न च वर्णपदादीनामनित्यत्वं ..
वेदानां प्रलयकालीनस्थितिसमर्थनम्
मूलम्
- न च वर्णपदादीनामनित्यत्वं वक्तुं युक्तम् । सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात् । न च घटादिवत् संस्कारमात्रत्वं वक्तुं युक्तम् । प्रत्यभिज्ञा-विरोधस्योक्तत्वात् । पुराणानामप्यन्यथाशब्दरचनमेवानित्यत्वम् ।
तत्त्वमञ्जरी
न तावद् वर्णपदादीनां नित्यत्वम् । योग्यत्वे सति नित्यमनुपलभ्यमानत्वात् । अतस्तत्क्रमात्मकस्य वेदस्य कथं नित्यत्वमित्यत आह- न च वर्णेति ।। आदिशब्दात् स्वराः । घटे नश्व्े सत्यपि बुद्धौ तत्संस्कारप्रतीतेः वर्णादीनामपि तथा स्यादित्यत आह- न च घटेति ।। एवं चेत् पुराणादीनामपि नित्यवर्णक्रमात्मकत्वान्नित्यत्वं स्यात् । वेदार्थवतां तेषां सर्गान्तरेऽप्यर्थस्य च व्यत्ययासम्भवादित्यत आह- पुराणानामिति ।। अन्यथाशब्दरचनमेवानित्यत्वे हेतुः, न वर्णपदानित्यत्वम् । नाप्यर्थव्यत्ययेनानित्यत्वमिति विशेषः ।
टीका
अस्तु नित्यविन्नत्वादिकं, तदप्याप्रलयमेव, तावताऽप्यसाधारणोक्त्यादिसम्भवात् । ततो वेदाः प्रलये विनश्यन्ति, सर्गे पुनरन्ये जन्यन्त इत्यङ्गीकारे न कोऽपि विरोध इत्यत आह- न चेति ।। वर्णानां पदानां च । आदिपदेन वाक्यानां ग्रहणम् । वर्णादीनामित्येव सिद्धे यत्पदादिग्रहणं तद्वर्णानां कौटस्थ्याभावोऽनित्यत्वं, पदादीनां तु क्रमादिव्यत्यय इति सूचयितुम् । अनित्यत्वं प्रलय इति शेषः । तथा सर्गे जन्मापि ग्राह्यम् । एतेन ‘नित्या वेदाः’ इत्युक्त्वा यत्पुनः ‘समस्ताश्च शाश्वताः’ इत्युक्तं तत्प्रकारान्तरेण व्याख्यातं भवति- न केवलं वर्णमात्रं, नापि पदादिमात्रं, किन्तु समस्ताश्च यथायोगं शाश्वताः । ‘सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ इति । कुतो न युक्तमित्यत आह- सर्वज्ञत्वादिति ।। तद्बुद्धौ तन्मनसि । एतच्चोत्तरग्रन्थे स्पष्टं भविष्यति ।
नन्वीश्वरबुद्धौ सर्वदा प्रतीयमानत्वं नाम ईश्वरेण सर्वदा वर्तमानतयाऽनुभूयमानत्वं विवक्षितं, तस्यैवोक्तार्थसाधकत्वात् । तच्चासिद्धम् । तथा हि ‘विष्णुबुद्धिगाः’, ‘ईशबुद्धिस्थिताः सदा’ इति पुराणवाक्याद्वा तत्सिद्धिः, सर्वज्ञत्वयुक्त्या वा । नाऽद्यः । तस्यान्यथासिद्धेः, वेदानुभवजनित-संस्कारस्य बुद्धिगतत्वमात्रेण बुद्धिगा इत्युक्तिसम्भवात् । नचैवं लक्षणाप्रसङ्गो दोषः । वेदपदस्य तदनुभवार्थत्वाङ्गीकारेऽपि तत्साम्यात् । वेदानामेव साक्षान्मनोगतत्वासम्भवात् । एवमङ्गीकारे जन्मवाक्यान्यप्यनुगृहीतानि भवन्ति । अत एव बुद्धिगा इत्यस्य ज्ञानविषया इति व्याख्यान-मप्ययुक्तम् । न च लाक्षणिकप्रयोगे प्रयोजनं वाच्यम् । नश्व्ेऽपि घटादौ घटो देवदत्तस्य बुद्धौ वर्तत इत्यादिप्रयोगदर्शनेन रूढलक्षणात्वात् । न द्वितीयः । घटादीनामपि तथात्वप्राप्तेः । विद्य-मानार्थाननुभवे हि सर्वज्ञत्वहानिः स्यात् । अत्राऽऽद्यं तावदङ्गीकुर्मः । ननूक्तं पुराणवाक्य-मन्यथासिद्धमिति तत्राऽह- न च घटादिवदिति ।। घटादेरिव वेदानामपि संस्कारस्य बुद्धिगतत्वमात्रं पुराणवाक्यार्थत्वेन वक्तुं