‘उत्पत्तिर्वासुदेवस्य प्रादुर्भावो ..

हरेरुत्पत्ति ब्रुवतां वाक्यानां प्रादुर्भावार्थपरत्वे प्रमाणोदाहरणम्

मूलम्

-  ‘उत्पत्तिर्वासुदेवस्य प्रादुर्भावो नचापरः ।

देहोत्पत्तिस्तदन्येषां ब्रह्मादीनां तदीरणात् ।

देहोऽनादिर्हरेर्नित्यो ब्रह्मादीनामनित्यकाः ।

मुख्योत्पत्तिस्तदन्येषां प्रादुर्भावो हरेर्जनिः’ इति परमश्रुतेश्च ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विष्णुतत्त्वविनिर्णये

द्वितीयः परिच्छेदः समाप्तः ।।

तत्त्वमञ्जरी

विष्णोरपि कृष्णादिरूपेणोत्पद्यमानत्वात् कथं जन्मादिदोषा न सन्तीत्यत आह - उत्पत्तिरिति ।। वासुदेवस्योत्पत्तिर्नाम केवलं प्रादुर्भाव एव । कृष्णादिरूपाणां प्रकाशनमेव । न पुनर्देहोत्पत्तिः । हरेर्देहः स्वरूपभूतत्वात् ज्ञानादिगुणात्मकत्वाच्च अनादिर्नित्यश्च हि ।।

।। इति द्वितीयं विशेषणम् ।।

टीका 

ननु ‘जनितोत विष्णोः’ इति श्रुतौ विष्णोरुत्पत्तिरुच्यते । तत्कथं तस्य निर्दोषत्वादिकं प्रतिज्ञायते । अथ यत्तत्र समाधानं तच्छिवादिष्वपि वक्तुं शक्यमित्याशङ्कां श्रुत्यैव परिहरति- उत्पत्तिरिति ।। उत्पत्तिवचनार्थ इत्यर्थः । अपरो देहोत्पत्त्यादिः । देहोत्पत्तिरुत्पत्तिश्रुतेरर्थ इति शेषः । विष्णोरपि तच्छब्दवाच्यानि रूपाणि सन्तीत्यतस्तदन्येषामित्युक्तम् । अविवादपदाना-मस्मदादीनां व्युदासाय- ब्रह्मादीनामिति ।। तदीरणात् तस्य वासुदेवस्य प्रेरणात् । कुत एवं श्रुत्यर्थद्वैविध्यकल्पनमित्यत आह- देह इति ।। ब्रह्मादीनां देहा अनित्यकाः सादयश्च । एतदुभयं प्रमाणनिश्चितं यत इति भावः । मुख्योत्पत्तिः देहोत्पत्तिरेवोत्पत्तिवाक्यार्थ इति शेषः । यद्यपीय-मप्यमुख्या । तथाऽपि प्रादुर्भावापेक्षया मुख्यत्वान्मुख्येत्युक्तम् । जनिःजनिश्रुत्यर्थः । देहात्म-विवेकमनाश्रित्य देहोत्पत्तिरेवोत्पत्तिशब्दार्थो मुख्य आश्रितः । प्रादुर्भावस्तु कदाचिदुप-लभ्यत्वगुणयोगेनामुख्य इति । यद्यप्ययमुत्तरपरिच्छेदप्रतिपाद्योऽर्थः । तथापि प्रसङ्गागतत्वा-दत्राप्यभिहित इति ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्विष्णुतत्त्वविनिर्णयस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां द्वितीयः परिच्छेदः समाप्तः ।।

भावबोधः

उत्पत्तिःप्रादुर्भाव इत्येतद्विरुद्धमित्यत आह-उत्पत्तिवचनस्यार्थ इतीति ।। एवमुत्तरत्रापि द्रष्टव्यम् । सादयश्चेति ।। सादित्वस्योत्पत्तिसाधकत्वात् । अनादिरित्युक्तत्वाच्चेति भावः । प्रादुर्भावापेक्षया देहोत्पत्तेः कथं मुख्यत्वमित्यत आह- देहात्मविवेकमिति ।। स्फुटतरविवेक(कार्थ)मित्यर्थः ।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्विष्णुतत्त्वविनिर्णयस्य श्रीमज्जयतीर्थपूज्यचरणविरचिताया टीकाया विवृतौ श्रीरघूत्तमयतिविरचितायां भावबोधसञ्ज्ञिकायां द्वितीयः परिच्छेदः समाप्तः ।।

