नचोच्चारणकाल एव ..

वर्णोत्पत्तिनिरासः

मूलम्

- नचोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्यम् ; तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात् ।

तत्त्वमञ्जरी

ननु प्रत्युच्चारणं वर्णानामुत्पत्तिदर्शनात् तत्क्रमात्मकस्य वेदस्य कथमनुत्पत्तिरित्यत आह - न चोच्चारणेति ।। यन्मया पुराऽधीतं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात् ।

टीका  

ननु तथाऽपि नापौरुषेयत्वं वेदस्योपपद्यते, तस्य वर्णसमुदायरूपत्वात्, वर्णानां चोच्चा-रणेनोत्पद्यमानत्वात् । न चोत्पत्तिमतां समुदायिनां समुदायो नोत्पत्तिमानिति युज्यते । नच वाच्यं प्रागुच्चारणादनुपलब्धा वर्णा उच्चारणे सत्युपलब्धाः पुनर्नोपलभ्यन्त इत्येवानुभवसिद्धम्, नतु तेषामुत्पत्तिर्विनाशो वा । नचोपलब्ध्यनुपलब्धिमात्रेणोत्पत्त्याद्यध्यवसायो युक्तः । तथा सत्युपलभ्याऽनुपलब्धानां घटादीनां तदैवोत्पत्त्यादिप्रसङ्गादिति । वर्णास्तावन्न घटादिवदन्यत आगत्यान्यत्र गता अमूर्तत्वात् । तदपि गुणत्वात् । द्रव्यत्वेऽपि सर्वगतत्वात् । अणुत्वेऽ-तीन्द्रियत्वापत्तेः । मध्यमपरिमाणत्वे नित्यत्वविरोधात् । नापि केनचित् प्रागावृतत्वादनुपलब्धा आवरणापगतावुपलभ्य पुनस्तदुपनिपातान्नोपलभ्यन्ते । आवरकानुपलम्भाद्, अमूर्तत्वेनाऽ-वरणानुपपत्तेश्च । नचेन्द्रियदोषादनुपलब्धिः । वर्णान्तरोपलब्धेः । नच श्रोतुरनवधानम् । अवधानेऽप्यनुपलम्भात् । नचातीन्द्रियाः । उच्चारणेऽप्यनुपलब्धिप्रसङ्गात् । नच सहकार्यभावः । अन्वयव्यतिरेकवतस्तस्यानुपलम्भात् । उच्चारणं सहकारीति चेन्न । नकिञ्चित् (अकिञ्चित्) कुर्वतः सहकारित्वानुपपत्तेः । नच व्यञ्जकम् । भिन्नदेशत्वात् । उच्चारणं हि वक्तृवक्त्रे वर्तते वर्णास्तु श्रोतृश्रोत्रदेशे प्रतीयन्ते । नहि विभिन्नदेशयोर्घटालोकयोर्व्यङ्ग्यव्यञ्जकभावोऽस्ति । तस्मादा-गमनाद्यनुपपत्तौ उच्चारणानन्तरोपलब्धिर्वर्णानां तदुत्पाद्यत्वेनैवोपपद्यते । अन्यथा कुलाल-व्यापारानन्तरमुपलभ्यमानो घटोऽपि तदनुत्पाद्य आपद्येत । तदेवं समुदायिनां वर्णानां पुरुषव्यापारोत्पाद्यानां वीचीतरङ्गन्यायेन श्रोत्रदेशे वर्णान्तरजनकत्वं, तेषां चोपलब्धिरित्येवं तत्समुदायरूपस्य वेदस्यापि पौरुषेयत्वमेव युक्तमित्यत आह- नचोच्चारणेति ।। सामीपिकाधिकरणे सप्तमी । उच्चारणकालानन्तरमेवेत्यर्थः    उच्चारणस्य काल उच्चारणकालः, आनन्तर्यलक्षणः सम्बन्धः षष्ठ्यर्थ इति वा । तदनन्तरमेव विनाशश्चेत्यपि द्रष्टव्यम् । कुतो न वाच्यमित्यतो व्यञ्जकभावाभावाभ्यामेवोपलम्भानुपलम्भौ, उच्चारणन्तु व्यञ्जकजनकत्वेनोपयुज्यते, व्यञ्जकाश्च ध्वनयः, ते च नाभसा इत्यादिकं वक्तुम्, अस्याश्च कल्पनाया वर्णानामनादिनित्यत्वव्यवस्थितावेव सम्भवात् तत्साधकमुत्पत्त्याद्यङ्गीकारे च बाधकं प्रमाणं हेतुत्वेनाऽह- तदेवेदमिति ।। उच्यतेऽभि-धीयते अर्थोऽनेनेति वर्णोऽत्र वचनशब्देन गृह्यते । पूर्वं गकारं श्रुतवतः पुनस्तच्छब्दश्रवणे स एवायं गकार इति तावत् प्रत्यभिज्ञा जायते । सा च श्रुतश्रूयमाणगकाराभेदं गोचरयन्त्युच्चारणजन्यत्वं विरुणद्धि । नहि प्राक्तनस्येदानीन्तनेनोत्पत्तिर्युज्यते । एवं पूर्वं पूर्वतरमित्यनादिनित्यतैव वर्णानां प्रत्यभिज्ञया सिद्ध्यति ।

