स एष जीवेनाऽत्मनाऽनुप्रभूतः ..
जीवशरीरेऽदृश्यस्यापि ब्रह्मणो नियामकत्वेन सत्त्वस्य समर्थनम्
मूलम्
- ‘‘स एष जीवेनाऽत्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति । अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति ।। ४ ।। न्यग्रोधफलमत आहरेतीदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीति अण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति । तं होवाच यं वै सोम्यैतमणिमानं न निभालयसे अस्य सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति ।।५।।’’
टीका
अस्त्वीश्वरस्ततो भिन्नस्तथाऽपि जीवस्य तदधीनत्वं कुत इत्यभिप्रायवता पुनः पर्यनुयुक्तः पिताऽब्रवीत्- ‘अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्यात् जीवन् स्रवेत् यो मध्येऽभ्याहन्यात् जीवन् स्रवेत् योऽग्रेऽभ्याहन्यात् जीवन् स्रवेत् स एष जीवेनाऽत्मना’ इत्यादि । अङ्कुरमात्रस्याभ्या-घातेऽवस्थानासम्भवात् महत इत्युक्तम् । यो यः कश्चिद्यदीत्यर्थः । जीवन् जीवेन परमेश्वरेणाधि-ष्ठितश्चेत् तदा स्रवेत् रसमेवोद्गिरेत् । न तु म्रियते । एवं स एष वृक्षजीवः अनेन प्रकृतेन जीवेनाऽत्मना परमात्मना परमेश्वरेणानुप्रभूतः प्राप्तोऽधिष्ठितदेहः । पेपीयमानः पुनः पुनर्भृशं वा पिबन् ।
अनेनेदमुक्तं भवति- यथा वृक्षजीवस्य सर्वदाऽनुपहतात्यक्तदेहेन सुखिनैव मया स्थातव्य-मितीच्छायामपि कदाचिदेव ईश्वरानुग्रहे सति विघातिषु बाह्यकारणेषु सत्स्वप्येवमवस्थानं भवति, कदाचित्पुनरीश्वरानुग्रहाभावे बाह्यकारणबलवत्त्वाभावेऽपि शरीरशोषणत्यागाद्यनिश्व्ं भवति । एवं मानुषशरीरेऽपि जीवस्य ईश्वराधीनत्वं ज्ञातव्यमिति ।। ४ ।।
एवं, जीवस्य सत्तादिप्रदः परमात्माऽत्रैव शरीरे वर्तमानो जीवेन कुतो न दृश्यते । सौक्ष्म्यादिति चेन्न । जीवस्य सूक्ष्मस्वात्मदर्शिनः सूक्ष्मदर्शनशक्तिसद्भावादित्याशयेन पुनः पृष्टे पिताऽवोचत्- न्यग्रोधफलमित्यादि । अतो वृक्षात् । इति उवाच पितेति शेषः । आहृत्य इदं न्यग्रोधफलमाहृतं भगवो भगवन्निति पुत्रः । ‘मतुवसो रुः सम्बुद्धौ छन्दसि’ । इदं फल भिन्धीति पिता । तद्भित्वा भिन्नमिति पुत्रः । अत्र भिन्ने फले किं पश्यसीति पिता । अण्व्य इव सूक्ष्मा इमा