । अत एव न तत्र पदानां गौणी वृत्तिः । तस्या गुणयोगनिमित्तत्वात् । तर्हि द्वितीय एव पक्षोऽस्त्वित्यत आह- सर्व-शब्देति ।। तीरादिशब्देन वाच्यमेव गङ्गादिपदलक्ष्यं दृष्टम् । नतु केनापि शब्देनावाच्यस्य लक्षणा क्वापि दृष्टा । अतः केनापि शब्देनावाच्यत्वाद् ब्रह्मणो लक्ष्यत्वमपि नास्ति । तथाचापदार्थत्वाद-वाक्यार्थत्वाच्च न तस्य श्रुतिगम्यत्वम् । दूरे तत्र तात्पर्यमिति ।
किञ्च सति ब्रह्मणि तत्र श्रुतितात्पर्यचिन्ता । तदेव तु नास्ति प्रमाणाभावात् । प्रमाणा-धीनत्वाद्वस्तुसत्ताङ्गीकारस्येत्याह- अत इति ।। उक्ताद्धेतोर्ब्रह्मणोऽवाच्यत्वात्तत एव लक्षणाद्य-सम्भवात्तत एवावाक्यार्थत्वाच्चेत्यागमनिरासः । एवं रूपादिरहितत्वात् तत्प्रतिबद्धलिङ्गाभावाच्चेति प्रत्यक्षानुमाननिरासोऽपि द्रष्टव्यः । अज्ञेयत्वादिति प्रमाणत्रितयनिरासे सामान्ययुक्तिः । ज्ञेयत्वाङ्गीकारे जडत्वापातः, तथा परेणाङ्गीकृतत्वात् । शून्यमेव असदेव ।
नन्ववाच्यत्वाद् ब्रह्मणो यदलक्ष्यत्वमुक्तं तदयुक्तम् । लक्षणायां वाच्यत्वस्योपयोगाभावात् । वाच्यार्थसम्बन्धित्वेन प्रसिद्धिरेव हि लक्षणाबीजम् । अस्ति च सा ब्रह्मणि स्वप्रकाशत्वात् । नच विपक्षे बाधकाद्विना व्यभिचारादर्शनेनैव व्याप्तिनिश्चयः । पक्ष एव व्यभिचारशङ्कनात् । अतो लक्ष्यत्वसम्भवान्न तस्य शास्त्रगम्यत्वाभावः । अत एव न शून्यत्वमपि । लक्षणासम्भवेन शास्त्रसिद्धत्वात् । वस्तुतः सर्वप्रमाणातीतत्वेऽपि स्वप्रकाशतया सिद्धत्वादिति । उच्यते-किमिदं स्वप्रकाशत्वम् । किं स्वेन ज्ञेयत्वमुतान्येनाज्ञेयत्वम् । नाऽद्यः । अपसिद्धान्तापातादित्याह- न चेति ।। अपिपदेन द्वितीयपक्षदूषणं समुच्चिनोति । प्रमाणाभावादसिद्धौ चोदितायामन्येनाज्ञेयत्वात् सिद्धमित्यनुत्तरं, सिद्ध्युपायस्यानुपन्यस्तत्वात् । अन्यथा शशविषाणादीनामपि सिद्धिप्रसङ्गा-दिति । अङ्गीकारवादश्चायं लक्ष्यत्वे वाच्यत्वोपयोगस्यान्यत्र समर्थितत्वात् ।
ब्रह्मणः स्वेन ज्ञेयत्वं कुतस्तैर्नोच्यत इत्यत आह- कर्तृकर्मेति ।। द्वावपि शब्दौ भावप्रधानौ । कर्तृत्वकर्मत्वयोः विरोधादेकाश्रयत्वं न युज्यते । स्वज्ञेयत्वे च एकस्यामेव ज्ञानक्रियायां ब्रह्मणो ज्ञातृत्वं ज्ञेयत्वं चाऽपद्यत इति विरोधभयान्न स्वेन ज्ञेयत्वं तैरुच्यते । तैरित्यादिबहुवचनेन बहूनां वादिनामेवमभ्युपगम इति सूचयति ।
ननु युक्तमेवैतद्वचनम् । तत्किं तैरित्यादिनेति चेत् । किं कर्तृत्वकर्मत्वयोर्लक्षणविरोधादसमा-वेशोऽङ्गीक्रियत उत परस्परपरिहारेण वृत्तेर्नियमेन दर्शनात् । नाऽद्यः । क्रियाश्रयः कर्ता, क्रियाविषयः कर्मेति लक्षणसम्भवेन परसमवेतक्रियाफलशालि कर्मेत्यादिलक्षणस्याग्राह्यत्वात् । न द्वितीयः । ‘स्वाध्यायोऽध्येतव्यः’ इति विधेः स्वाध्ययनविधायकत्वदर्शनात् । शब्दशब्दस्य स्ववाचकत्वोप-लम्भात् । घटादिशब्दानामपि स्वरूपपदार्थकत्वप्रतीतेः । तत्र भिन्नकर्मणि सति स्वकर्मकत्वं, न केवलं स्वकर्मकत्वमिति चेन्न । कर्तृकर्माभेदस्यापरिहारात् । एकदेशः कर्ता, समुदायः कर्मेति भेदोऽस्तीति चेन्न । १घटशब्दस्य स्वव्यतिरिक्तवाच्यादर्शनात् । देवदत्तो ग्रामं गच्छतीत्यादौ कर्तृकर्मणोः प्रत्यक्पराग्भावदर्शनात् कथमैक्यमिति चेत् परिस्पन्दरूपासु क्रियास्वेवं न सर्वत्रेत्यलम् ।।
भावबोधः
असंसर्गभेदरूपत्वादिति ।। संसर्गभेदरूपत्वाभावादित्यर्थः । लक्षणाऽपीत्यपिपदाभिप्रायमाह- नाऽद्य इत्यादिना ।। तस्या गुणयोगनिमित्तत्वादित्यन्तेन ।। ननु शून्यवादिभिः शून्यस्य तत्त्वरूपताङ्गी-कारात्तद्भावे कथमप्रामाणिकत्वं हेतुरित्यतो व्याचश्व्े- असदेवेति ।। ननु ‘सिद्धं तु निवर्तकत्वात्’ इति वदता त्वया शास्त्रस्याऽवरणनिवृत्तिप्रयोजनकत्वमेवाङ्गीकृतम् । न ब्रह्मसिद्धिकरणत्वम् । तथा च कथं शास्त्रसिद्धत्वाद् इत्युच्यते इत्यस्वरसादाह- वस्तुत इति ।। न चैवं शास्त्रवैयर्थ्यम् । आवरणनिवर्तकत्वेन सार्थकत्वादिति भावः । सिद्धिप्रसङ्गादिति द्वितीयपक्षदूषणमिति दूषणान्वयः । स्वरूपपदार्थकत्वेति ।। स्वाख्यपदवाच्यत्व-प्रतीतेरित्यर्थः । ‘स्वाध्यायोऽध्येतव्यः’ इत्यत्र ‘शब्दशब्दस्य’ इत्यत्र च परिहारं शङ्कते- तत्र भिन्ने कर्म-णीति ।। अत एवाऽह- घटशब्दस्येति ।। घटपटसमुदायानात्मकत्वादित्यर्थः ।