भावदीपः

शङ्कानिवृत्तिलाभायाऽह- उत्पत्तिवचनार्थ इति ।। ‘जनितोत विष्णोः’ इत्यस्यार्थ इत्यर्थः । अभ्युपेत्येदमुक्तम् । वस्तुतस्तु विष्णोरित्यस्य यज्ञस्य यजमानस्य वा सोमो जनयितेत्यर्थान्तरस्योक्तेः । ‘अजायमानो बहुधा विजायते’, ‘स एषोऽन्तश्चरते बहुधा जायमानः’ इत्यादिश्रुत्यभिप्रायेण वेयमुक्तिः । स्वरूपोत्पत्तिभ्रमव्युदासायाऽह- अपरो देहोत्पत्त्यादिरिति ।। आदिपदेन पराधीनविशेषावाप्तिपरिग्रहः । ब्रह्मादीनामित्येवास्तु किं तदन्येषामित्युक्त्येत्यत आह- तच्छब्दवाच्यानीति ।। ब्रह्मादिपदवाच्यानि विष्णो रूपाणि सन्तीत्यर्थः । श्रुत्यर्थद्वैविध्येति ।। हरावुत्पत्तिश्रुतेः प्रादुर्भावोऽर्थः । अन्यत्र देहयोगादिरित्येवं द्वैविध्ये-त्यर्थः । अमुख्येति ।। स्वरूपपरिणामरूपोत्पत्त्यपेक्षयेति भावः । प्रादुर्भावापेक्षया कथं मुख्यत्वमित्यत आह- देहात्मविवेकमिति ।। प्रसङ्गेति ।। ब्रह्मादेर्दोषित्वेन जगदीशितृत्वायोगे विष्णोरपि जननादिदोषित्वश्रवणात् तदभावशङ्कापरिहारार्थत्वप्रसङ्गेत्यर्थः ।

।। इति श्रीमद्विष्णुतत्त्वविनिर्णयटीकाभावदीपे राघवेन्द्रयतिकृते द्वितीयः परिच्छेदः ।।

वाक्यार्थदीपिका

(श्री.टि.)

जनितोतेति ।। ‘सोमः पवते’ इति पूर्ववाक्यादत्र सोम इत्यनुवर्तते । तथाच सोमः विष्णोरुत विष्णोरपि जनिता जनयिता उत्पादक इत्यर्थः । ‘जनिता मन्त्रे’ इति निपातनात् । ननु वासुदेवस्य प्रादुर्भाव एव यद्युत्पत्तिस्तर्हि जनितोत विष्णोरिति श्रुतिवचनविरोधः कथं परिहृत इत्यत उत्पत्तिरित्यस्यार्थमाह- उत्पत्ति-वचनार्थ इति ।। ननु ब्रह्मादीनामित्येवास्तु, तदन्येषामिति व्यर्थमित्यत आह- विष्णोरपीति ।। ब्रह्मादीनां देहोत्पत्तेरुत्पत्तिश्रुत्यर्थत्वे विष्णोरपि ब्रह्मादिशब्दवाच्यानां पृथग्रूपाणां विद्यमानत्वेन तेषां देहोत्पत्तेरुत्पत्ति-शब्दार्थत्वप्राप्तौ ‘तस्य नान्योऽस्ति सर्गादिकर्ता’, ‘निर्दोषकश्च सः’ इत्युक्तविरोधप्रसङ्गादित्यर्थः । तदन्येषा-मिति ।। ब्रह्मादिशब्दवाच्यविष्णुरूपेभ्योऽन्येषामित्यर्थः । तर्हि तदन्येषामित्येवास्तु ब्रह्मादीनामिति किमर्थ-मुक्तमित्यत आह- अविवादपदानामिति ।। तदन्येषामित्येवोक्तौ देहोत्पत्तिमत्त्वेन विवादानास्पदाना-मस्मदादीनामपि प्राप्तेस्तद्व्युदासाय ब्रह्मादीनामित्युक्तमित्यर्थः। द्वैविध्येति ।। विष्णूत्पत्तिवचनस्य प्रादुर्भावोऽर्थः, ब्रह्माद्युत्पत्तिवचनस्य देहोत्पत्तिरर्थ इति द्वैविध्यकल्पनमित्यर्थः । ‘देहोऽनादिर्हरेः’ इत्युक्तत्वात्तत्प्रतियोगित्वेन सादित्वमप्यत्र द्रष्टव्यमित्याह- सादयश्चेति ।।

