एकं प्रत्यक्षरूपं..

अर्थापत्त्यादिप्रमाणानां प्रत्यक्षादिष्वन्तर्भावसमर्थनम्

मूलम्

- एकं प्रत्यक्षरूपं स्याद् द्वितीयमनुमात्मकम् ।

क्वचिद्घटाद्यभावोऽपि प्रत्यक्षेणावगम्यते ।

झटित्येव परिज्ञानान्न लिङ्गोद्भवता मता ।

अर्थापत्तिश्चोपमा च ह्यनुमाभेद एव तु ।।

तत्त्वमञ्जरी

अभावज्ञानस्यान्तर्भावमुक्त्वाऽर्थापत्त्युपमानयोश्चाह- अर्थापत्तिश्चेति ।। अयं च प्रयोगः- विमतमत्र नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वात् सम्मतवत् । देवदत्तो बहिरस्ति जीवत्त्वे सति गृहेऽभावात् सम्मतवत् । गवयसदृशो गौः गवयस्य गोसदृशत्वात् । यो यत्सदृशः स तत्सदृशः यथा सम्प्रतिपन्न इति ।

टीका  

एवं निरूपितानामिदानीमन्तर्भावो वाच्यः । तत्र लाघवाय क्रममतिक्रम्यानन्तरोक्तस्याप्य-भावप्रमाणस्यान्तर्भावमाह- एकमिति ।। सुखाद्यभावज्ञानम् । साक्षिणः प्रत्यक्षेऽन्तर्भावात् । द्वितीयं घटाद्यभावज्ञानम् । योग्यानुपलब्धेर्लिङ्गत्वात् । घटोऽत्रेदानी नास्ति योग्यत्वे सति अनुपलभ्य-मानत्वाद् गजवदित्यादिप्रयोगसम्भवात् । उक्तस्यापवादमाह- क्वचिदिति ।। न केवलं सुखाद्यभाव इत्यपेरर्थः ।

अत्रायं विवेकः । यदाऽन्धकारे किमत्रास्ति घटो न वेति विमृश्य हस्तप्रसारणादौ कृतेऽपि घटमनुपलभ्य नास्त्यत्र घट इति जानाति तत्र योग्यानुपलब्धिलिङ्गकमनुमानम् । यदा च राजगृहादिमात्रमनुभूय गजस्मरणाभावेन गजाभावमननुभूयान्यत्र गतः पुनर्जिज्ञासायां सत्यामिन्द्रियव्यापाराभावेऽपि ‘नाभूत्तत्र गजः’ इति जानाति, एवं ‘प्रातरत्र गजो नाभूत्’ इति चाभावज्ञानम् । तत्र स्मरणयोग्यस्यास्मरणं लिङ्गम् । यत्तु स्फीतालोके घटस्मृतिमतः पुरोवर्तिनि भूतले विना विमर्शेन चक्षुर्व्यापारानन्तरमेव नास्त्यत्र घट इति ज्ञानमुत्पद्यते तत्प्रत्यक्षजन्यमिति ।