धाना बीजानि पश्यामीति पुत्रः । अङ्ग आसां धानानां मध्ये एकां धानां भिन्धीति पिता । तां भित्त्वा भिन्नेति पुत्रः । अत्र भिन्नायां धानायां किं पश्यसीति पिता । किञ्चन न पश्यामीति पुत्रः । एवमुक्तवन्तं तमुवाच पिता । यमेतम् अणिमानं भावभवित्रोरभेदात् परमसूक्ष्मं परमात्मानं न निभालयसे न पश्यति । अस्याणिम्नः सामर्थ्याद् एवं परिदृश्यमानप्रकारेण महान् न्यग्रोधस्तिष्ठतीति ।
अत्र वृक्षः प्रपञ्चः । फल शरीरम् । धाना जीवाः । तत्र यथा सूक्ष्मे वटबीजे दृश्यमानेऽपि यत्प्रभावाद्वटावस्थानं स बीजान्तर्गतः परमात्मा परमसूक्ष्मत्वान्न दृश्यते तथा जीवादपि सूक्ष्मत्वात्तदन्तर्गत इत्युक्तं भवति ।। ५ ।।
भावबोधः
एवं मानुषशरीरेऽपीति ।। अनेन ‘एवमेव खलु सोम्य विद्धि’ इतिवाक्यशेषो व्याख्यातो भवति ।
भावदीपः
पर्यनुयुक्तः पृष्ट इत्यर्थः । मूलेऽपेक्षितपूर्वशेषमाह- अस्य सोम्येति ।। पुनः पुनर्भृशं वेति ।। ‘पा पाने’ इत्यतो ‘धातोरेकाचो हलादेः क्रियासमभिहारे यङ्’ इति क्रियासमभिहारशब्दितपौनःपुन्येऽर्थे यङि सति ‘सन्यङोः’ इति द्विर्वचने पेपीयमान इति रूपमिति भावः । भृशमिति ।। बहुलमित्यर्थः । तीव्रमिति वाऽर्थः । शङ्कानिरासायाभिप्रायमाह- अनेनेदमुक्तम्भवतीति ।। अत्यक्तदेहेनेति बहुव्रीहिः । मयेत्यस्य विशेषणम् । एवमेव सोम्य विद्धीति वाक्यशेषभावमाह- एवमेव मानुषशरीरेऽपीति ।। ईश्वरानुग्रहतदभावनिमित्त-सुखदुःखवत्त्वात्तदधीनत्वं जीवस्य ज्ञेयमित्यर्थः ।। ४ ।।
तिष्ठतीत्यन्तमूलस्यार्थमाह- अत इत्यादिना ।। अत इत्यस्यार्थः- वृक्षादिति ।। इतिपदमनूद्य तत्र शेषमाह- इत्युवाच पितेति शेष इति ।। पुत्र इति ।। उवाचेत्यनुषङ्गः । एवमग्रेऽप्यनुषङ्गो ध्येयः । ननु भगवन्निति वक्तव्यम् । कथं भगव इत्युक्तिरित्यत आह- मतुवसोरिति ।। मतुपो वसुप्रत्ययस्य चान्त्यस्य रुर्भवति सम्बुद्धौ परत इति सूत्रेण त्इत्यस्य रुत्वे विसर्गे ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ इति मकारस्य वकारादेशे भगव इति रूपमिति भावः । अण्व्य इवेत्यस्य सूक्ष्मा इत्यर्थः । धाना इत्यनुवादः, बीजानीति व्याख्या । शङ्कानिरासप्रकारं व्यनक्ति- अत्र वृक्ष इत्यादिना ।। ५ ।।
वाक्यार्थदीपिका
(श्री.टि.)
