ग्रन्थबहुत्वं स्यादित्येवोपरम्यते ..

परोक्तासु विश्वमिथ्यात्वसाधिकासु युक्तिषु दोषोद्भावनम्

मूलम्

- ग्रन्थबहुत्वं स्यादित्येवोपरम्यते ।

टीका 

यद्यनन्तयुक्तिविरुद्धस्तर्हि किमिति ता अपि युक्तयो न प्रदर्श्यन्ते । किमुपसंहारेण । अतः प्रौढवाद एवायमित्यत आह- ग्रन्थेति ।। न तु विरोधयुक्तीनां समाप्तत्वादित्येवशब्दार्थः ।

तथा हि- किमिदं दृश्यत्वम्, किं दृग्विषयत्वमुतास्वप्रकाशत्वम् । आद्येऽपि किं दृग् वृत्तिरूपा चिद्रूपा वा । नाऽद्यः । आत्मन्यनैकान्त्यात्, तस्यापि वेदान्तजनितवृत्तिविषयत्वात् । वृत्ति-जनितफलासम्बन्धान्नेति चेत्, फल किं ज्ञातता व्यवहारो वा । आद्ये घटादावपि तदभावादसिद्धिः स्यात् । द्वितीये पुनरनैकान्त्यमेव । आत्मनोऽपि वृत्तिजन्यव्यवहारविषयत्वात् । चिद्रूपदृग्विषयत्वं तु घटादौ अस्माभिर्नाङ्गीक्रियत इति भागासिद्धिः । द्वितीये स्वप्रकाशत्वं वक्तव्यं यदभावो दृश्य-त्वम् । अवेद्यत्वमिति चेत्, तर्हि वेद्यत्वं दृश्यत्वमित्युक्तं स्यात् । तथा च पूर्वोक्तविकल्पदोषा-पातः । स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वप्रकाशत्वं तदभावो दृश्यत्वमिति चेत्तर्हि आत्मनोऽपि अद्वितीयत्वादिव्यवहारे संविदन्तरापेक्षासद्भावाद् व्यभिचारः । निर्विकल्पकस्वव्यवहारे संविदन्तरानपेक्ष आत्मेति चेत्तर्हि घटोऽपि तथैवेत्यसिद्धिः । घटे निर्विकल्पकव्यवहार एव नास्तीति चेत्, आत्मन्यपि स नास्त्येव । सुषुप्तौ अस्तीति चेन्न । तस्यापि निर्विकल्पकत्वे विवादात् । अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं स्वप्रकाशत्वमिति चेन्न । व्याहतत्वेनासम्भवित्वात् । कथञ्चिदव्याहतत्वेऽपि किं विशेषणाभावेन, उत विशेष्याभावेन, अथोभयाभावेन दृश्यत्वं निर्वक्तव्यम् । तत्राऽद्येऽवेद्यत्वाभावो वेद्यत्वमेव हेतुरस्तु किं विशेष्येण । तस्य चोक्तं दूषणम् । द्वितीये स्वरूपासिद्धिः । तृतीये व्यर्थविशेष्यत्वं विशेष्यासिद्धिश्चेति ।

जडत्वमपि किमज्ञानत्वम्, उताज्ञातृत्वम् । नाऽद्यः । वृत्तिज्ञाने भागासिद्धत्वात् । आत्मनोऽपि ज्ञानत्वस्य निराकरिष्यमाणत्वेनानैकान्त्यात् । न द्वितीयः । आत्मनोऽप्यज्ञातृत्वात् । अहङ्कारस्य ज्ञातृत्वाङ्गीकारेण भागासिद्धेश्च    परिच्छिन्नत्वमपि देशतः कालतो वस्तुतो वा    न प्रथम-द्वितीयौ । सर्वगतेषु नित्येषु कालाकाशादिष्वसिद्धेः । तेषामपि परिच्छिन्नत्वे ब्रह्मणोऽप्यपरिच्छि-न्नत्वं कुतः? श्रुत्यादिकं तु उभयत्र समानम् । न तृतीयः । आत्मनोऽपि जडाद्भेदस्याङ्गीकृतत्वेन व्यभिचारात् । पारमार्थिको नाऽत्मनो भेदोऽस्तीति चेत्, स जगत्यपि नास्तीत्यसिद्धिः ।

अस्य पटस्य एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वसाधनमप्यत्यन्ताभावस्य निष्प्रतियोगिक-त्वेन बाधितम् । एतत्तन्तुषु नास्तीति साधने सिद्धसाधनम् । कार्यकारणयोरभेदेन आधाराधेयभावा-भावात् । एतत्तन्तुकार्यो न भवतीति साधने अकार्यत्वान्यकार्यत्वसिद्ध्याऽर्थान्तरत्वात् । आका-शादिषु चैवं प्रयोगासम्भवेन सर्वजगन्मिथ्यात्वासिद्धिश्च । भेदत्वभेदसंवेदनत्वयोश्च सबाधत्वेन सोपाधिकत्वम् । तस्यापि तत एव साधने मिथ्यात्वेन सोपाधिकत्वमेव ।

स्वान्तर्भेदहीनत्वमपि समुदायस्य समुदायाद् भेदाभावेनास्माकं सिद्धमेव । भेदहीनत्वमात्रसाधने दृष्टान्तस्य साध्यविकलता । यथाऽऽकाशसमुदायः समुदायिभेदरहितस्तथा जगत्समुदायोऽपीति साधने सिद्धसाधनम् । समुदायस्य समुदायिभ्योऽभिन्नत्वेन समुदायिभेदस्य समुदायेऽसत्त्वात् ।

विमता आत्मानो देवदत्तान्न भिद्यन्त इति प्रतिज्ञा कल्पकैकजीवानिर्धारणे नोपपद्यते । आत्मत्वं च जातिर्वा ज्ञातृत्वं वा असिद्धमेव ।

सर्वशरीरादीनां देवदत्तभोगायतनत्वादिसाधनेऽपि तत्र स्थितिमात्रसाधने सर्वगतत्वसिद्ध्या अर्थान्तरम् । तन्निमित्तसुखादिभोगसाधनेऽपि देवदत्तस्य परपुरप्रवेशसिद्ध्याऽर्थान्तरता । देवदत्तस्यैवेति विशेषणाददोषमिति चेद् ब्रह्मग्रहाधिष्ठिते शरीरेऽन्यस्य भोगाभावेन तद्भाव-सिद्ध्याऽर्थान्तरताऽपरिहारात् । सर्वदेति विशेषणे बाधः, सुप्त्यादावभावात् । जाग्रत्त्वविशेषणेऽपि दृष्टान्तस्य साध्यविकलता । तत्रापि कदाचिद् ब्रह्मग्रहानुप्रवेशसम्भवादित्यास्तां विस्तरः ।

भावबोधः

अस्माभिर्नाङ्गीक्रियत इति ।। ब्रह्मशब्देन पूर्वं न ज्ञातमिदानी ज्ञातमित्यनुभवेन ज्ञाततया अज्ञाततया वा चिद्रूपदृग्विषयत्वस्य ब्रह्मण्यपि सत्त्वेनानैकान्त्यप्रसङ्गात्साक्षाच्चिद्रूपदृग्विषयत्वं हेतुत्वेन वक्तव्यम् । तच्च घटादावस्माभिर्नाङ्गीकृतमिति भावः । नन्ववेद्यत्वं नाम फलाव्याप्यत्वम्, अपरोक्षव्यवहारविषयत्वन्तु वृत्ति-विषयत्वेन भविष्यतीत्यत आह- कथञ्चिदव्याहतत्वेऽपीति ।। फलव्याप्यत्वस्य प्रागेव दूषितत्वात्कथञ्चिदि-त्युक्तम् । विशेषणाभावेनेति ।। अपरोक्षव्यवहारविषयत्वरूपविशेष्यसत्त्वमङ्गीकृत्यावेद्यत्वरूपविशेषणा-भावेनेत्यर्थः । तथा चावेद्यत्वाभावे सत्यपरोक्षव्यवहारविषयत्वविशिष्टं दृश्यत्वमिति फलितोऽर्थः । एवं विशेष्या-भावेनेत्यत्रापि विशेषणमवेद्यत्वमङ्गीकृत्य विशेष्यापरोक्षव्यवहारविषयत्वाभावेन दृश्यत्वनिर्वचनेऽवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वाभावो दृश्यत्वमिति फलितोऽर्थः । तथा चोभयाभावेनेत्यत्राप्यवेद्यत्वाभावे सत्यपरोक्षव्यवहारविषयत्वाभावरूपं विशिश्व्ं दृश्यत्वमिति फलितोऽर्थः । तथा च प्रथमपक्षे व्यर्थविशेष्यत्वस्य, द्वितीयपक्षे स्वरूपासिद्धेः, तृतीयपक्षे व्यर्थविशेष्यत्वविशेष्यासिद्ध्योर्दूषणत्वं सङ्गच्छत इति द्रष्टव्यम् । नन्ववेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वलक्षणविशिष्टस्याभावो दृश्यत्वमभिप्रेतम् । विशिष्टाभावश्च घटादौ फलव्याप्यत्व-लक्षणावेद्यत्वरूपविशेषणाभावेन, धर्मादौ तु विशेष्याभावेनेत्यनुगत इति नोक्तदोषावकाश इति चेन्न । उक्तरीत्या फलस्य दूषितत्वेन घटादौ विशेष्यवद्विशेषणस्यापि सत्त्वेनापरोक्षैकरससाक्षिसाक्षाद्विषयाविद्यादौ विशेषण-वद्विशेष्यस्यापि सत्त्वेनोक्तविशिष्टाभावरूपदृश्यत्वाभावेन भागासिद्धेरिति भावः । निष्प्रतियोगिकत्वेन ।। असत्प्रतियोगिकत्वेनेत्यर्थः । बाधितमिति ।। पटस्यासत्त्वाभावस्य प्रमितत्वादिति भावः । कल्पकजीवा-निर्धारण इति ।। एकजीववादिमत आत्मनां कल्पकजीवाभेदः साधनीयः । कल्पकजीवानिर्धारणे तु देवदत्तादिति विशिष्य प्रतिज्ञा नोपपद्यत इति भावः । असिद्धमेवेति ।। एकमेव शरीरं सजीवम्, अन्यानि तु निर्जीवानीति वदता एकजीववादिना पक्षीभूतानामात्मशब्दवाच्यानां जडत्वाङ्गीकारादिति भावः ।