ननु स्वरूपोत्पत्तेरेव मुख्योत्पत्तित्वेन देहोत्पत्तेरमुख्यत्वात्कथं देहोत्पत्तिरेव मुख्योत्पत्तिरित्युच्यत इत्याशङ्क्य समाधत्ते- यद्यपीयमिति ।। ननु प्रादुर्भावापेक्षया देहोत्पत्तेः कथं मुख्यत्वमित्यतस्तदुपपादयति- देहात्मेति ।। देहात्मनोः स्फुटतरं विवेकमित्यर्थः । तथा च देहात्मनोः स्फुटतरविवेकाश्रयणे स्वरूपोत्पत्त्यपेक्षया देहोत्पत्ति-रप्यमुख्यैव भवति । तदनाश्रयणे तु देहोत्पत्त्या स्वरूपस्यैवोत्पत्तिः प्राप्तप्रायेति प्रादुर्भावापेक्षया देहोत्पत्तिर्मुख्ये-त्यर्थः । प्रादुर्भावस्यामुख्योत्पत्तित्वे का सा न मुख्यवृत्तिरभिप्रेतेत्यतो गौणी वृत्तिरित्याह- कदाचिदिति ।। स्वरूपत उत्पन्ने घटादावालोकादिनाऽभिव्यक्ते च घटादौ कदाचिदुपलभ्यत्वगुणयोगादित्यर्थः । ननु भगवतो निर्दोषत्वप्रतिपादनस्योत्तरपरिच्छेदप्रमेयत्वेनात्र तदभिधानमसङ्गतमित्याशङ्क्याऽह- यद्यपीति ।। अयमर्थो भगवतो निर्दोषत्वरूपः । प्रसङ्गागतत्वादिति ।। समतीतक्षराक्षरत्वरूपं सर्वेश्वरत्वं शिवादीनां किं न स्यादिति शङ्कायां तद्व्यापकीभूतस्य निर्दोषत्वस्य तेष्वभावाद्विष्णौ च तद्भावान्न तेषां सर्वेश्वरत्वम्, किन्तु विष्णोरेवेति प्रसङ्गागतत्वादित्यर्थः ।

।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां

श्रीमद्विष्णुतत्त्वविनिर्णयटीकाविवृतौ वाक्यार्थदीपिकायां द्वितीयः परिच्छेदः ।।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

तथात्वे हिरण्यगर्भादिसर्वनामवत्त्वे । उत्पत्तिः प्रादुर्भाव इत्येतद्विरुद्धमित्यत आह- वचनस्यार्थ इति ।। सादयश्चेति ।। अनित्यत्वमात्रस्योत्पत्तिसाधकत्वाभावादिति भावः । ननु स्वरूपत उत्पत्तेरेव मुख्यत्वान्न देहोत्पत्तेर्मुख्यत्वमिति कथं तदुक्तिरित्यतः न स्वरूपोत्पत्तितो देहोत्पत्तेर्मुख्यत्वमत्राभिप्रेतम्, येनोक्तदोषः स्यात् । किन्तु प्रादुर्भावापेक्षयैवेत्यतो नानुपपत्तिरित्याशङ्क्य परिहरति- यद्यपीत्यादिना ।। प्रादुर्भावापेक्षयाऽपि (पां.टि.) देहोत्पत्तेः कथं मुख्यत्वम्? येन देहोत्पत्तेरेवोत्पत्तिवाक्यार्थत्वं स्यात् । कथं च प्रादुर्भावस्य देहोत्प-त्त्यपेक्षया गौणत्वमित्यतः तदुभयमुपपादयति- देहात्मविवेकमिति ।। स्फुटतरदेहात्मविवेकमित्यर्थः ।