भावदीपः
परिष्कारपूर्वमुत्तरवाक्यमवतारयति- किञ्चाभेद इत्यादिना ।। अस्तु को दोष इत्यत आह-श्रुति-गम्यत्व इति ।। न च ब्रह्मणः श्रुतिगम्यत्वमित्यनेनास्यान्वयः । नाऽद्य इति ।। तदुपपादनम्- असंसर्गेति ।। क्रियाकारकभावादिरूपसंसर्गो वा, घटः पटो नेत्यादिभेदरूपो वा वाक्यार्थः, तदुभयरूपत्वाभावादित्यर्थः । द्रव्यनिमित्तका इति ।। साङ्केतिका इत्यर्थः । तेषां द्रव्यस्वरूपमात्रनिमित्तकत्वात् । शून्यमेवेत्यनुवादः । असदेवेति व्याख्या । समुच्चिनोतीत्युक्तं व्यनक्ति- प्रमाणाभावादसिद्धाविति ।। अङ्गीकारवादश्चायमिति ।। लक्ष्यत्वे वाच्यत्वमनुपयुक्तं, स्वप्रकाशत्वेन प्रसिद्धे तत्र लक्षणा युक्तेत्येतदङ्गीकारवाद इत्यर्थः । अन्यत्र भाष्यानु-भाष्ययोरीक्षतिनये । लक्षणविरोधादिति ।। परसमवेतक्रियाफलशालित्वं कर्मत्वम्, तादृशक्रियाश्रयत्वं कर्तृत्वमिति हि तल्लक्षणम् । एकस्यैव कर्तृत्वकर्मत्वयोरुपगमे परसमवेतेत्यस्याभावादिति भावः । क्रियाश्रय इति ।। ग्रामं गच्छति चैत्र इत्यादौ तथा दर्शनादिति भावः । स्वाध्याय इति ।। क्रमविशेषविशिष्टवर्णराशिर्हि स्वाध्यायः । स चाध्येतव्यः, गुरूच्चारणानूच्चारणरूपाध्ययनविषयः कार्य इति विधिः, सर्वस्वाध्यायाध्ययनं विदधत् स्वाध्यायत्वेन स्वात्मनोऽध्ययनं विदधातीत्येकस्यैव कर्तृत्वं कर्मत्वं च दृष्टम् । घटेत्यादिशब्दानां घोत्तरटादिवर्णमालारूपस्वात्मवाचित्वं दृष्टमिति न नियमेन तयोरन्योन्यपरिहारेण वर्तनमित्यर्थः । तत्रेति ।। स्वाध्यायाध्ययनविधौ केवलस्य कर्तृत्वम् । इतरस्वाध्यायराशिसहितस्य स्वस्य कर्मता, ब्रह्मणि तु केवलस्य कर्तृत्वं कर्मत्वमिति वैषम्यमिति भावः ।।
वाक्यार्थदीपिका
(श्री.टि.)
ब्रह्मण्येवेति ।। अभेदस्य ब्रह्मस्वरूपत्वाङ्गीकारे अभेदे श्रुतितात्पर्याङ्गीकारे ब्रह्मण्येव श्रुति-तात्पर्यमङ्गीकृतं भवतीत्यर्थः । अस्त्विति चेत्तत्राऽह- श्रुतिगम्यत्वे सतीति ।। आदौ ब्रह्मणः श्रुतिगम्यत्वे सिद्धे सतीत्यर्थः । तदुपपादयति- शब्देन हीति ।। अन्यार्थम् अन्यशेषत्वेन अप्राधान्येनेति यावत् । चिन्ते-ति ।। तात्पर्यचिन्तेत्यर्थः । अस्तु ब्रह्मणः श्रुतिगम्यत्वं को दोष इत्यत आह- न चेति ।। न हीत्यर्थः । कुतो ब्रह्मणः श्रुतिगम्यत्वं नास्तीत्यतस्तदुपपादयति- तथा हीत्यादिना ।। असंसर्गभेदरूपत्वादिति ।। संसर्गभेद-रूपत्वाभावादित्यर्थः । तयोरेवेति ।। संसर्गभेदयोरेवेत्यर्थः । नीलोत्पलमित्यादिकर्मधारयस्थले संसर्गो वाक्यार्थः। धवखदिरावित्यादिद्वन्द्वस्थले भेदो वाक्यार्थ इति द्रष्टव्यम् । द्वितीये किं तत्र वचनवृत्तिरथ गौणीति विकल्प्य नाऽद्य इत्यादिना तस्याः गुणयोगनिमित्तत्वादित्यन्तेन तन्निराकरणं मूले लक्षणाऽपीत्यपिशब्दसमुच्चेयकथन-मिति द्रष्टव्यम् । गतिः स्थितिः । जातिशब्दा इत्यादिकं जातिनिमित्तकाः शब्दा इत्यादि व्याख्येयम् । ब्राह्मण इतीति ।। ब्राह्मणशब्दप्रवृत्तौ ब्राह्मणत्वजातिर्निमित्तमित्यर्थः । शुक्ल इति ।। दण्डी देवदत्तः शुक्लः । मतुपो लोपेन अर्श आद्यजन्तत्वेन वा शुक्लरूपवानित्यर्थः । तथाच दण्डिनि शुक्लशब्दप्रवृत्तौ शुक्लरूपगुणो निमित्तमि-त्यर्थः । पाचक इतीति ।। देवदत्ते पाचकशब्दप्रवृत्तौ पचनक्रिया निमित्तमित्यर्थः । द्रव्यशब्दा इत्येतत्स्वयमेव विवृणोति- यदृच्छानिमित्ता इति ।। अस्माच्छब्दादयमर्थो बोद्धव्य इति सङ्केतः इच्छा, तन्निमित्तकाः । द्रव्ये पुत्रादौ पित्रादीनां सङ्केतेन प्रवर्तमानाः शब्दाः द्रव्यशब्दाः । साङ्केतिका डित्थडिबित्थादिशब्दा इत्यर्थः ।