प्रत्यक्षार्थप्रतियोगिकाभावज्ञानस्य सर्वस्यापि लिङ्गोद्भवतेति सौगताः । तन्निराकरोति- झटित्ये-वेति ।। पक्षदर्शनलिङ्गज्ञानव्याप्तिस्मरणलिङ्गानुसन्धानरूपविलम्बेन विना घटाद्यभावस्य परितोऽपरोक्षतया च ज्ञानान्न सर्वस्याभावज्ञानस्य लिङ्गोद्भवता मताऽनुभवानुसारिणाम् । अभ्यासपाटवाद्व्यवधानानुपलब्धिः । अपरोक्षाधिकरणानुभवसन्निधानाच्च अपरोक्षत्वाभिमान इति चेन्न । धूमानुमानेऽपि तत्प्रसङ्गाद्बाधकाभावाच्च । अभावस्य तुच्छत्वेन साक्षात्कारविषय-त्वानुपपत्तिर्बाधकमिति चेन्न । तथा सति शशविषाणवदनुमितिविषयत्वस्याप्यभावापातात् । विमर्शानन्तरं जायमानमप्यभावज्ञानं प्रत्यक्षफलमिति नैयायिकादयः । तदप्यसत् । परोक्ष-तयाऽनुभवात् । तदपलापे चाग्निज्ञानस्यापि परोक्षता न स्यात् । सर्वत्राभावज्ञानस्यानुपलब्धिरेव करणम् । सा च स्वरूपेणैव नतु लिङ्गतयेति चेन्न । अपरोक्षप्रतीतेरनुभवसिद्धत्वात् । व्याप्त्या-द्यनुसन्धानस्यापि तथात्वात् । अधिकरणग्रहणं प्रतियोगिस्मरणं योग्यानुपलब्धिश्चेत्येतावदुभय-वादिसिद्धम् । तन्मात्रेणैवाभावज्ञानोत्पत्तौ इन्द्रियादिव्यापारकल्पनायां गौरवप्रसङ्ग इति चेन्न । कल्पकस्योक्तत्वात् । अभावेनेन्द्रियस्य सन्निकर्षो नास्तीति चेत्, घटेन अस्तीत्यपि कुतः? अपरोक्षप्रतीतिलक्षणकार्येण कल्प्यत इति चेत्, तदापरोक्ष्यमपि कुतः? प्रतीतिग्राहकप्रमाणादिति चेत्, सममेतत् सर्वं प्रकृतेऽपि । कोऽसौ सन्निकर्ष इति चेत्, संयोग एवेति ब्रूमः । वैशेषिकादिप्रक्रियाया अप्रामाणिकत्वात् । किञ्च यथा कार्यदर्शनेन संयोगातिरिक्तस्समवायोऽङ्गीक्रियते तथेन्द्रिया-भावयोरप्यपरः कल्प्यताम् । अनुपलब्धेर्लिङ्गत्वे तज्ज्ञानावश्यम्भावात् । अभावत्वाविशेषेणा-नुपलब्ध्यन्तरापेक्षायामनवस्थापात इति चेन्न । अनुपलब्धेः साक्षिवेद्यताया उक्तत्वादिति ।

अर्थापत्त्युपमानयोरप्यन्तर्भावमाह- अर्थापत्तिश्चेति ।। अनुमानसामग्रीसद्भावस्य स्फुटत्वादिति हेरर्थः । एवशब्दः पृथक्प्रमाणत्वव्यावृत्त्यर्थः । तुशब्दोऽभावाद् व्यवच्छिनत्ति । तस्योभय-त्रान्तर्भावात्, एतयोस्त्वनुमान एवेति ।

ननु देवदत्तस्य बहिर्भावे न तावज्जीवनमेव लिङ्गं गृहे सति व्यभिचारात् । नापि गृहेऽसत्त्वमात्रं मृतादौ व्यभिचारात् । न च विशिश्व्ं येन हि जीवनं गृह एवेति निश्चितं तस्य परस्परविरोधेन विशेषणविशेष्यभावानुपपत्तेरिति चेन्न । विप्रतिपत्त्या संशयस्यैवावश्यकत्वेनार्थापत्तेरप्यनुदय-प्रसङ्गात् । अतो जीवनप्रमाणेन सामान्यतो जीवने प्रमिते गृहाभावप्रमाणेन च प्रसक्तप्रतिषेधे सति परिशिष्यमाणे बहिर्भावे बुद्धिरनुमानजन्यैव । अन्यथा परिशेषस्यापि पृथक्प्रामाण्यं स्यात् ।

एतेन, गृहाभावप्रमाणेन सन्दिग्धं जीवनं कथं विशेषणं भवतीति चेन्न । भिन्नविषयत्वेन संशयाजननात् । गृहाद्बहिर्भावस्यानेनानवगतत्वात् कथमनुमानमिति चेन्न । केवलव्यतिरेकि-त्वोपपत्तेः । यो जीवन् यत्र नास्ति स ततोऽन्यत्रास्तीति सामान्यव्याप्त्युपपत्तेश्च । तदिदमुक्तम् ‘अनुमाभेद एव’ इति ।

स्यादेतत् । पक्षान्तरासम्भवाद् उपमाने गां पक्षीकृत्य तद्गतं सादृश्यमनुमेयम् । गवयगतं च सादृश्यं लिङ्गमिति वाच्यम् । तथाच व्यधिकरणत्वान्नानुमानमिति । मैवम् । यो यत्सदृशः स तत्सदृशो यथा यमो यमान्तरेणेति व्याप्तिसम्भवे वैयधिकरण्यस्यादोषत्वात् । गवयगतसादृश्य-प्रतियोगित्वस्य लिङ्गत्वेनाङ्गीकाराद्वा । सदृशावेव येन प्राङ्नोपलब्धौ तस्य कथमिति चेन्न । केवलव्यतिरेकित्वोपपत्तेः । अत एवोक्तम्- अनुमाभेद एवेति ।। किञ्च स्वकरतलद्वयादौ सर्वैरपि व्याप्तिर्गृहीतैवेति यत्किञ्चिदेतत् । नैयायिकोदीरितोपमानस्य त्वनुमानेऽन्तर्भावः स्फुट एवेति तदत्र नाशङ्कितम् । अनेन प्रत्यक्षादिविरोधवदर्थापत्त्यादिविरोधोऽप्यैक्यागमस्य कुतो नोच्यत इत्यादि परिहृतं भवति ।