भावदीपः

‘यच्च प्रमाणदृष्टानाम्’ इत्येतदवतारिकायामुक्तानुमानेषु सदसद्वैलक्षण्ये प्रमाणाभावादित्यादिना प्रतिज्ञांशं निरस्तं मत्वा हेतूनपाकरोति- किमिदमित्यादिना ।। नेति चेदिति ।। वृत्तिविषयत्वमित्यनुषङ्गः । नाङ्गीक्रियत इति ।। वृत्तिद्वारा चिद्रूपसाक्षिविषयत्वाङ्गीकारेऽपि घटाद्याकारापरोक्षवृत्त्यभिव्यक्ताधिष्ठानचैत-न्योपरागरूपचिद्विषयत्वं पराभिमतं नाङ्गीक्रियत इत्यन्यतरासिद्धो हेतुरिति भावः । सुखादौ चिद्विषयत्वाङ्गीकाराद् भागेत्युक्तम् । अस्मद्भागेऽसिद्धिरिति वा । अप्रस्तुतं किं पृच्छ्न्यत इत्यत आह - यदभाव इति ।। इति पूर्वो-क्तेति ।। दृग्वृत्तिरूपा चिद्रूपा वा इत्युक्तविकल्पानां तद्दोषाणा (ञ्चापात) मापात इत्यर्थः । संविदन्त-रापेक्षासद्भावादिति ।। ‘एकमेवाद्वितीयम् ’ इत्यादिवाक्यजन्यसंविदन्तरेत्यर्थः । विवादादिति ।। सुखमह-मस्वाप्सं, दुःखं नाज्ञासिषमिति कालसुखदुःखाज्ञानगोचरौत्तरिकानुस्मृतिबलेन प्रागपि कालादिविशिष्टात्मानु-भवादेरङ्गीकार्यत्वात् । तथा चासिद्धिरनैकान्तिको वेति भावः । व्याहतत्वेनेति ।। वेद्यस्यैव व्यवहारविषयत्वादिति भावः । ननु चिदवेद्यत्वमत्र विवक्षितम् । वृत्तिवेद्यतया व्यवहारविषयता । अतो न व्याहततेत्यत आह- कथञ्चि-दिति ।। अस्तु तथैवेत्यत आह- तस्य चोक्तं दूषणमिति ।। भागासिद्धिरूपदूषणमुक्तमित्यर्थः । द्वितीय इति ।। चिदवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वाभावपक्षे नित्यातीन्द्रियस्यापि योगिनामपरोक्षव्यवहारविषयत्वात् स्वरूपासिद्धिरित्यर्थः । तृतीय इति ।। चिद्वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वमिति पर्यवसितपक्षे विशेषणेनैव पूर्तेरिति भावः । अस्तु विशेषणमात्रमित्यत आह- विशेषणासिद्धिश्चेति ।। भागासिद्धिरित्यर्थः । अज्ञानत्व-मिति ।। ज्ञानरूपत्वाभावः । निराकरिष्यमाणत्वेनेति ।। परिच्छेदान्ते ‘ न च स्वेनापि ज्ञेयत्वं तैरुच्यते’ इत्यादिनेति भावः । ननु ब्रह्मणोऽपरिच्छिन्नत्वम् ‘अनन्तं ब्रह्म’ इति श्रुत्यादिप्रसिद्धमिति चेत् ‘आकाशवत्सर्वगतश्च नित्यः’, ‘प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम’ इत्याकाशादावप्यस्तीत्याह- श्रुत्यादि त्विति ।। जडाद्भेदस्येति ।। वस्तुपरिच्छेदस्य भेदरूपत्वादिति भावः । पररीत्येयमुक्तिः । निष्प्रतियोगिकत्वेनेति ।। अयं पटः एतत्तन्तु-निष्ठा-त्यन्ताभावप्रतियोगी पटत्वादिति प्रागुक्तानुमानेन पटादेरत्यन्ताभावप्रतियोगित्वसाधने निस्स्वरूपत्वमेव साधितं स्यात् । अत्यन्ताभावस्य निस्स्वरूपशशशृङ्गादिप्रतियोगिकत्वात् । तथा च बाधितमनुमानं स्यादित्यर्थः। प्रागुक्तभेदत्वभेदसंवेदनत्वानुमानयोरपि दुष्टतामाह- भेदत्वेति ।। सबाधत्वेनेति ।। नास्ति भेद इति बाध-प्रत्ययसाहित्यरूपोपाधिना सोपाधिकत्वमित्यर्थः । सोपाधिकत्वमेवेति ।। एकदोभयसाधने त्वर्थान्तरम्, एकदो-भयत्राविवादादिति भावः । विमतं तात्विकस्वान्तर्भेदहीनमिति प्रागुक्तानुमानं च निराह- स्वान्तर्भेदेति ।। विमतपदेन हि परमते जगत्समुदायोऽभिमतः । स च स्वान्तर्भेदहीन इत्यस्य स्वप्रतियोगिकभेदवान् स्वयं न भवतीति वाऽर्थः, यत्किञ्चिन्निरूपितभेदोऽपि स्वस्मिन्नास्तीति वा । आद्ये सिद्धसाधनतामाह- समुदाय-स्येति ।। अन्त्ये आह- भेदहीनत्वेति ।। घटादिभेदस्य तत्रापि सत्त्वादिति भावः । जीवैक्यानुमानान्यपि प्रागुक्तानि निराह- विमता इति ।। कल्पकैकजीवानिर्धारण इति ।। देवदत्त इत्यनिर्धारणे सति देवदत्तान्न भिद्यन्त इत्युक्तिर्बाधिता । अन्यस्य कल्पकत्वेऽस्य कल्पितत्वेन तद्भेदस्यैव सर्वेण वाच्यत्वादिति भावः । हेतुं च निराह- आत्मत्वं चेति ।। असिद्धमेवेति ।। एकस्यैवाऽत्मत्वेनान्येषां जडत्वादिति भावः । आस्तां विस्तर इति ।। प्रपञ्चस्तु दृश्यत्वाद्यनुमानभङ्गे जीवैक्यानुमानभङ्गे च न्यायामृते वादावल्यां च ध्येयः ।

वाक्यार्थदीपिका

( श्री. टि .)

