अप्राप्तत्वाच्चेश्वरभेदस्य..
ब्रह्मभिन्नाभेदे दोषकथनपूर्वकं श्रीमन्नारायणस्य सर्वांगमविज्ञेयत्वस्योपसंहारः
मूलम्
- अप्राप्तत्वाच्चेश्वरभेदस्य नाभेदे श्रुतितात्पर्यं युज्यते ।
‘सर्वोत्तमं सर्वदोषव्यपेतं गुणैरशेषैः पूर्णमन्यं समस्तात् ।
वैलक्षण्याज्ज्ञापयितुं प्रवृत्ताः सर्वे वेदा मुख्यतो नैव चान्यत् ।।’
इति महोपनिषदि ।
अतः सदागमैरेव सर्वस्माद्भिन्नत्वेन सर्वस्माद्विशिष्टत्वेन च विज्ञेयो भगवान्नारायण इति सिद्धम् ।
।। इति श्रीमदानन्दतीर्थभगवत्पादविरचितश्रीमद्विष्णुतत्त्वविनिर्णये
प्रथमः परिच्छेदः ।।
तत्त्वमञ्जरी
ननु यद्येवं जीवः स्वज्ञेयः तर्हि तस्य स्वरूपभूतेश्वरात् भेदो विज्ञात एव । प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं गृह्यते । तस्मादीश्वरस्यागमैकवेद्यत्वे सत्यपि तद्भेदस्य द्विष्ठधर्मस्य प्रत्यक्षप्राप्तत्वं स्यात् । अतस्तद्वादिनो वेदस्यानुवादकत्वेन दौर्बल्यादैक्यवाक्यस्याभेदे तात्पर्यं किं न स्यादित्यत आह- अप्राप्तत्वाच्चेति ।। न तावदीश्वरस्य जीवाद् भेदो ज्ञातः । नहि धर्मिण्यज्ञाते धर्मो ज्ञायते । नचान्यतरप्रतियोगिकत्वमात्रादन्यतरधर्मो द्विष्ठो भवति । जीवादीश्वरस्य भेदः ईश्वरधर्मः । ईश्वराज्जीवस्य भेदो जीवधर्म इति व्यवस्थाया दृष्टत्वात् । नन्वेवं सतीश्वरस्यापि प्रतियोगित्वेन ज्ञानमिष्टम् । तज्ज्ञाने तत्स्वरूपभूतो भेदोऽपि ज्ञायेतैवेति । सत्यम् । दृष्टादृष्टार्थजातं सर्वमपि सामान्यतो ज्ञातम् । सामान्यतस्तद्धर्मो भेदोऽपि ज्ञायतां नाम । नच तावता तत्र ज्ञान-व्यवहारः । त्वं विवक्षितवृक्षः प्लक्षो वा (वृक्षयक्षो वा) न वेति परिपृष्टे चैत्रो नाहं स इति जानीते । स कीदृश इत्युक्ते नाहं तं वेदेति हि वदति । अभिहितं चेदं पूर्वत्र- नच युगपज्ज्ञानानुपपत्तिरिति ।
प्रमाणोपन्यासपूर्वकं निगमयति- सर्वोत्तममिति ।।
।। इति प्रथमं विशेषणम् ।।
टीका
द्वितीयपक्षेऽपि न जीवेश्वराभेदे श्रुतितात्पर्यं युज्यत इत्याह- अप्राप्तत्वाच्चेति ।। अभेदो ब्रह्मणोऽन्यश्चेद्भेदाभाव एव वक्तव्यः । अभावः प्रतिषेध इति पर्यायौ । प्रतिषेधप्रतिपादनं च प्राप्तिपूर्वकम् । नच भेदस्य केनापि प्राप्तिरस्ति । ईश्वरस्य प्रत्यक्षाद्यविषयत्वादित्युक्तम् । अतो भेदस्याप्राप्तत्वात् तत्प्रतिषेधात्मकाभेदप्रतिपादकत्वं न युज्यते । ‘द्वा सुपर्णा’ इत्यादिश्रुतिप्राप्त-भेदप्रतिषेधपरत्वे श्रुतीनां स्वव्याघातः स्यात् । अप्राप्तत्वादेव न तासामनुवादकत्वं सम्भवति । अप्राप्तत्वप्रकटनार्थमीश्वरेत्युक्तम् । ईश्वरधर्मिको वा तत्प्रतियोगिको वा भेद ईश्वरभेदः ।
