उपाधिमिथ्यात्वाङ्गीकारे ..
कर्म मेदप्रयोज्योपाधि मेदनिमित्तक सुखादिव्यवस्थायां दोषोद्भावनम्
मूलम्
- उपाधिमिथ्यात्वाङ्गीकारे चान्योन्याश्रयत्वादिदोषा उक्ताः । नचानादि-कर्म्मभेदाद्भेदः । औपाधिकभेदसिद्धौ कर्म्मभेदसिद्धिः, तत्सिद्धौ च तत्सिद्धिरित्य-न्योन्याश्रयत्वात् । अतोऽनन्तदोषदुष्टत्वाद् ग्रन्थबहुत्वं स्यादित्येवोपरम्यते । अतः सर्वप्रमाणविरुद्धत्वान्नाभेदे श्रुतितात्पर्यम् ।
तत्त्वमञ्जरी
मिथ्या ह्युपाधिः अतस्तन्निमित्तमशुद्धत्वमपि मिथ्या । अतः कथं अशुद्धस्वभावत्वमित्यत आह - उपाधीति ।।
नच वक्तव्यं अनादिकर्मभेदात्तन्निमित्तोपाधिभेद इति ।। नहि निष्क्रियस्य शुद्धब्रह्मणः उपाधिभेदं विना कर्मसिद्धिरित्यन्योन्याश्रयत्वात् । अत उक्तन्यायादेवानन्तदोषदुष्टत्वादस्य पक्षस्या-स्माभिरुपरम्यते । न दोषाणां प्रतिपाद्यमानानां समाप्तेः । तर्ह्यनन्तानां दोषाणां स्पश्व्ं प्रतिपादनं किमिति न क्रियत इति नाशङ्कनीयम् । अल्पायुरनल्पश्रोतव्यवद्भिरधिकारिभिरभ्यसनीयस्य ग्रन्थबहुत्वं स्यादिति हेतोरेव ह्युपरम्यते ।
टीका
अत्राऽहुर्मायावादिनः- ‘उपाधिभेदाङ्गीकारे’ इत्यादिनोक्ताः सुखदुःखव्यवस्थासिद्ध्यादयो दोषा नास्मत्पक्षे प्रसञ्जन्ति । अस्माभिरुपाधिमिथ्यात्वस्याङ्गीकृतत्वात् । तथाहि- काल्पनिको ह्युपाधिर्भेदकल्पनां जनयन् सुखादीनपि व्यवस्थयैव कल्पयति । यथाऽङ्गुल्यवष्टम्भादिः चन्द्रमसि भेदभ्रमं जनयंश्चक्रत्वादीन् धर्मानपि व्यवस्थयैव दर्शयति । तेन सुखदुःखादिव्यवस्थोपपन्ना । यदपि ‘यथा चैकाङ्गुल्याद्यपगमे’ इत्युक्तं तदपि न । यस्य ज्ञानमुत्पन्नं तस्य ब्रह्मव्यतिरिक्तार्थदर्शनाभा-वात् । नहि ज्ञानोत्पत्तौ मिथ्यार्थदर्शनमस्ति । नच मिथ्याभूतैरुपाधिभिः स्थितैर्गतैर्वा ब्रह्मणः कश्चिद्विशेषो व्योम्न इव नीलिम्ना । यच्च, किञ्चोपाधिरित्यादि तदप्यसत् । सत्यस्योपाधेर्भेदजन-कत्वे हि तत् स्यात् । नचैवम् । मिथ्याभूत एवोपाधिर्मिथ्याभूतमेव भेदं दर्शयतीत्यङ्गीकारात् । ईश्वरादिव्यवस्था मिथ्योपाधिकृतैवोपपद्यते । किञ्च विशिष्टस्येत्याद्यप्यसत् । परमार्थतः कस्याप्य-भावात् । कल्पनायान्तु यस्योपाधिसम्बन्धस्तस्यैवेत्यभ्युपगमात् । नच मिथ्योपाधिसम्बन्धेन ब्रह्मणः शुद्धिरपैतीत्युक्तमिति ।
एतन्निराकरोति- उपाधीति ।। स्यादयं परिहारो यद्युपाध्यादेर्मिथ्यात्वं स्यात् । नचैवम् । अन्योन्याश्रयत्वादिदोषैस्तस्य निरस्तत्वात् ।