भावबोधः

लाघवायेति ।। प्रकृतैकद्वितीयशब्दाभ्यामेव द्विविधाभावज्ञानोपादानलक्षणलाघवायेत्यर्थः । क्रमानु-सरणे तु व्यवहितत्वादेकादिशब्देन तदुपस्थित्यसम्भवात्, सुखाद्यभावज्ञानादिपदोपादाने शब्दगौरवं स्यादिति भावः । ननु सुखाद्यभावज्ञानस्यानुभवाख्यसाक्षिकरणत्वेऽपि कथं प्रत्यक्षरूपत्वमित्यत आह-साक्षिण इति ।। बाधकाभावाच्चेति ।। झटिति जायमानघटाद्यभावज्ञानस्यापरोक्षत्व इत्यर्थः । तथा च नोक्तोपचारकल्पनं युक्तमिति भावः । यद्वा, नन्वेवं सति वायुर्वातीत्यादिप्रतीतेरपि प्रत्यक्षत्वं स्यादित्यत आह- बाधकाभावा-च्चेति ।। अनुमाभेद एवेतीति ।। सामान्यतो दृष्टस्यानुमानगृहीतव्याप्तिकत्वेन केवलव्यतिरेकिणश्चानुमान-विशेषत्वादिति भावः । इत्यादीति ।। आदिपदेन वेदापौरुषेयत्वादिसाधकत्वेनार्थापत्त्यादिकं कुतो नोच्यत इत्यादेर्ग्रहणम् ।

भावदीपः

लाघवायेति ।। स्वरूपोक्त्यनन्तरमेवान्तर्भावोक्तौ प्रतिपत्तिलाघवमिति भावः । क्रममिति ।। प्राथमिकार्थापत्त्यादिक्रममित्यर्थः । प्रत्यक्षेऽन्तर्भावादिति ।। ‘प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेन’ इति लक्षणग्रन्थोक्तेरिति भावः । नन्वेकस्य घटाद्यभावज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वमन्योन्यविरुद्धम् । प्रत्यक्षत्वापरोक्षत्वरूपाकारद्वयं चायुक्तमित्यत आह- अत्रायं विवेक इति ।। स्थलान्तरेऽप्यभावज्ञानमानु-मानिकमेव नानुपलब्धिप्रमाणकमित्याह- यदा चेति ।। गजाभावाननुभवे हेतुः । गजस्मरणाभावेनेति ।। प्रतियोगिस्मृतेरभावज्ञानहेतुत्वादिति भावः । एवं प्रातरिति ।। प्रातःकाले गजस्मृत्यभावेन गजाभावमननुभूय सायं तत्राऽगतः पुनर्जिज्ञासायां सत्यां प्रातरत्र गजो नाभूदिति चाभावज्ञानम्, अनुमानमित्यनुषङ्गः । चकारात् प्राचीनाभावज्ञानं चानुमानमित्यर्थः । नाभूत्तत्र राजगृहे गज इति वा प्रातरत्र गजो नाभूदिति वा प्रतिज्ञा । स्मरणयोग्यत्वे सत्यस्मर्यमाणत्वात् सम्मतवदिति प्रयोग इति भावः । मतेत्युक्तौ केषामित्याकाङ्क्षायामाह- अनुभवानुसारिणामिति ।। शङ्कते- अभ्यासेति ।। अपरोक्षाधिकरणं भूतलादि ,तदनुभवेत्यर्थः । अनुमानेऽ-पीति ।। अनुमितित्वेन सम्प्रतिपन्नस्थलेऽप्यपरोक्षपर्वतरूपाधिकरणानुभवसन्निधिसत्त्वादापरोक्ष्याभि-मानप्रसङ्गादित्यर्थः । तत्रानुमिनोमीत्यनुभवबाधान्न तथाऽभिमान इति चेदिह तथा बाधकाभावादापरोक्ष्यमेवेति भावेनाऽह- बाधकाभावाच्चेति ।। बाधकान्तरमाशङ्कते- अभावस्येति ।। अग्निज्ञानस्यापीति ।। अनुमितेरपी-त्यर्थः । अनुपलब्धेः पृथक्प्रामाण्यवादी शङ्कते- सर्वत्रेति ।। भवदभिमतप्रत्यक्षस्थले अनुमितिस्थले च सर्वत्रे-त्यर्थः । अपरोक्षेति ।। शीघ्रप्रतीतिस्थल इति भावः । विमर्शपूर्वकप्रतीतिस्थलाभिप्रायेणाऽह- व्याप्त्यादीति ।। तथात्वादिति ।। अनुभवसिद्धत्वादित्यर्थः । शङ्कते- अधिकरणेति ।। इन्द्रियादीति ।। व्याप्त्यनु-सन्धानमादिशब्दार्थः । कल्पकस्येति ।। अपरोक्षाद्यनुभवस्येत्यर्थः । संयोगो द्रव्ययोरेवेति नियमात् कथमेवमुच्यत इत्यत आह- वैशेषिकेति ।। कार्येति ।। गुणक्रियादिविशिष्टप्रत्ययरूपकार्यदर्शनेनेत्यर्थः । साक्षिवेद्यताया उक्तत्वादिति ।। ‘सुखाद्ये च घटादिके’ इत्येतद्व्याख्यावसरे ‘सुखाद्ये साक्षिवेद्ये वस्तुनि प्रतियोगिनि सति’ इत्यादिग्रन्थे सुखाद्य इत्याद्यपदेन साक्षिवेद्योपलब्धेरपि ग्रहणेन इदानी मम घटाद्युपलब्धिर्नास्तीति ज्ञानं साक्षिरूप-मित्युक्तप्रायत्वादित्यर्थः ।