चिद्रूपा वेति ।। वृत्तिप्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपा या दृक् तद्विषयत्वं दृश्यत्व-मित्यर्थः । ननु वृत्तिविषयत्वं नाम न ज्ञानविषयत्वं किन्नाम वृत्तिजन्यफलाश्रयत्वम् । ततश्च न ब्रह्मणि व्यभिचार इति शङ्कते- वृत्तिजनित इति ।। तदभावादिति ।। ज्ञानव्यतिरिक्तज्ञाततायां मानाभावादिति भावः । आत्मन्य-नैकान्त्यमुपपादयति- आत्मनोऽपीति ।। वृत्तीति ।। वेदान्तजन्यवृत्तीत्यर्थः । अन्यथा वेदान्तानां वैयर्थ्यं स्यात् । ब्रह्मजिज्ञासेत्यादौ कर्मणि षष्ठी, ‘आत्मा वा ओ द्रष्टव्यः’ इत्यादौ तव्यादिश्च न स्यादिति भावः । चिद्रूपेति ।। अत्र चिद्रूपदृग्विषयत्वं किं परम्परया विवक्षितं साक्षाद्वा । नाऽद्यः । यथा अतीन्द्रियं धर्मादिकं पूर्वं न ज्ञातम् इदानी तु वेदान्तेन ज्ञातमित्यनुभवेन ज्ञानावच्छेदकत्वेन वा अज्ञानावच्छेदकत्वेन वा चिद्विषयत्वं तत्रास्ति, एवं शुद्धं ब्रह्म पूर्वं न ज्ञातमिदानी वेदान्तेन ज्ञातमित्यनुभवेन ज्ञाततया अज्ञाततया वा चिद्रूपदृग्विषयत्वस्य ब्रह्मण्यपि सत्त्वेनानैकान्त्यप्रसङ्गात् । न द्वितीयः । तस्याप्रामाणिकत्वेन घटादावप्यस्माभिरनङ्गीकाराद्भागा-सिद्धिरिति भावः । द्वितीये अस्वप्रकाशत्वं दृश्यत्वमिति पक्षे । पूर्वोक्तेति ।। वेद्यत्वं किं वृत्तिवेद्यत्वं विवक्षितं चिद्वेद्यत्वं वेति पूर्वोक्तरीत्या विकल्पदोषाऽपात इत्यर्थः । स्वरूपमात्रव्यवहारे स्वाख्यसंवित्सापेक्षताया एव सत्त्वेनासम्भवः स्यादतः स्वातिरिक्तेत्युक्तम् । संविदन्तरेति ।। विशेषणोपनायकैकमेवाद्वितीयमित्यादि-मानान्तरजन्यसंविदन्तरेत्यर्थः । निर्विकल्पकेति ।। अद्वितीयत्वादिविशिष्टव्यवहारे विशेषणोपनायकमाना-पेक्षासद्भावेऽपि निर्विकल्पकस्वव्यवहारे निष्प्रकारकस्वरूपमात्रव्यवहार इति यावत्, तदनपेक्ष आत्मेत्यर्थः । तथैवेति ।। घटत्वादिविशिष्टव्यवहारे घटादेः स्वातिरिक्तसंविदन्तरापेक्षत्वेऽपि न निर्विकल्पकव्यवहारे तदपेक्षेत्य-सिद्धिरित्यर्थः । विवादादिति ।। एतावन्तं कालं सुखमहमस्वाप्समित्यौत्तरिकानुस्मृतिबलेन सुषुप्तौ सुखादि-विशिष्टतयैवानुभवसिद्ध्या निर्विकल्पकाऽत्मस्वरूपमात्रानुभवस्यासिद्धत्वादिति भावः । नन्ववेद्यत्वं नाम फलाव्याप्यत्वम् अपरोक्षव्यवहारविषयत्वं तु वृत्तिविषयत्वेन भविष्यतीत्यत आह - कथञ्चिदव्याहतत्वेऽ-पीति ।। फलव्याप्यत्वस्य प्रागेव दूषितत्वात्कथञ्चिदित्युक्तम् । विशेषणाभावेनेत्यादि ।। अपरोक्षव्यवहार-विषयत्वरूपविशेष्यसत्त्वमङ्गीकृत्य अवेद्यत्वरूपविशेषणाभावेनेत्यर्थः । तथा चावेद्यत्वाभावे सत्यपरोक्षव्यवहार-विषयत्वं दृश्यत्वमिति फलितोऽर्थः । एवं विशेष्याभावेनेत्यत्रापि विशेषणमवेद्यत्वमङ्गीकृत्य विशेष्यभूतापरोक्ष-व्यवहारविषत्वाभावेन दृश्यत्वनिर्वचनेऽवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वाभावो दृश्यत्वमिति फलितोऽर्थः । तथोभयाभावेनेत्यत्रापि अवेद्यत्वाभावे सत्यपरोक्षव्यवहारविषयत्वाभावो दृश्यत्वमिति फलितोऽर्थः । तथा च प्रथमपक्षे व्यर्थविशेष्यत्वस्य, द्वितीयपक्षे स्वरूपासिद्धेः, तृतीयपक्षे व्यर्थविशेष्यत्वविशेष्यासिद्ध्योर्दूषणत्वकथनं सङ्गच्छत इति द्रष्टव्यम् । तस्य चोक्तं दूषणमिति ।। वेद्यत्वमात्रस्य च ब्रह्मणि व्यभिचाररूपं दूषणमुक्तमि-त्यर्थः । व्यर्थविशेष्यत्वमिति ।। व्यावर्त्याभावादिति भावः । तर्हि न तद्विशेषणमिति चेत्तत्राऽह-विशेष्यासिद्धि-श्चेति ।। निराकरिष्यमाणत्वेनेति ।। ‘न च स्वरूपमन्यद्वा ज्ञेयम्’ इत्यादिनेत्यर्थः । अज्ञातृत्वादिति ।। आत्मनो निर्धर्मकत्वेन तत्र ज्ञातृत्वाभावाद् व्यभिचार इत्यर्थः । कल्पितज्ञातृत्वमादाय व्यभिचारपरिहारे त्वाह- अहङ्कारस्येति ।। तस्यापि पक्षनिविष्टत्वेन तत्राज्ञातृत्वाभावादिति भावः । वस्तुत इति ।। वस्त्वन्तरप्रतियोगिको (श्री.टि.) भेद इत्यर्थः । देशतः परिच्छिन्नत्वाभावोपपादनाय सर्वगतेष्वित्युक्तम् । कालतः परिच्छिन्नत्वा-भावोपपादनाय नित्येष्वित्युक्तम् । आकाशादिष्वित्यादिपदेन प्रकृतिवर्णयोर्ग्रहणम् । ननु ‘स एवाधस्तात् स उपरिष्टात्स सर्वतो महतो महीयान्’ ‘अन्तर्बहिश्च तत्सर्वं व्याप्य’ ‘अजो नित्यः शाश्वतः’ इत्यादिश्रुत्या ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ इत्यादिस्मृत्या च ब्रह्मणो देशतः कालतश्चापरिच्छिन्नत्वं सिद्ध्यतीति चेत्तत्राऽह- श्रुत्यादिकन्तूभयत्र समानमिति ।। ‘कालश्च नित्यः प्रकृतिश्च नित्या’ ‘यावद्ब्रह्म विष्ठितं तावती वाक्’ ‘गौरनाद्यन्तवती’ इत्यादिश्रुतिः ‘यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । न कालादेः परिच्छेदो देशतः कालतस्तथा’ इत्यादिस्मृतिः कालादेरप्यपरिच्छिन्नत्वेऽस्तीति समानमित्यर्थः । कालादेरपरिच्छिन्नत्वे साक्षिप्रत्यक्षं सदा सर्वत्र देशकालौ इत्यबाधितप्रतीतिश्च प्रमाणमित्यपि द्रष्टव्यम् । असिद्धिरिति ।। वस्त्वन्तरप्रतियोगिक-पारमार्थिकभेदवत्त्वरूपपरिच्छिन्नत्वस्य पक्षीभूते जगत्यप्यभावादसिद्धिरित्यर्थः ।

अयं  पटः  एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी  पटत्वात्पटान्तरवदिति  प्रगाशङ्कितमनुमानं  दूषयति -अस्येति ।। निष्प्रतियोगिकत्वेनेति ।। असत्प्रतियोगिकत्वेनेत्यर्थः । बाधितमिति ।। पटेऽसत्त्वाभावस्यैव प्रमितत्वादिति भावः । अकार्यत्वेति ।। सर्वथाऽकार्यत्वस्य ‘विशेषनिषेधः शेषविध्यनुमापकः’ इति न्यायेनान्यकार्यत्वस्य वा सिद्ध्येत्यर्थः । एवं प्रयोगेति ।। पटादेस्सोपादानत्वेन तन्निष्ठात्यन्ताभावप्रतियोगित्व-मुक्तानुमानेन यथा साधितमेवमाकाशादिकं पक्षीकृत्यायमाकाशादिरेतन्निष्ठात्यन्ताभावप्रतियोगीति साधयितुं न शक्यते । तस्य निरुपादानत्वादिति भावः । भेदो मिथ्या भेदत्वाच्चन्द्रभेदवत्, विवादपदं भेदसंवेदनं भ्रान्तिः भेदसंवेदनत्वात् चन्द्रभेदसंवेदनवदित्यनुमानद्वयं दूषयति- भेदत्वेति ।। सबाधत्वेनेति ।। दृष्टान्ते चन्द्रभेदादौ साध्यव्यापकतत्वात् साधनवतः पक्षाद्व्यावृत्तत्वेन साधनाव्यापकत्वाच्चेति भावः । तस्यापीति ।। भेदत्वादिहेतुनैव पक्षे सबाधत्वं साध्यते । तथा च साधनव्यापकत्वान्नायमुपाधिरित्यर्थः । मिथ्यात्वेनेति ।। तथा च सबा(ध्यत्वे)धत्वे साध्ये मिथ्यात्वमुपाधिरित्यर्थः । यथा मैत्रीतनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वमुपाधिः तस्मिन्साध्ये श्यामत्वमित्यन्योन्योपाधिभावेनाप्यनुमानयोर्दुष्टत्वमेवं प्रकृतेऽपीति भावः । विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वाद्गगनवदित्यनुमानं दूषयति- स्वान्तर्भेदहीनत्वमपीति ।। विमतमित्यनेन वियदादिसमुदायस्य पक्षतयाऽभिप्रेतत्वात्समुदायः स्वान्तर्भेदशून्यो भवत्येव । स्वस्य स्वेनाभेदस्यैव सत्त्वेन भेदाभावात् सिद्धसाधनते-त्यर्थः । तर्हि स्वान्तरिति विशेषणं परित्यज्य भेदहीनत्वमात्रमेव साध्यत इति चेत्तर्हि गगनरूपे दृष्टान्ते घटादि-भेदस्यैव सत्त्वेन साध्यवैकल्यं स्यादित्याह- भेदहीनत्वमात्रेति ।। स्वान्तर्भेदहीनत्वमित्यस्य तात्पर्यान्तरमाशङ्क्य निराकरोति- यथाऽऽकाशेति ।। जगत्समुदायोऽपि समुदायिभूताज्जगतो भेदशून्य इत्यर्थः । साधन इति ।। समुदायत्वहेतुनेति शेषः । अत्राऽकाशस्यैकत्वेनासमुदितत्वाद् ‘यथाऽऽकाशसमुदायः’ इत्यादिकमयुक्तमिति दूषणं बहिरेव द्रष्टव्यमित्यभिप्रेत्य दूषणान्तरमाह- सिद्धसाधनमिति ।। तदुपपादयति- समुदायस्येति ।। समुदायस्य समुदायिभ्यो भेदाभावसाधनेऽभेदस्यैव प्राप्त्या सिद्धसाधनत्वादित्यर्थः ।