न युक्तम् । किन्त्वीश्वरेण सर्वदा वर्तमानतयाऽनुभूयमानत्वमेव । कुत इत्यत आह- प्रत्यभिज्ञेति ।। यदि वेदाः प्रलये विनष्टास्तत्संस्कारमात्रं विष्णुबुद्धौ वर्तत इति विष्णुबुद्धिगा इत्यस्यार्थः स्यात्, तर्ह्युत्तरवाक्ये ये पूर्वकल्पे स्थिता एत एव सर्गे सर्गेऽमुनोद्गीर्यन्त इत्युक्तप्रत्यभिज्ञाविरोधः स्यादित्यर्थः । उक्तत्वात् उक्तप्रायत्वात् । नच सादृश्यात् ‘एत एव’ इत्युक्तमिति वाच्यम् । तथा सत्यपौरुषेयत्वसिद्धेर्दुर्वारत्वात् । उपलक्षणं चैतत् । जन्मवाक्यगति-कथनविरोधाच्चेत्यपि द्रष्टव्यम् ।
एवं तर्हि सर्वज्ञत्वयुक्त्युपन्यासः किमर्थ इति चेत्, पुराणकृता (शाश्वताः) विष्णुबुद्धिगा इतीश्वरेण सर्वदा वर्तमानतया अनुभूयमानत्वमुक्तम् । तत्र प्रमाणाकाङ्क्षायां तदभिप्रेता युक्तिरियमुप-वर्णितेत्यदोषः । तथाहि- क्रमविशिष्टा वर्णा एव वेदो, नतु घटादिवदर्थान्तरम् । क्रमस्तु बुद्धिनिमित्त एव नतु स्वतोऽस्ति । ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभूतबुद्ध्युपरम एव वेद-विनाशो वक्तव्यः । नतु घटादीनामिवापरः । नचेश्वरस्य तथाविधबुद्ध्युपरमो युज्यते । स हि देवदत्तस्येव विषयान्तरसञ्चारनिमित्तो वा स्यात्, विस्मरणनिमित्तो वा । नोभयथाऽपि सम्भवति, तस्य सर्वदा सर्वज्ञत्वात् । अतो वेदाः सर्वदेश्वरेण वर्तमानतयाऽनुभूयन्त इति सिद्ध्यतीति । इयं युक्तिः पुराणकृतोऽभिप्रेतेति कुतोऽवगम्यत इति चेत् । ‘पुराणानि तदर्थानि’ इत्युत्तरवाक्येषु पुराणानामपि नित्यत्वमाशङ्क्य परिहारात् । एतद्युक्त्यभिप्रायाभावे तच्छङ्काबीजाभावा-दित्याशयवान् उत्तरवाक्यार्थम् अनुवदति- पुराणानामपीति ।।
नन्वेवं वेदपुराणयोर्नित्यत्वे पुराणानां पुना रचनं, न वेदस्य इत्येतत् कुत इति चेत्, प्रमाण-प्रश्नश्चेदुक्तादेव पुराणवाक्यादेरिति ब्रूमः । प्रयोजनप्रश्नस्त्वयुक्तः । ईश्वरप्रवृत्तेः सर्वत्र स्वप्रयोजन-हीनत्वात् । परप्रयोजनानि तु सूक्ष्माण्युत्प्रेक्षितुं वयं न प्रभवामः । भगवानाचार्योऽपि इदानी प्रयोजनाभावान्नावादीदिति ।
भावबोधः
असाधारणोक्त्यादीत्यादिपदेन ईशबुद्धिस्थितत्वादिग्रहणम् । ‘सर्वज्ञत्वात्’ इत्यादिवाक्योक्तहेतोः पुराणोक्तत्वस्य ‘तथा च व्याकरिष्यति’ इत्यनेन प्राग् दर्शितत्वात् ‘न च वर्णपदादीनाम्’ इति प्रतिज्ञातार्थस्यापि पुराणोक्तत्वमाह- एतेनेति ।। कथं ‘शाश्वताः’ इत्यनेन विवक्षितप्रतिज्ञाऽर्थलाभ इत्यत उक्तम्- यथायोग-मिति ।। ननु तर्हि शाश्वतपदस्यानेकार्थत्वान्न वर्णपदादिष्वनुगतैकसाध्यलाभ इत्यत आह- सर्गेऽपीति ।। ननु वर्णानां कूटस्थनित्यत्वं प्रकृतानुपयुक्तं कस्मादुच्यत इति चेन्न । वर्णानामेव ध्वंसप्रतियोगित्वेन तदात्मकवेदे ‘तद्बुद्धौ’ इत्यादिनोक्तहेतोरसिद्धिप्रसङ्गात् । तत्परिहारार्थं मूले वर्णग्रहणमिति ज्ञातव्यम् । ननु विष्णुबुद्धिगा ईशबुद्धिस्थिता इत्यत्र बुद्धिपदस्य ज्ञानार्थकत्वमेवाङ्गीकृत्य विषयत्वेन गमनं स्थितिरिति व्याख्याने न वेदपदस्य लाक्षणिकत्वमिति वैषम्यमित्याशङ्क्य परिहरति- अत एवेति ।। असत्त्वेऽपि वेदानामतीतत्वेन ज्ञानविषयत्व-सम्भवेन तेषां ज्ञानविषयत्वमात्रप्रतिपादकत्वेन विष्णुबुद्धिगा इत्यस्य पूर्ववदन्यथासिद्धेरित्यर्थः । वेदानामपि संस्कारस्येति ।। अनेन ‘घटादिवत्संस्कारमात्रत्वम्’ इति मूलम्, घटो देवदत्तबुद्धिग इत्यत्र यथा देवदत्तबुद्धिगस्य न घटत्वं, न वा ह्यनुभवत्वं, किन्तु तदनुभवजनितसंस्कारमात्रत्वम्, तथा वेदा विष्णुबुद्धिगा इत्यत्रापि विष्णु-बुद्धिगस्य न वेदत्वं, नापि तदनुभवत्वं, किन्तु तदनुभवजनितसंस्कारमात्रत्वमिति योजितमिति ज्ञातव्यम् । इत्युक्तप्रत्यभिज्ञाविरोधः स्यादिति ।। तदेवेदमित्युक्तप्रत्यभिज्ञानस्य भिन्नविषयत्वेन प्रकृते तद्विरोधासम्भ-वादिति भावः । उक्तप्रायत्वादिति ।। ‘अमुनैवैत उद्गीर्यन्ते’ इति वाक्यस्य पूर्वमुदाहृतत्वादिति भावः ।
भावदीपः
नित्यविन्नत्वादिकमिति ।। नित्यं विद्यमानत्वश्रुतत्वादिकमित्यर्थः । प्रकारान्तरेणेत्युक्तं व्यनक्ति- न केवलमिति ।। यथायोगमिति ।। कौटस्थ्यादिरूपतयेत्यर्थः । फलितार्थमाह - सर्गेऽपीति ।। अपौन-रुक्त्यायाऽह- तन्मनसीति ।। मनोऽभिव्यक्तस्वरूपज्ञानविषयत्वादित्यर्थः । उत्तरग्रन्थ इति ।। ‘अत आकाश-गुणे शब्दे’ इत्यादाविति भावः । नचेत्युत्तरग्रन्थ इति वाऽर्थः । उक्तार्थेति ।। ‘नानित्यत्वं वक्तुं युक्तम्’ इत्युक्तार्थेत्यर्थः । अन्यथासिद्धेरित्युक्तं व्यनक्ति- वेदेति ।। तदनुभवार्थत्वेति ।। वेदस्य नित्यत्व-मित्यस्य वेदानुभवस्य नित्यत्वमित्यर्थाङ्गीकार इति वा, वेदस्य मनोगतत्वं नाम वेदानुभवस्येश्वरमनोगतत्वमित्य-र्थाङ्गीकारेऽपि इति वाऽर्थः । कुत एवमङ्गीकार इत्यत आह- वेदानामेवेति ।। एवमङ्गीकार इति ।। वेदानुभव-जनितेत्यादिनोक्तार्थाङ्गीकारे ‘ऋचस्सामानि जज्ञिरे’ इत्यादिवाक्यानि मुख्यार्थतयाऽनुगृहीतानि भवन्ती-त्यर्थः । अत एवेति ।। जन्मवाक्यबलेन संस्कारस्य बुद्धिशब्दितमनोगतत्वेनोपपन्नत्वादेवेत्यर्थः । सर्वज्ञत्वयुक्त्येति पक्षं निराह- न द्वितीय इति ।। तथात्वेति ।। सर्वदा वर्तमानतयाऽनुभूयमानत्वप्राप्तेरित्यर्थः । घटाद्यनुभव एव नेति ब्रूम इत्यत आह- विद्यमानार्थेति ।। सर्गे सर्ग इति वाक्यमुपादाय प्रत्यभिज्ञाविरोध इति कण्ठतोऽनुक्तेराह- उक्तत्वादुक्तप्रायत्वादिति ।। तथा सतीति ।। सादृश्याभ्युपगमे सति सदृशानुपूर्वीकत्वस्यैवापौरुषेय-शब्दार्थतयाऽपौरुषेयत्वसिद्धेरित्युक्तम् । जन्मवाक्येति ।। ‘तदुत्पत्तिवचश्चैव’ इत्यादिनेति शेषः । एतदिति । सर्वज्ञत्वयुक्त्यभिप्रायाभाव इत्यर्थः । उत्तरवाक्यार्थमिति ।। ‘सर्गे सर्गेऽन्यथैव तु क्रियन्ते’ इति वाक्यार्थम् इत्यर्थः । अनुवदतीत्युक्त्या तेन गतार्थताऽस्य निरस्ता । नन्वेवमिति ।। ईश्वरबुद्धिगतत्वेनेति एवंशब्दार्थः । पुना रचनमिति ।। पूर्वतनाऽनुपूर्वीतोऽन्याऽनुपूर्वीकतया पुनर्निर्माणमित्यर्थः । पुनश्शब्दविसर्गस्य सत्वरुत्वलोपेषु ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घे पुना रचनमिति साधु । पुराणवाक्यादेरित्यादिपदेन श्रुतिवाक्यग्रहः ।
वाक्यार्थदीपिका
(श्री.टि.)