अनुमानसामग्रीति ।। व्याप्तिपक्षधर्मतादिरूपेत्यर्थः । अभावादिति ।। अभावबोधकप्रमाणादर्थापत्त्युपमे व्यवच्छिनत्ति वैलक्षण्यं द्योतयतीत्यर्थः । तद्व्यनक्ति- तस्येति ।। सतीति ।। विद्यमान इत्यर्थः । विशेषणविशेष्येति ।। जीवित्वे सति गृहेऽसत्त्वरूपविशेषणविशेष्येत्यर्थः । विप्रतिपत्त्येति ।। जीवी गृह एवेति, जीवी गृहे नास्तीति विरुद्धार्थवचनद्वयेनेत्यर्थः । तर्हि कथमित्यत आह- अत इति ।। नियमपक्षस्या-युक्तत्वादित्यर्थः । प्रसक्तेति ।। मरणान्तर्धानादेः प्रतिषेधे सतीत्यर्थः । गृहाभावप्रमाणेन चेत्यस्य बहिर्भावे बुद्धिरित्यनेनान्वयः । अनुमानजन्यैवेति ।। देवदत्तो बहिरस्ति जीवित्वे सति गृहेऽसत्त्वादिति प्रयोगसम्भवादिति भावः । विपक्षे बाधकं चाह- अन्यथेति ।। सत्यामप्यनुमानसामग्य्र•ं पृथक्प्रामाण्य इत्यर्थः । भिन्नेति ।। जीवनप्रमाणं सामान्यतो जीवनमात्रविषयं गृहाभावप्रमाणं तु विशेषविषयमिति भावः । साध्याप्रसिद्ध्या तन्निरूपितव्याप्तिग्रहायोगात् कथमनुमानप्रवृत्तिरिति शङ्कते- गृहादिति ।। यो बहिर्नास्ति स जीवित्वे सति गृहेऽसन्न भवति यथा गृहवर्तिचैत्र इति व्यतिरेकव्याप्तिसम्भवाभिप्रायेणाऽह- केवलेति ।। ननु साध्याप्रसिद्धौ तदभावघटितव्यतिरेकव्याप्तिरपि न सुज्ञानेत्यतः सामान्यतोऽन्वयव्याप्तिमाह- यो जीवन्निति ।। अनुमाभेद एवेतीति ।। प्रसिद्धधूमानुमानादिविलक्षण एवेत्यर्थः । शङ्कते- पक्षान्तरेति ।। अयं च गां पक्षीकृत्येत्यत्र हेतुः। गौर्गवयसदृशी गवयस्य गोसदृशत्वादिति प्रयोगमुपेत्याऽह- व्यधिकरणत्वादिति ।। हेतोः सिषाधयिषितसाध्य-सामानाधिकरण्याभावादित्यर्थः । सामानाधिकरण्यं शक्यसम्पादं चेत्याह- गवयेति ।। तस्य कथमिति ।। दृश्वन्ताभावेन व्याप्तेरग्रहादिति भावः । स्फुट एवेति ।। भक्तिपादीयानुव्याख्यासुधादौ व्यक्त एवेति भावः । अन्तर्भावोक्तेः प्रागुक्तप्रमेये कथमुपयोग इत्यत आह- अनेनेति ।। अनुमानादावन्तर्भावकथनेनेत्यर्थः । इत्यादीत्यादिपदेन प्रत्यक्षादित्रयाणामेवादुश्व्मित्यादिना लक्षणादिकीर्तनं कुतः? अर्थापत्त्यादेरपि भावादित्यादि-शङ्काग्रहः ।