( श्री. टि .) विमता आत्मानो देवदत्तान्न भिद्यन्त आत्मत्वाद्देवदत्तवदित्यनुमानं दूषयति- विमता इति ।। कल्पकैकजीवानिर्धारण इति ।। एकजीववादिमते आत्मनः कल्पकैकजीवाभेदः साधनीयः । कल्पकैक-जीवानिर्धारणे च देवदत्तान्न भिद्यन्त इति विशिष्य प्रतिज्ञा नोपपद्यत इति भावः । असिद्धमेवेति ।। एकमेव शरीरं सजीवम् अन्यानि तु निर्जीवानीति वदतैकजीववादिना पक्षीभूतानामात्मशब्दवाच्यानां जडत्वाङ्गीकारेण तेष्वात्मत्वजातेर्वा ज्ञातृत्वस्य वाऽसिद्धत्वादिति भावः । अनेन जीवाः परमात्मनस्तत्त्वतो न भिद्यन्त आत्मत्वात् परमात्म-वदित्यन्तिमानुमानमपि प्रत्युक्तं वेदितव्यम् । विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वात् सम्मतदेवदत्तशरीरवत् । एवं विमतानि इन्द्रियाणि प्रत्येकं समुदितानि च पक्षीकृत्य प्रयोक्तव्यमित्युक्तं दूषयति- सर्वशरीरादीनामिति ।। आदिपदेनेन्द्रियाणां ग्रहणम् । साधनेऽपीति ।। भोगायतनत्वादिसाधकानुमानेऽपी-त्यर्थः । परपुरप्रवेशेति ।। योगसामर्थ्येन परपुरप्रवेशेन भोगसिद्ध्या ऐक्यासिद्धेरर्थान्तरतैवेत्यर्थः । देवदत्तस्यै-वेति ।। तथा च न परपुरप्रवेशसिद्ध्याऽर्थान्तरता । परपुरप्रवेशस्थले द्वयोर्भोगसद्भावादत्र पुनरेकस्यैव भोगसाधनादिति भावः । तद्भावसिद्ध्येति ।। ब्रह्मग्रहवद्देवदत्तस्येतरदेहेष्वधिष्ठातृत्वेन भोगसिद्ध्या ऐक्या-सिद्धेरर्थान्तरत्वादित्यर्थः । न हि ब्रह्मग्रहस्य स्वाधिष्ठितशरीरस्थजीवेनैक्यमस्तीति भावः । सर्वदेतीति ।। सर्वशरीराणां सर्वदा देवदत्तस्यैव भोगायतनत्वं साध्यते । तथा च न देवदत्तस्य ब्रह्मग्रहसाम्यम् । ब्रह्मग्रहस्य सर्वदा तच्छरीरे भोगाभावात् । तथा चैक्यमेव सिध्यतीति भावः । जाग्रत्त्वेति ।। जाग्रदवस्थायां सर्वदा देवदत्तस्य भोगायतनानीति साध्यत इत्यर्थः । दृष्टान्तस्येति ।। दृष्टान्तीकृते देवदत्तशरीरे उक्तसाध्याभावात्साध्यवैकल्य-मित्यर्थः । उक्तसाध्याभावः कुत इत्यत आह- तत्रापीति ।। देवदत्तशरीरेऽपीत्यर्थः । ब्रह्मग्रहेति ।। तथा च जाग्रदवस्थायां सर्वदा देवदत्तस्यैव भोगायतनत्वं नास्ति ब्रह्मग्रहस्यापि भोगसद्भावादिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु विरोधयुक्तीनां समाप्तत्वादेवायमुपरमः किं न स्यात्, किं तन्निमित्तान्तरकल्पनयेत्यतोऽधिका विरोधयुक्तीः स्वयमाह- तथाऽपीति ।। अनैकान्त्यमुपपादयति- तस्यापीति ।। अन्यथा ब्रह्मपराणां  वेदान्ता-नामानर्थक्यप्रसङ्गादिति भावः । ननु वृत्तिविषयत्वं वृत्तिजनितफलयोगित्वम् । तच्च ब्रह्मणि नास्तीति न व्यभिचार इति शङ्कते- वृत्तिजनितेति ।। घटादावपीति ।। मद्रीत्येति शेषः । उपलक्षणं चैतत् । पररीत्याऽतीतादा-वभावादित्यपि द्रष्टव्यम् । व्यवहारोऽप्यादानादिर्विवक्षितोऽभिलपनलक्षणो वा । नाऽद्यः । गगनादौ तदभावेन भागासिद्धिः स्यादित्यभिप्रेत्य द्वितीयं दूषयति- द्वितीय इति ।। तदुपपादयति- आत्मनोऽपीति ।। वेदान्त-जन्याभिलपनलक्षणव्यवहारविषयत्वादित्यर्थः     चिद्रूपदृग्विषयत्वमपि  यथाकथञ्चिद्वा  विवक्षितं साक्षाद्वा । नाऽद्यः । नित्यातीन्द्रियं पूर्वं न ज्ञातमिदानी शब्देन ज्ञातमितिवच्छुद्धं ब्रह्म पूर्वं न ज्ञातमिदानी वेदान्तेन ज्ञातमित्यनुभवेन ब्रह्मण्यपि तस्य सत्त्वेनानैकान्त्यापातादित्यभिप्रेत्य द्वितीयं दूषयति- चिद्रूपेति ।। साक्षादिति शेषः । अस्माभिरित्युपलक्षणम् । आत्मनीव घटादावपि तदाकारवृत्त्यैव तदज्ञाननिवृत्त्युपपत्त्याऽसिद्धिप्रसङ्गेन परैरपि तस्यानङ्गीकर्तव्यत्वादित्यपि द्रष्टव्यम् । न च घटादेरापरोक्ष्यसिद्ध्यर्थं चिद्विषयत्वं परैरवश्यमङ्गीकर्तव्य-(पां.टि.) मेवेति वाच्यम् । चैतन्याभिव्यञ्जकत्वार्थमावश्यकेनेन्द्रियजन्यत्वप्रयुक्तेन वृत्तिगतेन साक्षात्कारत्व-रूपविशेषेणैव चैतन्याविषयस्यापि घटादेरापरोक्ष्यसम्भवादित्याशयात् । वक्तव्यमिति ।। निर्वक्तव्यमित्यर्थः। निर्वक्तव्यत्वे हेतुमाह-यदभाव इति ।। स्वप्रकाशत्वनिरुक्तिं शङ्कते-अवेद्यत्वमिति ।। इत्युक्तं स्यादिति ।। वेद्यत्वस्यैवावेद्यत्वरूपस्वप्रकाशत्वाभावरूपास्वप्रकाशत्वरूपत्वादिति भावः । अस्तु तर्हि तदेव दृश्यत्वमित्यत आह- तथा चेति ।। वेदनं किं वृत्तिःकिं वा चित् । नाऽद्यः । आत्मन्यनैकान्त्यात् । न द्वितीयः । तस्य घटादा-वभावादिति पूर्वोक्तविकल्पदोषापात इत्यर्थः । स्वप्रकाशत्वस्य निरुक्त्यन्तरं शङ्कते- स्वव्यवहार इति ।। किमत्र  स्वविषयकव्यवहारमात्रं विवक्षितं स्वरूपमात्रव्यवहारो वेति विकल्पं मनसि निधायाऽद्यं दूषयति- तर्हीति ।। आत्मनोऽप्यद्वितीयत्वस्वप्रकाशत्वादिविशिष्टव्यवहारे स्वातिरेकिवेदान्तजन्यसंविदन्तरापेक्षा-नियतिसद्भावाद्व्यभिचारः इत्यर्थः । अस्तु तर्हि स्वव्यवहारशब्देन स्वरूपमात्रव्यवहार एव विवक्षित इति द्वितीयः। आत्मनि स्वप्रकाशत्वाद्वितीयत्वादिविशिष्टव्यवहारे विशेषणोपनायकमानापेक्षानियमेऽपि स्वरूपमात्रव्यवहारे तदपेक्षाऽभावेन तत्र व्यभिचाराप्रसङ्गादिति शङ्कते- निर्विकल्पकेति ।। असिद्धिरिति ।। घटस्यापि घटत्वादि-विशिष्टव्यवहारे विशेषणोपनायकमानापेक्षानियमेऽपि स्वरूपमात्रव्यवहारे तदपेक्षाऽभावेनासिद्धिः स्यादित्यर्थः।