तदपीति ।। वेदशब्दप्रवृत्तिनिमित्तभूतं नित्यविद्यमानत्वम्, आदिपदोक्तं श्रुतिशब्दप्रवृत्तिनिमित्त-मखिलैः श्रुतत्वम्, आम्नायशब्दप्रवृत्तिनिमित्तं भूतभवद्भविष्यद्भिरखिलैरप्येकप्रकारेण पठ्यमानत्वम् । आप्रलयं प्रलयपर्यन्तमेवास्त्वित्यर्थः । तावताऽपीति ।। नित्यं विद्यमानत्वस्य प्रलयपर्यन्तत्वेऽपि घटादिसर्वपदार्थ-वैलक्षण्यसम्भवाद् असाधारण्येनैतेषामेव वेदशब्दवाच्यत्वं युक्तम् । तथा अखिलैः श्रुतत्वस्याखिलैरेकप्रकारेण पठ्यमानत्वस्य च प्रलयपर्यन्तत्वेऽपि शब्दान्तरवैलक्षण्यसम्भवादसाधारण्येनैतेषामेव श्रुत्याम्नायशब्दवाच्यत्वं युक्तमित्यर्थः । असाधारण्योक्त्यादीत्यादिपदेन ‘श्रुतिर्वाव नित्या’ इत्यादिनित्यत्वोक्तिपरिग्रहः । (साऽपि) नित्यत्वोक्तिरपि आप्रलयं विद्यमानत्वेनैवोपपन्नेति भावः । नन्वस्त्वेवं, किं तावता, वेदानामनादिनित्य-त्वाव्याघातादित्यतोऽनादिनित्यत्वं गतमेवेत्याह- ततो वेदा इति ।। वर्णादीनामिति ।। वर्णादीनामित्येवोक्त्याऽ-प्यादिपदेन पदवाक्यग्रहणसिद्धेः कण्ठरवेण पदग्रहणं किमर्थमित्यर्थः । वर्णानां पदवाक्ययोश्च नित्यत्वं नैकप्रकारमित्याशयेन पृथग्ग्रहणमित्याह- तद्वर्णानामित्यादिना ।। कौटस्थ्याभावो निर्विकारत्वाभावो विकारित्वमिति यावत् । सर्गे पुनरन्ये जायन्त इत्याशङ्कितत्वान्मूले तत्प्रतिषेधो न प्राप्त इत्यत आह- तथेति ।। एतेनेति ।। वर्णानां पदादेश्च नित्यत्वस्य भिन्नत्वसूचनेनेत्यर्थः । यथायोगमिति ।। वर्णानां कौटस्थ्यं शाश्वतत्वं, पदादीनां तु क्रमव्यत्यासाभाव एव शाश्वतत्वमिति भावः । नन्वेवं शाश्वतपदस्यानेकार्थत्वान्न वर्णपदा-दिष्वनुगतमेकं शाश्वतत्वमस्तीति चेत्तत्राऽह-सर्गेऽपीति ।। न व्यथन्तीति ।। व्यथ सञ्चलने । सञ्चलनं विनाशो, न नश्यन्तीत्यर्थः । सर्गप्रलययोरुत्पत्तिविनाशाभाव एव वर्णपदाद्यनुगतं शाश्वतत्वमिति भावः । नन्वत्र ग्रन्थे (श्री.टि.) वर्णानां कूटस्थत्वं प्रकृतानुपयुक्तं कस्मादुच्यत इति चेन्न । वर्णानां ध्वंसप्रतियोगित्वे तदात्मकवेदे तद्बुद्धावित्यादिनोक्तहेतोरसिद्धिः स्यात् । तत्परिहारार्थं मूले वर्णग्रहणमिति ज्ञातव्यम् । एतच्चेति ।। बुद्धिशब्दस्य मनःपरत्वमित्यर्थः । उत्तरग्रन्थ इति ।। ‘न च घटादिवत्’ इत्युत्तरग्रन्थ इत्यर्थः । सर्वदा प्रलये । वेदा नानित्या ईश्वरबुद्धौ सर्वदा प्रतीयमानत्वादव्याकृताकाशवदित्यनुमानेऽसिद्धिं वक्तुं पूर्वपक्षी हेतुं निर्वक्ति - नन्वित्या-दिना ।। उक्तार्थेति ।। अनित्यत्वाभावेत्यर्थः । तच्चेति ।। सर्वदा वर्तमानतयाऽनुभूयमानत्वमित्यर्थः । सर्वज्ञत्वयुक्त्येति ।। वेदा ईश्वरेण सर्वदा वर्तमानतयाऽनुभूयन्ते तस्य सर्वज्ञत्वादिति युक्त्येत्यर्थः । तस्य पुराणवाक्यद्वयस्य । तामेवान्यथासिद्धिं विवृणोति- वेदानुभवेति ।। प्रलये वेदानां नश्व्त्वेऽपीति शेषः । सम्भ-वादिति ।। तथा चैवं पुराणवाक्यस्यान्यथासिद्ध्या ईश्वरेण सदा वर्तमानतयाऽनुभूयमानत्वसाधकत्वाभावा-दिति भावः । ननु ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः’,‘वेदास्ते नित्यविन्नत्वात्’ इति पुराणवाक्यद्वये वेदा विष्णुबुद्धिगा इत्यस्य वेदा ईशबुद्धिस्थिता इत्यस्य च वेदानुभवजनितसंस्कारस्येशबुद्धिगतत्वमात्रेणान्यथा-सिद्ध्युक्तौ वेदपदस्य वेदानुभवजन्यसंस्कारे लक्षणा स्याद्, अतो नैवं व्याख्येयमिति सिद्धान्तिना शङ्किते सत्याह- न चैवमिति ।। तत्साम्यात् सिद्धान्तिनां भवतामपि लक्षणासाम्यादित्यर्थः । अनुभवार्थता मयाऽङ्गीक्रियत इति, न मन्मते लक्षणेत्यतः सिद्धान्तिनां मुख्यार्थे बाधकं पूर्वपक्षी दर्शयति- वेदानामेवेति ।। एवमङ्गीकार इति ।। वेदानां नाशमङ्गीकृत्य वेदानुभवजनितसंस्कारस्य बुद्धिगत्वमात्रेण विष्णुबुद्धिगा इत्यस्यान्यथासिद्ध्यङ्गी-कार इत्यर्थः । अनुगृहीतानि अनुकूलानि ।