इदमुक्तं भवति । मिथ्यात्वपक्षस्य दुष्टत्वात् सर्वैरद्वैतवादिभिः सत्योपाधिकृत एव सत्यो भेदः संसारश्चेति वक्तव्यम् । ततश्च व्यवस्थानुपपत्तिरपरिहार्यैवेति । ननु सत्योपाधिपक्षेऽपि न सुखादिसाङ्कर्यम् । यस्य कर्मणा य उपाधिरारब्धः तस्यैव तदुपाधिगतदुःखादिभोगो नान्य-स्येत्यादिव्यवस्थोपपत्तेरित्यत आह- न चेति ।। कर्मभेदात् कर्मणां व्यवस्थानात् । भेदः उपाधीनां सुखादीनाञ्च व्यवस्था । उपाध्युत्तरकालीनं खलु कर्म । निरुपाधिके क्रियावेशासम्भवात् । तत्कथमुपाधेर्नियामकं स्यादित्यत उक्तम्- अनादीति ।। नात्र स्वरूपानादित्वं प्रवाहानादित्वं वा विवक्षितमसम्भवात् प्रकृतानुपयोगादुत्तरविरोधाच्च । किन्तु पूर्वजन्मकृतत्वमात्रम् । ततश्च पूर्वजन्मकृतकर्मव्यवस्थयाऽस्मिञ्जन्मन्युपाध्यादिव्यवस्थेत्युक्तं भवति ।
कुतो नेति चेत्, निर्भेदे चैतन्ये यस्य कर्मणेति वक्तुं कर्मव्यवस्थाया एवाभात् । चैतन्यस्य स्वाभाविकभेदाभावेऽप्यौपाधिकभेदोऽस्त्येव । तदाश्रयेण कर्मव्यवस्था सिद्ध्यतीति चेत्, किमेतत् कर्मव्यवस्थानिमित्तोपाधिव्यवस्था याऽऽशास्यते तयैव चैतन्यभेदोऽङ्गीक्रियत उतोपाधि-व्यवस्थान्तरेण । आद्यं दूषयति-औपाधिकेति ।। चैतन्यस्यौपाधिकभेदसिद्धौ, उपाधिनिमित्त-देवदत्तादिव्यवस्थासिद्धावित्यर्थः । कर्मभेदसिद्धिरिति ।। देवदत्तस्येदं कर्मेत्यादिव्यवस्था-सिद्धिरित्यर्थः । तत्सिद्धौ च तत्सिद्धिरिति ।। तयैव कर्मव्यवस्थयोपाधिव्यवस्थासिद्धिरित्यर्थः । इत्यङ्गीकारे चान्योन्याश्रयत्वात् । द्वयोरपि परस्परापेक्षया पूर्वभावित्वापातात् । द्वितीये त्वन-वस्था । बीजाङ्कुरवत्कर्मोपाधिव्यवस्थयोः कार्यकारणभावो नानवस्थादोषमावहतीति चेन्न । वैष-म्यात् । सिद्धविषया हि बीजाङ्कुरानवस्था न त्वियम् । चैतन्याभेदस्यैवाप्रामाणिकत्वेनोपाधिव्यवस्था-यास्तन्निमित्तकर्मादिव्यवस्थायाश्चासिद्धेरिति ।
एवमद्वैतस्य ‘तथैव सर्वयुक्तिविरुद्धञ्च’ इत्यादिना युक्तिशून्यतां तद्विरुद्धताञ्चोक्त्वोपसंहारे कारणं वदन्नुपसंहरति- अतोऽनन्तेति ।। दोषशब्देन दूषिका युक्तयोऽभिधीयन्ते । नाद्वैतविरोधि-दोषाणां समाप्तत्वादुपरम्यते । किन्तु तेषामनन्तत्वेन वक्तुमशक्यत्वात् । इतोऽप्यधिकानां कतिपयानां वचनेऽपि ग्रन्थबहुत्वप्रसङ्गात् । दिङ्मात्रसूचनस्यैतावता सिद्धेरिति । तथा हि । उपाधिकृतभेदवादे किं सर्वे जीवाः सर्वगताः, उत शरीरपरिमाणाः, अथाणवः । नाऽद्यः । अवच्छिन्नस्य सर्वगत-त्वानुपपत्तेस्तथाविधोपाध्यनुपलब्धेश्च । द्वितीये सावयवत्वेनानित्यत्वापत्तिः । तृतीये शरीरा-व्याप्तिः । किञ्च द्वितीयतृतीययोरुपाधेर्मूर्तत्वेन क्रियावत्त्वात्किं यत्रयत्रोपाधिर्गच्छति तत्रतत्रोपहितो ब्रह्मांशो जीवोऽपि गच्छत्युत पूर्वमुपहितं ब्रह्मांशं विहाय यत्रोपाधिर्गच्छति तत्रैवांशान्तरमव-च्छिनत्ति । आद्ये उपाधिविभक्ते स्थाने ब्रह्मणः सुषिरत्वं संयुक्तस्थाने द्विगुणत्वं स्यात् । द्वितीये जीवानामुत्पत्तिविनाशप्राप्त्या कृतहान्यकृताभ्यागमप्रसङ्गः ।