किञ्च जीवेश्वराभेदे श्रुतितात्पर्यस्य श्रुत्यैव प्रतिषिद्धत्वान्न तद्युज्यत इत्याह- सर्वोत्तममिति ।। वैलक्षण्यात् कारणात् । समस्तादन्यम् । न केवलमन्यं किन्तु सर्वोत्तमम् । कुतः? सर्वदोषव्यपेत-त्वात् । अशेषैर्गुणैः पूर्णत्वाच्च । मुख्यतो महातात्पर्येण । अन्यद् अभेदादिकम् ।
एवं विष्णोः सदागमैकवेद्यत्वमुपपाद्योपसंहरति- अत इति ।। एवेत्येकशब्दस्यार्थः । सर्व-स्माद्भिन्नत्वेन समतीतक्षराक्षरत्वेन । सर्वस्माद्विशिष्टत्वेन च निर्दोषाशेषसद्गुणत्वेन च । उभयत्रेत्थम्भूतलक्षणे तृतीया । उभयमपि वीत्युपसर्गस्यार्थः । भगवानिति पूजार्थम् ।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्विष्णुतत्त्वविनिर्णयस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां प्रथमः परिच्छेदः समाप्तः ।।
भावबोधः
ननु ‘द्वा सुपर्णा’ इत्यादिश्रुतीनां भेदानुवादकत्वमेव न तु तद्विधायकत्वमित्यतो न श्रुतीनां परस्परं व्याघात इत्यत आह- अप्राप्तत्वादेवेति ।। ईश्वरधर्मिको वेति ।। तथा च ‘तत्त्वमसि’,‘क्षेत्रज्ञं चापि मां विद्धि’, ‘नेह नानाऽस्ति किञ्चन’ इत्यादीनां सर्वेषामप्यभेदे तात्पर्यनिषेधोऽनेन सिद्ध्यतीति भावः । वीत्युपसर्गस्येति ।। अत एव वीत्युपसर्गं विना ज्ञेय इत्येवोक्तमिति भावः ।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्विष्णुतत्त्वविनिर्णयस्य श्रीमज्जयतीर्थपूज्यचरणविरचितायाः टीकाया विवृतौ श्रीरघूत्तमयतिविरचितायां
भावबोधसञ्ज्ञिकायां प्रथमपरिच्छेदस्समाप्तः ।।
भावदीपः
‘सर्वशब्दावाच्यस्य’ इत्येतदवतारिकायामभेदो ब्रह्मस्वरूपं तदन्यो वेति विकल्पितद्वितीयपक्ष-दूषणपरतया मूलं योजयति- द्वितीयपक्षेऽपीति ।। ईश्वरस्य प्रत्यक्षाद्यविषयत्वादित्युक्तमिति ।। ‘आगमं विनेश्वरस्यैवासिद्धेः’ इत्यादिनोक्तमित्यर्थः । भेदश्रुतीनां निषेधायानुवादकत्वान्न व्याघात इत्यत आह- अप्राप्त-त्वादेवेति ।। सर्वस्माद्भिन्नत्वेनेत्यनुवादः । समतीतेति व्याख्या । सर्वस्माद्विशिष्टत्वेन चेत्यनुवादः । निर्दोषेत्यादि व्याख्या । इत्थम्भूतेति ।। कञ्चन प्रकारं प्राप्त इत्थम्भूतः, तल्लक्षणे तज्ज्ञापने तृतीयेत्यर्थः । भिन्नत्वेन प्रकारेण निर्दोषाशेषसद्गुणत्वेन प्रकारेण च ज्ञेय इति । इत्थम्भूतलक्षणे तृतीयेत्यस्य ‘जरायै ब्रह्मणस्पतिम्’ इत्यत्र ऋग्भाष्यटीकायामेवमेवार्थोक्तेः ।
।। इति श्रीमद्विष्णुतत्त्वविनिर्णयटीकाभावदीपे
श्रीमद्राघवेन्द्रयतिकृते प्रथमः परिच्छेदः ।।
वाक्यार्थदीपिका
(श्री.टि.)