ननु वेदपदस्यानुभवार्थताङ्गीकारेऽपि तत्साम्यादित्युक्तमयुक्तम् । वेदपदस्य अनुभवलक्षकत्वानङ्गी-कारात् । न च वेदानां साक्षान्मनोगतत्वासम्भवेन बुद्धिगा इत्यस्य मुख्यार्थानुपपत्त्याऽनुभवे लक्षणा कार्येत्युक्तमिति वाच्यम् । बुद्धिशब्दस्य मनोवाचित्वे किल मुख्यार्थानुपपत्तिः, किन्तु ज्ञानार्थत्वमङ्गीकृत्य बुद्धिगा इत्यस्य वर्तमान-तया ज्ञानविषया इत्यर्थाङ्गीकारात्पुराणवाक्येनोक्तहेतुसिद्धिर्भविष्यत्येवेति सिद्धान्तिनोक्ते सत्याह पूर्वपक्षी- अत एवेति ।। बुद्धिशब्दस्य ज्ञानार्थत्वपक्षेऽपि वेदानां नष्टत्वेऽप्यतीतत्वेन ज्ञानविषयत्वमङ्गीकृत्य तत्प्रतिपादकत्वेन विष्णुबुद्धिगा इत्यस्य पूर्वन्यायेनान्यथासिद्धत्वादित्यर्थः । ननु वेदपदस्य वेदानुभवजनितसंस्कारलक्षणायां किं प्रयोजनमिति सिद्धान्तिना शङ्किते सत्याह- न चेति ।। नश्व्ेऽपि घटादावित्यनन्तरं घटानुभवजनितसंस्कारस्य देवदत्तबुद्धिगतत्वाभिप्रायेणेति वाक्यशेषः । रूढलक्षणात्वादिति ।। रूढलक्षणायां च न प्रयोजनापेक्षेति भावः । तथात्वप्राप्तेरिति ।। ईश्वरस्य सर्वज्ञत्वेन नष्टानां घटादीनामपि सर्वदा वर्तमानतयाऽनुभूयमानत्वप्रसङ्गेन नित्यत्वं स्यादित्यर्थः । नन्वापादनमनिष्टस्य भवति । नष्टानामपि घटादीनां सर्वदा वर्तमानतयाऽनुभूय-मानत्वानङ्गीकारे ईश्वरस्य सर्वज्ञत्वं न स्यात् । अतस्तदन्यथाऽनुपपत्त्या नश्वनामपि घटादीनां सर्वदेश्वरेण वर्तमानतयाऽनुभूयमानत्वं वक्तव्यमेव । अतो घटादीनामपि तथात्वप्राप्तेरित्यापादनमयुक्तमित्यत आह- विद्यमानेति ।। विद्यमानपदार्थानामननुभवे हि सर्वज्ञत्वं न स्यात् । न त्वतीतानामपि घटादीनां सर्वदा वर्तमानतया (श्री.टि.) अनुभवानङ्गीकार इति वाक्यशेषः । तथा च नष्टानां घटादीनां वर्तमानतयाऽनुभवे ईश्वरस्य भ्रान्तत्व-प्रसङ्गेन नष्टानां घटादीनामतीतत्वेनैव अनुभवोऽस्ति, न तु वर्तमानत्वेनेति सिद्धत्वान्नष्टानामपि घटादीनां वर्तमानतया अनुभवस्यानिष्टत्वेनैतदापादनं युक्तमेवेति भावः । घटादिवदिति वतिः ‘तत्र तस्येव’ इति सूत्रात् षष्ठ्यन्ताद् इवार्थे इति भावेनोक्तम्- घटादेरिवेति ।। संस्कारस्य बुद्धिगतत्वमात्रमिति ।। केवलं संस्कारस्य मनोगतत्वमित्यर्थः । एतद्ग्रन्थानुसारेण प्राग् बुद्धिशब्दो मनःपरतया व्याख्यातः । प्रसिद्धाया बुद्धेः संस्काराधार-त्वस्य बाधितत्वात् । एतदभिप्रायेणैव ‘एतच्चोत्तरग्रन्थे स्पष्टम्’ इति प्रागुक्तमिति ध्येयम् । उत्तरवाक्य इति ।। ‘नित्या वेदास्समस्ताश्च शाश्वता विष्णुबुद्धिगाः’ इत्यस्मादुत्तरवाक्य इत्यर्थः । तदेवेदं वचनमिति प्रत्यभिज्ञा-विरोधस्योक्तत्वेऽपि नैतत्प्रत्यभिज्ञाविरोधः प्रागुक्तः । अत उक्तत्वादिति कथमुक्तमित्यत आह- उक्तप्राय-त्वादिति ।। ‘सर्गेसर्गेऽमुनैवैत उद्गीर्यन्ते’ इति वाक्यस्योदाहरणं यदा कृतं तदैतत्प्रत्यभिज्ञाविरोध उक्तप्राय इत्यर्थः । सादृश्यादिति ।। परिलूनपुनर्जातकुन्तलकलापप्रत्यभिज्ञावदियमपि प्रत्यभिज्ञा भ्रान्तिरिति भावः । तथा सतीति ।। पूर्वकल्पोच्चारितवेदसदृशा