योऽपि स्वाभाविकौ भेदाभेदौ वदति स प्रष्टव्यः-किमर्थमयं भेदोऽङ्गीक्रियत इति । व्यवस्था-सिद्ध्यर्थमिति चेदभेदेन सङ्करोऽप्यापाद्यमानः कथं निवार्यते । भेदेनोपरुद्धोऽभेदो न स्वकार्यकारीति चेदभेदेनोपरुद्धो भेदोऽपि व्यवस्थां न कुर्यात् । भेदः प्रबल इति चेत्तर्हि किमनेनाभेदेनाङ्गीकृतेन । ईश्वरस्याचिन्त्यशक्तिवशात् सर्वमुपपद्यत इति चेत्तर्हीश्वरे बहुमानवता शुद्धभेदोऽङ्गीक्रियताम् । श्रुतिस्तं न सहत इति प्रत्युक्तम् । एतेनातिरेकपक्षोऽपि निरस्तः । पक्षद्वयोक्तदोषापातादित्यलम् ।
‘कथं च जीवपरमात्मैक्ये सर्वश्रुतीनां तात्पर्यं युज्यते । सर्वप्रमाणविरुद्धत्वात्’ इत्यादिनोक्त-मर्थमुपसंहरति- अत इति ।। जीवेश्वराभेदस्येति शेषः । प्रमाणशून्यत्वाच्चेत्यपि द्रष्टव्यम् । अभेदे जीवेश्वरयोः ।।
भावबोधः
ननु यस्य ज्ञानमुत्पन्नं तस्य शुद्धब्रह्मभावलक्षणमुक्तिर्वक्तव्या । न च सा सम्भवति । तदानीमपि केषाञ्चित्संसारिणां सत्त्वेन ब्रह्मण एवोपाधिसम्बन्धस्य वक्तव्यत्वेन शुद्धत्वाभावात् । तथा च बद्धमुक्तव्यवस्थाऽसिद्धिरित्यत आह- न च मिथ्याभूतैरिति ।।
ननु ‘इतश्च मिथ्याभूतोपाधिर्न युज्यते’ इत्यादिग्रन्थेनेदं पुनरुक्तमित्यत आह- इदमुक्तं भवतीति ।। सर्वोपा-धीनां सर्वोपाध्यवच्छिन्नचेतनसम्बन्धित्वाद्व्यवस्थायाः सुखदुःखादिहेतुत्वं न स्यादिति शङ्कायामुपाधिनिमित्त-भूतकर्मव्यवस्थयोपाधीनामपि व्यवस्थितत्वान्न सर्वसम्बन्धित्वमिति परेण परिहृतत्वात्तथैवानुवादः कर्तव्यः । न त्वनादिकर्मभेदाद्भेद इत्यत आह- कर्मभेदात्कर्मणां व्यवस्थानादित्यादि ।। प्रकृतानुपयोगादिति ।। इतः प्राचीनजन्मसम्बन्धिकर्मव्यवस्थामात्रेणोपाधिव्यवस्थोपपत्तौ द्विविधानादित्वकथनस्य प्रकृतानुपयोगादि-त्यर्थः । उत्तरविरोधादिति ।। द्विविधानादित्वकथनस्यौपाधिकभेदसिद्धिरित्यनेन वक्ष्यमाणोत्पत्तिप्रतिबन्धको योऽन्योन्याश्रयः तत्कथनविरोधादित्यर्थः । असम्भवस्तु स्वरूपानादित्व एवेति द्रष्टव्यम् । ननु ‘दोषदुष्टत्वात्’ इति कथम्? न हि दोषेण दुष्टत्वं किन्तु दूषकेनेत्यत आह- दूषिका इति ।। अतः सर्वयुक्तिविरुद्धत्वादिति युक्तिविरोधोपसंहारस्य कर्तव्यत्वात्सामान्यतः सर्वप्रमाणविरुद्धत्वस्यानुपदमेवोपसंह्रियमाणत्वेन पुनरुक्ति-प्रसङ्गाच्च दोषशब्दस्य दूषकमात्रपरत्वं न सम्भवतीत्यत उक्तम्- युक्तय इति ।। ननु सर्वगतोपाध्यवच्छिन्नस्य सर्वगतत्वं सम्भवतीत्यत आह- तथाविधेति ।।
भावदीपः
व्यवस्थयैव दर्शयतीति ।। आरोपितचन्द्र एव न तु सत्यचन्द्र इत्यर्थः । ननु बहुजीववादे समुत्पन्न-ज्ञानवतो ब्रह्मभावेऽपि ब्रह्मणोऽपि जीवान्तरोपाधिसम्बन्धसत्त्वान्न बद्धमुक्तव्यवस्थेत्यत आह- न च मिथ्या-भूतैरिति ।। सदा शुद्धभाव एवेति भावः । निरस्तत्वादिति ।। अज्ञानसिद्धौ मिथ्योपाधिसिद्धिरित्यादिना निरस्तत्वादित्यर्थः । निरस्तपक्षस्य पुनरनुवादः किमर्थ इति चेत्, गमनिकायामुक्तदिशाऽप्यधिकाशङ्कासद्भावात् तात्पर्यं