वाक्यार्थदीपिका

(श्री.टि.)

अर्थापत्त्युपमाभावा इति निरूपणानुसारेण क्रमेणार्थापत्त्यादेरन्तर्भावमनभिधायानन्तरोक्तस्याभाव-प्रमाणस्यान्तर्भावे निमित्तमाह- तत्र लाघवायेति ।। ‘एकं तत्रानुभवतः’,‘द्वितीयमपि विज्ञेयम्’ इत्येकद्वितीय-शब्दाभ्यां प्रकृतद्विविधाभावज्ञानम् ‘एकं प्रत्यक्षरूपं स्याद् द्वितीयमनुमात्मकम्’ इत्येकद्वितीयशब्दाभ्यामेवो-पादायान्तर्भावकथने लाघवमित्यर्थः । क्रमानुसरणे त्वर्थापत्त्युपमयोरन्तर्भावमुक्त्वा पश्चादभावस्यान्तर्भावे वाच्ये (श्री.टि.) तत्र ‘एकं प्रत्यक्षरूपं स्यात् द्वितीयमनुमात्मकम्’ इत्युक्तौ व्यवहितत्वेनैकादिशब्देनैत-दुपस्थित्यसम्भवात् । सुखाद्यभावज्ञानं प्रत्यक्षरूपं घटाद्यभावज्ञानमनुमात्मकमिति वक्तव्यं स्यात् । तथा च शब्दगौरवमिति भावः । ननु सुखाद्यभावज्ञानस्य अनुभवरूपसाक्षिजन्यत्वेऽपि कथं प्रत्यक्षरूपत्वमित्यत आह- साक्षिण इति ।। साक्षिषडिन्द्रियभेदेन प्रत्यक्षस्य सप्तविधत्वादिति भावः । योग्यत्वे सतीत्यादि ।। योग्यत्वे सति यन्नोपलभ्यते तन्नास्तीति व्याप्तावयोग्ये पिशाचादौ व्यभिचारपरिहाराय सत्यन्तम् । घटादौ तत्परिहाराय विशेष्यम् । उक्तस्येति ।। ‘द्वितीयमनुमात्मकम्’ इत्युक्तस्येत्यर्थः । ननु प्रत्यक्षप्रतियोगिकाभावज्ञानस्य प्रत्यक्षजन्यत्वनियमात् क्वचिदिति किमर्थमुक्तमित्यत आह- अत्रायं विवेक इति ।। ‘परामर्शापरामर्शविशेषात्’ इत्याचार्योक्तिं मनसि निधायोपपादयति- यदेत्यादिना ।। विमृश्य विचाररूपं परामर्शं कृत्वा । योग्यानुप-लब्धीति ।। घटोऽत्रेदानी नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादिति योग्यानुपलब्धिलिङ्गकमनुमानमित्यर्थः। स्थलान्तरेऽप्यभावज्ञानस्यानुमानिकत्वमुपपादयति- यदा चेति ।। मात्रशब्दव्यावर्त्यं दर्शयति- गजस्मरणा-भावेनेति ।। अभावज्ञानकारणीभूतस्य प्रतियोगिभूतगजस्मरणस्याभावादित्यर्थः । अन्यत्र राजगृहादन्यत्र स्थलान्तरे । पुनर्जिज्ञासायामिति ।। अनुभूते राजगृहादौ किं गजोऽभूद्वा न वेति जिज्ञासायामित्यर्थः । जानाती-त्यस्य तत्र स्मरणयोग्यस्य अस्मरणं लिङ्गमिति सम्बन्धः । अयमर्थः । नाभूत्तत्र गज इति गजाभावज्ञानं ताव-ज्जायते । तज्ज्ञानं न तावदिन्द्रियेण भवति । व्यवहितत्वेन तत्रेन्द्रियव्यापाराभावात् । नापि योग्यत्वे सत्यनुपलभ्य-मानत्वादिति योग्यानुपलब्धिलिङ्गकानुमानेन, गजस्यानुपलब्धेः सत्त्वेऽपि तस्य व्यवहिततयेन्द्रियायोग्यत्वेन योग्यत्वे सत्यनुपलब्धेरभावात् । अतस्तज्ज्ञानसाधनमभावरूपं पृथक्प्रमाणमङ्गीकार्यमिति न वाच्यम् । तत्राप्यनुमानेनैव गजाभावज्ञानाङ्गीकारात् । योग्यानुपलब्धेर्लिङ्गत्वासम्भवेऽपि स्मरणयोग्यत्वे सत्यस्मर्यमाण-त्वस्य लिङ्गत्वोपपत्तेः । तथा हि । गजस्तत्स्थलनिष्ठाभावप्रतियोगी तत्र मयाऽननुभूतत्वात् । न चासिद्धिः । तत्र गजो मया नानुभूतः स्मरणयोग्यत्वे सत्यस्मर्यमाणत्वात् व्यतिरेकेण तत्रत्यपाषाणवदित्यनुमानसम्भवादिति भावः ।