असाङ्केतिकत्वादिति ।। वाच्यवाचकभावसम्बन्धस्यानादित्वेन साङ्केतिकत्वाभावादित्यर्थः । वैदिकानां पदानामधुनातनास्तावन्न सङ्केतयितार इति परस्यापि सिद्धम् । परमेश्वरोऽप्यनादितो विद्यमानमेव वाच्यवाचक-भावसम्बन्धमादिकाले महर्ष्यादीन् ज्ञापयतीत्यन्यत्र निपुणतरमुपपादितमनुसन्धेयम् । यथोक्तमनुव्याख्याने-‘नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिध्यते’ इति । उक्तं च जैमिनिना-‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इत्यादि । औत्पत्तिकः स्वाभाविक इत्यर्थः । अत एवेति ।। प्रवृत्तिनिमित्तधर्मशून्यत्वेन सर्वशब्दावाच्यत्वादेवे-त्यर्थः । तदेव विवृणोति- तस्या गुणयोगेति ।। सिंहो देवदत्तः, अग्निर्माणवक इत्यत्र सिंहाग्निशब्दाभ्यां तत्रत्यक्रौर्यपैङ्गल्यादिगुणानुपलक्ष्य तद्योगेन निमित्तेन देवदत्ते माणवके च सिंहाग्निशब्दयोः प्रवृत्तिरिति गौणी-वृत्तेर्गुणयोगनिमित्वादित्यर्थः । ‘लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता’ इति गौणीवृत्तेर्लक्षितत्वादिति भावः। लक्ष्यत्वमपि नास्तीति ।। तथा च ब्रह्म न लक्ष्यं केनापि पदेनावाच्यत्वाद्वैधर्म्येण तीरवदित्यनुमानं सूचितं भवतीति ज्ञेयम् । तथा चेति ।। वचनवृत्त्याद्यसम्भवेनापदार्थत्वात्संसर्गभेदरूपत्वाभावेनावाक्यार्थत्वाच्चेत्यर्थः। उक्ताद्धेतोरिति ।। प्रवृत्तिनिमित्तभूतजात्यादिधर्माभावरूपाद्धेतोरित्यर्थः । तत एव अवाच्यत्वादेव । आदिपदेन गौणीवृत्तिग्रहणम् । अनेनापदार्थत्वमुपपादितमिति ज्ञातव्यम् । तत्प्रतिबद्धेति ।। तद्व्याप्तेत्यर्थः । निर्धर्मकत्वेन तदनुमापकासाधारणधर्माभावादिति भावः । ननूक्तरीत्या प्रमाणत्रितयनिरासस्य जातत्वादज्ञेयत्वादिति व्यर्थमित्यत आह- अज्ञेयत्वादिति ।। सामान्ययुक्तिरिति ।। प्रमाणत्रयस्य यथावत्स्थितार्थज्ञानजनकत्व-(श्री.टि.) स्वाभाव्याद्, ब्रह्मणश्च त्वयाऽज्ञेयत्वाङ्कीकारान्न प्रमाणत्रयस्यापि तत्र प्रवृत्तिरिति सामान्ययुक्तिरि-त्यर्थः । ननु जडत्वापात इति कुत इत्यत आह- तथेति ।। ज्ञेयत्वं नाम दृश्यत्वं तच्च जडस्यैव, न चेतनस्य ब्रह्मण इत्यङ्गीकृतम् । तथात्वे मिथ्यात्वसाधकदृश्यत्वहेतोर्ब्रह्मणि व्यभिचारः स्यादित्याशयः । ननु शून्यवादिभिः शून्यस्य तत्त्वरूपत्वेन प्रामाणिकत्वाङ्गीकाराच्छून्यत्वे कथमप्रामाणिकत्वं हेतुरित्यतः शून्यपदं व्याचश्व्े-असदे-वेति ।।
ब्रह्म न लक्ष्यम् अवाच्यत्वादित्यभिप्रेतानुमानेऽप्रयोजकतामाशङ्कते- नन्वित्यादिना ।। ननु अवाच्यत्व-लक्ष्यत्वाभावयोर्व्यभिचारादर्शनेन व्याप्तिनिश्चयोपपत्तेर्नाप्रयोजकतेति चेत्तत्राऽह- न च विपक्ष इति ।। अवाच्य-स्यापि लक्ष्यत्वमस्त्वित्यप्रयोजकतायां विपक्षे बाधकतर्को वक्तव्यः । तं विना केवलव्यभिचारादर्शनमात्रेणैव न व्याप्तिनिश्चय इत्यर्थः । ननु कुतस्तन्मात्रेणैव न व्याप्तिनिश्चय इत्यत आह- पक्ष एवेति ।। अनुकूलतर्काभाव-दशायां सर्वशब्दावाच्यस्य ब्रह्मण एव लक्ष्यत्वमस्त्विति पक्ष एव व्यभिचारशङ्कनादप्रयोजकताशङ्कनादित्यर्थः । अत इति ।। विपक्षे बाधकाभावेनानुमानस्याप्रयोजकत्वादित्यर्थः । शून्यत्त्वम् असत्त्वम् । अत एवेत्युक्तं दर्शयति- लक्षणेति ।। लक्षणया शास्त्रगम्यत्वसम्भवेन प्रामाणिकत्वान्न ब्रह्मणोऽसत्त्वमित्यर्थः । ननु ‘सिद्धं तु निवर्तकत्वाद्’ इति वदता त्वया शास्त्रस्याऽवरणनिवृत्तिप्रयोजकत्वमेवाङ्गीकृतं, न ब्रह्मसिद्धिकरणत्वं तथा च कथं शास्त्रसिद्धत्वादित्युच्यत इत्यस्वारस्यादाह- वस्तुत इति ।। न चैवं शास्त्रवैयर्थ्यम् आवरणनिवर्तकत्वेन सार्थकत्वादिति भावः । असिद्धौ ब्रह्मणः सिद्ध्यभावे । सिद्ध्युपायस्येति ।। सिद्धिकरणस्य प्रमाणस्येत्यर्थः। अन्यथेति ।। सिद्ध्युपायाभावेऽपि स्वप्रकाशतया सिद्ध्यङ्गीकार इत्यर्थः । सिद्धिप्रसङ्गादिति ।। द्वितीयपक्ष-दूषणमित्यन्वयः । अङ्गीकारवादश्चायमिति ।। वाच्यत्वं लक्षणायां नोपयोगि, किं नाम वाच्यार्थसम्बन्धित्वेन प्रसिद्धिरेव । अस्ति च सा प्रकृते स्वप्रकाशत्वादिति परेण चोदिते तदङ्गीकृत्य स्वप्रकाशत्वनिरासो यो नचेति वाक्येन कृतः सोऽङ्गीकारवाद इत्यर्थः । वस्तुतस्तु कथमित्यत आह- लक्ष्यत्व इति ।। अन्यत्रेति ।।