चाऽह- इदमुक्तमिति ।। स्वरूपानादित्वाभावे हेतुमाह- असम्भवादिति ।। आशुतरविनाशित्वादिति भावः । द्वितीये हेतुः- अनुपयोगादुत्तरविरोधाच्चेति ।। पूर्वजन्मकृतकर्मव्यवस्थामात्रेण प्रकृतोपयोगात् । अन्योन्याश्रयोक्तिपरोत्तरवाक्यविरोधादनादित्वे तदसम्भवादिति भावः । याऽऽशास्यते तयैव उपाधिव्यव-स्थयैवेत्यर्थः । उपाधिव्यवस्थान्तरेणेति ।। भेदहेतुर्या उपाधिव्यवस्था कर्मव्यवस्थाधीना सा कर्मव्यवस्था स्वसम्पाद्योपाधिव्यवस्थातोऽन्योपाधिव्यवस्थया आशास्यत इत्यर्थः । उपपादितप्रमेयोपसंहारपरत्वद्योतनायाऽह- दोषशब्देन दूषिका युक्तय इति ।। व्याप्तोपाध्यवच्छिन्नस्य सर्वगतत्वमित्यत आह- तथाविधेति ।। सावयवत्वेनेति ।। मध्यमपरिमाणस्य तन्नियमादिति भावः । श्रुतिरिति ।। तत्त्वमस्यादिश्रुतिरित्यर्थः । ‘अतत्त्वमसीति नवकृत्वोऽभ्यासः’ इत्यादिना प्रत्युक्तमित्यर्थः । एवं तथैव सर्वयुक्तिविरुद्धं चेत्येतदवतारि-कायामुक्तत्रिविधभेदाभेदवादिमते मतद्वयं निरस्य तृतीयमप्यतिदेशेन निराह - एतेनातिरेकपक्षोऽपीति ।। एतच्छब्दार्थं व्यनक्ति- पक्षद्वयेति ।। तथाह्युपाधिकृतेत्यादिनोक्तदोषेत्यर्थः । विरुद्धत्वादित्यत्र कस्येत्याकाङ्क्षायामाह- जीवेश्वराभेदस्येति शेष इति ।। अभेद इत्यत्र शेषमाह- अभेदे जीवेश्वरयोरिति ।।
वाक्यार्थदीपिका
(श्री.टि.)
प्रसञ्जन्तीति ।। प्राप्ता भवन्तीत्यर्थः । व्यवस्थयैवेति ।। वास्तवचन्द्रेऽदर्शयन्नारोपित एव चन्द्रे दर्शयतीत्यर्थः । तेन काल्पनिकभेदेन । ननु यस्य ज्ञानमुत्पन्नं तस्य शुद्धब्रह्मभावलक्षणमुक्तिर्वक्तव्या । न च सा सम्भवति । तदानीमपि केषाञ्चित्संसारिणां सत्त्वेन ब्रह्मण एवोपाधिसम्बद्धतया शुद्धत्वाभावात् । तथा च बद्धमुक्तव्यवस्थाऽसिद्धिरित्यत आह- न च मिथ्याभूतैरिति ।। विशेषः शुद्धत्वाभावरूपः । नीलिम्ना आरोपितनीलरूपेणेत्यर्थः । तत् किञ्चोपाधिरित्यादिनोक्तं दूषणम् । तस्यैवेति ।। संसार इति शेषः । तर्हि शुद्धत्वहानिरित्यत आह- न चेति ।। अपैतीति ।। व्योम्न इव नीलिम्नेति भावः । निरस्तत्वादिति ।। ‘इतश्च मिथ्योपाधिर्न युज्यते’ इत्यादिना ग्रन्थेनेत्यर्थः । तथा च बद्धमुक्तव्यवस्थाया असिद्धिरिति वाक्यशेषः । कथमसिद्धिरित्यतस्तामुपपादयितुमाह- इदमुक्तं भवतीति ।। उपाधिर्देहादिः । ननु परेणोपाधिनिमित्तकर्म-व्यवस्थयोपाध्यादिव्यवस्थेत्युक्तत्वेन तथैवानुवादे कर्तव्ये कर्मभेदादित्यनुवादः कथमित्यतो भेदशब्दो व्यवस्थापर इत्याह- कर्मणां व्यवस्थानादिति ।। कुत इत्यत आह- निरुपाधिक इति ।। देहाद्युपाधिरहित इत्यर्थः । क्रियावेशः कर्मकर्तृत्वम् । नियामकमिति ।। उपाधिभेदे कर्मभेदः कथं प्रयोजक इत्यर्थः । अन्योन्याश्रयादिति भावः । ननु कर्मणां स्वरूपानादित्वं कुतो न विवक्षितमित्यतस्तत्र हेतुमाह- असम्भवादिति ।। कर्मणा-मुत्पत्तिमत्वेन स्वरूपानादित्वासम्भवादित्यर्थः । द्विविधानादित्वं न विवक्षितमित्यत्र हेतुमाह- प्रकृतानुप-योगादिति ।। इतः प्राचीनजन्मसम्बन्धिकर्मव्यवस्थामात्रेणोपाधिव्यवस्थोपपत्तौ द्विविधानादित्वकथनस्य प्रकृते उपाधिव्यवस्थाकथनेऽनुपयोगादित्यर्थः । द्विविधानादित्वं न विवक्षितमित्यत्र हेत्वन्तरमाह- उत्तरविरोधा-च्चेति ।। द्विविधानादित्वविवक्षायामौपाधिकभेदसिद्धावित्यनेनोत्तरत्रोत्पत्तिप्रतिबन्धकीभूतान्योन्याश्रयकथनं विरुद्धं स्यात् । स्वरूपानादित्वविवक्षायां तदसम्भवादित्यर्थः । अनादिकर्मभेदादिति मूलार्थमाह- ततश्चेति ।। यस्य कर्मणेति वक्तुमिति ।। यस्य कर्मणा य उपाधिरारब्धस्तस्यैव तदुपाधिगतसुखादिभोगो नान्यस्येति वक्तुं या कर्मव्यवस्थोच्यते तस्या एवेत्यर्थः । यस्य जीवस्य कर्मणेति निर्भेदे चैतन्ये वक्तुमशक्यत्वादिति भावः । शङ्कते- चैतन्यस्येति ।। तदाश्रयेणेति ।। औपाधिकभेदाश्रयेणेत्यर्थः । तथा च यस्य कर्मणेति वक्तुं शक्यत इति भावः । एतदिति ।। कर्मभेदव्यवस्थापनमित्यर्थः । आशास्यत इति सम्बन्धः । तत्र निमित्त-कथनम्- कर्मव्यवस्थेत्यादि ।। यस्यामुपाधिव्यवस्थायां कर्मव्यवस्था निमित्तं तयोपाधिव्यवस्थयेत्यर्थः । तथा च कर्मव्यवस्थयोपाधिव्यवस्था, तयैव च कर्मव्यवस्था आशास्यत इति भावः । व्यवस्थान्तरेणेति ।। यस्यामुपाधिव्यवस्थायां कर्मव्यवस्था निमित्तं तयैवोपाधिव्यवस्थया कर्मव्यवस्था नोच्यते । किं नामोपाध्यन्तर-व्यवस्थयेत्यर्थः । द्वयोः उपाधिकर्मणोः । अनवस्थेति ।। उपाध्यन्तरव्यवस्थाऽपि कर्मान्तरव्यवस्थया वाच्या, साऽपि पुनरुपाध्यन्तरव्यवस्थयेति कर्मोपाधिव्यवस्थापरम्परयाऽनवस्थेत्यर्थः । बीजाङ्कुरवदिति ।। बीजाङ्कुरा-(श्री.टि.) नवस्थावदित्यर्थः । सिद्धविषयेति ।। अतस्सा न दोषायेति भावः । नन्वत्रापि चैतन्याभेदस्य प्रामाणिकत्वात्तत्र सुखादिसाङ्कर्यरूपदोषपरिहाराय कर्मोपाध्योः कार्यकारणभावोऽङ्गीकार्य एवाऽतो नानवस्था-दोषायेत्यत आह- चैतन्याभेदस्यैवेति ।। अप्रामाणिकत्वेनेत्यतः परं तदुपपत्त्यर्थं कल्प्यमानाया इति शेषः ।
ननु दोषदुष्टत्वादित्यत्र दोषग्रहणमनर्थकम् । दूषकप्रमाणदुष्टत्वादिति वक्तव्यत्वेन दोषेण दोषवत्त्वा-दित्यस्यासङ्गतत्वादित्यत आह- दोषशब्देनेति ।। तथैव सर्वयुक्तिविरुद्धं चेत्युक्तयुक्तिविरोधोपसंहारस्य कर्तव्यत्वाद्दोषशब्दस्य दूषकप्रमाणमात्रपरत्वं न सम्भवतीत्याशयेन युक्तय इत्युक्तमिति द्रष्टव्यम् । ननु दिङ्-मात्रसूचनार्थमपि कतिपयदोषा वक्तव्या एवेति चेत्तत्राऽह- दिङ्मात्रसूचनस्येति ।। अवच्छिन्नस्येति ।। तत्तदुपाध्यवच्छिन्नस्य जीवसमुदायस्य परिच्छिन्नत्वेनेत्यर्थः । ननु जीवस्य परिच्छिन्नोपाध्यवच्छिन्नत्वं नो-च्यते । येन सर्वगतत्वानुपपत्तिः । किं नामोपाधिरपि