घटे विशिष्टव्यवहारातिरिक्तस्वरूपमात्रगोचरव्यवहारस्यैवाभावाद्विशिष्टव्यवहारे च विशेषणोपनायक-मानापेक्षानियमान्नासिद्धिरिति शङ्कते- घट इति ।। आत्मन्यपि स्वप्रकाशत्वाद्वितीयत्वादिविशिष्टव्यवहारातिरिक्त-स्वरूपमात्रगोचरव्यवहारासम्भवाद्विशिष्टव्यवहारे च विशेषणोपनायकमानापेक्षानियमात्तत्र व्यभिचार एवेति भावेनाऽह- आत्मन्यपीति ।। नन्वात्मनि सौषुप्तिकव्यवहारस्यैव स्वप्रकाशत्वाद्वितीयत्वादिविशिष्टव्यवहाराति-रिक्तस्वरूपमात्रगोचरव्यवहारत्वात्तत्र च संविदन्तरानपेक्षतया न तत्र व्यभिचार इति शङ्कते- सुषुप्ताविति ।। विवादादिति ।। एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शेन तस्य विशिष्टत्वेनैव सिद्ध्या स्वरूपमात्र-गोचरत्वासम्प्रतिपत्तेरिति भावः । व्याहतत्वेनेति ।। अवेद्यत्वेन विषयत्वं प्रतिषिध्य पुनर्विषयत्वोक्तेर्व्याहतत्वा-दित्यर्थः । नन्ववेद्यत्वं फलाव्याप्यत्वम् । न वृत्त्यविषयत्वम् । अपरोक्षव्यवहारविषयत्वं तु वृत्तिविषयत्वमेव । तथा च न व्याघात इत्यत आह- कथमिति ।। विशेषणाभावेनेत्यादि ।। यद्यपि विशेषणाभावेनेत्यादेरवेद्यत्वे सति अपरोक्षव्यवहारविषयत्वरूपविशिष्टाभावः किमपरोक्षव्यवहारविषयत्वरूपविशेष्यमङ्गीकृत्यावेद्यत्वरूप-विशेषणाभावमात्रप्रयुक्तोऽभिमतः, उत सत्यप्यवेद्यत्वेऽपरोक्षव्यवहारविषयत्वरूपविशेष्याभावप्रयुक्तः, किं वाऽवेद्यत्वरूपविशेषणस्यापरोक्षव्यवहारविषयत्वरूपविशेष्यस्य च चाभावमभिप्रेत्य वेति सर्वसम्मतत्वात् प्रसिद्धोऽर्थः । तथाच प्रथमपक्षे व्यर्थविशेष्यत्वस्य, द्वितीये स्वरूपासिद्धेः, तृतीयपक्षे व्यर्थविशेष्यत्वविशेष्या-सिद्ध्योश्चाप्रसङ्गात्तदभिधानमसङ्गतमेव । विशेषणाभावप्रयुक्तविशिष्टाभावाभिप्रायकत्वे घटादेश्चैतन्यविषयत्वा-भावेन विशेष्यवद्विशेषणस्यापि सत्त्वादसिद्धेरेव, विशेष्याभावप्रयुक्तविशिष्टभावाभिप्रायकत्वे साक्षिवेद्यसुखादौ भागासिद्धेरेव, उभयाभावप्रयुक्तविशिष्टाभावाभिप्रायकत्वे घटादावसिद्धेरेव प्रसक्त्या व्यर्थविशेष्यत्वस्वरूपा-(पां.टि.) सिद्ध्यादेरप्रसङ्गात् । तथाऽपि विशेषणाभावेनेत्यत्रापरोक्षव्यवहारविषयत्वरूपविशेष्यसत्त्वमङ्गी-कृत्यावेद्यत्वरूपविशेषणाभावेनेत्येवार्थः । तथा चावेद्यत्वाभावे सत्यपरोक्षव्यवहारयोग्यत्वमेवास्वप्रकाशत्वमिति फलितोऽर्थः । एवं विशेष्याभावेनेत्यत्र विशेषणमवेद्यत्वमङ्गीकृत्य विशेष्यापारोक्षव्यवहारविषयत्वाभावेनेत्ये-वार्थः । ततश्चावेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वाभाव एवास्वप्रकाशत्वमिति फलितोऽर्थः । तथोभयाभावेने-त्यत्राप्यवेद्यत्वरूपविशेषणस्यापरोक्षव्यवहारविषयत्वरूपविशेष्यस्य चाभावेनेत्यर्थः । तथा चावेद्यत्वाभावे सत्यपरोक्षव्यवहारविषयत्वाभाव एवास्वप्रकाशत्वमिति फलितोऽर्थः । तथा च प्रथमपक्षे व्यर्थविशेष्यत्वस्य द्वितीयपक्षे स्वरूपासिद्धेः तृतीयपक्षे व्यर्थविशेत्वविशेष्यासिद्ध्योश्च प्रसङ्गान्नात्र ग्रन्थे तदभिधानासङ्गतिरिति द्रष्टव्यम् । अस्तु तर्हि तावान्मात्रस्यैव हेतुत्वमित्यत आह- तस्य चेति ।। ‘वेद्यत्वं हि न वृत्तिविषयत्वम् । तथा सत्यात्मन्यनैकान्त्यापातात् । नापि चिद्विषयत्वम् । घटादौ तदभावेनासिद्ध्यापातात्’ इति दूषणमुक्तमित्यर्थः।