भावबोधः

तदैवोत्पत्त्यादिप्रसङ्गादिति ।। न च वाच्यमिति पूर्वेणान्वयः । ननु परेणोच्चारणस्य वर्णकारण-त्वाङ्गीकारात् कथमुच्चारणकाले वर्णानामुत्पत्तिरित्युक्तमित्यतो व्याचश्व्े- सामीपिकाधिकरण इति ।।

भावदीपः

तथाऽपीति ।। वेदस्यापौरुषेयत्वे प्रामाण्यहानेरभावेऽपीत्यर्थः ।। उत्पद्यमानत्वादिति ।। वर्णाना-मुत्पद्यमानत्वात् तत्समुदायरूपस्य वेदस्यापौरुषेयत्वं न सम्भवतीत्यभ्युपेत्योक्तम् । वस्तुतस्तु वर्णानामुत्पत्ति-विनाशवत्त्वेऽपि नियतानुपूर्वीकत्वरूपानादिनित्यत्वलक्षणापौरुषेयत्वस्य सम्भवात् । ‘वस्तुतत्वविचारकं प्रति तु वर्णानां कूटस्थनित्यत्वमुपपादितम्’ इति सुधोक्तेः, ‘अभ्युपगम्य वा इदमुक्तम्’ इति तर्कताण्डवे चोक्तेः । नच वाच्यमित्यस्योत्पत्त्यादिप्रसङ्गादितीतिपदेनान्वयः ।। विनाशो वेति ।। अनुभवसिद्ध इत्यनुवर्त्यम् । कुतो न वाच्यमित्यत आह पूर्ववादी- वर्णास्तावदित्यादिना ।। असिद्धो हेतुरित्यत आह- तदपि गुणत्वादिति ।। ज्ञेयमिति योज्यम् । रूपादिवदिति भावः ।। अतीन्द्रियत्वेति ।। अणुद्रव्यस्य परमाण्वादेस्तथात्वदर्शनादिति भावः ।। नित्यत्वविरोधादिति ।। घटादेरिवेति भावः । कुतो नापीत्यतो हेतुमाह- आवरकेति ।। अमूर्तत्वे-नेति ।। द्रव्यस्यामूर्तस्य परिमितपरिमाणाभावात् तादृशस्यैव घटादेरावरणदर्शनादिति भावः ।। अतीन्द्रिया इति ।। वर्णा इत्यनुषङ्गः । नकिञ्चिदिति नसमासः । किमप्यकुर्वत इत्यर्थः ।। व्यञ्जकमिति ।। उच्चारणमित्यनुषङ्गः ।। तस्मादिति ।। उच्चारणस्य व्यञ्जकत्वायोगादित्यर्थः ।। तदेवमिति ।। तत् तस्मात् नित्यत्वायोगाद् एवम् उक्तदिशा । पुरुषव्यापारोत्पाद्यानामित्यन्वयः । ननूत्पत्तिपक्षेऽपि भिन्नदेशत्वापरिहाराच्छ्रोतृश्रोत्रेणोपलब्धिः कथमित्यत आह- वीचीतरङ्गेति ।। तटाकमध्ये पाषाणादिप्रक्षेपे सति चक्राकारतयाऽष्टदिक्सम्बन्धित्वेनोत्पन्न-तरङ्गपरम्परा तीरदेशं यथा प्राप्नोति तथैव वक्तुर्वक्त्रदेशोत्पन्नशब्दाच्छब्दान्तरं, तस्मादप्यन्यः शब्द इत्येवं श्रोत्रदेशे वर्णान्तरजनकत्वमित्यर्थः । स्त्रीरूपोऽणुतरङ्गो वीचीत्युच्यते । स्थूलः पुंतरङ्गस्तरङ्ग उच्यत इति ध्येयम् ।। सामी-पिकाधिकरण इति ।। द्वितीयाध्यायतृतीयपादे ‘सप्तम्यधिकरणे च’ इति सूत्रेणाधिकरणे सप्तमी भवति । चकाराद्दूरान्तिकार्थेभ्यश्च भवतीत्यधिकरणे सप्तमी विहिता । अधिकरणं च ‘आधारोऽधिकरणम्’ इति सूत्रेणोक्ताऽधारः । स चाऽधारश्चतुर्धा । औपश्लेषिकः सामीपिको विषयो व्याप्तिश्चेति । स्थाल्यां पचति, नद्यामास्ते, तर्के कुशलः, सर्वस्मिन् स्थितः, इत्युक्तत्वादिह नद्यामास्त इत्यत्रेव सामिपिकाधिकरणे सप्तमीत्युक्तम् ।। आनन्तर्यलक्षणस्सम्बन्ध इति ।। ‘षष्ठी स्थाने योगा’ इति सूत्रभाष्ये ‘एकशतं षष्ठ्यर्थाः’ इत्युक्तेरयमपि तन्मध्ये कश्चिदर्थ इति भावः ।। नाभसा इति ।। नभस्सम्बन्धिनः ।। इत्यादिकं वक्तुमिति ।। ‘अत आकाशगुणे शब्दे व्यज्यमाना वर्णाः’ इत्यादिना वक्तुमित्यर्थः ।। पूर्वं पूर्वतरमिति ।। गकारं स एवायमिति गोचरयन्ती प्रत्यभिज्ञा श्रुतश्रूयमाणगकाराभेदं गमयतीत्येवमनादिनित्यतैवेत्यर्थः।

वाक्यार्थदीपिका

(श्री.टि.)