कश्चित्सर्वगत एवास्ति तदवच्छिन्नस्य जीवस्य सर्वगतत्व-मुपपद्यत इत्यत आह- तथाविधेति ।। सर्वगतेत्यर्थः । सावयवत्वेनेति ।। जीवानामिति शेषः । मध्यमपरिमाण-वत्त्वेन सावयवत्वमिति भावः । शरीराव्याप्तिरिति ।। तथा च सर्वाङ्गीणसुखाद्यनुभवो न स्यादिति भावः । द्वितीयतृतीययोरिति ।। शरीरपरिमाणत्वपक्षेऽणुत्वपक्षे चेत्यर्थः । उपाधिर्देहः । उपहितो ब्रह्मांश इति ।। उपाधिसहित एव ब्रह्मांशो गच्छतीत्यर्थः । पूर्वमुपहितमिति ।। येन ब्रह्मांशेन जीवेन सम्बन्धोऽभूत्तमित्यर्थः । तत्रैव स्थितम् । स्थाने पूर्वतनस्थाने । सुषिरत्वमिति ।। सुषिः छिद्रमस्यास्तीति सुषिरं छिद्रवत्तत्त्वमित्यर्थः । छिद्रवत्त्वमिति यावत् । ‘ऊषसुषिमुष्कमधो रः’ इति सूत्रेण सुषिशब्दान्मत्वर्थे रप्रत्यय इति द्रष्टव्यम् । उत्पत्ति-विनाशेति ।। उपाधेः पूर्वोपहितब्रह्मांशभूतजीवपरित्यागे जीवस्य विनाशः प्राप्तः । उपाधेः पुनर्ब्रह्मांशान्तर-भूतजीवसम्बन्धे चोत्पत्तिः प्राप्तेत्यर्थः । कृतहानीति ।। उपाधेः पूर्वोपहितजीवपरित्यागे तस्य जीवस्य तदुपाधि-कृतकर्मणो हानिः । उपाधेरंशान्तरसम्बन्धे ब्रह्मांशान्तरभूतस्य जीवस्योपाधिसम्बन्धात्प्राक् कर्मकरणाभावेना-कृताभ्यागमप्रसङ्गः । उपाध्यापादककर्माभावेऽप्युपाधिसम्बन्धप्राप्तिप्रसङ्गः इत्यर्थः । योऽपि भास्करैकदेशी । भेदाभेदौ जीवेश्वरयोः । व्यवस्थेति ।। सुखादिव्यवस्थेत्यर्थः । सङ्करः सुखदुःखादिसाङ्कर्यम् । स्वकार्येति ।। सुखदुःखादिसाङ्कर्यरूपस्वकार्येत्यर्थः । भेद इति ।। तथा चाभेदकार्यं निरुणद्धीति भावः । तर्हीति ।। विद्यमानस्याप्यभेदस्याजागलस्तनवत्कार्याक्षमत्वेन तदङ्गीकारस्य व्यर्थत्वादिति भावः । ननु भेदाभेदौ तुल्य-बलौ । न चाभेदप्रयुक्तसाङ्कर्यापत्तिः । ईश्वराचिन्त्यशक्त्या तत्परिहारोपपत्तेरित्याङ्कते- ईश्वरस्येति ।। भेद एवेति ।। जीवाभेदे ईश्वरस्याचिन्त्यशक्त्यभावापत्तेरिति भावः । ननु तत्त्वमसीत्यादिश्रुतिर्भेदाङ्गीकारं न सहत इति चेत्तत्राऽह- श्रुतिरिति ।। प्रत्युक्तमिति ।। तत्त्वमसीत्यादिश्रुतेर्भेदपरत्वेन व्याख्यातत्वादिति भावः । अतिरेकपक्ष इति ।। अपरे तु मन्यन्ते- जीवाः ब्रह्माभिन्नाः, भेदस्तु न कल्पितो न चौपाधिको नाप्यंशांशि-भावनिमित्तः । किन्त्वतिरेकनिमित्त एवेति प्रागुपन्यस्तः पक्ष इत्यर्थः । एतेनेत्युक्तं विशदयति- पक्षद्वयो-क्तेति ।। यथा भेदस्य स्वाभाविकत्वपक्षे औपाधिकत्वपक्षे च दोष उक्तः । एवं जीवब्रह्मभेदव्यवहारसम्पादन-(श्री.