नन्वन्तःकरणे ज्ञानत्वोपचाराद् वृत्तिरज्ञप्तिरिति परग्रन्थानुरोधेन वृत्तेरज्ञप्तित्वेन ज्ञानत्वस्यैवाभावेना-ज्ञानत्वसिद्धेः न वृत्तिभागेऽज्ञानत्वस्य भागासिद्धिरित्यतः, तथा सति परोक्षवृत्त्या स्वविषयेऽज्ञाननिवृत्ति-व्यवहारस्मृत्यभावप्रसङ्गः, अज्ञाननिवृत्त्यादेर्ज्ञप्तिकार्यत्वात् । धर्माधर्मादिकं जानामीत्यनुभवश्च न स्यात्, इत्यादिदोषगणे सत्यपि स्पष्टत्वात्तमुपेक्ष्य दोषान्तरमेवाऽह- आत्मनोऽपीति ।। ज्ञातृज्ञेयशून्यत्वेनेति शेषः । निराकरिष्यमाणत्वादिति ।। ‘न च स्वरूपभूतं ज्ञातारं ज्ञेयं वा विना ज्ञानं दृष्टम्’ इत्यादिनेति शेषः । अज्ञातृत्वादिति ।। ज्ञातृत्वस्य ज्ञानज्ञेयसापेक्षत्वेन सद्वितीयत्वप्रसक्त्या कर्तृत्वे क्रियावेशेन विकारित्वप्रसक्त्या च परेणात्मनो ज्ञातृत्वानङ्गीकारेण तस्याज्ञातृतया तत्रानैकान्त्यप्रसङ्गादिति भावः । न चाऽत्मन्यपि कल्पितस्य ज्ञातृत्वस्य विद्यमानत्वान्नानैकान्त्यमिति वाच्यम् । कल्पितेन हेत्वभावेन व्यभिचारपरिहारेऽतिप्रसङ्गात् । अहङ्कारस्येति ।। पक्षनिक्षिप्तस्येति शेषः । ननु देशकालादीनां सर्वगतत्वाद्यभावात्तेषामपि परिच्छिन्नत्वेन न तत्र भागासिद्धिरित्यतः, माऽस्तु तर्हि भागासिद्धिः, सत्यस्य ब्रह्मणोऽपि सर्वगतत्वाद्यभावेन देशतः कालतश्च परिच्छिन्नतया तत्रानैकान्त्यमवर्जनीयमेवेत्याह- तेषामपीति ।। ननु च ब्रह्मणः श्रुत्यादिना सर्वगतत्वसिद्ध्या परिच्छिन्नत्वाभावेन हेतोरेवागमनान्नानैकान्त्यमित्यतः आकाशरूपदेशकालादेरपरिच्छिन्नत्वेनैव धर्मिग्राहि-णैव साक्षिणा ‘आकाशवत्सर्वगतश्च नित्यः’, ‘सदेव सौम्येदमग्रे’, ‘दृष्ट्वैव तं मुच्यते’, ‘अथ मर्त्योऽमृतो भवति’, ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इत्यादिश्रुत्या सदा सर्वत्र कार्यदर्शनादियुक्त्या च सर्वगतत्वादिसिद्ध्या परिच्छिन्नत्वाभावसिद्धेर्भागासिद्धिरपरिहार्यैवेति भावेनाऽह- श्रुत्यादिकन्त्विति ।। आत्मन इति ।। वस्तु-भिन्नत्वरूपवस्तुपरिच्छिन्नत्वस्याऽत्मन्यपि सत्त्वादिति भावः । निष्प्रतियोगित्वेनेति ।। असत्प्रतियोगि-त्वेनेत्यर्थः । बाधितमिति ।। पटासत्त्वाभावस्य प्रमितत्वादिति भावः । सिद्धसाधनमेवोपपादयति- कार्य-कारणयोरिति ।। अर्थान्तरत्वादिति ।। त्वदभिमतमिथ्यात्वासिद्धेरिति भावः । तस्यापीति ।। सबाधकत्वस्यापि भेदत्वभेदसंवेदनत्वाभ्यामेव साधन इत्यर्थः । मिथ्यात्वेनेति ।। सबाधत्वरूपसाध्यव्यापकताया भेदत्वभेद-(पां.टि.) संवेदनत्ववति पक्षे मिथ्यात्वाभावेन साधनाव्यापकतायाश्च सत्त्वादिति भावः । न च युगपदुभय-साधनान्न मिथ्यात्वस्योपाधित्वमिति वाच्यम् । मिथ्यात्वे विप्रतिपत्तिदशायां तस्यैव साधनीयतया युगपदुभय-साधनस्य प्रकृतानुपयुक्ततया तत्साधनेऽर्थान्तरत्वापातादित्याशयात् । जगत्समुदायः स्वान्तर्भेदहीनः समु-दायत्वात्, आकाशसमुदायवदित्यनुमानमपि दूषयति- स्वान्तर्भेदहीनत्वमपीति ।। साध्यविकलतेति ।। घटादिभेदसत्त्वेन भेदहीनत्वस्यासत्त्वादिति भावः । कल्पकैकजीवेति ।। एकजीववादिमते आत्मनां कल्पकाभेद एव साधनीयः कल्पकजीवानिर्धारणे तु देवदत्तान्न भिद्यन्त इति देवदत्ताभेदप्रतिज्ञा तु नोपपद्यत इति भावः ।

प्रतिज्ञां दूषयित्वा हेतुमपि दूषयति- आत्मत्वञ्चेति ।। असिद्धमेवेति ।। एकमेव शरीरं सजीवम् अन्यानि निर्जीवानीति वदता एकजीववादिना पक्षीकृतानामात्मशब्दवाच्यानां जडत्वाङ्गीकारेण तत्राऽत्मत्वज्ञानत्व-योरभावादिति भावः । देवदत्तस्यैव भोगायतनानीति किं सर्वशरीरेषु देवदत्तस्यावस्थितिमात्रं साधनतयाऽभिमतम् उत  तन्निमित्तकभोगसाधनतयेति  विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- अवस्थितीति ।। अर्थान्तर-मिति ।। देवदत्तस्य सर्वशरीरेष्ववस्थितिमात्रसिद्धावपि तन्निमित्तकभोगासिद्ध्या तत्तदधिष्ठातृजीवाभेदासिद्धे-रिति भावः । द्वितीयं दूषयति- तन्निमित्तेति ।। देवदत्तस्य तत्तच्छरीरावस्थितिनिमित्तभोगस्य तत्तच्छरीराधि-ष्ठातृजीवाभेदाभावेऽपि परपुरप्रवेशमात्रेणोपपन्नत्वेन विप्रतिपन्नभोगासिद्धेरर्थान्तरतैवेत्यर्थः । तत्तच्छरीरेष्वधिष्ठित-चेतनस्य भोगमङ्गीकृत्य देवदत्तस्यापि तत्तदवस्थितिनिमित्तभोगसाधने देवदत्तस्य परपुरप्रवेशसिद्ध्याऽर्थान्तरत्व-प्राप्तावपि तत्तदधिष्ठितचेतनान्तरस्य भोगमनङ्गीकृत्य देवदत्तस्यैव भोगसाधनेन परपुरप्रवेशमात्रसिद्ध्याऽर्थान्तर-मिति भावेन शङ्कते- देवदत्तस्यैवेतीति ।। एवमपि देवदत्तस्य तत्तदधिष्ठातृजीवाभेदाभावेऽपि अधिष्ठातृ-चेतनान्तरस्य भोगाभावेऽपि च देवदत्तस्यैव भोगस्तस्य ब्रह्मग्रहत्वमात्रेणोपपन्नः । ब्रह्मग्रहाविष्टशरीरेऽन्यस्य सतोऽपि चेतनस्य भोगाभावेन तदभेदाभावेऽपि चाविष्टस्य ब्रह्मग्रहस्यैव भोगदर्शनात् । ततश्च विप्रतिपन्नसर्वाभेदस्य देवदत्तेऽसिद्धेरविप्रतिपन्नब्रह्मग्रहत्वसिद्धेरर्थान्तरभेदो वेत्याऽह- ब्रह्मग्रहेति ।। ननु सर्वदा देवदत्तस्य भोग-साधनादाविष्टस्य ब्रह्मग्रहस्यैव कादाचित्कभोगेऽपि सर्वदा तस्यैव भोगाभावात्सर्वदा भोगवतो देवदत्तस्य ब्रह्मग्रहत्वस्य बाधितत्वान्न तद्भावसिद्ध्याऽर्थान्तरतेत्यतः एवं तर्हि माऽस्त्वर्थान्तरत्वम् आविष्टब्रह्मग्रहस्येव तत्र सतो देवदत्तस्यापि सर्वदा भोगस्यासत्त्वात्तत्साधने बाधः स्यादेवेत्याशयेनाऽह- सर्वदेति ।। विशेषणे बाध इति ।। कथमित्यत आह- सुषुप्त्यादाविति ।। सुप्तिप्रलययोर्देवदत्तस्य भोगाभावादित्यर्थः । ननु सुप्त्यादावभावेन सर्वदा भोगसाधनत्वस्य बाधितत्वेऽपि जाग्रद्दशायां देवदत्तस्य सर्वदा भोगसद्भावात्तत्साधनेन बाध इत्यतो माऽस्तु तर्हि बाधो, दृष्टान्ते साध्यवैकल्यं तु भविष्यत्येवेति तत एवानुमानस्याऽभासत्वं सिध्यती-त्याशयेनाऽह- जाग्रत्त्वविशेषणेऽपीति ।। तत्कथमित्यतस्तदुपपादयति- तत्रापीति ।। दृष्टान्तीकृते देवदत्त-शरीरे कदाचिद् ब्रह्मग्रहानुप्रवेशे तस्यैव तद्दशायां तच्छरीरे सुखदुःखादिभोगेन देवदत्तस्य भोगाभावेन देवदत्त-शरीरस्यापि न देवदत्तं प्रति जाग्रद्दशायां सर्वदा भोगसाधनत्वमिति भावः । एतावता तद्दूषणसमाप्तौ प्राक्प्रतिज्ञातस्य विरोधिदोषाणामानन्त्यस्य भङ्ग इत्यत आह-  इत्यास्तां विस्तर इति ।।

लघुप्रभा

(व्या.टि.)