।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां सकलविद्वच्चक्रचूडामणीनां

श्रीमद्विद्याधीशतीर्थपूज्यपादानां निजशिष्येण केशवेन विरचितायां गुरुराजमार्गानुवर्तिन्यां तत्त्वनिर्णयटीकागतविषमपदवाक्यार्थविवृतौ द्वितीयः परिच्छेदः ।।

लघुप्रभा

(व्या.टि.)

एवं सर्वेश्वरत्वव्यापकनिर्दोषत्वाभावान्न तेषां जगत्कारणवाक्यप्रतिपाद्यत्वमित्युक्तम् । अधुना तद्वद्विष्णावपि दोषश्रवणेन व्यापकाभावात्तद्व्याप्यसर्वेश्वरत्वाभावः स्यादिति शङ्कते- नन्वित्यादिना ।। उत्पत्ति-रिति ।। ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः’ इति श्रुताविति शेषः । ननु तत्र ‘यज्ञो वै विष्णुः’ इति श्रौतप्रयोगानुरोधेन ‘विष्णुरिति यज्ञस्य यजमानस्य वा नाम’ इत्यन्यत्रोक्तरीत्या नाम्नोऽर्थान्तरमभिप्रेत्य समाधानमिति शङ्कते- अथेति ।। तत् समाधिसाम्यम् । शिवादिष्वपीति । तत्रापि शिवादिशब्दस्य कल्याणपुरुषाद्यर्थान्तरपरिग्रहेण दोषस्यान्य-निष्ठत्वोक्तेः सौलभ्यादित्यर्थः । वचनस्य विष्णूत्पत्तिपरत्वेऽप्युत्पत्तेरनेकविधत्वान्न दोषभूतोत्पत्तिपरत्वमिति समाधत्त मूलकारः- उत्पत्तिः प्रादुर्भाव इति ।। अस्य दोषे गुणसामानाधिकरण्यानुपपत्तेः प्रादुर्भाव उत्पत्तिवचनार्थ इत्यर्थः । न चापरः,  देहोत्पत्तिरित्यनयोर्लिङ्गविपर्ययेण सामानाधिकरण्यानुपपत्तेः शेषमापूर्योत्तरशेषतया योजयति- इति शेष इति ।। तत्तच्छब्देति ।। ब्रह्मादिशब्दवाच्यानीत्यर्थः । ‘ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थितः’ इति स्मृतेरिति भावः । विशेष्यपदकृत्यमाह- अविवादपदानामिति ।। देहोत्पत्तेः प्रत्यक्षसिद्धत्वेना-निर्णेतव्यत्वात् इत्यर्थः । तदीरणादित्यत्र तत्पदपरामृश्यं प्रदर्श्य विग्रहं दर्शयति- तस्य वासुदेवस्येति ।। ‘वासुदेवो वा इदमग्र आसीत्’ इति तस्यैव मूलकारणत्वश्रवणादित्यर्थः । कुत इति प्रमाणप्रश्नः । निश्चितमिति ।। यथावद्व्याख्येयत्वादित्यर्थः । अमुख्येति ।। स्वरूपोत्पत्तेरेव मुख्यत्वादित्यर्थः । प्रादुर्भावापेक्षयेति ।। यथाऽन्य-त्रेन्द्रादिशब्दवृत्तेर्मुख्यत्वेऽपि भगवति परममुख्यवृत्त्यपेक्षयाऽमुख्यत्वादमुख्यत्वव्यपदेशस्तथा व्यक्तिरूपामुख्य-व्यपेक्षया मुख्यत्वव्यपदेशः । ननु ‘नैषां ममाहमिति धीः श्वसृगालभक्ष्ये’ इति भागवतोक्तदिशा ‘न देहोऽहमिति प्रमा’ इत्यनुव्याख्यानसुधोक्तभङ्ग्या च देहोऽहमिति भ्रमस्य कस्याप्यभावेन प्रमाया दूरनिरस्तत्वाद्देहोत्पत्तेर्देह-निष्ठतया तत्रैव मुख्यतया तत्सम्बन्धिस्वामिनि लक्षणासम्भवेन तच्छब्दस्य तत्र मुख्यत्वासम्भवात् । शक्ये तत्सम्बन्धिनि च शक्तौ लक्षणोच्छेदापत्तेः । ‘स्वविनाशेन स्वामिनोऽपि नाशोपचारात्’ इति पूर्वोक्तन्यायेन स्वोत्पत्त्या स्वाम्युत्पत्तेरमुख्यत्वौचित्यमित्यत आह- देहात्मविवेकमनाश्रित्येति ।। अत्राविवेकमाश्रित्येति च ग्राह्यम् ।