द्वितीयपक्षेऽपीति ।। ‘किञ्चाभेदे श्रुतितात्पर्यमभिलषता मायावादिना वक्तव्यम् । किमभेदो ब्रह्मस्वरूपमुत ततोऽन्यः’ इति विकल्प्याऽद्यो दूषितः । अतः परमवशिश्व्ेऽभेदो ब्रह्मणोऽन्य इति द्वितीय-पक्षेऽपीत्यर्थः । भेदाभाव एव वक्तव्य इति ।। ब्रह्मान्यस्याभेदस्य भावरूपत्वे सत्यत्वेऽद्वैतहानिः । मिथ्यात्वे मुक्तौ तस्य निवृत्तत्वेन जीवब्रह्मणोर्भेदापत्तेर्भेदाभावरूप एव वक्तव्य इति भावः । अभावरूपधर्माणां च सत्यत्वेऽपि नाद्वैतहानिः, ‘अभावरूपा धर्माः नाद्वैतं निघ्नन्ति’ इति मण्डनोक्तेरिति ध्येयम् । केनापि प्रमा-णेन । प्रत्यक्षाद्यविषयत्वादिति ।। तथा च तद्धर्मिकभेदस्याप्यप्राप्तिरिति भावः । इत्युक्तमिति ।। ‘आगमं विनेश्वरस्यैवासिद्धेः’ इत्यनेनोक्तमित्यर्थः । नन्वीश्वरस्य प्रत्यक्षाद्यविषयत्वेन तद्धर्मिकभेदस्य प्रत्यक्षानुमाना-भ्यामप्राप्तत्वेऽपि ‘द्वा सुपर्णा’ इत्यादिश्रुतिप्राप्त एव भेदो ‘नेह नानाऽस्ति’ इत्यादिना प्रतिषिध्यत इत्याशङ्क्य निराकरोति- द्वा सुपर्णेत्यादीति ।। तथा च सर्वासामपि श्रुतीनामेकवाक्यत्वेन स्वयमेव भेदं प्रतिपाद्य पुनस्तन्निषेधे स्वव्याघातप्रसङ्गेन श्रुतीनामुन्मत्तवाक्यत्वं स्यादित्यर्थः । ननु भवेदयं श्रुतीनां स्वव्याघातो यदि ‘द्वा सुपर्णा’ इत्यादिश्रुतीनां भेदविधायकत्वं स्यात् । न चैवम् । भेदानुवादकत्वाङ्गीकारात् । तथा च ‘द्वा सुपर्णा’ इत्यादिना भेदमनूद्य ‘नेह नाना’ इति निषेधे नोक्तदोष इत्यत आह- अप्राप्तत्वादेवेति ।। भेदस्येति शेषः । कथमप्राप्तिर्भेद-स्येत्यत आह- अप्राप्तीति ।। तत्त्वमसीत्यत्र तदितीश्वरं धर्मीकृत्य त्वमसीति जीवभेदाभावाप्रतिपादने ईश्वर-धर्मिकजीवप्रतियोगिकभेदप्राप्त्या भाव्यम् । तथा त्वमिति जीवमनूद्य तदसीति, तथा ‘क्षेत्रज्ञं चापि मां विद्धि’ इति जीवभेदाभावप्रतिपादने जीवधर्मिकेश्वरप्रतियोगिकभेदप्राप्त्या भाव्यम् । सा च न सम्भवति । ईश्वरस्य प्रत्यक्षानुमानाविषयत्वेन तद्धर्मिकस्य वा तत्प्रतियोगिकस्य वा भेदस्याप्राप्तेर्द्वा सुपर्णेत्यादिश्रुतीनामनुवादक-त्वायोगेन विधायकत्वमेव वाच्यम् । तथाच स्वव्याघातप्रसङ्गेन तत्त्वमसीत्यादिश्रुतीनामुन्मत्तवाक्यत्व-मपरिहार्यमिति भावः ।