अनभिमतव्यावृत्तिं दर्शयति- न त्विति ।। एवं भगवत्पादप्रतिज्ञातानामनन्तानां युक्तीनां तत्तद्योग्य-पुरुषप्रतिभाप्रतीतानां दिक्प्रदर्शनाय प्रतिजानीते- तथा हीति ।। तत्र प्रयोगे लिङ्गप्राधान्यात्तद्दूषयितुं विकल्पेन पृच्छति-किमिदमिति ।। दृगिति ।। आद्यं निरुक्तिलक्ष्यम् । र्ओ कृत्यविधानात् । द्वितीयं सामयिकमिति क्रमः । वृत्तिरूपेति ।। विशेषणविकल्पे विशिश्व्ं विकल्पितमिति भावः । वेदान्तजनितेति ।। ‘अन्यथा वेदान्तश्रवणवैयर्थ्यम्, गुरुशिष्ययोर्मौनं मौढ्यं च, तदुद्देशेन तद्विधिवैयर्थ्यं स्यात्’ इति न्यायामृते विवृतम् । उक्तोद्धारायान्यद्विवक्षति- वृत्तिजनितेति ।। तदभावादिति ।।

न च प्रमाणतोऽन्यस्मात्प्रमितिर्नाम कुत्रचित्’

इत्यनुभाष्ये ज्ञानातिरिक्तायां तस्यां प्रमाणाभावेनाभावोक्तेरित्यर्थः । वृत्तिजन्येति ।। व्यवहारस्य व्यवहर्तव्य-ज्ञानसाध्यत्वादित्यर्थः । द्वितीयं दूषयति- चिद्रूपेति ।। सुखादौ तदुररीकरणाद्धटादावित्युक्तम् । द्वितीयं दूषयितुं पृच्छति- वक्तव्यमिति ।। निर्वक्तव्यमित्यर्थः । किं केन सङ्गतमित्यत उक्तम्- यदभाव इति ।। प्रतियोगि-ज्ञानेऽभावस्य सुज्ञानत्वादित्यर्थः । उक्तं स्यादिति ।। अभावाभावस्य भावत्वादित्यर्थः । अर्थविशेषं पर्यवसाय्य दूषयति- तथा चेति ।। पूर्वोक्तेति ।। वेदनं किं वृत्तिरूपं वा चिद्रूपं वा । नाऽद्यः । आत्मन्यनैकान्त्यात् । द्वितीये घटादावसिद्धिरिति पूर्वोक्तेत्यर्थः । उक्तदोषानुद्दिधीर्षुः स्वप्रकाशत्वमन्यन्निर्वक्ति-स्वव्यवहार इति ।। ‘भावार्थत्वान्नञोर्द्वयोः’ इत्यनुभाष्यदिशा भावपर्यवसानमध्यवसाय्य निराचश्व्े- तर्हीति ।। स्वातिरिक्तसंविदिति तत्पुरुषः कर्मधारयो वा, नोभयथाऽपीत्याह- संविदन्तरेति ।। विशिष्टव्यवहारे विशिष्टज्ञानसाध्ये द्वितीयादि-स्वातिरिक्तज्ञानस्य चिदतिरिक्तवृत्तेरपेक्षणादनैकान्त्यमित्यर्थः । व्यवहारं विविनक्ति- निर्विकल्पेति ।। प्रतिबन्दी गृह्णाति- तर्हीति ।। स इति निर्विकल्पकव्यवहारपरामर्शः । सुषुप्ताविति ।। ‘सुविनिर्दुभ्यः  सुपि-सूतिसमाः’ इति षत्वम् । सुषुप्तावभिलपनाभावेऽप्यभिज्ञाया अपि परेषां व्यवहारत्वादभ्युपगम-वादोऽयमिति रहस्यम् । स्वप्रकाशत्वं पुनरन्यन्निर्वक्ति- अवेद्यत्वे सतीति ।। व्याहतत्वेनेति ।। अपरोक्षज्ञानं विना तत्कार्यव्यवहारायोगेन तदावश्यकत्वाद्व्याघात इति भावः । कथञ्चिदिति ।। अर्थतो व्याहतावपि न साक्षाद्-व्याहतिरिति भावः । फलाव्याप्यत्वादिविवक्षान्तरेण वा योज्यम् । दृश्यत्वमिति ।। विशिष्टाभावरूपमस्व-प्रकाशत्वमित्यर्थः । आद्ये इति ।। विशेषणाभावप्रयोज्यविशिष्टाभाव इत्यर्थः । किं विशेष्येणेति ।। अभाव-प्रतियोगिविशिष्टान्तर्गतेनेति शेषः । विशिष्टान्तर्गतविशेषणाभावस्यैव हेतुतोपपत्तौ विशिष्टाभावहेतूकरणं व्यर्थ-मिति गौरवादिति भावः । तथाऽस्त्वित्याशङ्क्य परिहरति- तस्य चेति ।। उक्तमिति ।। वेदनं किं वृत्तिरूपं चिद्रूपं वेति विकल्प्य तद्दोषाणां प्रत्यापत्तेरिति भावः । स्वरूपासिद्धिरिति ।। घटादौ विशेष्यस्यैव सत्त्वेन तदभावाभावेन तत्प्रयोज्यविशिष्टाभावोऽप्यसिद्ध इति भावः । तृतीय इति ।। उभयाभावप्रयोज्य इत्यर्थः । व्यर्थविशेषणत्वमिति ।। विशेषणाभावस्यैव हेतुत्वसम्भवे हेतूकृतविशिष्टाभावप्रतियोगिकोटौ विशेष्यस्य वैयर्थ्येन तद्विशेषणतयोपादानं व्यर्थमित्यर्थः । क्वचिद्व्यर्थविशेष्यत्वमित्येव पाठः । विशेष्यासिद्धिश्चेति ।। निर्विशेष-(व्या.टि.) चिन्मात्रेऽपरोक्षव्यवहारविषयत्वाभावेन घटादावेव प्रतियोगिप्रसिद्धेस्तत्रैव तदभावोक्तौ विशेष्यस्य प्रतियोगिनोऽप्रसिद्धिः स्यादित्यर्थः । एतेन विशिष्टाभावस्यैकत्वेन न विशेष्यवैयर्थ्यादेरवकाश इति निरस्तम् । हेतूकृतविशिष्टाभावप्रयोजकत्वेनोपादानेन तदप्रयोजकत्वे वैयर्थ्यादेरपरिहारादिति । यद्वा विशेषणाभावेने-त्यादेर्वेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वरूपं वा अवेद्यत्वविशिष्टापरोक्षव्यवहारविषयत्वाभावस्तद्रूपं वा वेद्यत्वविशिष्टापरोक्षव्यवहारविषयत्वाभावस्तद्रूपं वा दृश्यत्वं निर्वक्तव्यमित्यर्थः । तत्र च किं विशेष्येणेत्यादिक-मनायासेन योज्यम् ।

द्वितीयं हेतुं निरसितुं विकल्प्य पृच्छति- जडत्वमपीति ।। निराकरिष्यमाणत्वेनेति ।। स्वपरविषयाभावेनेति शेषः । अज्ञातृत्वादिति ।। ज्ञानरूपस्य क्रियात्वेन कर्तृत्वरूपकारकत्वानुपपत्तेरित्यर्थः । ज्ञातृत्वाङ्गीकारे-णेति ।। वादिनेति शेषः ।

परिच्छिन्नत्वमपि परिचितकल्पविकल्पेन पृच्छति- परिच्छिन्नत्वमपीति ।। एकोक्त्या पक्षद्वयं निरस्यति- सर्वगतेषु नित्येष्विति ।। कालाकाशादिष्विति ।। आदिपदेन प्रकृतिवर्णादिपरिग्रहः । यथोक्तं तत्त्वोद्योते-‘प्रकृतिकालादिषु’ इति । नन्वेवं तत्त्वोद्योतस्यानुभाष्यनिर्णयाभ्यां विरोधः । अनुभाष्ये ह्यपरोक्षज्ञान-तारतम्योक्तिप्रस्तावे ‘त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणम्’ इति वाण्यास्त्रैगुण्यादूर्ध्वमापरोक्षोक्त्या प्रकृतेः परिच्छिन्नत्वविज्ञानात् । स्पश्व्ं च निर्णये-‘अबग्नीरनभोऽहंकृन्महत्तत्वगुणत्रयैः । क्रमाद्दशगुणैर्युक्तम्’ इतीति चेत् । मैवम् । सम्मुग्धाकारेण निर्देशेऽपि प्रकृतेः कालपरिच्छेदाभाव एव । कालाकाशादीनां तूभयपरिच्छेदाभाव इति यथायोगमन्वयात् । प्रकृतिः न विभ्वी, विकारिकारणत्वात्, तन्त्वादिवत् । न चासिद्धिः । ‘प्रकृतिं तु विकारिणीम् । विकार एव जननम्’ इति स्मृत्या तत्सिद्धेः । अत एवात्र कालाकाशयोरेव मुख्यतो ग्रहणम् । प्रकृतेश्च आदिपदेनेति । चित्प्रकृतिग्रहणे तु न शङ्कापङ्कः । अत एव न्यायामृते प्रकृतिस्थाने आकाशो गृहीत इति न कोऽपि दोष इति रहस्यम् । भागासिद्धिं परिहरति- तेषामपीति ।। तर्ह्येकं सन्धित्सोरपरं प्रच्यवते इत्याह- ब्रह्मणोऽपीति ।। कुत इति ।। देशकालयोरपरिच्छेदे ताभ्यामपरिच्छेदो ब्रह्मणो युज्यते । तयोः परिच्छेदे तद्व्याप्तत्वस्यापरिच्छिन्नत्वरूपत्वासम्भवेन ब्रह्मणोऽपि देशकालापरिच्छेदो व्याहतः स्यादिति भावः । श्रौतार्थेन युक्तिपराहतिरित्याशङ्क्य समः समाधिरित्याह- श्रुत्यादिकन्त्विति ।। ‘अनन्तं ब्रह्म’ इत्यादिवत् ‘आकाशवत्सर्वगतश्च नित्यः’ इत्यादेरपि सत्त्वादित्यर्थः    विशिश्व्ं न व्यभिचरतीत्याशङ्कते- पारमार्थिक इति ।। उत्तरयति- स इति ।। इति परिच्छिन्नत्वभङ्गः । स्वात्यन्ताभावसामानाधिकरण्यं मिथ्यात्वमित्युपे-त्यानुमितम्- अयं पट इत्यादि ।। तद्दूषयति- अस्य पटस्येति ।। निष्प्रतियोगिकत्वेनेति ।।