अवस्थानासम्भवादिति ।। तथा चावस्थानस्यैवासम्भवे जीवन् स्रवेदित्यादिकं बाधितमेव स्यादिति भावः । पुनः पुनर्भृशं वेति ।। पेपीयमान इति यङन्तः शब्दः । यङ् च ‘धातोरेकाचो हलादेः क्रियासमभिहारे यङ्’ इति सूत्रेण पौनःपुन्ये भृशापरपर्याये क्रियासमभिहारे स्मर्यते । अत इत्थं व्याख्यातमिति द्रष्टव्यम् । यथा (श्री.टि.) वृक्षजीवस्येत्यादि ।। तथा च जीवस्येश्वरानुग्रहप्रयुक्तसुखदुःखभाक्त्वात्तदधीनत्वमिति भावः । ‘एवमेव खलु सोम्य विद्धीति होवाच’ इति वाक्यं व्याख्याति- एवं मानुषशरीरेऽपीति ।। ४ ।।
सद्भावादिति ।। तथा च सूक्ष्मभूतः परमात्माऽपि जीवेन दृश्येतैवेति भावः । अनाहृत्याभित्त्वैवाहृतं भिन्नं भिन्नेति पुत्रेण न पितुः प्रतारणं कृतमिति सूचयितुमाहृत्य तद्भित्त्वा तां भित्त्वेत्युक्तमिति द्रष्टव्यम् ।
ननु भगवन्निति सम्बुद्धिः स्यान्न तु भगव इतीत्यत आह- मतुवसो रुः सम्बुद्धौ छन्दसीति ।। मत्वन्तस्य वस्वन्तस्य च रुः स्यात्सम्बुद्धौ परतः छन्दसि विषय इति सूत्रार्थः । अलोऽन्त्यपरिभाषया रुरित्यादेशः षष्ठीनिर्दिष्ट-स्यान्त्यस्यैव । तथा च भगशब्दान्मतुप्प्रत्यये उप्इत्यस्य लोपे ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ इति सूत्रेण मतुपो मकारस्य वकारे भगवदिति प्रातिपदिकनिष्पत्तौ सत्यां पश्चात्सम्बुद्धौ भगवत् सु इति स्थिते ‘मतुवसोः’ इति सूत्रेण तकारस्य रुरित्यादेशे भगवर् इति जाते तस्य विसर्गे सम्बुद्धौ सोर्लोपे भगव इति युक्तमिति भावः । नन्वणुशब्दात् ‘पृथ्वादिभ्य इमनिज्वा’ इति सूत्रेण पृथ्वादिगणेभ्यो भावे इमनिच्प्रत्ययविधानादस्यापि तद्गणस्थत्वेन भावे इमनिच्प्रत्यये पृथोर्भावः प्रथिमेतिवदणोर्भावोऽणिमेति भवति । तथा चाणिमानमणुत्वं न पश्यसीत्यसङ्गत-मित्यत आह- भावभवित्रोरिति ।। धर्मधर्मिणोरित्यर्थः । तथा चाणिमानमणुमित्यर्थमभिप्रेत्याऽह- परमसूक्ष्म-मिति ।। दार्ष्टान्तिके वृक्षफलधानास्थानीयान् दर्शयन् कथमनेनोक्तशङ्कापरिहार इत्यत आह- अत्र वृक्ष इत्यादिना इत्युक्तम्भवतीत्यन्तेन । तत्र एवं सति । तदन्तर्गत इत्यनन्तरं परमात्मा न दृश्यत इति वर्तते ।। ५ ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
पुनः पुनः भृशं वेति ।। ‘धातोरेकाचो हलादेः क्रियासमभिहारे यङ्’ इति पौनःपुन्यादौ यङ्स्मरणादिति भावः । ‘एवमेव सोम्य विद्धि’ इति वाक्यशेषं व्याचश्व्े- एवं मानुषेति ।। ननु भगशब्दात् तदस्यास्तीत्यस्मिन्नर्थे मतुपि ‘मादुपधायाः’ इति मकारस्य वत्वे निष्पन्नभगवत्प्रातिपदिकस्य उगित्त्वेन ‘उगि-दचाम्’ इति नुमि ‘हल्ङ्याब्’ इति सम्बुद्धिहल्लोपे ‘संयोगान्तस्य’ इति तकारलोपे तस्यासिद्धत्वात् ‘न लोपः’ इति नलोपाभावे च, इति सिद्धभगवन्निति सम्बुद्ध्यन्तेन रूपेण भवितव्यम् । भगव इति तु कथमित्यतः, ‘मतुवसो रुः सम्बुद्धौ छन्दसि’ इति छन्दसि विषये सम्बुद्धौ परतो मत्वन्तस्य वस्वन्तस्य च पदस्य रुरित्यादेश-विधानात् सति तस्मिन्नुकारस्येत्सञ्ज्ञायां लोपे ‘खरवसानयोः’ इति रेफस्य विसर्जनीये च सति छन्दसि भगव इति सम्बुद्ध्यन्तरूपनिष्पत्तिरुपपन्नैवेति भावेन तत्सूत्रमेव पठति- मतुवसोरिति ।। ननु अणुशब्दाद्भावे इमनिचि तस्येष्ठवद्भावात् टिलोपे सति निष्पन्नाणिमशब्दस्य भगवद्धर्मप्रतिपादकत्वेऽपि भगवदप्रतिपादकत्वेन तदलाभात् तल्लाभार्थमेतमणुं न निभालयस इति वक्तव्यम्, अणिमानमिति तु कथमित्यतो धर्मधर्मिणोरभेदोपचारस्य बहुलमुपलब्धत्वाद्युक्तो धर्मवाचकेन पदेन धर्मिणो लाभ इति भावेनाऽह-भावेति ।।
लघुप्रभा
(व्या.टि.)