वर्णानित्यत्ववादी वैशेषिकादिः शङ्कते- नन्विति ।। ननु समुदायिनां वर्णानामुत्पद्यमानत्वेऽपि तत्समुदायरूपस्य वेदस्य नोत्पत्तिरिति चेत्तत्राऽह- नचेति ।। न हीत्यर्थः । उच्चारणेनोत्पत्तिर्नास्तीति सिद्धान्ती शङ्कते- नच वाच्यमिति ।। ननूपलब्ध्यनुपलब्धिभ्यामेवोत्पत्तिविनाशौ साध्यावित्याशङ्क्य निषेधति- नचेति ।। उपलभ्येति ।। आदावुपलब्धिविषयो भूत्वेत्यर्थः ।। तदैवेति ।। उपलब्ध्यादिसमय एवेत्यर्थः ।। प्रसङ्गा-दिति ।। न च वाच्यमित्यन्वयः । कुतो न वाच्यमिति चेदुच्यते । प्रागुच्चारणादनुपलब्धा वर्णा उच्चारणे सत्युपलब्धाः पुनर्नोपलभ्यन्त इत्येतावदेवानुभवसिद्धमित्युक्तं यत्तत्सत्यमेव । तथाऽप्युच्चारणानन्तरोपलब्धिर्वर्णानां तदुत्पाद्यत्वेनैवोपपद्यते नान्यथेति वक्तुं प्रसक्तप्रतिषेधं तावत्करोति- वर्णास्तावदित्यादिना ।। उच्चारणानन्तरम् अन्यतो देशान्तरादागत्योच्चारणोपरमे सति अन्यत्र देशान्तरं प्रति गता इत्यर्थः ।। अमूर्तत्वादिति ।। अमूर्तानां गमनाऽगमनादिक्रियाया अयोगादित्यर्थः । स्वरूपासिद्धिपरिहारायाऽह- तदपीति ।। अमूर्तत्वमपीत्यर्थः । वर्णा अमूर्ता गुणत्वात् । मूर्तत्वं हि इयत्ताऽवच्छिन्नपरिमाणयोगित्वं वक्तव्यम् । तच्च न सम्भवति, गुणे गुणानङ्गीकारादिति भावः । ननु वर्णानां द्रव्यत्वाङ्गीकाराद्गुणत्वं स्वरूपासिद्धमिति चेत्तत्र पृच्छामः । द्रव्यत्वे किं गगनादिवत्सर्वगतत्वमङ्गीक्रियते परमाणुवदणुपरिमाणवत्त्वं वा घटादिवन्मध्यमपरिमाणवत्त्वं वा । आद्ये सर्वगतत्वाद्गमनागमनादिक्रियाऽनुपपत्तिस्तदवस्थेत्याशयेनाऽह- द्रव्यत्वेऽपीति ।। सर्वगतत्वान्नान्यत आगत्या-न्यत्र गता इति सम्बन्धः । न द्वितीय इत्याह- अणुत्व इति ।। वर्णानां श्रोत्रेन्द्रियग्राह्यत्वस्यानुभवसिद्धत्वेन तद्विरोध इति भावः । नापि तृतीय इत्याह- मध्यमपरिमाणत्व इति ।। भवदङ्गीकृतं नित्यत्वं विरुध्येतेत्यर्थः । अन्यथा घटादेरपि नित्यत्वं स्यादिति भावः ।। प्रागिति ।। उच्चारणात् प्रागित्यर्थः ।। अमूर्तत्वेनेति ।। भवन्मते वर्णानां व्याप्तद्रव्यत्वाद्गगनादिवदावरणानुपपत्तिरित्यर्थः ।। इन्द्रियदोषादिति ।। श्रोत्रेन्द्रियदोषादित्यर्थः । तथा चेन्द्रियदोषस्यैवाऽवरकत्वमिति भावः । वर्णान्तरेति ।। श्रोत्रेन्द्रियस्यैव दुष्टत्वे वर्णमात्रं नोपलभ्येत । न हीदमनुभूयते । (ककारानुपलम्भेऽपि गकारोपलब्धेरनुभूयमानत्वात् ।) एकवर्णानुपलम्भेऽपि वर्णान्तरानुभवस्य सर्वजनसिद्धत्वात् । तथा च य एको वर्णो नोपलभ्यते तत्राऽवरकमिन्द्रियदोषातिरिक्तं नास्तीत्यर्थः ।