ननु वाच्यत्वं लक्षणायां कथमुपयोगीत्याशङ्क्य ‘किं प्रयोजकान्तरमाशङ्कसे प्रयोजकत्वप्रकारमेव वा पृच्छसि’ इत्यादिना तत्त्वप्रकाशिकायां समर्थितत्वादित्यर्थः । तथा हि, शब्दावाच्यस्यापि लक्षणाङ्गीकारे किं लक्ष्यमिति प्रश्नस्य निरुत्तरत्वं स्यात् । न च ब्रह्मैवेति ब्रह्मपदमेव वक्तुं युक्तम् । न हि गङ्गापदेन किं लक्ष्यमिति प्रश्नस्य गङ्गै-वोत्युत्तरम् । अथ तत्र पदान्तरम् । तेनापि किं लक्ष्यमिति प्रश्नस्य निरुत्तरत्वात् । अथ किञ्चित्पदमस्ति वाचकमिति चेत्तर्हि किं पदान्तरेणापराद्धम् । यथोक्तम्-‘किं तदित्यनवस्थितिः’ इति । तस्मादवाच्यत्वे लक्ष्यार्थोप-स्थितेरेवायोगेन लक्षणा न सम्भवति । न च स्वप्रकाशत्वात्तदुपस्थितिरिति वाच्यम् । अवेद्यत्वं स्वप्रकाशत्व-मित्यङ्गीकारादवेद्यत्वात्तदुपस्थितिरिति साधु भाषितमायुष्मतेति वाच्यत्वस्य लक्ष्यत्वे उपयोगसिद्धिरिति ।
द्वावपीति ।। कर्तृकर्मशब्दावित्यर्थः । एवमभ्युपगम इति ।। कर्तृत्वकर्मत्वयोर्विरोधेनैकाश्रयत्वं नास्तीत्य-(श्री.टि.) भ्युपगम इत्यर्थः । एतद्वचनमिति ।। कर्तृत्वकर्मत्वयोर्विरोधेनैकत्रासमावेशकथनमित्यर्थः । इत्यादि-नेत्यादिपदेन ते वदन्तीत्यस्य सङ्ग्रहः । लक्षणविरोधादिति ।। क्रियाश्रयः कर्ता, परसमवेतक्रियाफलशालि कर्म । कर्तर्यतिव्याप्तिवारणाय परसमवेतेत्युक्तम् । कर्त्रन्यसमवेतेति तदर्थः । न चैवमात्माश्रयः । कर्त्रन्यत्वे सतीत्यत्र तात्पर्यात् । एवं च कर्तृत्वकर्मत्वलक्षणयोर्विरुद्धत्वात् कर्तृत्वकर्मत्वयोर्नैकत्र समावेश इति भावः । उतेत्यत्रापि कर्तृत्वकर्मत्वयोरिति वर्तते । स्वाध्ययनेति ।। ‘स्वाध्यायोऽध्येतव्यः’ इति वाक्यं स्वाध्यायत्वा-वच्छिन्नस्याध्ययनं विधत्ते । तथा च विधायकत्वेन कर्तृत्वं प्राप्तम् । स्वाध्यायत्वावच्छिन्नस्य कर्मत्वविधायकस्यापि वाक्यस्य स्वाध्यायत्वावच्छिन्नत्वेनाध्ययनकर्मत्वप्राप्त्या कर्तृत्वकर्मत्वयोरेकत्र समावेशो दृष्ट इत्यर्थः । शब्दशब्द-स्येति ।। अयं शब्द इति वाक्ये शब्दत्वावच्छिन्नशब्दस्य वाच्यत्वमेकस्यास्य शब्दस्य वाचकत्वं प्रतीयते । तथा च वाचकशब्दस्यापि शब्दत्वावच्छिन्नतया वाच्यत्वप्राप्त्या कर्तृत्वकर्मत्वयोरेकत्र समावेशः प्राप्त एवेत्यर्थः । स्वरूपपदार्थकत्वेति ।। स्वाख्यो यः पदार्थस्तदर्थकत्वेत्यर्थः । ‘स्वं रूपं शब्दस्याशब्दसञ्ज्ञा’ इति सूत्रम् । शब्दस्य स्वं स्वयमपि रूपमभिधेयमिति तदर्थः । एवं च घटशब्दस्य घटरूपार्थ-घटशब्दोभयवाचकत्वेन यदा स्ववाचकत्वं तदा कर्तृत्वकर्मत्वयोरस्ति समावेश इति भावः ।
स्वाध्यायोऽध्येतव्य इत्यत्र, शब्दशब्दस्येत्यत्र परिहारं शङ्कते- तत्र भिन्ने कर्मणि सतीति ।। कर्तृभूतविधि-वाक्यादिव्यतिरिक्ते कर्मणि सतीत्यर्थः । तथा च स्वाध्यायोऽध्येतव्यः, अयं शब्द इत्युभयत्र स्वभिन्नकर्मकत्वं स्वकर्मकत्वं चेत्युभयकर्मकत्वमस्ति न केवलं स्वकर्मत्वमिति भावः । कर्तृकर्माभेदस्येति ।। उभयकर्मत्वेन यदा स्वकर्मकत्वं प्राप्तं तदा कर्तृकर्मणोरभेदप्राप्त्या कर्तृत्वकर्मत्वयोरेकत्र समावेशः प्राप्त एवेति भावः । ‘स्वाध्यायोऽध्येतव्यः’ ‘अयं शब्दः’इत्यत्र च कर्तृकर्मभावो न विरुद्ध इत्याशङ्कते- एकदेश इति ।। स्वाध्यायैक-देशः, शब्दैकदेशश्चेत्यर्थः । भेदः कर्तृकर्मणोरिति शेषः । तथा च कर्तृत्वकर्मत्वयोर्नैकत्र समावेशः प्राप्त इति भावः । स्वध्यायोऽध्येतव्यः, अयं शब्द इत्युभयत्र तथा सम्भवेऽपि घटशब्दस्थले नायं न्यायः सम्भवतीत्याह- घटशब्दस्येति ।। प्रयोगविशेषकाल इति शेषः । घटशब्दस्य घटरूपोऽर्थो घटशब्दश्च वाच्यो भवति । तत्र यदा घटशब्दविवक्षयैव घट इति प्रयुज्यते एवं घटपटस्तम्भकुम्भादय इति शब्दशास्त्रे तदा प्रयोगविशेषकाले घटशब्दस्य घटशब्दव्यतिरिक्तवाच्यस्यादर्शनेन समुदायैकदेशिभावो न सम्भवति । अतस्तत्र कर्तृकर्माभेदः प्राप्त एवेत्यर्थ इत्याहुः । वस्तुतस्तु एकदेशः