एव वेदा एतत्कल्पेऽमुनैवोद्गीर्यन्त इत्यङ्गीकारेऽपि सजातीयोच्चारण-मनपेक्ष्योच्चारयितृरूपस्वतन्त्रपुरुषपूर्वकत्वाभावरूपापौरुषेयत्वसिद्धेर्दुर्वारत्वादित्यर्थः । अस्यैवापौरुषेय-शब्दार्थत्वादिति भावः । जन्मवाक्येति ।। प्रत्यभिज्ञाया भ्रान्तित्वमङ्गीकृत्य प्रलये वेदानां विनाशः, सृष्टिकाले पुनरुत्पत्तिरित्यङ्गीकारे वेदानामुत्पत्तिप्रतिपादकानाम् ‘ऋचस्सामानि’ इत्यादिवाक्यानां ‘वेदानां सृश्व्विाक्यानि’ इत्यादिना गतिकथनं विरुद्धं स्यादित्यर्थः ।
उक्तं वेदानाम् । तदभिप्रेता पुराणकृदभिप्रेता । उपवर्णितेति ।। ‘सर्वज्ञत्वादीश्वरस्य’ इत्यनेनेत्यर्थः । तामेव युक्तिं दर्शयति- तथा हीत्यादिना ।। अर्थान्तरमिति ।। निबिडावयवरूपं पदार्थान्तरमित्यर्थः । अखण्ड-मिति यावत् । क्रमश्चेति ।। वर्णनिष्ठ इत्यर्थः । वर्णविषयेति ।। वर्णधर्मिकेत्यर्थः । विवक्षितक्रमेति ।। नियतानुपूर्वीरूपेत्यर्थः । अपर इति ।। अवयवविभागेन स्वरूपध्वंस इत्यर्थः । तथाविधेति ।। वर्णविषयक-विवक्षितक्रमोपाधिभूतेत्यर्थः । विषयान्तरसञ्चारो विषयान्तरविषयकत्वम् । देवदत्तमनसो विषयान्तरसञ्चारेऽ-न्यविषयकबुद्ध्युपरमो दृष्ट इत्यर्थः । विस्मरणेति ।। अत्र विस्मरणशब्देन देहाभिमानाभावो विवक्षितः । एतादृशे विस्मरणे बुद्ध्युपरमोऽनुभवसिद्ध इत्यर्थः । तस्य सर्वदेति ।। ईश्वरस्य सर्वदा सर्वविषयकज्ञानवत्त्वेन विषयान्तरसञ्चारप्रयुक्तस्य विस्मरणप्रयुक्तस्य वा बुद्ध्युपरमस्यासम्भवादित्यर्थः । उत्तरवाक्य इति ।। ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः’ इत्यस्मादुत्तरवाक्य इत्यर्थः । तच्छङ्काबीजेति ।। विष्णुबुद्धिगत्वयुक्त्या यदि वेदानां नित्यत्वमुच्यते तर्हि पुराणानामपि विष्णुबुद्धिगत्वसाम्यान्नित्यत्वं स्यात् । तथा च, ‘श्रुतिर्वाव नित्या’ इत्यादिविभागो नोपपद्यत इति हि परेण शङ्कितम् । तत्र पुराणानां सर्वदा वर्तमानतयाऽनुभूयमानत्व-रूपविष्णुबुद्धिगत्वसाम्यशङ्कायां बीजाभावेन तद्बीजतया सर्वज्ञत्वयुक्तिमुक्त्वा तथा विषयान्तरसञ्चाराद्यभावेन बुद्ध्युपरमाभावमभिधाय सर्वदेश्वरेण वर्तमानतयाऽनुभूयमानत्वरूपं विष्णुबुद्धिगत्वमुक्त्वा नित्यत्वमुपपादनीय-(श्री.टि.) मिति भावः । पुना रचनम् उत्तरकल्प इति शेषः । पुराणानां पुना रचनं कुत इति प्रमाणं पृच्छ्यते प्रयोजनं वा । द्वितीयेऽपि स्वप्रयोजनं पृच्छ्यते परप्रयोजनं वेति विकल्पक्रमेणोत्तरमाह- प्रमाणप्रश्नश्चेदित्यादिना ।। उक्तादेवेति ।। ‘पुराणानि तदर्थानि’ इत्यादिनोक्तादेवेत्यर्थः । ननु भगवत्पादानां सर्वज्ञत्वेन परप्रयोजनानि तेऽपि कस्मान्नावदन्नित्यत आह- भगवानाचार्योऽपीति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
क्रमविशिष्टा इति ।। क्रमविशेषविशिष्टा इत्यर्थः । तेन भारतादौ नातिप्रसङ्गः । तद्विशिष्टत्वं च विशिष्टक्रमोपेतबुद्धिविषयत्वमेव । क्रमस्य वर्णेषु कथमप्यसम्भवात् । न चैवं पदादिभावस्याभिव्यक्तिघटितत्वाद् इदमेकं पदमित्यादिप्रतीतिः श्रावणी न स्यात् । पदाद्युपाध्यभिव्यक्तेरश्रावणत्वादिति वाच्यम् । मनसोपनीतस्य अभिव्यक्तिक्रमस्य श्रावणत्वोपपत्तेरित्याशयात् । बुद्धिनिमित्त एवेति ।। बुद्धिनिष्ठ एवेत्यर्थः । न तु स्वत इति ।। सर्वगतत्वान्नित्यत्वाच्चेति भावः । क्रमोपाधिभूतेति ।। क्रमाधिष्ठानभूतेत्यर्थः । तथाविधेति ।। क्रमाधिष्ठानभूतेत्यर्थः ।
लघुप्रभा
(व्या.टि.)