नन्विन्द्रियदोषातिरिक्तं वर्णान्तरानुपलम्भे श्रोतुरनवधानं विषयान्तरमनःसञ्चाररूपो मनोव्यासङ्ग एव निमित्तमित्याशङ्क्य निषेधति- नचेति ।। अवधानेऽपि मनोव्यासङ्गाभावेऽपि ।। अनुपलम्भादिति ।। एक-वर्णोपलब्धिकाले वर्णान्तरस्येत्यर्थः ।। अतीन्द्रिया इति ।। उच्चारणात् प्रागतीन्द्रियत्वान्नोपलभ्यन्त इत्यर्थः । (श्री.टि.) उच्चारणेऽपीति ।।  न ह्यतीन्द्रियं कदाऽप्यैन्द्रियकं भवितुं  युक्तमिति  भावः ।। सहकार्यभाव इति ।। कारणमिति शेषः । उच्चारणात्प्राक् सहकार्यभावान्नोपलभ्यन्त इति भावः । तस्य सहकारिणः । अकिञ्चित्कुर्वत इति ।। यद्धि कार्योत्पत्तौ किञ्चिदुपकारि तदेव हि सहकारीत्युच्यत इति भावः । नन्वकिञ्चित्कुर्वत उच्चारणस्य सहकारित्वानुपपत्तेरिति यदुक्तं तन्न । उच्चारणस्य वर्णव्यञ्जकतया उपकारित्वादकिञ्चित्करत्वाभावात् सहकारित्वोपपत्तिरित्याशङ्क्य निषेधति- न च व्यञ्जकमिति ।। भिन्नदेशत्वादिति ।। समानदेशयोरेव हि व्यङ्ग्यव्यञ्जकभावो दृष्ट इति भावः । भिन्नदेशत्वमेवोपपादयति- उच्चारणं हीति ।। अन्यथेति ।। प्रकारान्त-रानुपपत्तावुपलब्धिस्तदुत्पाद्यत्वेनैवोपपद्यत इत्यनङ्गीकार इत्यर्थः ।। पुरुषव्यापारेति ।। ताल्वोष्ठपुटव्यापार-जन्योच्चारणेत्यर्थः ।। वीचीतरङ्गन्यायेनेति ।। तरङ्गन्यायेनेत्यर्थः । यथा हि स्तिमितजलोपेतवाप्यां मध्ये पाषाणप्रक्षेपे कृते सति मण्डलाकार एकस्तरङ्गो जायते, तस्माच्च  तरङ्गात्पुनस्तरङ्गान्तरं जायते , एवं  क्रमेणान्तिमो  मण्डलाकारस्तरङ्गस्तीरसम्बद्धो भवति । एतन्न्यायेन शब्दाच्छब्दान्तरोत्पत्तिक्रमेणोत्पन्नोऽन्तिमो वर्णात्मकः शब्द एक एव सर्वपुरुषश्रोत्रसम्बद्धो भवति । अस्मिन्पक्षे य एव शब्दस्त्वया श्रुतः स एव मयाऽपीति प्रत्यभिज्ञा प्रमैव । कदम्बमुकुलन्यायपक्षे तु दशदिक्षु दशमुकुलवद्दशदिक्षु दशशब्दसन्तानानि प्रत्येकं जायन्ते । तत्र दशदिक्षु जातेषु शब्दसन्तानेषु जातोऽन्तिमः शब्दस्तत्तद्दिगवस्थितैः पुरुषैः श्रूयते । अस्मिंश्च पक्षे य एव शब्दस्त्वया श्रुतः स एव मयाऽपीति प्रत्यभिज्ञा भ्रमरूपा इति वीचीतरङ्गन्यायकदम्बमुकुलन्याययोर्विशेषो द्रश्व्व्यः । तेषां श्रोत्रदेशोत्पन्नानां वर्णान्तराणाम् ।

ननु परेणोच्चारणस्य वर्णकारणत्वाङ्गीकारात्कथमुच्चारणकाले वर्णानामुत्पत्तिरिति समानकालत्वमुच्यत इत्यत आह- सामीपिकाधिकरण इति ।। सामीप्यमेव सामीपिकं तद्रूपेऽधिकरण इत्यर्थः । वैयाकरणानां मते लक्षणावृत्त्यभावेन गङ्गायां घोषो, वटे गाव इत्यादौ सामीप्यरूपाधिरणे सप्तमीत्युक्त्वा गङ्गासमीपे घोषो, वट-समीपे गाव इति ‘आधारोऽधिकरणम्’ इति सूत्रव्याख्यानसमये सामीप्यादिरूपेणाऽधारश्चतुर्धेत्युक्तत्वात् । एवं च प्रकृते उच्चारणकाल इत्यस्य उच्चारणकालसमीप इत्यर्थः । उच्चारणकालसामीप्यं च अनन्तरकालस्यास्तीति भावेनाऽह- उच्चारणकालानन्तरमेवेत्यर्थ इति ।। उच्चारणकाल इति सप्तम्या आनन्तर्यं लभ्यत इति व्याख्या-येदानीमुच्चारणकाल इत्यत्र षष्ठीविग्रहबलादेवानन्तर्यं लभ्यत इति भावेन व्याचश्व्े- उच्चारणस्य काल इति ।। द्रष्टव्यमिति ।। उच्चारणोपरमानन्तरमित्यर्थः ।। नाभसा इति ।। ते च ध्वनयो भूताकाशगुणा इत्यर्थः । तथा च भूताकाशमेव श्रोत्रं तद्गुण एव ध्वनिः, अतस्तत्प्रदेशवर्ती ध्वनिस्तदवच्छिन्नमेव वर्णं व्यञ्जयतीति न व्यङ्ग्य-व्यञ्जकयोर्भिन्नदेशत्वमिति भावः । इत्यादि इत्यादिपदेन वर्णानां कदाचिदेवोपलब्धिर्न सर्वेषां सर्ववर्णोपलब्धि-रित्यादिकं ग्राह्यम् ।। वक्तुमिति ।। ‘अत आकाशगुणे शब्दे’ इत्यादिनेति शेषः ।। हेतुत्वेनेति ।। उच्चारणकाले वर्णानामुत्पत्तिरिति न च वाच्यमित्यत्र हेतुत्वेनेत्यर्थः ।। तच्छब्देति ।। स चासौ शब्दश्चेति तच्छब्दो गकार-रूपशब्देत्यर्थः । कथं विरुणद्धीत्यत आह- न हीति ।। प्राक्तनस्य गकारस्य । इदानीन्तनेनोच्चारणेन ।। एवं (श्री.टि.) पूर्वं पूर्वतरमिति ।। पूर्वकाले तत्पूर्वकाले चेत्यर्थः । स एवायं गकार इति प्रत्यभिज्ञा सर्वेषां जायत इति शेषः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.) 