अयम्भावः । न देहस्वरूपोत्पत्तिम् अभूत्वाभावलक्षणामाश्रित्योच्यते । किन्त्वविवेकदेहाभिमानं तत्प्रयुक्त-विकारञ्चाऽश्रित्येति । यथोक्तम् ‘अभिमानोऽभिमानिनः’ इति ‘पुरुषे तद्विशेषणम्’ इति च । ननु ‘नैषां ममाह-(व्या.टि.) मिति धीः श्वसृगालभक्ष्ये’ इत्येकान्तिनां विवेकित्वात्कथमविवेक इत्यत आह- विवेकमनाश्रि-त्येति ।। अविवक्षित्वेत्यर्थः । कुतोऽविवक्षेति चेदित एव- यद्यपि न देहेऽहंभ्रमः कस्याप्यस्ति । देहधर्मभ्रमो न सर्वेषाम् । एकान्तिनां विवेकित्वात् । कृष्णोऽहमित्यादिव्यवहारमात्रस्य ‘उपचारश्च कृष्णोऽहमिति कर्दम-लेपने । वस्त्रस्य यद्वदेवं स्यात्’ इति,

व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ।

भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत्’

इत्यनुव्याख्यानोक्तरीत्या रूढोपचारत्वात् । तथाऽपि स्फुटविवेकस्य क्वाचित्कत्वेनाल्पत्वादविवक्षया ज्ञान्यज्ञानि-साधारणो देहिन्यहंप्रत्ययो गृह्यते । ज्ञानिनोऽपि हि ‘अहं भवो भवन्तश्च’ इति ‘ततो वयं सत्प्रमुखा यदर्थे’ इत्यादि पिण्डीभूत एव प्रयुञ्जते । ‘अयो यथा दाहकत्वम्’ इति ‘दग्धृशब्दो यथा काष्ठे’ इत्युक्तदिशा काष्ठे दहतिशब्दवत्    अत(अयमा)आत्मा जातोऽजातो मृतोऽमृत इति विशेषणदेहविकारेण विशेषितो भवति । तर्हि न पुरुषस्य विकार इत्यत उक्तं तत्रैव ‘परतन्त्रविशेषो हि विकार इति कीर्तितः’ इति । परायत्तस्वाभिमत-देहादिजन्यदुःखादिरेव विकार इत्यर्थः । तथा च श्रुतिः- ‘भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ इति । अभिमानस्य दुःखहेतुत्वमुक्तं गीतायां ‘मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः’ इति । तथा च विशिष्ट-प्रत्ययस्य विशेष्यगोचरत्वात्तत्रापि परम्परया (वि)देहविकारः साक्षाच्च तदभिमाननिबन्धनदुःखादिविकारश्चास्ति सार्वजनीन इति स एवोत्पत्तिशब्दमुख्यार्थ इत्युक्तम् । अत एवोक्तं भाष्ये ‘प्रकृतिः पुरुषः कालो महानित्यादिषु क्रमात् । विकार एव जननम्’ इति । गीतातात्पर्यनिर्णये च-