असाधारणेति ।। तावताऽपि ‘सप्तैते चिरजीविनः’ इत्यसाधारणोक्तिदर्शनादिति भावः । जन्यन्त इति ।। ‘जन जनने’ इति प्रकृत्यन्तरस्येदं रूपं, जनेर्जादेशस्य दुर्वारत्वात् । जनेर्ण्यन्तात् कर्मणि यकि ‘ये विभाषा’ इत्यात्वविकल्पो वा । आदिपदेनेति ।। समासार्थत्वेनेत्यर्थः । क्रमादिति ।। क्रमपदेन वर्णक्रमो गृह्यते । पदक्रमव्यत्ययस्य वाक्यानित्यत्वरूपत्वात् । आदिपदेन वाक्यघटकपदक्रमो ग्राह्यः । ग्राह्यमिति ।। निषेध्यतया ग्राह्यमित्यर्थः । एतेनेति ।। पदादिग्रहणेनेत्यर्थः । व्याख्यानप्रकारं दर्शयति- यथायोगं शाश्वता इति ।। वर्णानां कौटस्थ्येन, पदानां वर्णव्यत्यासाभावेन, वाक्यानां पदव्यत्यासाभावेन, प्रकरणानां वाक्यव्यत्या-साभावेन, स्वराणां विस्वराभावेनेति यथासम्भवमित्यर्थः । सर्वसाधारणं नित्यत्वमाह- सर्गेऽपीति ।। व्यथन्ती-ति ।। ‘व्यथ भयसञ्चलनयोः’ इति धातोः । बुद्धिशब्दस्य प्रतीत्यर्थत्वे प्रतीयमानत्वान्वयानुपपत्तेराह- तन्मनसी-ति ।। ननु कृतचोद्यस्योत्तरं नात्र प्रतीयत इत्यत आह- उत्तरेति ।। प्रत्यभिज्ञेति मूल इत्यर्थः । ननु वर्तमानतयेत्यनुक्तं विशेषणं कस्मादभिप्रायविषयतयाऽऽरोप्यत इत्यत आह- तस्यैवेति ।। उक्तार्थस्य नित्यत्वस्य । असिद्ध-मिति ।। साधकाभावादिति भावः । तमेवोपपादयति- तथा हीति ।। तस्य पुराणवाक्यस्य । अन्यथा वर्तमानतया अनुभवं विनाऽपि । तां दर्शयति- वेदानुभवेति ।। मात्रेणेत्यनुभवं व्यावर्तयति- एवमिति ।। वेदपदस्य संस्का-रार्थत्व इत्यर्थः । तत्साम्यात् लक्षणासाम्यात् । मुख्यार्थेऽनुपपत्त्यादेरभावात्कुतो लक्षणेत्यत आह- वेदानामे-वेति ।। साक्षादिति ।। अनुभवादिद्वारमन्तरेणेत्यर्थः । असम्भवादिति ।। विषयस्य विषय्यवस्थानासम्भवादि-त्यर्थः । तथा च अन्वयानुपपत्त्या लक्षणाऽऽवश्यकीत्यर्थः । अन्यदप्यनुकूलमित्याह- एवमङ्गीकार इति ।। अत एवेति ।। जन्मवाक्यानुग्रहादेवेत्यर्थः । रूढेति ।। रूढेः प्रयोजनानपेक्षणादित्यर्थः । तथात्वेति ।। वर्तमान-तयाऽनुभूयमानत्वप्राप्तेरित्यर्थः । सर्वज्ञत्वयुक्त्या साधनेऽतिप्रसङ्गमभिधाय युक्तिरेवेयं निर्दलेत्याह- विद्य-मानेति ।। स्यादित्यतः परम्, न त्वविद्यमानार्थाननुभवे, अन्यथा भ्रान्तत्वप्रसङ्गादिति वाक्याध्याहारः । (व्या.टि.) शङ्कासमाप्तिद्योतकेतिशब्दश्चाध्याहार्यः । अत्र कल्पद्वये । घटादेरिवेति ।। ‘तत्र तस्येव’ इतीवार्थे षष्ठ्यन्ताद्वतिरिति भावः । अनुभूयमानत्वमेवेति ।। पुराणादिवाक्यार्थ इत्यर्थः । उक्तप्रत्यभिज्ञेति ।। शाब्द-प्रत्यभिज्ञेत्यर्थः । यद्यपि ईश्वरस्यानुभवजन्यसंस्काराभावेनैव समाधिर्विधेयः ।
‘भक्तानां स्मरणं विष्णोः नित्यज्ञप्तिस्वरूपतः ।
अनुग्रहोन्मुखत्वं तु नैवान्यत्क्वचिदिष्यते ।।’
इति ईशावास्यभाष्यात् । तथाऽपि स शिष्यैरेवोह्यतामिति कृत्वा चिन्तया प्रववृते । ननु प्रत्यभिज्ञैवोक्ता, न तद्विरोध इत्यत आह- उक्तप्रायत्वादिति ।। यदा पुराणे स्वोक्तशाश्वतत्वोपपादनाय प्रत्यभिज्ञोक्ता तदा तदर्थानङ्गीकारे तद्विरोधोऽप्युक्त एवेत्यर्थः । तथा सतीति ।। सदृशानुपूर्वीकत्वरूपमीमांसकाभिहितस्वाभ्युप-गतापौरुषेयत्वसिद्धेरित्यर्थः । ननु सदृशानुपूर्वीकत्वरूपापौरुषेयत्वसिद्धावपि सादृश्यनिबन्धनप्रत्यभिज्ञाविरोधा-भावात् कथं न वक्तुं युक्तं