।। न चोत्पत्तिमतामिति ।। न चोत्पत्तिमतामपि समुदायिनां समुदायस्यानुत्पत्तिमत्त्वं भवि-ष्यति । अन्यथा उत्पत्तिमतां प्रवाहिणां प्रवाहस्याप्युत्पत्तिमत्त्वप्रसङ्गेन तद् अनादित्वभङ्गापातादिति वाच्यम् । तत्र प्रवाहमध्यपतितैकप्रवाहव्यक्तिसद्भावदशायामपि प्रवाहसत्त्वव्यवहारवत् प्रकृते समुदायमध्यपतितैकसमुदायि-व्यक्तिसद्भावदशायां समुदायस्यासत्त्वेन तत्रेवात्र वैवक्षिकस्यानादित्वस्यासम्भवेन वैषम्यादित्याशयात् । ननु शब्दो द्रव्यं साक्षात्सम्बद्धेन्द्रियग्राह्यत्वात् सङ्ख्यावत्त्वाच्च घटवत् । श्रोत्रं नित्यद्रव्यग्राहकं निरवयवेन्द्रियत्वान्मनो-वदित्याद्यनुमानैर्वर्णानां द्रव्यत्वस्थितेर्गुणत्वमसिद्धमित्यत आह- द्रव्यत्वेऽपीति ।। अमूर्तत्वमिति सम्बन्धः ।। अमूर्तत्वेनेति ।। अङ्गुल्यादेः करणसम्बन्धितयाऽऽवरणत्वेन, आव्रियमाणसूर्याद्यपेक्षयानधिकपरिमाणस्य तदावरणत्वसम्भवेऽपि विषयसम्बन्ध्यावरणस्याऽव्रियमाणापेक्षयाऽधिकपरिमाणस्यैव तदावरणातायाः सर्वत्र दृष्टत्वेन, प्रकृते चाऽवरकत्वेन पराभिमतस्य वस्तुनो विषयसम्बन्ध्यावरणत्वेनाऽव्रियमाणवर्णापेक्षयाऽधिक-परिमाणताया वक्तव्यत्वात् । तस्याश्च वर्णानां सर्वगतत्वेनासम्भवात् । अनधिकपरिमाणया विषयसम्बन्धि-न्याऽविद्यया  सर्वगतस्य  ब्रह्मणोऽनावरणवदनधिकपरिमाणेनाऽवरकेण सर्वगतवर्णानामावरणानुपपत्तेरि-त्यर्थः । नन्वङ्गुल्यादिवत् करणसम्बन्धिनो  दोषस्यैव वर्णाऽवरणत्वाभ्युपगमान्नोक्तानुपपत्तिरित्याशङ्क्य निषेधति- नचेन्द्रियेति ।। न च सहकार्यभाव इति ।। स च सहकारी, किम् उच्चारणातिरिक्तोऽभिमतः, उच्चारणमेव वेति विकल्पद्वयं मनसि निधायाऽद्यमनुपलम्भबाधेन दूषयति- अन्वयेति ।। द्वितीयं शङ्कते- उच्चारणमिति ।। सहकारित्वव्यापकस्य किञ्चित्कुर्वत्त्वस्योच्चारणेऽसत्त्वान्न तद्व्याप्यं सहकारित्वं तस्य सम्भवतीत्याशयेन दूषयति- अकिञ्चिदिति ।। न चेति ।। तथा चाऽलोकादिवद्विषयसंस्कारकत्वादुच्चारणस्य, न तत्र व्यापकीभूतस्य किञ्चित्कुर्वत्त्वस्य निवृत्तिरिति न सहकारित्वानुपपत्तिरिति भावः ।। वीचीतरङ्गन्यायेनेति ।। यथा वीची प्रथमोत्पन्ना वीच्यन्तरमारभते तच्च वीच्यन्तरं तरङ्गान्तरम्, तथा शब्दोऽप्याद्यः सर्वतो दिक्षु सजातीयशब्दान्तर-मारभते तदपि शब्दान्तरमिति वीचीतरङ्गन्यायेनेत्यर्थः । कदम्बगोलकन्यायेनानेकशब्दारम्भपक्षे भिन्नदिगव-स्थितयोः ‘य एव शब्दस्त्वया श्रुतः स एव मयाऽपि’ इति प्रत्यभिज्ञानुपपत्तिः । बाधकाभावाच्च न तज्जातीयविषयत्वकल्पना युक्तेत्याशयेनात्र वीचीतरङ्गन्यायस्यैवानुसरणं कृतमिति ध्येयम् ।