टि.) पटुभूतधर्मविशेषरूपातिरेकस्यापि स्वाभाविकत्वे स्वाभाविकस्यानिवृत्त्यङ्गीकारेण मोक्षेऽप्यति-रेकरूपधर्मसद्भावप्राप्त्या तन्निमित्तभेदस्यापि प्राप्तेरभेदाङ्गीकारविरोधात् औपाधिकत्वे उपाधिसिद्धावतिरेक-सिद्धिः, तत्सिद्धौ च तन्निमित्तभेदसिद्ध्या जीवसिद्धौ तत्सम्बन्ध्युपाधिसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु यस्य ज्ञानमुत्पन्नं तस्य शुद्धब्रह्मभावलक्षणा मुक्तिर्वक्तव्या । न च सा सम्भवति । तदानीमपि केषाञ्चित् संसारिणां सत्त्वेन ब्रह्मण एवोपाधिसम्बन्धस्य वक्तव्यत्वेन शुद्धत्वाभावात् । तथा च कथं बद्ध-मुक्तव्यवस्थासिद्धिरित्यत आह- न च मिथ्याभूतैरिति ।। व्योम्न इवेति ।। अन्यथा मिथ्याभूतेन नीलिम्ना व्योम्नोऽपि नीरूपत्वभङ्गप्रसङ्गादिति भावः । ननु ‘इतश्च मिथ्योपाधिर्न युज्यते’ इत्यादिग्रन्थेनेदं पुनरुक्तमित्यत आह- इदमुक्तं भवतीति ।। ननु सर्वोपाधीनां सर्वोपाध्यवच्छिन्नचेतनसम्बन्धित्वाद्व्यवस्थायाः सुखदुःखादि-हेतुत्वं न स्यादिति शङ्काया उपाधिनिमित्तभूतकर्मभेदव्यवस्थयोपाधीनामपि व्यवस्थितत्वान्न सर्वसम्बन्धित्वमिति परेण परिहृतत्वात्तथैवानुवादः कर्तव्यः । न त्वनादिकर्मभेदाद्भेद इतीत्यत आह- कर्मभेदात्कर्मणां व्यवस्थाना-दित्यादि ।। तत्र स्वरूपानादित्वमभिप्रेत्याऽह- असम्भवादिति ।। कर्मणामुत्पत्तिमत्त्वेन स्वरूपानादित्वा-सम्भवादित्यर्थः । प्रकृतानुपयोगादिति ।। इतः प्राचीनजन्मसम्बन्धिकर्मव्यवस्थामात्रेणोपाधिव्यवस्थोपपत्तौ द्विविधानादित्वकथनस्य प्रकृतानुपयोगादित्यर्थः । उत्तरविरोधादिति ।। द्विविधानादित्वकथनस्योपाधिभेदसिद्धा-वित्यनेन वक्ष्यमाणोत्पत्तिप्रतिबन्धको योऽयमन्योन्याश्रयः तत्कथनविरोदादित्यर्थः । किमेतत्कर्मेति ।। कर्मव्यवस्था निमित्तं यस्याः, एवम्भूता या उपाधिव्यवस्था तया किमाशास्यते । अस्यैव विवरणम्- तयैव चैतन्यभेदोऽङ्गीक्रियत इति । उपाधिव्यवस्थान्तरेण चैतन्यभेद इति द्वितीयं पक्षं दूषयति- द्वितीये त्विति ।।
ननु दोषदुष्टत्वादिति कथम् । न हि दोषेण दुष्टत्वं नामास्ति । किन्तु दूषकयुक्त्यैवेत्यतो दोषशब्दं दूषकयुक्तिपरतया व्याचश्व्े- दोषशब्देनेति ।। ननु सर्वगतोपाध्यवच्छिन्नस्य सर्वगतत्वं सम्भवतीत्यत आह- तथाविधेति ।। शरीराव्याप्तिरिति ।। तथा च सर्वाङ्गीणसुखाद्यनुपलब्धिप्रसङ्गादिति भावः । तर्हीति ।। अभेदस्य विद्यमानस्यापि स्वकार्यकरत्वाभावेन तदङ्गीकारस्य व्यर्थत्वादिति भावः । नन्वभेदेऽपीश्वराचिन्त्यशक्त्यैव सर्वाऽपि व्यवस्थोपपद्यत इति शङ्कते- ईश्वरस्येति ।। श्रुतिरिति ।। तत्त्वमस्यादिश्रुत्या अभेदसिद्धेर्न केवलोऽभेदस्तत्सम्मत इति शङ्क्यम् । श्रुतेर्भेदपरत्वस्य समर्थनेनाभेदपरत्वस्य पूर्वमेव दूषितत्वादिति भावः । एतेनेत्युक्तमेव हेतुं दर्शयति- पक्षद्वयोक्तेति ।। अतिरेको हि धर्मविशेषः । स च न तावत्स्वाभाविकः । तथा सति स्वाभाविक-त्वेनानिवृत्त्यापत्त्या मोक्षेऽपि तत्कार्यप्रसक्त्या भेदाभावप्रसङ्गात् । नाप्यौपाधिकः । अन्योन्याश्रयेण तत्पक्षस्य दूषितत्वादित्यर्थः ।
लघुप्रभा
(व्या.टि.)