‘स्वतोऽन्योऽस्ति परो देह इति ज्ञायेत मे कथम्’ इति सामसंहिताऽनुरोधेन चतुर्थप्रकरणमनुकरोति- अस्त्वीश्वर इति ।। पर्यनुयुक्तः पृष्टः । यदीति हन्तुर्लिङर्थयोगे पाक्षिकत्वप्रदर्शनम् । यद्वक्ष्यति कदाचिदिति । (व्या.टि.) स्वतः प्राणधारणाभावेन जीवत्वासम्भवाद्व्याचश्व्े- जीवेन परमेश्वरेणेति ।। अत एव तैत्तिरीये ‘जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पताम् । अस्मिन् लोके शतं समाः’ इति स्वस्य शतसंवत्सर-जीवनायान्तर्यामिजीवश्रीः प्रार्थ्यते । स्मरंस्त्यजतीतिवज्जीवन् स्रवेदिति कालोपलक्षणार्थमित्याशयेनाह- तदा स्रवेदिति ।। एवं स्वतोऽन्यं जीवनियन्तारं दृष्टान्तेन विज्ञाप्य तात्पर्यज्ञापनाय पुनराहेत्याह- एवमिति ।। प्रकृते-नेति ।। ‘अनेन जीवेनाऽत्मना’ इति नामरूपसृष्टौ प्रकृतेनेत्यर्थः । पेपीयमान इति यङन्तस्यार्थमाह- पुनः पुनरिति ।। प्रकरणरहस्यमाह- यथा वृक्षजीवस्येति ।।
‘ज्ञायते न कथं स्वस्मिन् सूक्ष्मे ज्ञाते परो हरिः ।
तत्रस्थ इति पृश्व्ः सन् तमाहोद्दालकः सुतम् ।।’
इत्युक्तदिशा प्रश्नाभिप्रायं वदन् पञ्चमप्रकरणमवतारयति- एवमित्यादिना ।। सूक्ष्मस्वात्मेति ।।
‘बालाग्रशतभागस्य शतधा कल्पितस्य च ।
तच्छतांशसमो भागो जीवः ।।’
इति वचसा बालाग्रशतभागशतभागत्वेनातिसूक्ष्मस्वरूपेत्यर्थः । मतुवसोरिति ।। मत्वन्तस्य वस्वन्तस्य च रुः स्यात्, अलोन्त्यपरिभाषया तकारस्येत्यर्थः । प्रैषादिकर्तुरेव वचनादिकर्तृत्वभ्रमं वारयितुं यथायोगं शेषान् पूरयति- उवाच पितेत्यादिना ।।
आसामिति निर्धारणे षष्ठीत्यभिप्रेत्याऽह - मध्य इति ।। नन्विमनिचो भावप्रत्ययत्वाद्भवितरि तद्वैयर्थ्यमित्यत आह- भावभवित्रोरिति ।। ‘यो वै भूमा तत्सुखम्’ इत्यादिवदिति भावः । उत्तरग्रन्थानुरोधेन व्याचश्व्े- परमात्मानमिति ।। अत्रोपमानसमानस्थानापन्नान्युपमेयानि दर्शयति- अत्रेत्यादिना ।। नन्विदं व्याख्यानं छान्दोग्यभाष्यविरुद्धम् । तत्र ‘वटबीजे यथा सूक्ष्मे महान्यग्रोधभावयुक् । न दृश्यतेऽभिमानी स एवं जीवगतो हरिः’ इति जीवगतहर्यदर्शने बीजगताभिमानिनोऽदर्शनं निदर्शितमिति भाति । अत्रैव पूर्वत्र ‘शुङ्गमुत्पतितम्’ इति श्रुतिव्याख्यानावसरे-