कर्ता समुदायः कर्मेति न्यायः स्वाध्यायोऽध्येतव्यः, अयं शब्द इत्युभयत्र च सम्भवति । वेदत्वावच्छिन्नः, शब्दत्वावच्छिन्नश्च समुदायः पृथगस्ति । स्वाध्यायोऽध्येतव्य इति वाक्यम्, अयं शब्द इति शब्दश्चैकदेशः । घटशब्दस्थले तु नैवं सम्भवति । ‘स्वं रूपं शब्दस्य’ इति न्यायेन घट इति शब्देन घटशब्दस्यैकस्यैव वाच्यतया घटशब्दातिरिक्तः समुदायरूपो घटशब्दस्तदेकदेशभूतश्चैको घटशब्द इति समुदायैक-देशिभावायोगात् । एवं च घटशब्दस्य स्वव्यतिरिक्तार्थरूपवाच्यस्य सत्त्वेऽपि स्वव्यतिरिक्तसमुदाय-स्थानीय-सजातीयशब्दान्तररूपवाच्यस्यादर्शनान्न कर्तृकर्मणोर्भेद इति भावः । प्रत्यक्पराग्भावेति ।। प्रत्यक्त्वपराक्त्व-(श्री.टि.)योर्दर्शनादित्यर्थः । कर्तृकर्मणोरिति शेषः । एवमिति ।। गमनादिरूपपरिस्पन्दक्रियासु प्रत्यक्-पराग्भावदर्शनेन कर्तृकर्मणोरैक्याभाव इत्यर्थः । सर्वत्रेति ।। धात्वर्थक्रियामात्र इत्यर्थः । तथा च ज्ञानरूप-धात्वर्थक्रियायां कर्तृकर्मणोरैक्योपपत्त्याऽस्मन्मते विरोधाभावाद्युक्तं तैरित्यादिबहुवचनमिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
भवत्वेवमित्यतः ब्रह्मणः श्रुतिगम्यतायां सत्यामेव तत्सम्भवेऽपि ब्रह्मणस्तदगम्यतायां न तत्सम्भ-वतीति भावेन तस्य तत्सिद्ध्यधीनत्वमुपपादयति- शब्देन हीत्यादिना ।। अस्तु तर्हि ब्रह्मणोऽपि श्रुतिगम्य-त्वादभेदस्य तात्पर्यविषयत्वमित्यतः परमते ब्रह्मणः श्रुतिगम्यत्वं निराकरोति- न चेति ।। असंसर्गेति ।। संसर्गभेदान्यतरत्वाभावादित्यर्थः । तथात्वेऽपि कुतो न ब्रह्मणो वाक्यार्थतेत्यत आह- तयोरेवेति ।। संसर्गभेद-योरेवेत्यर्थः । अत्र भेदशब्दो व्यवच्छेदपरः । ‘व्यवच्छेदवाक्यार्थरुचीनाम्’ इत्यन्यत्र टीकाकारीयव्यवहारात् । ननु सर्वत्र वाक्ये पदार्थानां संसर्गस्यैवोत्सर्गतः प्रतीयमानत्वादस्तु वाक्यार्थत्वं न तु व्यवच्छेदस्य । तस्य सर्वस्य वाक्ये औत्सर्गिकप्रतीत्यसिद्धेः । किन्तु क्वचित्सामान्यश्रुतौ विशेषणवशाद्व्यवच्छेदः प्रतीयते । यथेन्द्रियार्थ-सन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणेऽसति ज्ञानग्रहणे सामान्यश्रुतिसद्भावात् ज्ञानस्य सुखादेश्च प्राप्तौ क्रियमाणस्य ज्ञानग्रहणस्य प्राप्तज्ञानविधायकत्वान्यथानुपपत्त्या सुखादिव्यवच्छेदप्राप्तिः । तत्रापि चार्थाद् गम्यमानतया न व्यवच्छेदस्य वाक्यार्थत्वम् । ‘यश्चार्थादर्थो न स चोदनार्थः’ इति न्यायात् । अतोऽसंसर्गरूप-त्वादित्येव च प्रतिज्ञाय तस्यैव वाक्यार्थत्वादित्येव वक्तव्यत्वाद्भेदग्रहणमनर्थकमिति चेत्, सत्यमेवं वस्तुस्थितिः। तथाऽपि दिङ्नागप्रभृतिभिर्वादिभिस्तादृशस्यापि व्यवच्छेदस्य वाक्यार्थत्वाभ्युपगमात् तन्मतमाश्रित्येह टीकायां भेदग्रहणं कृतमित्यदोषः । एतच्च दिङ्नागमतं ‘साध्यनिर्देशः प्रतिज्ञा’ इत्येतत्सूत्रीयवार्तिकवाचस्पतितत्त्वबोधेषु स्पष्टमुपन्यस्योक्तरीत्या निराकृतम् । यद्वा संसर्गवद्भेदस्यापि वाक्यार्थत्वं स्वसिद्धान्त एव । तथा हि । भेद एव तावत्सर्ववेदार्थः ।
‘सर्वे वेदा हरेर्भेदं सर्वस्माज्ज्ञापयन्ति च’
इति वचनात् । तथाऽप्यस्त्यत्र विशेषः । भेदशब्दो भावसाधनः करणसाधनश्च । तत्र, भेदनं भेद इति भावसाधनेनान्योन्याभावो व्यावृत्तिरूपोऽभीधीयते । भिद्यतेऽनेनेति करणसाधनेन स्वातन्त्र्यादिरूपोऽ-साधारणधर्मः कथ्यते । ततश्च स्वातन्त्र्यादिरूपासाधारणधर्मप्रतिपादको वेदभागो धर्मधर्मिसंसर्गं प्रतिपादयतीति तत्र संसर्ग एव वाक्यार्थः । अन्यस्तु ‘नेति नेति’ इत्यादिभागो व्यावृत्तिं प्रतिपादयतीति । तत्र व्यावृत्ति-रूपोऽन्योन्याभाव एव वाक्यार्थः ।
‘सर्वव्यावृत्ततामेव नेति नेत्यादिका श्रुतिः ।
विष्णोरतो वदेदन्या अपि सर्वा न संशयः ।।’