उपाधिमिथ्यात्वाङ्गीकारेण कथमुक्तदोषनिवृत्तिरित्यतस्तदुपपादयति- तथा हीति ।। कल्पनां भ्रान्तिम् । तन्निदर्शयति- यथेति ।। व्यवस्थयैवेति ।। आरोपितनिष्ठतयैवेत्यर्थः । ज्ञानोत्पत्ताविति ।। अधिष्ठान-(व्या.टि.) ज्ञानोत्पत्तावित्यर्थः । स्थितैर्गतैर्वेत्यनास्थासूचनम् । दर्शयतीति ।। ज्ञापकत्वेऽपि कारकत्वानभ्युप-गमादित्यर्थः । तस्येति ।। संसार इति शेषः । शुद्धिः शून्यता । उक्तदोषस्मारणेन किं लब्धमित्यत आह- इद-मुक्तं भवतीति ।। वक्तव्यमिति ।। परिशेष्टव्यमित्यर्थः । परिशिष्टपक्षे दोषमाह- व्यवस्थानुपपत्तिरिति ।। व्यवस्थोपपत्तेरिति ।। व्यवस्थापककर्मभेदसत्त्वादित्यर्थः । उभयत्र भेदशब्दो व्यवस्थापर इत्याह- व्यवस्था-नादित्यादिना ।। शङ्कते- उपाध्युत्तरकालीनमिति ।। ‘कालाठ्ठञ्च’ इति चात्खः । उपाधेः पूर्वभावं दर्शयति- निरुपाधिक इति ।। कथमिति ।। किमाक्षेपे । नियामकमिति ।। व्यवस्थापकमित्यर्थः । अनादिशब्दस्य गौणी वक्तुं मुख्यार्थे बाधकमाह- नात्रेति ।। असम्भवादिति ।। क्षणिकत्वेनेति शेषः । प्रकृतेति ।। उपाधि-नियामकत्वस्येत्यर्थः । उत्तरेति ।। ‘तत्सिद्धौ च तत्सिद्धिः’ इत्युत्तरग्रन्थेनेत्यर्थः । वक्तुमित्यतः परमशक्यत्वेनेति शेषः । शङ्कते- चैतन्यस्येति ।। विकल्पयितुं पृच्छति- किमिति ।। व्यवस्थेति असिद्धा कथमनूद्यत इत्यत आह- येति ।। चैतन्यस्येति शेषोक्तिः । भेदशब्दो व्यवस्थापर इत्याह- व्यवस्थेति ।। प्रसङ्गपरतया व्याचश्व्े- आपातादिति ।। अनवस्थेति ।। उपाधिकर्मव्यवस्थाऽपर्यवसानादित्यर्थः । दोषशब्दस्य भावसाधनत्वे पुनरुक्तेराह- दोषशब्देनेति ।। करणे घञिति भावः । अनन्तेति ग्रन्थबहुत्वमिति चोपरमे कारणद्वयम् । तत्राऽद्यमुपरमे द्वितीयन्त्विहोपरमे । इतिशब्दश्चाऽवर्तते इत्यभिप्रेत्य व्याचश्व्े- किन्त्वित्यादिना ।। इतोऽधिक-ग्रन्थाभावे दिङ्मात्रमपि न सूचितं स्यादित्यत आह- दिङ्मात्रेति ।। एतावतैवेति ।। बुद्धिमतामिति शेषः । स्वस्य प्रज्ञातिशयं नैजं दर्शयितुं सूचितदोषानाविष्करोति- तथा हीति ।। सर्वजीवा इति ।। कतिपयतत्त्वाभि-मानिनामभिमन्यमानतत्त्वसर्वगतत्वस्वीकारात्सर्वेत्युक्तम् । शरीरपरिमाणा इति बहुव्रीहिः । सर्व इत्यत्रा-प्यनुषज्यते । तथाविधेति ।। सर्वगतावच्छेदकेत्यर्थः । द्वितीय इति ।। मध्यमपरिमाणत्व इत्यर्थः । तस्य सावयवत्वाविनाभावादित्यर्थः । तृतीये ।। अणुत्व इत्यर्थः । दोषान्तरं प्रतिजानीते- किञ्चेति ।। द्वितीयतृतीय-योरित्यस्य किमित्यादिनाऽन्वयः । अवच्छिनत्तीत्यतः परमिति विकल्प इति शेषः । सुषिरत्वमिति ।। सच्छिद्रत्वमित्यर्थः । उत्पत्तिविनाशेति ।। उपहितपूर्वांशस्योपाधिविभागेन नाशः । गत्वोपाधिर्यमंशमवच्छिनत्ति स जीवत्वेनोत्पन्न इत्यर्थः । कृतहानेति ।। पूर्वांशेन कृतस्य हानिरुत्तरांशेनाकृतस्याभ्यागम इत्यर्थः ।
अभेदः स्वाभाविकः भेदस्त्वौपाधिक इति पक्षं प्रतिक्षिप्योभयस्वाभाविकत्वपक्षं प्रतिक्षेप्तुमुपक्षिपति- योऽपीति ।। यादवप्रकाश इत्यर्थः । प्रबल इति ।। अन्यानुपरुद्धः स्वकार्यकारीत्यर्थः । किमनेनेति ।। अकार्यकारिणेत्यर्थः । अङ्गीकृतेनेत्यतः परं किञ्च भेदाभेदयोर्विरोधादसम्भव इति बहिरुपस्कर्तव्यम् । तत्र शङ्कते- ईश्वरस्येति ।। सर्वविरुद्धमित्यर्थः । शुद्ध इति ।। अभेदासंवलित इत्यर्थः । श्रुतिरिति ।। अभेदश्रुतिरित्यर्थः । प्रत्युक्तमिति ।। अर्थान्तराभिधानादित्यर्थः । अतिरेकपक्ष इति ।। उपाध्यादिव्यतिरिक्तो भेदकार्यतिरेक इति मतम् । पक्षद्वयेति ।। औपाधिकस्वाभाविकभेदपक्षद्वय इत्यर्थः । जीवेश्वरयोरिति ।। अल्पाच्तरस्य पूर्वनिपातः।