‘शुङ्गमित्यङ्कुरं प्रोक्तं तन्मूलं भगवान् हरिः ।
जगतो मूलमप्येषो निमित्तं न विकारवान् ।
बीजजीवो यथा मूलमङ्कुरस्याविकारतः ।।’
इति बीजजीवस्यैवाङ्कुरजनकतया प्रस्तुतत्वात्, सम्भवति च यथा बीजात्सूक्ष्मादर्शनेऽपि न बीजजीवासत्त्वम् । तदसत्त्वे वृक्षजन्मविरोधात् । तथा न जीवान्तर्गतादर्शनेऽपि तदसत्त्वमिति निदर्शयितुम् । तथैव व्याख्यातं व्यासतीर्थैः । अत्र चाणिमशब्देन पर एवाभिहित इत्यवधारयताऽर्थान्तरं व्यवच्छिन्नमिति कथं न विरोध इत्यतोऽस्याभिप्रायमाह- तत्र यथेत्यादिना ।। यत्प्रभावादिति, वटावस्थानमिति च ।।
(व्या.टि.) अयं भावः । यद्यप्यभिमानी जीवः परमसूक्ष्मो न दृश्यत इति युक्तं तद्ग्रहणम् । तथाऽपि ‘स एषोऽणिमैतदात्म्यम्’ इति पूर्ववाक्ये परमात्मनस्तच्छब्देन प्रस्तुतत्वादणुशब्दस्य ‘अणोरणीयान्’ इति ‘सूक्ष्मं तु तदर्हत्वात्’ इति श्रुतिसूत्राभ्यां तत्रैव मुख्यत्वाच्च स एव ग्राह्यः । किञ्च नात्र वृक्षोत्पत्तिः श्रूयते । किन्तु महान्यग्रोधस्तिष्ठतीत्यवस्थानम् । बीजजीवस्याङ्कुरजनिहेतुता नास्ति । पूर्वप्रकरणे सत्यपि बीजजीवेऽनिष्टशोष-दोषोक्तेः । परमात्मनश्च ‘प्रकृतैतावत्त्वं हि प्रतिषेधति’ इति सूत्रदिशा ‘जगद्रक्षा केवलोद्योगिनः’ इति स्वोक्त्या च ‘तेनायं मोदते नित्यं वृक्षावस्थां गतोऽपि सन्’ इति स्मृत्या च पालकत्वोक्तेः । अतोऽत्राणिमशब्देन पर एवाभिप्रेतः । छान्दोग्यभाष्यन्तु सम्भवाभिप्रायम् । इहत्यावधारणं तु तात्पर्यत इति संयोज्य ‘यतोऽवधारणं ततोऽन्यत्र व्यवच्छेदः’ इति न्यायेन तद्व्यवच्छेदकं नाभिधानव्यवच्छेदकमिति रहस्यम् । अत एवोत्तरत्र छान्दोग्य-भाष्ये परापव्याख्यादूषणे दृष्टान्तसङ्ग्रहे ‘वृक्षपरमात्मनोर्धानापरमात्मनोः’ इत्येवोपसंहृतम् । न तु ‘वृक्षजीव-योर्धानाजीवयोः’ इतीति सर्वं सुस्थम् । अत्र पक्षे ‘आद्गुणः यथा गङ्गोदकम्’ इत्यादिवद्यथाशब्द उदाहरणार्थो न निदर्शनार्थः । तथाशब्दः समुच्चय इत्यवधेयम् ।