अत्र शङ्क्यते । अत्यन्तभावस्य निष्प्रतियोगिकत्वमसिद्धम् । प्रतियोग्युल्लेखमन्तराऽभावप्रतीत्यनुपपत्तेः । अभावस्य सद्भा्यां निरूप्यत्वात् । न हि कोऽपि नास्तीत्येव प्रत्येति । किन्तु इदमिह नास्तीति । न च निष्प्रति-योगिकत्वं नाम न प्रतियोग्युल्लेखविधुरत्वं, किन्तु निःस्वरूपप्रतियोगिकत्वम् । तथा च पटस्यात्यन्ताभाव-(व्या.टि.) प्रतियोगित्वसाधनेन तस्य निःस्वरूपत्वपर्यवसानेन तस्य प्रमाणविरुद्धत्वाद्बाधितत्वमित्यर्थ इति वाच्यम् । अत्यन्ताभावस्य निःस्वरूपमात्रप्रतियोगिकत्वाऽसम्प्रतिपत्तेः । अप्रमाणिकात्यन्ताभाववत्प्रामाणिक-प्रतियोगिकात्यन्ताभावस्यापि घटो नास्तीत्याद्यध्यक्षसिद्धत्वात् । न हि घटो नास्तीत्यादिप्रतीतेः शशशृङ्गं नास्तीति प्रतीत्या मात्रयाऽपि विशेषोऽनुभूयते । न च तस्य निषेधत्वेऽपि नात्यन्ताभावत्वमिति वाच्यम् । तर्ह्यभाव-त्रैविध्यभङ्गापत्तेः । सदाऽभावस्यैवात्यन्ताभावत्वेन नाममात्रे विवादायोगात् । विवृतं चैतदधस्तात् । तस्मात् प्रामाणिकप्रतियोगिकात्यन्ताभावस्यापि प्रामाणिकत्वेन पटस्य निःस्वरूपत्वाभिधानमुखेन बाधाभिधान-मयुक्तमिति चेत्, अत्राऽभाति । अयमभिसन्धिः टीकाकाराणाम् । सत्यं प्रामाणिकप्रतियोगिकोऽ-प्यत्यन्ताभावोऽस्तीति । तथाऽपि नात्यन्ताभावप्रतियोगित्वसाधने निःस्वरूपत्वपर्यवसानेन बाधं ब्रूमः । किन्तु सार्वत्रिकात्यन्ताभावप्रतियोगित्वसाधने । तदेव ह्यत्यन्तासत्त्वम् । यथोक्तं न्यायामृते-

त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता ।

सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी’ इति ।

न्ययासुधायां च ‘यद्धि सकलदेशकालासत्तदत्यन्ताभावप्रतियोगि इत्युच्यते यथा शशविषाणादिकम्’ इति । परेणापि मिथ्यात्वसाधनमनुशयानेन सर्वदेशीयनिषेधप्रतियोगित्वमेव साधनीयम् । अन्यथाऽर्थान्तरापत्तेः । अत एव परकीयानुमाने पक्षनिर्देशेऽयमिति निर्देशः । अन्यनिष्ठात्यन्ताभावप्रतियोगीति तदर्थः । दूषणेऽपि अस्येति अन्यनिष्ठात्यन्ताभावप्रतियोगिन इति परोक्तानुवादः । तथा चायं निष्कर्षः । अन्यनिष्ठात्यन्ताभाव-प्रतियोगिनः पटस्यैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वे साधिते सार्वत्रिकात्यन्ताभावप्रतियोगित्वापत्त्या निस्स्वरूपत्वपर्यवसानेन व्याघाताभिधानं युक्तमिति ।

अवृत्तित्वं प्रतिज्ञार्थ इत्याशङ्क्य निराचश्व्े- एतत्तन्तुष्विति ।। सिद्धसाधनव्युत्पादनाय सिद्धिं व्युत्पादयति- कार्यकारणयोरिति ।। अभेदेनेति ।। सदसत्कार्यवादसाधनादित्यर्थः । पक्षान्तरं विवक्षित्वा प्रतिक्षिपति- एतत्तन्तुकार्यो न भवतीति ।। कार्यशब्दस्य ‘कृत्याश्च’ इति विशेष्यलिङ्गता । अन्यकार्यत्वेत्यतः परमन्यतरेति ग्राह्यम् । युगपद्विरुद्धोभयासिद्धेरिति हृदयम् । एवमिति ।। दिष्टदिशेति भावः । भेदतद्धियोर्मिथ्यात्वभ्रान्तित्वा-नुमाने निराचश्व्े- भेदत्वेनेति ।। सबाधत्वेनेति ।। ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ इति तृतीया । तत एवेति ।। पूर्वहेतुत एवेत्यर्थः । परोदीरितं भेदाभावसाधनमपि न प्रौढिमाढौकत इत्याशयानोऽनूद्यावद्यति- स्वान्तर्भेद-हीनत्वमपीति ।। अत्र स्वान्तर्भेदशून्यताशब्देन जगत्समुदायस्य समुदायप्रतियोगिकभेदराहित्यं विवक्षितं किं वा अविशेषितप्रतियोगिकभेदराहित्यं विवक्षितमुत समुदायिप्रतियोगिकभेदराहित्यमथवा समुदायिनां परस्पर-प्रतियोगिकभेदराहित्यमिति चतुर्धा विकल्प्याऽद्यं कल्पं निराचश्व्े- समुदायस्येति ।। द्वितीयं पराह- भेद-हीनत्वमात्रेति ।। आकाशस्य कालादिभ्यो भेदाभावादिति भावः । द्वितीयं निराचश्व्े - यथेति ।। अभिन्न-त्वेनेति ।। तत्रैवांशांशिनोरपीति तत्समर्थनादित्यर्थः । तुरीयस्तु ‘व्योम्नोऽपि संयोगित्वेन सावयवत्वसाधना-(व्या.टि.) द्दृष्टान्तस्य साध्यवैकल्यम्’ इति वादावलीदिशा बहिरेव व्युदसनीय इति दिक् । विशिष्य जीवाभेदबोध-हेतुवादान्निरस्यति- विमता इत्यादिना ।। अनिर्धारण इति ।। नामविशेषनिर्धारणाभाव इत्यर्थः । एकजीववादस्यैव मायावादिपरमसिद्धान्तत्वादिति भावः । प्रतिज्ञां प्रदूष्य हेतुं दूषयति- आत्मत्वं चेति ।। जात्यङ्गीकारे व्यक्तिभेदापत्तेर्ज्ञानत्वस्य सविषयत्वाद्यन्यतराभावेनाङ्गीकारानर्हत्वादुभयवाद्यसिद्धमित्यर्थः । क्रिया-कारकसाङ्कर्यसाधकानुमानानि निराचश्व्े- सर्वशरीरादीनामिति ।। सर्वगत्वेति ।। देवदत्तस्येति शेषः । अर्थान्तर-व्यावृत्तये भोगं विशिनष्टि- तन्निमित्तेति ।। अर्थान्तरतेति ।। प्रत्यगभेदासिद्धेरिति हृदयम् । तद्भावेति ।। देवदत्तादेर्ब्रह्मग्रहाभाव इत्यर्थः । बाधोद्धाराय विशिंषतोऽन्यो दोषः प्रादुःष्यादित्याह- जाग्रत्त्वेति ।। जाग्रन्ति शरीराणीति विशेषण इत्यर्थः । तत्रापीति ।। देवदत्तशरीरेऽपीत्यर्थः । सम्भवादिति ।। ब्रह्मग्रहानुप्रवेशे प्रविष्ट-ग्रहस्यैव भोगेन देवदत्तभोगाभावात् साध्यविकलता स्फुटैवेति भावः । ग्रन्थगौरवभयादुपरम्यत इत्याह- आस्ता-मिति ।। विस्तर इति ।। ‘प्रथने वाव शब्दे’ इति घञः पर्युदासादबिति भावः ।