इति प्रमाणानुसारेणोक्तार्थस्य पूर्वमेव व्यवस्थापितत्वात्तेन वेदार्थस्य संसर्गभेदान्यतरत्वस्थित्या ब्रह्मणो वेद-(पां.टि.) वाक्यार्थत्वं वदता परेण संसर्गभेदान्यतरत्वं वक्तव्यम् । न च तद्वक्तुं शक्यम् । तस्य संसर्गरूपताया व्यावृत्तिरूपताया वा परेणानभ्युपगमात् । अतो न तस्य वेदवाक्यार्थत्वमिति । प्रकृते वेदवाक्यार्थत्वाभिप्रायेण संसर्गभेदयोरुपादानमिह टीकायां कृतम् । न्यायामृते तु संसर्गग्रहणस्य भेदोपलक्षणताया अभिप्रेतत्वादविरोध इति द्रष्टव्यम् । अन्ये तु, वाक्यार्थः संसर्गो भेदो भेदसंसर्गौ वा । तत्र राज्ञः पुरुष इत्यनेन स्वविशेषस्य स्वामिविशेषेण, स्वामिविशेषस्य वा स्वविशेषेण यः सम्बन्धः स उच्यते । स्वाभ्यन्तरेभ्यः स्वामिविशेषस्य वा स्वाभ्यन्तरेभ्यः स्वविशेषस्य वा या व्यावृत्तिः साऽर्थसिद्धा । न ह्यव्यावर्तमानयोस्सम्बन्ध्यन्तरेभ्यः संसर्गो घटत इति संसर्गवाक्यार्थं मन्वानस्य मतम् । भेदं वाक्यार्थं मन्वानस्य तूक्तरूपा व्यावृत्तिरेवोच्यते । संसर्गस्त्वर्थतः सिद्ध्यति । न ह्यन्यस्माद्व्यावृत्तस्य सम्बन्ध्यन्तरेणावस्थानं सम्भवतीति मतम् । उभयं वाक्यार्थं मन्वानस्य संसर्गभेदौ उभावप्यभिधीयेते इति मतम् । तदेतन्मतत्रयस्यानुवादोऽयं भेदसंसर्गयोरेवेति । अत्र च प्रत्येकविवक्षया विशकलितयोर्द्वयोरिव समुदायविवक्षया मिलितयोरपि द्वयोरेव ग्रहणं भवति । उपक्रमोपसंहारावित्यत्र प्रत्येकविवक्षया विशकलितयोर्द्वयोरिव समुदायविवक्षया तदैकरूप्यस्य ग्रहणदर्शनादित्यभिप्राय इत्याहुः ।
वैदिकपदानामिति ।। तथा च साङ्केतिकानामेव यदृच्छानिमित्तत्वम् । न तु वैदिकपदानाम् । तेषा-मन्वर्थकत्वादिति भावः । ननु शून्यवादिभिः शून्यस्यापि तत्त्वरूपताङ्गीकारात्तद्रूपत्वे कथमप्रामाणिकत्वं हेतुरित्यतो व्याचश्व्े- असदेवेति ।। ननु यदुक्तं लक्ष्यत्वे वाच्यत्वं न प्रयोजकम् । किन्तु वाच्यार्थसम्बन्धित्वेन प्रसिद्धत्वमिति । तदसत् । विपक्षे बाधकाभावेऽप्यवाच्यत्वलक्ष्यत्वाभावयोर्व्यभिचाराभावेन व्याप्तिनिश्चयोपपत्त्या वाच्यत्वाभावेनैव लक्ष्यत्वाभावसाधनसम्भवादित्यतःपक्ष एव व्यभिचारशङ्कया तयोर्व्याप्त्यनिश्चयान्न तेन तत्साधनं सम्भवतीत्याह- न चेत्यादिना ।। ननु ‘सिद्धं तु निवर्तकत्वात्’ इति वदता परेण शास्त्रस्याऽवरणमात्र-निवर्तकत्वाङ्गीकारेण तस्य ब्रह्मप्रतिपादकत्वाभावान्न तत्साधकत्वमिति न तदुक्तिर्युक्तेत्यपरितोषादाह- वस्तुतस्त्विति ।। अपिशब्दसमुच्चितं दूषणमेव दर्शयति- प्रमाणाभावादिति ।। इतीत्यस्येति द्वितीयपक्षदूषणं समुच्चिनोतीति पूर्वेणान्वयः ।
ननु किं वाच्यत्वस्य लक्ष्यतायामुपयोगाभाववचनस्याभ्युपगमवादत्वाभ्युपगमकल्पनया । तस्य तत्रोप-योगाभावस्य वास्तववादत्वस्यैव सम्भवादित्यत आह- अन्यत्रेति ।। ईक्षत्यधिकरणीयानुव्याख्यानादावित्यर्थः। द्वावपीति ।। कर्तृकर्मशब्दौ लक्षणया कर्तृत्वकर्मत्वरूपधर्मपरावित्यर्थः । लक्षणसम्भवेनेति ।। यथा चानयोरेव कर्तृत्वकर्मत्वलक्षणत्वसम्भवः, तथोक्तमस्माभिः शेषवाक्यार्थचन्द्रिकायां तत एव प्रतिपत्तव्यम् । परेति ।। मीमांसकोक्तपरसमवेतक्रियाफलशालित्वं कर्मत्वमित्यादिलक्षणस्येत्यर्थः । अग्राह्यत्वादित्युपलक्षणम् । अनेक-दोषाक्रान्तत्वादित्यपि द्रष्टव्यम् । यथा च तस्यानेकदोषदुष्टत्वम्, तथोक्तमस्माभिरधस्तात् । स्वाध्यायोऽध्येतव्य इति ।। ‘स्वाध्यायोऽध्येतव्यः’ इति वाक्यत्वरूपविशेषाकारेण सर्वस्वाध्यायाध्ययनविधायकस्याप्यस्य वाक्यस्य स्वाध्यायत्वरूपसामान्याकारेण स्वविषयत्वदर्शनेन न कर्तृत्वकर्मत्वयोः परस्परपरिहारेणैव वृत्तिदर्शनमित्यर्थः। (पां.टि.) एवं कर्तृत्वकर्मत्वयोः सहवृत्तौ वैदिकमुदाहरणमुक्त्वा लौकिकमुदाहरणद्वयमाह- शब्दशब्दस्ये-त्यादिना ।। शब्द इतिशब्दस्येत्यर्थः । शब्द इति शब्दत्वेन शब्दत्वावच्छिन्नशब्दमात्रवाचकस्यापि शब्दशब्दस्य शब्दत्वरूपसामान्याकारेण स्वविषयत्वदर्शनेन न लोकेऽपि कर्तृत्वकर्मत्वयोः परस्परपरिहारेणैव वृत्तिदर्शनमि-त्यर्थः । घटादिशब्दानामपीति ।। घट इत्यादिशब्दानामपि घट इत्यादिशब्दत्वेन घटादिरूपार्थवाचिनामपि स्वरूपपदार्थकत्वेन घट इति शब्दवाचकत्वस्यापि विद्यमानत्वेन तत्रापि कर्तृत्वकर्मत्वयोः समावेशान्न परस्पर-परिहारेणैव लोके वृत्तिदर्शनमित्यर्थः ।