स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।

इष्येते ह्येव जीवस्यायुक्तेर्न तु हरेः क्वचिदिति स्कान्दे ।।’ इति ।

ननु तथाऽपि देहात्मविवेकमनाश्रित्येति किमर्थमुक्तमिति चेत् । अतिविवेकिनां दधीच्यादीनां देवकार्याय स्वदेहवियोजनदर्शनेन जनकादीनां स्व(वि)देहदाहेऽपि ‘न मे किञ्चन दह्यति’ इति प्रयोगेण च तेषां देहेऽहम्भावाभावसिद्धेः । सर्वेषाञ्च स्वदेहाभिमानाभावेन दुःखाभावाच्च विकाराभावसिद्धेः । उत्पत्तिशब्दार्थे विकारस्येव विवक्षणीयत्वात्तदविवक्षा । एवञ्च ‘मर्त्यात्मबुद्धेः’ इति भागवतस्यापि मर्त्ये देहे पिण्डीकृते आत्मन्यहमिति बुद्धिरेव विवक्षिता । न देहात्मैक्यबुद्धिरिति रहस्यम् । केचित्तु यद्धर्मविशिष्टस्याविवेको यत्र तत्र तन्मुख्यमिति नियमाज्जन्मादिधर्मविशिष्टस्य देहस्याऽत्मन्यविवेक इति जन्मादिकमपि तत्र मुख्यमिति भाव इति विवेकमनाश्रित्येति टीकया विवेकमाश्रित्येत्युपेत्य व्याख्यान् । तन्न शोभते । देहात्मैक्यभ्रमस्य ‘न देहोऽहमिति प्रमा’ इत्यनुव्याख्यानसुधयोर्दूषितत्वेन तदनवलम्बिव्याख्यानस्यास्य भ्रममूलत्वात् । आरोपितस्य मिथ्यात्वेन मिथ्यार्थस्य मुख्यत्ववर्णनायोगाच्च । न तत्त्वं शुक्तौ मुख्यमित्युक्तेरपास्यत्वाच्च । ब्रह्मादीनामिति ब्रह्मादिदेहोत्पत्तेः (व्या.टि.) प्रकृतत्वेन तेषामविवेकासम्भवाच्च । ‘धीरस्तत्र न मुह्यति’ इति धीरमात्रस्य मोहाभावोक्त्या धीरतमस्य कैमुतिकन्यायसिद्धत्वेनाविवेकोक्तेरेवाविवेकत्वाच्च । भागवतादेरन्यार्थवर्णनाच्चेति ।

ननु(भोक्ता) विवेकनिराकरणेन पुनरविवेकाङ्गीकारे कथं न व्याहतिरिति चेन्न । देहात्मभ्रान्तिरविवेकः पराभिमतो निराकृतः । देहे आत्मीयतया भ्रान्तिरूपो विवेकोऽङ्गीक्रियते । तस्य मूलविरोधात् । अस्य तदविरो-धात् । ‘प्रत्युत तथा च तक्षोभयथा’ इति सूत्रकृत्सम्मतत्वेन भ्रमत्वाभावाच्च  । परमस्वातन्त्र्यस्यैव भ्रान्ति-त्वाच्च । अत एव देहात्मविवेकमनाश्रित्येत्येतत् स्फुटतरविवेकमिति विजयीन्द्रस्वामिनो व्याचख्युः । ‘नाहं कर्ता हरिः कर्ता’ इति स्फुटतरविवेकमित्यर्थ इति सङ्क्षेपः । उत्पत्तिशब्देति ।। उपलक्षणमेतत् । देहहानिरेव हानिशब्दार्थ इत्यपि ग्राह्यम् । कदाचिदिति ।। स्वरूपोत्पन्नस्य घटादेर्देहोत्पन्नस्य जीवस्यापि ‘अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत’ इति गीतादिशा कदाचिदुपलभ्यत्वं मुख्यस्येति ध्येयमिति दिक् । उत्तरपरि-च्छेदेति ।। निर्दोषत्वस्य तृतीयविशेषणत्वादित्यर्थः । प्रासङ्गिकत्वान्नासङ्गतिरिति भावः ।

।। इति श्रीमद्विष्णुतत्त्वविनिर्णयटीकया लब्धप्रतिभया भातः परिच्छेदो द्वितीयकः ।।

।। समाप्तो द्वितीयपरिच्छेदः ।।