ननु सदागमैकविज्ञेयत्वं प्रतिपाद्योपसंहारोऽपि तथैव कर्तव्यः । तथा च सदागमैरेवेति कथमुपसंहार इत्यत (श्री.टि.) एकशब्दार्थ एवैवकारेणोच्यते । अतो न दोष इत्याशयेनाऽह- एवेत्येकशब्दस्यार्थ इति ।। ननु सर्वस्माद् भिन्नत्वेन सर्वस्माद्विशिष्टत्वेन चेत्यत्र कथं तृतीया । न च ‘कर्तृकरणयोस्तृतीया’ इति सूत्रेण तृतीयेति वाच्यम् । तयोः कर्तृत्वकरणत्वयोरभावादित्यत आह- उभयत्रेति ।। ज्ञेयत्वरूपप्रकारं प्राप्तो भगवान् इत्थम्भूतः। तज्ज्ञापके सर्वस्माद्भिन्नत्वे सर्वस्माद्विशिष्टत्वे च तृतीयेत्यर्थः । नन्वाद्यपद्ये ‘सदागमैकविज्ञेयम्’ इत्युक्तत्वाद् अत्राप्युपसंहारे विज्ञेयो भगवानिति वक्तव्ये ज्ञेय इत्येव वचने किं निमित्तमित्याशङ्क्य वैलक्षण्यविशिष्टत्व-रूपवीत्युपसर्गार्थस्यैव सर्वस्माद् भिन्नत्वेन सर्वस्माद्विशिष्टत्वेनेति विशेषणद्वयेनोक्तत्वाद्विज्ञेय इत्यनुक्त्वा ज्ञेय इत्येवोक्तमित्याशयेनाऽह- उभयमपीति ।। परिच्छेदान्तेऽपि मङ्गलाचरणस्यावश्यं कर्तव्यत्वज्ञापनायाह- भगवानिति पूजार्थमिति ।। पूज्यत्वज्ञापनार्थमित्यर्थः ।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां
विष्णुतत्त्वविनिर्णयटीकाविवृतौ वाक्यार्थदीपिकायां प्रथमः परिच्छेदः ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
द्वितीयपक्षेऽपीति ।। अभेदो ब्रह्मान्य इति द्वितीयपक्षेऽपीत्यर्थः । श्रुतिप्राप्तेभेदप्रतिषेध-परत्वे त्विति ।। यथा च ‘द्वा सुपर्णा’ इत्यादिश्रुत्या जीवेश्वरभेदप्राप्तिस्तथोपपादितं पूर्वत्र । ननु ‘द्वा सुपर्णा’ इत्यादिश्रुतीनां भेदानुवादकत्वमेव न तु तद्विधायकत्वम् । अतो न श्रुतीनां परस्परं व्याघात इत्यत आह- अप्राप्तत्वादेवेति ।। ईश्वरधर्मिक इत्यादि ।। तथा च ‘तत्त्वमसि’,‘क्षेत्रज्ञं चापि मां विद्धि’, ‘नेह नानास्ति किञ्चन’ इत्यादित्रिविधाद्वैतवाक्यानामप्यभेदे तात्पर्यनिषेधोऽनेन सिद्ध्यतीति भावः । मूले सर्वोत्तममित्यत्र समासव्युत्पादनप्रकारोऽस्माभिः कार्यतावादान्त एव कृतस्तत एव प्रतिपत्तव्यः । इत्थम्भूतलक्षण इति ।। प्रकार इत्यर्थः । वीत्युपसर्गस्येति ।। ‘सदागमैकविज्ञेयम्’ इत्याद्यपद्यगतवीत्युपसर्गस्येत्यर्थः ।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यपादानां निजशिष्येण केशवेन विरचितायां गुरुराजमतानुवर्तिन्यां तत्त्वनिर्णयटीकागतविषमपदवाक्यार्थविवृतौ प्रथमपरिच्छेदः समाप्तः ।।
लघुप्रभा
(व्या.टि.)