ननु न वयं कर्तृत्वकर्मत्वयोः सर्वथा समावेशो नास्तीति निराकुर्मः । येनोक्तदोषः स्यात् । किन्तु स्वातिरिक्ते कर्मण्यसति स्वमात्रकर्मकत्वमेव निराकुर्मः । एवं च ‘स्वाध्यायोऽध्येतव्यः’ इत्येतद्वाक्यव्यतिरिक्तस्य स्वाध्यायस्यैव कर्मणः सत्त्वान्न वैदिकोदाहरणे उक्तनियमभङ्गः । शब्द इतिशब्देऽपि तदतिरिक्तानां घट इत्यादिशब्दानां शब्द इति शब्दवाच्यतया स्वातिरिक्तकर्मणां सत्त्वान्न तत्रापि कर्तृत्वकर्मत्वयोः समावेश-प्राप्त्योक्तनियमभङ्गः । एवं घट इत्यादिशब्दानामपि तच्छब्दातिरिक्तघटाद्यर्थवाचकतया स्वमात्रवाचकत्वाभावान्न तत्राप्युक्तनियमभङ्गः इति वैदिकलौकिकोदाहरणेषु त्रिष्वपि समाधानमाशङ्कते- तत्रेति ।। किमुक्तशङ्कायाः वैषम्यमात्रप्रदर्शने तात्पर्यम्, अङ्गीकृत्य स्वविषयकत्वं तत्प्रदर्शने तात्पर्यं वा । नाऽद्यः । तन्मात्रप्रदर्शनस्यानुप-युक्ततयाऽकर्तव्यत्वेन तन्मात्रप्रदर्शकत्वे प्रकृतशङ्काया अनुत्थानप्रसङ्गादिति भावेन द्वितीयं दूषयति- कर्तृकर्माभेद-स्येति ।। एकदेश इति ।। कर्मीभूतस्वाध्यायाद्येकदेश इत्यर्थः । तथा च कर्तृभूतस्वाध्यायाद्येकदेशापेक्षया कर्मीभूतस्वाध्यायादेर्भिन्नत्वान्न त्रिष्वप्युदाहरणेषु कर्तृत्वकर्मत्वयोः सहवृत्तिरिति भावः । घटशब्दशब्द-स्येति ।। घटशब्द इतिशब्दस्येत्यर्थः । तथा च घटशब्द इतिशब्दस्यैव तत्र वाचकत्वं वाच्यत्वं चाभ्युपेयम् । तद्व्यतिरिक्तस्य वाच्यान्तरस्य वक्तुमशक्यत्वात् । तथा च तत्र स्वातिरिक्ते कर्मण्यसत्यपि स्वमात्रवाचकताया दृष्टत्वेन कर्तृत्वकर्मत्वयोः समावेशसिद्धिरिति न शङ्कितप्रकारेणाप्युक्तनियमसिद्धिरिति भावः । अविशेषेण कर्तृकर्मणोः क्रियामात्रे ऐक्यं सिद्धान्तिनोऽभिमतम् इति भ्रान्तः शङ्कते- देवदत्त इति ।। भवेदुक्तचोद्यावकाशः, यदि क्रियामात्रे तयोरैक्यमिति मदभिमतं स्यान्न चैवम्, किन्तु ज्ञप्तिरूपक्रियायामेव । अतो गत्यादिरूपक्रियायां तयोर्भेदशङ्कन न युक्तमित्याह- परिस्पन्देति ।।
लघुप्रभा
(व्या.टि.)
दोषान्तरं प्रतिजानीते- किञ्चेति ।। आद्ये ब्रह्मण्येवेति ।। द्वितीयस्तु ‘अप्राप्तत्वाच्चेश्वरभेदस्य’ इति मूले निरसिष्यते । तयोरेवेति ।। नन्वभेदस्यापि वाक्यार्थत्वादवधारणानुपपत्तिरिति चेन्न । तस्यापि संसर्ग-त्वात् । यथोक्तम् ‘नामार्थयोरभेदः संसर्गः’ इति । चतुष्टयीति ।। तयबन्तत्वान्ङीप् । वाचकानामिति ।। वचनवृत्तिमतामित्यर्थः । जातिशब्दा इति ।। जातिनिमित्ताः शब्दा इत्यर्थः । शाकपार्थिवादित्वात्समासः । गुणशब्दा इति ।। अत्र गुणशब्देन जातिक्रियातिरिक्तपदार्थमात्रं ग्राह्यम् । अन्यथाऽभावादिप्रवृत्तिनिमित्तक-शब्दानामतिरिक्तत्वापत्तेः । दण्ड्यादिशब्दानामतिरिक्तत्वापत्तेश्च । न च तेषां द्रव्यशब्दत्वम् । द्रव्यशब्दा (व्या.टि.) इत्यस्य यदृच्छाशब्दा इति साङ्केतिकशब्दविषयतया व्याख्यातत्वेन डित्थ इत्युदाहरणेन च तदयो-गात् । गुणशब्दस्य प्रसिद्धगुणार्थत्वे दण्डीत्युदाहरणायोगाच्च । तस्य विशेष्यत्वञ्च इतिशब्दस्य स्वरूपबोधकत्वेन पटशब्दस्य विशेष्यत्वसम्भवेन, पाचक इत्यादावनुक्त्या चायुक्तम् । यथा डित्थ इतीति ।। साङ्केतिकशब्दानां शक्यातिरिक्ततत्तावच्छेदकाभावेन निष्प्रकारकस्मृतिजनकत्वम् । पदार्थसमभिव्याहारेण सप्रकारकबोधजनकत्व-मिति नैयायिकः । सञ्ज्ञाप्रकारकबोधजनकत्वमित्यपरे । वृद्ध्यादिशब्देनाऽदैच्त्वादिप्रकारकबोधजननेन संज्ञिगतस्य सङ्केत्रभिमतधर्मिप्रकारकबोधजनकत्वमिति तत्त्वम् । तत इति ।। वचनवृत्तिनिमित्तचतुष्टयाभावादित्यर्थः । गुणयोगेति ।। ब्रह्मणश्चासङ्गत्वादिति शेषः । अत्र विवक्षितव्यतिरेकप्रयोगे व्यतिरेकिव्याप्तिं दर्शयितुं तस्याः सहचारदर्शनव्यभिचारादर्शनग्राह्यत्वात् तयोराद्यं बहिरेवोपस्करोति- तीरादिशब्देनेति ।। मूलं व्यभि-चारादर्शनपरतया योजयति- न तु केनापीति ।। विवक्षितप्रयोगमपि बहिरेवोपस्कुर्वन्निगमयति- अत इति ।। अत्राप्यङ्गीकारस्यैव हेतुत्वान्नासिद्धिः । मूलं परमसाध्यपरतया व्याचश्व्े- तथा चेति ।। परमते ब्रह्मणः सत्त्वमेव दुर्लभम् । दूरे तत्र श्रुतितात्पर्यमित्याह- किञ्चेति ।। लक्षणादिनाऽपि बोधनसम्भवेन नावाच्यत्वमात्रस्याऽगम-निरासहेतुतेत्यतोऽधिकमपेक्षितं पूरयति- तत एवेति ।। नाऽगमरूपप्रमाणविशेषाभावेनार्थस्य शून्यता । प्रत्यक्षादिनाऽपि तत्सिद्धेरित्यतस्तन्निरासहेतुमपि बहिरेवोपस्करोति- एवमिति ।। अवाच्यत्वाज्ञेयत्वयोः समकक्षतां निरस्यति- सामान्ययुक्तिरिति ।। अज्ञेयत्वस्यासिद्धिं विपक्षे बाधकेन निराह- ज्ञेयत्वाङ्गीकार इति ।। अत्रापवादकत्वप्रयोजिकां व्याप्तिं पराङ्गीकारेण समर्थयते- तथेति ।। शून्यपदं निर्धर्मकत्वभ्रमं वारयितुं व्याचश्व्े- असदेवेति ।। विवक्षितव्यतिरेकिप्रयोगं दूषयितुमनुवदति- नन्वित्यादिना ।। उपयोगाभावा-दिति ।। तस्य तत्प्रयोजकत्वे हि तदभावस्य तदभावप्रयोजकत्वम् । यथा वह्नेर्धूमप्रयोजकत्वाद्धि तदभावेन तदभावः । न चैवमत्रास्तीत्यर्थः । बीजान्तरेणान्यथासिद्धेरित्याह- वाच्यार्थसम्बन्धित्वेनेति ।। न चात्र व्यतिरेकव्याप्तिर्निश्चेतुं शक्यते । व्यभिचारादर्शनमात्रस्य तदग्राहकत्वादित्याह- न चेति ।। गम्यत्वेति ।। मुख्यत्वाभावेऽपि तात्पर्यविषयत्वसम्भवादित्यर्थः । सिद्धत्वादिति ।। तत्सत्ताया इति शेषः ।
ननु शास्त्रजन्यज्ञानविषयत्वेऽपि जडत्वापातः । ‘सिद्धन्तु निवर्तकत्वात्’ इति वदता परेण शास्त्रस्याऽवरण-निवर्तकत्वमात्राङ्गीकारेणापसिद्धान्तश्चेत्यत आह- वस्तुत इति ।। उक्तस्य दूषणं प्रतिजानीते- उच्यत इति ।। दूषयितुं विकल्प्य पृच्छति- किं स्वेनेति ।। अयं शब्दलभ्योऽर्थः । अन्येनेति ।। अयन्तु ‘स्वयं दासास्तपस्विनः’ इति पदार्थिकोऽर्थः पराभिमतः । मूलफलितमाह- अपसिद्धान्तेति ।। अपिपदं पृथग्दूषणपरमित्युपेत्य व्याचश्व्े- अपिपदेनेति ।। किन्तदित्यतस्तद्विशदयति- प्रमाणाभावादित्यादिना ।। अन्यथेति ।। सिद्ध्युपायाभावेऽपि सिद्धावित्यर्थः । ननु लक्षणायां वाच्यत्वस्योपयोगाभावे चोदिते तदपरिहृत्य स्वप्रकाशत्वनिराकरणे कथमुक्ता-समर्थनं नाऽलोच्यत इत्यत आह- अङ्गीकारवाद इति ।। समर्थनासामर्थ्यमेव किं न स्यादित्यत आह- अन्य-त्रेति ।। ‘न चान्यथा । लक्ष्यत्वं क्वापि दृश्व्ं हि किन्तदित्यनवस्थितिः’ इत्यनुव्याख्यान इत्यर्थः । विरोधा-(व्या.टि.) दिति ।। लक्षणविरोधादित्यर्थः । ज्ञातृत्वमिति ।। यद्यपि कर्मत्वं कर्तृत्वं चेत्येव वक्तव्यम् । तथाऽपि तदुपाधिकधर्मद्वयप्रदर्शनाय तथोक्तिरिति ज्ञातव्यम् । इत्यादीत्यादिपदेन ‘ते’ इति प्रथमाबहुवचनान्तं ग्राह्यम् । एवमिति ।। कर्तृत्वकर्मत्वयोरसमावेशेनेत्यर्थः । स्वाध्यायेति ।। यद्यपि ‘स्वाध्यायोऽध्येतव्यः’ इति वाक्यस्याध्ययनकर्मत्वेऽपि न तत्कर्तृत्वम् । स्वकर्मकाध्ययनकर्मकविधानक्रियायां कर्तृत्वेऽपि न कर्मत्वम् । तथाऽपि विधानक्रियायां कर्मकोटिप्रविष्टत्वात् कर्मत्वमिति मन्तव्यम् । उदाहरणान्तरमाह- शब्दशब्द-स्येति ।। स्वेति घटादिशब्दवाचकत्ववत् शब्दशब्दवाचकत्वस्यापि सत्त्वादेकस्यां वचनक्रियायाम् उभयसमावेश इति भावः । शाब्दिकसम्मतमुदाहरति- घटादीति ।। घट इत्ययमाह, ‘अग्नेर्ढक्’ इत्यादावित्यर्थः । ‘स्वं रूपं शब्दस्याशब्दसञ्ज्ञा’ इति सूत्रादित्यर्थः । स्वरूपपदार्थकत्वेति ।। अनेनाभिधानक्रियायां तत्समावेश इति भावः । भिन्नकर्मणीति ।। ‘स्वाध्यायोऽध्येतव्यः’ इत्यादौ स्वेतरस्वाध्यायादौ कर्मणि सति स्वकर्मकत्वं न स्वमात्रकर्मकत्वमित्यर्थः । अभेदस्येति ।। अधिकप्रवेशेऽपि स्वप्रवेशानपायादित्यर्थः । एकदेश इति ।। आद्योदाहरणे स्वाध्यायैकदेशो विधिवाक्यम्, द्वितीयोदाहरणे शब्दसमुदायैकदेशः शब्देतिशब्दः, तृतीयोदाहरणे शब्दार्थैकदेशः शब्द इत्यवधेयम् । भेद इति ।। अवच्छेदकभेद इत्यर्थः । अवच्छेदकैक्यदेशमुद्दिशति- घटशब्द-शब्दस्येति ।। कथमित्यभेदनियममाक्षिपति- क्रियास्विति ।। धात्वर्थेष्वित्यर्थः । सङ्क्षिपति- अलमिति ।।