नन्वथापि  सायंकाले राजगृहं गतवतस्तदानी गजं च दृश्व्वतः प्रातरत्र गजो नाभूदित्यभावज्ञानं ताव-ज्जायते । इदं च न प्रत्यक्षेणोत्पत्तुमर्हति प्रातःकालविषयेन्द्रियव्यापाराभावात्,प्रतियोगिनो गजस्यैव दर्शनाच्च । नापि योग्यानुपलब्धिलिङ्गकानुमानेन, योग्यत्वे सत्यपि तदानी गजस्योपलभ्यमानत्वेनानुपलब्धेरसिद्धेः । प्रातःकालीनत्वावच्छिन्नगजस्य प्रतियोगित्वे तत्रानुपलभ्यमानत्वसद्भावेऽपि योग्यत्वरूपविशेषणस्यासिद्धेः। प्रातःकालीनत्वावच्छिन्नगजस्यायोग्यत्वात् । अतस्तदर्थमभावरूपं पृथक्प्रमाणमङ्गीकार्यमित्यत आह- एवं प्रातरिति ।। तथा चात्रापि न योग्यानुपलब्धिर्लिङ्गं किं नाम? स्मरणयोग्यत्वे सत्यस्मर्यमाणत्वमेवेत्यर्थः । तथा हि । विप्रतिपन्नो गजः प्रातश्चत्वरनिष्ठाभावप्रतियोगी तदा तत्र मयाऽननुभूतत्वात् । न चासिद्धिः । विप्रतिपन्नो गजस्तदा तत्र मया अननुभूतः स्मरणयोग्यत्वे सति तन्निष्ठतयेदानीमस्मर्यमाणत्वाद्व्यतिरेकेण तत्रत्यपाषाण-(श्री.टि.) वदित्यनुमाप्रकारो द्रश्व्व्यः । घटेति ।। प्रतियोगिभूतेत्यर्थः । झडितीत्यस्यार्थो विलम्बेन विनेति । परित इत्यस्य सम्यगित्यर्थमभिप्रेत्यापरोक्षतयेति तत्तात्पर्यमुक्तम् । सर्वस्येति ।। प्रत्यक्षार्थप्रतियोगिकस्य सर्वस्या-पीत्यर्थः । लिङ्गानुसन्धानं तृतीयलिङ्गपरामर्शः । अपरामर्शदशायां झडिति जायमानमपि ज्ञानं लिङ्गजन्यमेवेत्या-शयेन शङ्कते- अभ्यासेति ।। व्यवधानेति ।।  पक्षदर्शनेत्याद्युक्तविलम्बेत्यर्थः    घनगर्जितेन मेघाद्यनुमानस्थल इवेति भावः । नन्वभावज्ञानस्यानुमानजन्यत्वेऽभावमपरोक्षतो जानामीत्यनुभवसिद्धमभावज्ञानस्यापरोक्ष्यं न स्यादिति चेन्न । इष्टापत्तेरित्याह- अपरोक्षेति ।। अपरोक्षत्वाभिमानः, अपरोक्षत्वोपचारः । अपरोक्षत्वाभिमाने निमित्तम्- अपरोक्षाधिकरणेति ।। तथा चाधिकरणभूतभूतलस्य अपरोक्षतोऽनुभूयमानत्वेन तत्सन्निधानादभाव-ज्ञानेऽप्यापरोक्ष्यमाभिमानिकमेव न वास्तवमित्यर्थः । तत्प्रसङ्गादिति ।। पर्वतरूपापरोक्षाधिकरणानुभवस्य तत्रापि सत्त्वेन तत्सन्निधानाद्वह्न्यादिज्ञानेऽप्यापरोक्ष्याभिमानप्रसङ्गः । तथा चापरोक्षाधिकरणसन्निधानस्य नापरोक्षाभिमानापादकत्वमिति भावः । बाधकाभावाच्चेति ।। झडिति जायमानघटाद्यभावज्ञानस्य अपरोक्षत्वे बाधकाभावान्नोपचारकल्पनं युक्तमिति भावः । यद्वा ननु वायुर्वातीति प्रतीतिरपाकजानुष्णाशीतस्पर्श-रूपलिङ्गजन्या । तथा च झडिति जायमानत्वं यद्यभावज्ञानस्य लिङ्गोद्भावित्वाभावे निमित्तं तर्हि वायुर्वातीति प्रतीतेरपि झडिति जायमानत्वेनापरोक्षत्वापत्त्या लिङ्गोद्भवत्वं न स्यादित्यत आह- बाधकाभावाच्चेति ।। इन्द्रिय-व्यापारानन्तरं झडिति जायमानस्याभावज्ञानस्य प्रत्यक्षत्वे बाधकाभावात् । तत्र तु बहिर्द्रव्यप्रत्यक्षत्वे प्रयोजकत्वेन क्लृप्तं यन्महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वं तस्य वायावभावरूपबाधकसद्भावान्न तत्प्रतीतेः प्रत्यक्षत्वमिति भावः । घटाद्यभावज्ञानस्यापरोक्षत्वे बाधकाभावोऽसिद्ध इत्याशङ्कते- अभावस्य तुच्छत्वेनेति ।। असतो ज्ञानविषयत्वासम्भवादिति भावः । तथात्वे त्वदभिमतानुमितिविषयत्वमपि न स्यात् । असतः शशविषाणस्य तददर्शनादित्याह- तथा सतीति ।।