ननु वर्णानामुच्चारणेनोत्पत्तिं वदतोच्चारणकालानन्तरकाले तदुत्पत्तेरङ्गीकारेणोच्चारणकाले तदुत्पत्तेरनङ्गी-कारान्न तत्प्रतिषेधो युक्त इत्यतो ‘नद्यामास्ते’ इत्यत्र नदीपदवाच्यप्रवाहे आसनासम्भवेऽपि तल्लक्षिततीरस्याऽ-श्रयतया गम्यमानत्वात् सामीपिकाधिकरणत्ववद् उच्चारणकालपदवाच्यस्योच्चारणकालस्य वर्णोत्पत्त्यधि-करणत्वाभावेऽपि तल्लक्ष्यस्योच्चारणकालानन्तरकालस्याऽश्रयतया गम्यमानत्वेन सामीपिकाधिकरणत्व-सम्भवान्नद्यामिति सप्तमीवदुच्चारणकाल इति सप्तम्या अपि सामीपिकाधिकरणसप्तमीत्वेन पराभिमतोच्चारण-(पां.टि.) कालानन्तरकाले  वर्णोत्पत्तिनिषेधकत्वलाभान्नानुपपत्तिरित्याशयेनाऽह - सामीपिकेति ।। ‘लक्ष्यार्थे यत्राऽश्रयत्वप्रतीतिस्तत्सामीपिकम्’ इत्यन्यत्र स्पश्व्म् । अस्मिन् पक्षे उच्चारणकालपदस्य तत्समीपकाले लक्षणाऽऽश्रयणीया भवतीत्यपरितोषात्पक्षान्तरमाह- उच्चारणस्येति ।। आनन्तर्यलक्षणश्चेति ।। ‘षष्ठी स्थानेयोगा’ इति सूत्रे ‘एकशतं षष्ठ्यर्थाः’ इति महाभाष्ये ‘ते च स्वस्वामिभावादयः षष्ठीदण्डके पठिताः’ इति कैयटे चोक्तत्वादिति भावः ।। व्यञ्जकेति ।। तथा चानादिनित्यत्वेऽपि न सर्वदोपलब्धिप्रसङ्ग इति भावः । ननु व्यञ्जकमपि किमुच्चारणमुतान्यत् । नाऽद्यः । तस्य भिन्नदेशत्वेन तदयोगात् । नान्त्यः । वर्णसमानदेशस्यान्य-स्याभावात् । भावे वा उच्चारणवैयर्थ्यापातादित्यत आह- उच्चारणन्त्विति ।। ननूच्चारणजन्यस्य ध्वनेर्वर्णव्यञ्जकत्वे ध्वनिना व्यक्तस्य वर्णस्य सर्वदोपलब्धिः स्यादित्यतो ध्वनीनामाशुतरविनाशित्वेन व्यञ्जकाभावान्न सर्वदोपलब्धि-प्रसङ्ग इत्याशयेनाऽह- व्यञ्जकाश्च ध्वनय इति ।। आशुतरविनाशिन इति शेषः । ननु ध्वनीनां वायुगुणत्वेन स्पर्शनेन्द्रियग्राह्यत्वान्न श्रोत्रग्राह्यवर्णव्यञ्जकत्वम् । समानेन्द्रियग्राह्ययोर्घटदीपयोर्व्यङ्ग्यव्यञ्जकभावदर्शनेन भिन्नेन्द्रियग्राह्ययोर्ध्वनिवर्णयोस्तदयोगादित्यतो न ध्वनीनां वायुगुणत्वम् । तथा सति बधिराणामपि स्पर्शनेन्द्रि-येण शब्दोपलम्भापत्त्या बधिराभावप्रसङ्गात् । किन्त्वाकाशगुणत्वमेव । ततश्चोभयोरपि श्रोत्रग्राह्यत्वाद्युक्तो व्यङ्ग्यव्यञ्जकभाव इत्याशयेनाह- ते चेति ।। नन्वेवमपि श्रोत्रस्याऽकाशात्मकतया निरवयवत्वेन तद्गुणस्य ध्वनेः प्रदेशवृत्तित्वानुपपत्त्या सर्वगतत्वेन सर्वत्र वर्णव्यञ्जकत्वापत्त्या देवदत्तस्य वर्णोपलम्भकाले दूरस्थानां यज्ञदत्तादीनामपि तदुपलम्भः स्यादित्यतोऽव्याकृताकाशस्य स्वतो निरवयवत्वेऽपि श्रोत्रस्य भूताकाशात्म-कत्वेनाव्याकृताकाशात्मकत्वाभावाद् भूताकाशस्य च स्वत एव सावयवत्वेन तद्गुणस्य ध्वनेः प्रदेशवृत्तित्वसम्भवेन प्रदेशवर्तिना तेन प्रदेशावच्छिन्नवर्णस्यैवाभिव्यक्तेर्वक्तव्यत्वेन सर्वत्र वर्णानभिव्यक्तेर्देवदत्तस्य तदुपलम्भसमये न यज्ञदत्तादेस्तदुपलम्भप्रसङ्गः इत्याशयेन इत्यादीत्यादिपदम् । ननु तथाऽपि ध्वनिना एकवर्णव्यक्तौ सर्ववर्ण-व्यक्त्यापत्त्या तदा गकारस्येव सर्वेषामपि वर्णानामुपलम्भः स्यादित्यतः परमते वर्णोत्पादकतयाऽभिमतोच्चार-णानामिव तद्व्यञ्जकतयाऽभिमतानां ध्वनीनामपि मन्मते प्रतिवर्णनित्यत्वेन एकेनोच्चारणेनैकस्य वर्णस्येव एकेन ध्वनिनाऽप्येकस्यैव वर्णस्याभिव्यक्त्या तदुपलम्भसम्भवेऽपि सर्वेषामनभिव्यक्तत्वान्न तदोपलम्भप्रसङ्ग इत्या-शयेनाप्युक्तमादीति ।। वक्तुमिति ।। ‘अत आकाशगुणे शब्दे व्यज्यमाना वर्णादयः’ इत्यादिनेति शेषः । अनादिनित्यत्वस्थितावेवेति ।। अन्यथाऽन्योन्याश्रयप्रसङ्गादिति भावः ।