द्वितीयपक्षे अभेदस्य ब्रह्मभिन्नत्वे । भेदाभाव एवेति ।। भेदात्यन्ताभाव एवेत्यर्थः । एवेति अस्य भावत्वं व्यावर्तयति । संसर्गाभावमात्रस्य प्रतीतिं वारयति- पर्यायाविति ।। समार्थावित्यर्थः । प्राप्तीति ।। प्राप्तिः प्रसक्तिः । प्रतियोगिन इति शेषः । कुतो नेत्यत सम्बन्धिनोऽप्रसिद्धत्वादित्याह- ईश्वरस्येति ।। ननु ‘द्वा सुपर्णा’ इत्यादीनामनुवादकत्वेन भेदाप्रापकत्वान्न व्याघात इत्यत आह- अप्राप्तत्वादेवेति ।। भेदस्य जीवेश्वरोभयनिरूप्यत्वेनैकग्रहणं किमर्थमित्यत आह- अप्राप्तत्वेति ।। उभयभेदस्येश्वरभेदत्वमुपपादयति- ईश्व-रेति ।। प्रतिषिद्धत्वादिति ।। ‘नैव चान्यत्र’ इत्यंशेनेति भावः । उपलक्षणमेतत् । तात्पर्यान्तरस्योक्तत्वा-च्चेति । वैलक्षण्यादिति हेतौ पञ्चमीत्याह- कारणादिति ।। समस्तादिति प्रतियोगिन्युपपदविभक्तिरित्याशयेनान्वयं दर्शयति- समस्तादन्यमिति ।। न केवलमिति ।। तस्य घटादिसाधारण्येन वेदैदम्पर्याविषयत्वादित्यर्थः । (व्या.टि.) सर्वदोषव्यपेतं, गुणैः पूर्णमित्येतद्द्वयं सर्वोत्तमत्वे हेतुगर्भविशेषणमित्युपेत्यावतारयति- कुत इति ।। ननु कथमयमुक्तोपसंहारः शब्दप्रतिज्ञाभावादित्यतोऽर्थप्रतिज्ञां निदर्शयति- एवेत्यादिना ।। नन्वनुक्तप्रकारद्वयोक्तेः कथमुक्तोपसंहारत्वमित्यतः उक्तित्वेन निर्वक्ति - समतीतेत्यादिना ।। ननु कुतोऽत्र तृतीयेत्यतः सूत्रं पठति- इत्थम्भूत इति ।। अस्यार्थः - स्थितप्रकारज्ञापके तृतीयेति । तदुदाहरणन्तु छात्रेणोपा-ध्यायमद्राक्षीदिति । प्रकृते तु नारायणत्वं कश्चिज्ज्ञाप्यः प्रकारः । तज्ज्ञापकयोर्भिन्नत्वविशिष्टत्वयोस्तृतीये-त्यर्थः । प्रकारद्वयमप्युक्तमित्याह- उभयमपीति ।। फलसिद्धयेऽन्तेऽपि मङ्गलमाचरितमित्याह- पूजार्थ-मिति ।। सैव मङ्गलमिति भावः ।
श्रीमदानन्दतीर्थार्यतरणेः किरणो ह्ययम् ।
जयतीर्थार्ययतिराट् प्रमेयं तत्प्रभावजा ।।
श्रीसज्जनोद्देश्यतत्त्वनिर्णयाय भवेच्चिरम् ।
हृदन्धकारो मन्दानां प्रभया विनिवर्तताम् ।।
क्वाहं मन्दमतिः क्वैषा टीका देवविनिर्मिता ।
तथाऽपि स्वकृतामेनां स्वस्मिन्नेवार्पयेद्धरिः ।।
अमन्दबोधव्याख्याने मन्दबोधकृता कृतिः ।
केवलं परिहासायाप्यनुगृह्णन्तु सूरयः ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीविष्णुतत्त्वविनिर्णयटीकाव्याख्यायां
प्रभायां प्रथमः परिच्छेदः ।।