एवमपरामर्शदशायां जायमानस्याभावज्ञानस्यानुमानिकत्वं निराकृत्य परामर्शानन्तरं जायमानस्याभाव-ज्ञानस्यानुमानिकत्वं समर्थयितुं विप्रतिपत्तिमुद्भावयति- विमर्शानन्तरमिति ।। परोक्षतयेति ।। योग्यानुप-लब्धिलिङ्गकानुमितिजन्यत्वेनाभावज्ञाने परोक्षत्वस्यानुभवसिद्धत्वादित्यर्थः । तदपलाप इति ।। परोक्षत्वा-नुभवापलाप इत्यर्थः । न स्यादिति ।। तथा च तत्र परोक्षत्वानुभवविरोध एव वाच्यः । सोऽत्रापि समान इति भावः । एवं परामर्शापरामर्शविशेषादभावज्ञानस्याऽनुमानिकत्वं प्रात्यक्षिकत्वं चेत्युक्तमसहमानः परामर्श-स्थलेऽपरामर्शस्थले च सर्वत्राभावज्ञानमनुपलब्धमेवेत्येवमनुपलब्धेः पृथक्प्रामाण्यवादी भाट्टः प्रत्यवतिष्ठते- सर्वत्रेति ।। नन्वनुपलब्धेरभावज्ञाने लिङ्गत्वेन ज्ञातकारणत्वात्तज्ज्ञानापेक्षायां तस्याप्युपलब्ध्यभावरूपत्वेन अनुपलब्ध्यन्तरापेक्षायामनवस्था स्यादित्यत आह- सा चेति ।। अनुपलब्धिरित्यर्थः । स्वरूपेणैवेति ।। चक्षुरादिवदज्ञाततयैव करणमित्यर्थः । न तु लिङ्गतयेति ।। न तु लिङ्गत्वेन ज्ञाता सती करणं येनानवस्था स्यादिति भावः । तथा च सर्वत्राभावज्ञानमनुपलब्धमेवेति नोक्तविभागो युक्त इति हृदयम् । अनुभवसिद्धत्वा-(श्री.टि.) दिति ।। घटाद्यभावमपरोक्षतो जानामीत्यनुभवसिद्धत्वादित्यर्थः । तथा च प्रत्यक्षत्वमङ्गीकार्यमिति भावः । तथात्वात् अनुभवसिद्धत्वात् । आनुमानिकत्वमप्यङ्गीकार्यमिति भावः । षष्ठप्रमाणवादी पुनः शङ्कते- अधिकरणेति ।। तन्मात्रेणैवेति ।। एतत्त्रितयमात्रेणैवेत्यर्थः । इन्द्रियादीत्यादिपदेन व्याप्त्याद्यनुसन्धानपरि-ग्रहः । कल्पकस्येति ।। अभावप्रतीतेरपरोक्षत्वपरोक्षत्वकल्पकानुभवस्येत्यर्थः । उक्तत्वादिति ।। ‘अपरोक्ष-प्रतीतेरनुभवसिद्धत्वात् । व्याप्त्याद्यनुसन्धानस्यापि तथात्वात्’ इत्युक्तत्वादित्यर्थः । तथा च प्रामाणिकत्वाच्च न गौरवं दोषायेति भावः । तथापि नाभावज्ञानं प्रत्यक्षेणोत्पत्तुमर्हमित्याशङ्कते- अभावेनेति ।। संयोग-समवाययोरद्रव्यत्वेनायुतसिद्धत्वाभावेन चाभावादिति भावः । कल्प्यत इति ।। घटेन सन्निकर्षोऽस्तीति कल्प्यत इत्यर्थः । तदापरोक्ष्यमिति ।। तस्या घटादिप्रतीतेरापरोक्ष्यमित्यर्थः । प्रतीतिग्राहकेति ।। घटमपरोक्षतो जानामीति प्रतीतिग्राहकानुव्यवसायरूपप्रमाणात्तदापरोक्ष्यं सिद्धमित्यर्थः । सममिति ।। अत्राप्यभावमपरोक्षतो जानामीति प्रतीतिग्राहकप्रमाणेनाभावप्रतीतेरापरोक्ष्यस्य सिद्धत्वात्तल्लक्षणकार्येणेन्द्रियाभावयोरपि सन्निकर्षः कल्पनीय इत्यर्थः । ननु कथमभावेन्द्रिययोस्संयोगः? अद्रव्यत्वात्, ‘द्रव्ययोरेव संयोगः’ इति हि वैशेषिकप्रक्रियेति चेत्तत्राऽह- वैशेषिकादिप्रक्रियया इति ।। कार्यदर्शनेनेति ।। तन्तुपटयोरवश्यमाश्रयाश्रयिभावेनावस्थान-रूपकार्यदर्शनेनेत्यर्थः । अयुतसिद्धत्वदर्शनेनेति यावत् । अपरः संयोगसमवायातिरिक्तस्तृतीयस्सम्बन्धः ।