संस्कारमात्रत्वमित्यत उपलक्षणया युक्त्यन्तरमाह- उपलक्षणं चैतदिति ।। एतत् प्रत्यभिज्ञाविरोधकथनम् उपलक्षणम् अन्यस्या युक्तेः । तामाह-जन्मवाक्येति ।। अयं भावः । ‘तदुत्पत्तिवचश्चैव’ इत्यादिजन्मवाक्यगतिकथनविरोधात् सदृशानुपूर्वीकत्वरूपापौरुषेयत्वमपि न स्वमतं, किन्तु कौटस्थ्यमेव । तथा च संस्कारमात्रत्वं वक्तुं न युक्तमेवेति । एतेन जन्मवाक्यान्यप्यनुगृहीतानि भवन्तीत्यपास्तम् । तेषां गतिकथनेन प्रतीतार्थत्वाभावात् ।
।। उपवर्णितेति ।। ग्रन्थकृतेति शेषः । वर्णा एवेति ।। एवकारव्यावर्त्यमाह- न त्विति ।। अर्थान्तर-मिति ।। वर्णेभ्य इति शेषः । न च विशिष्टं पदार्थान्तरमिति सिद्धान्तव्याकोपः । तस्य यावद्वस्तुभाविविषय-त्वात् । नित्यविशेषणविशिष्टस्य स्वरूपमात्रत्वात् । अन्यथा सार्वज्ञादेरपीश्वरभिन्नत्वापत्तेः । बुद्धिनिमित्त एवेति ।। बुद्धिप्रयोज्य इत्यर्थः । न तु बुद्धिकारणक इति । ‘आदिकालीनां व्यक्तिम्’ इति पूर्वटीकाविरोधात् । न तु स्वत इति ।। दैशिककालिकान्यतर इत्यर्थः । वर्णानां नित्यविभुत्वादिति भावः । वेदविनाश इति ।। व्यञ्जकाभावेनोत्सादरूप इत्यर्थः । अपर इति ।। स्वरूपनाश इत्यर्थः । न चेश्वरस्येति ।। तथा च निमित्ता-विनाशान्न नैमित्तिकक्रमस्यापि विनाश इति भावः । देवदत्तस्येवेति ।। बुद्ध्युपरम इति शेषः । तद्बुद्धेः क्रमिक-विषयसञ्चारित्वादिति हेतुरवधेयः । विस्मरणनिमित्तो वेति ।। अनित्यानुभवत्वात् तज्जन्यसंस्कारस्योद्बोधका-भावेन विस्मरणसम्भवादिति भावः । तन्निमित्तद्वयाभावं प्रतिजानीते- नोभयथाऽपीति ।। पूर्वं सर्वदेति यथाश्रुतं व्याख्यातम् । अधुना सर्वदेति सर्वज्ञत्वान्वयीति व्याचश्व्े - तस्येति ।। सर्वकालीनसर्ववैषयिकानुभववत्त्वादि-त्यर्थः । सर्वदेति सर्वज्ञत्वविशेषणेन विषयसञ्चारयौगपद्योक्त्या क्रमो निरस्तः । सर्वदेति प्रतीतिविशेषणेना-नुभवनित्यत्वोक्त्या विस्मरणं निरस्तमित्यवधेयम् । सर्वज्ञत्वस्य युक्तित्वं प्रसाध्य तेन पुराणोक्तसाध्यसिद्धिं निगमयति- अत इति ।। अतश्चानादिनित्या इति परमसाध्यनिर्देशो द्रष्टव्यः । कुत इति ।। ज्ञापकादित्यर्थः । (व्या.टि.) नित्यत्वमनादिनित्यत्वम् । आशङ्क्येति ।। आशङ्काप्रकारस्तु- यदीश्वरस्य सर्वज्ञत्वात्तज्ज्ञेयानां वेदानां सर्वदा वर्तमानतयाऽनुभूयमानत्वं ततश्च नित्यत्वं सेत्स्यति, तर्हि पुराणानामपि तत्सिद्धेः कः प्रति-रोद्धा । सर्वज्ञत्वयुक्तेरुभयत्र तौल्यात्, इति बोध्यम् । शङ्काबीजाभावादिति ।। युक्त्युपन्यासाभावे प्रमाणाभावेन पुराणे उक्तवर्तमानतयाऽनुभवासिद्धेरित्यर्थः । वेदपुराणयोर्नित्यत्व इति ।। सर्वज्ञत्वयुक्त्या समेऽपीति शेषः। पुराणानामनित्यत्वे पुना रचनमेव निमित्तं, न विनाशः, ‘अत एवानित्यानि’ इति व्याख्यानादित्यवधेयम् । पुना रचनमेवेति ।। ‘रो रि’ इति लोपे ‘ढ्रलोपे’ इति पूर्वाणो दीर्घे च सिद्धम् । ईश्वरप्रवृत्तेरिति ।। अनेन, इयं प्रवृत्तिः स्वप्रयोजनहीना ईश्वरप्रवृत्तित्वाद् यदेवं तदेवमिति युक्तिः सूचिता । यथोक्तम् ‘लोकवत्तु लीलाकैवल्यम्’ इति । परप्रयोजनानीति ।। ‘न प्रयोजनवत्त्वात्’ इति सूत्रे परप्रयोजनानुमितेरिति भावः । इदानीमिति ।। वेदापौरुषेयत्वस्थापनावसर इत्यर्थः । अनेन अनवसरादेवानुक्तिर्न त्वज्ञानादिति सुसूचे ।