लघुप्रभा

(व्या.टि.)

ननु, वेद उत्पत्तिमान् उत्पत्तिमत्समुदायत्वात् पुलिनपुञ्जवदित्यनुमानमभिसन्धाय शङ्कते- नन्वि-त्यादिना ।। अभिसंहिते विशेषणासिद्धिं वारयति- वर्णानां चेति ।। हेतोरप्रयोजकतां वारयति- नचेति ।। विपक्षे तन्नियतहेतूच्छित्तिर्बाधिकेति भावः । उच्चारणेनोत्पद्यमानत्वस्यासिद्धिं शङ्कते- नच वाच्यमिति ।। उत्पत्तिर्विनाशो वेति ।। अनेन विनाशिसमुदायत्वाद्विनाशित्वमप्यनुमेयमिति सूचितम् । अत्रोत्पत्तिमन्निरू-पितत्वविनाशिनिरूपितत्वयोः क्षणलवादिप्रवाहे व्यभिचारवारणाय विशेष्यम्, जीवसमुदाये तद्वारणाय (व्या.टि.) विशेषणमित्यवधेयम् । वस्तुतस्तु क्षणलवादिप्रवाहव्यावृत्तं धान्यराशिसाधारणं क्रमिकवर्णसमुदाये वेदे समुदायत्वं कथं निर्वाच्यमिति नैयायिकाः प्रष्टव्याः । तदनन्तरमुपलब्ध्यनुपलब्धी एव तदुत्पत्तिविनाशहेतू स्यातामित्यत आह- तथा सतीति ।। घटादौ व्यभिचारान्नैतौ हेतू इति भावः । वर्णा उच्चारणेनोत्पद्यन्ते उच्चारणात् प्रागनुपलभ्यमानत्वे सत्युच्चारणानन्तरम् अनन्यथासिद्धोपलम्भात्, यद् यद्व्यापारात् प्रागनुपलभ्यमानत्वे सति यद्व्यापारानन्तरमुपलभ्यते तत् तद्व्यापारोत्पाद्यम्, यथा कुलालव्यापारजन्यो घटः । वर्णा विनाशिन उच्चारणोप-रमे सत्यनन्यथासिद्धानुपलम्भादिति च प्रयोगद्वयमभिधित्सुरादौ तावद्धेत्वोर्विशेषणासिद्धिं वारयति- वर्णा इत्यादिना ।। उपलम्भानुपलम्भयोरन्यथासिद्धिर्यथायोगम् अन्यतो गत्यागतिभ्याम्, आवरणानावरणाभ्यां वा, इन्द्रियदोषभावाभावाभ्यां वा, अनवधानावधानाभ्यां वा, सहकारिभावाभावाभ्यां वा,  व्यञ्जकभावाभावाभ्यां वा इति विकल्प्य क्रमेण दूषणान्याह- तावदित्यादिना ।। हेत्वसिद्धिमाशङ्क्य साधयति- तदपीति ।। गुणत्वा-दिति ।। शब्दो गुणो बहिरिन्द्रियव्यवस्थाहेतुत्वाद्रूपादिवदित्यनुमानात् तत्सिद्धिरिति भावः । तथा च गुणस्य निष्क्रियत्वाद्गत्यनुपपत्तिरिति हृदयम् । शब्दो न गुणः श्रोत्रग्राह्यत्वाद् शब्दत्ववदिति, शब्दो द्रव्यं साक्षात्सम्बन्धे-नेन्द्रियग्राह्यत्वाद्घटवदिति चानुमिमानं मीमांसकं प्रत्यसिद्धिरित्यत आह- द्रव्यत्वेऽपीति ।। द्रव्यत्वे परिमाणं नियतं, तस्य तल्लक्षणत्वात्, सर्वगतत्वं तु कुत इत्यतः परिशेषसिद्धं तदिति विवक्षुः प्रसक्तपरिमाणद्वयं क्रमेण निरस्यति- अणुत्व इत्यादिना ।। नित्यत्वविरोधादिति ।। तस्य तदभावव्याप्तत्वादिति भावः ।

द्वितीयं दूषयितुमुपक्षिपति- नापीति ।। अनुपलम्भादिति ।। प्रत्यक्षादिप्रमाणैरिति शेषः । साधका-भावमुक्त्वा बाधकमप्याह- अमूर्तत्वेनेति ।। अल्पस्य ततोऽधिकमावरणं यथा पटलादि । श्रुतं च ‘आत्तं वै भूयसा कनीयः’ इति । सर्वगतस्य ततोऽधिकपरिमाणाभावेनाऽवरणासम्भवः । तृतीयं पराह- नचेति ।। अनुपलब्धिरिति ।। उच्चारितस्योच्चारणोपरमे सतीति शेषः ।। वर्णान्तरेति ।। पूर्ववर्णानुपलम्भदशायामेवेति शेषः । प्रतिनियतप्रतिबन्धकप्रतिबध्यत्वे गौरवादिति भावः । तुरीयं निरस्यति- नच श्रोतुरिति ।। अनुप-लम्भादिति ।। श्रुतपूर्वस्येति शेषः ।। अतीन्द्रिया इति ।। अनुपलम्भमात्रान्यथासिद्धिवर्णनमिदम् ।। उच्चा-रणेऽपीति ।। स्वभावस्यानागन्तुकत्वेनानपायादित्यर्थः । पञ्चमं निराह- नच सहकारीति ।। वर्णोपलम्भक-श्रोत्रस्येति शेषः ।। अकिञ्चिदिति ।। ताच्छीलिकणिनेरयोगादिति भावः । षष्ठं निराह- नच व्यञ्जकमिति ।। वर्णानामिति शेषः । एतदुपपादयति- उच्चारणमिति ।। हेतोरप्रयोजकत्वं परिहरति- नहीति ।। तदेवमनन्यथा-सिद्धानन्तरोपलब्धिरुत्पाद्यत्वमेव गमयतीति निगमयति- तस्मादिति ।। विपक्षे बाधकमाह- अन्यथेति ।। एवमनन्यथासिद्धानन्तरोपलब्धिर्विनाशेनैवोपपद्यते । अन्यथा उपलभ्य मुद्गरप्रहारानन्तरमनुपलभ्यमानो घटादि-रप्यविनाश्यापद्येत इत्यपि संयोज्यम् । वीची अल्पतरङ्गः । नन्वन्यथाऽनुवादोऽयम् । न ह्युच्चारणसमये वर्णोत्पत्ति-स्तैरुक्ता । तैरुच्चारणजन्यत्वाभिधानात् । जन्यजनकयोः पौर्वापर्यावश्यम्भावादित्यत आह- सामीपिकेति ।। औपश्लेषिकमभिव्यापकं वैषयिकं सामीपिकं चेति चतुर्विधाधिकरणे, वटे गावः सुशेरत इतिवत् सामीपिकमत्र (व्या.टि.) विवक्षितमित्यर्थः । न च गङ्गायां घोष इत्यादौ लक्षणोच्छेदाऽपत्तिः । अव्यवहितसामीपि-काधिकरणस्य सप्तमीवाच्यतया लक्षणाऽभावेऽपि व्यवहितसमीपे, औपश्लेषिकत्वविवक्षायां वा प्रकृतिलक्षणो-पपत्तेः । केचिदत्रापि प्रकृतेर्लक्षणेत्याहुः । आनन्तर्यं विभक्त्यर्थतया व्याख्याय समासार्थतयाऽपि व्याचश्व्े- उच्चारणस्येति ।। उत्पत्तिरित्युपलक्षणमित्याह- तदनन्तरमेवेति ।। उत्पत्त्यनन्तरकालमेवेत्यर्थः ।। वक्तु-मिति ।। ‘अत आकाशगुणे शब्दे’ इत्यादिनेति शेषः । यद्यपि वैशेषिकमते ये वर्णा उच्चारणोत्पाद्या न ते श्रोत्रेणोपलभ्यन्ते । ये च श्रोत्रदेशे श्रोत्रेणोपलभ्यन्ते न ते उच्चारणजन्या इति, वर्णा उच्चारणजन्या अनन्यथा-सिद्धोच्चारणानन्तरोपलब्धेरिति पराभिमतहेतुसाध्ययोर्वैयधिकरण्यम् । ‘श्रोत्रग्राह्यो गुणः शब्दः’ इति लक्षणासम्भवश्चेति दोषः स्फुरति । तथाऽपि स शिष्यैरेवोह्यतामिति नोक्तम् । वचनपदस्य वाक्यपर्यायता-भ्रमव्युदासाय व्याचश्व्े- उच्यत इति ।। नन्वनया प्रत्यभिज्ञया श्रुतश्रूयमाणवर्णाभेदसिद्धावपि कथमनादिनित्यत्व-सिद्धिरित्यतस्तत्प्रकारं दर्शयति- एवमिति ।। श्रुतगकारस्य पूर्वपूर्वतरकाले उत्तरोत्तरकालेऽपि प्रत्यभिज्ञया ज्ञायमानतयाऽनादिनित्यत्वसिद्धिरित्यर्थः ।