योग्यस्यानुपलब्धितः । द्वितीयमपि विज्ञेयम्’ इति परामर्शदशायां जायमानेऽभावज्ञाने योग्यानुपलब्धेर्लिङ्ग-त्वमुक्तम् । तदयुक्तमित्याशङ्कते- अनुपलब्धेरिति ।। अभावत्वाविशेषणेति ।। अनुपलब्धेरप्युपलब्ध्यभाव-रूपत्वादिति भावः । अनुपलब्ध्यन्तरेति ।। उपलब्धिविषयकानुपलब्ध्यन्तरेत्यर्थः । साक्षिवेद्यताया इति ।। उपलब्धेः साक्षिवेद्यत्वेन तत्प्रतियोगिकाभावरूपानुपलब्धेरपि साक्षिवेद्यतायाः ‘सुखाद्ये च घटादिके’ इत्यत्र सुखाद्य इत्याद्यपदेनोक्तत्वादित्यर्थः । तथा च साक्षिणः स्वप्रकाशरूपत्वान्नानवस्थेति भावः । अनुमान-सामग्रीति ।। व्याप्त्याद्यनुसन्धानरूपेत्यर्थः । अभावाद्व्यवच्छेदप्रकारं दर्शयति- तस्येति ।। अभावस्येत्यर्थः । उभयत्रेति ।। प्रत्यक्षेऽनुमाने चेत्यर्थः । ननु देवदत्तो बहिरस्ति जीवित्वे सति गृहेऽसत्त्वादित्यनुमानं कार्यम् । तन्न सम्भवतीत्याशयेन शङ्कते- नन्विति ।। मृतादाविति ।। मृतशब्देन मृतशरीरं ग्राह्यम् । आदिपदेन शश-शृङ्गाद्यसद् ग्राह्यम् । तथा च मृतशरीरे गृहेऽसत्त्वसद्भावेऽपि बहिःसत्त्वाभावाद्व्यभिचारः । असतश्च कुत्राप्यसत्त्वेन गृहेऽसत्त्वसद्भावेऽपि बहिःसत्त्वाभावादसति च व्यभिचारः स्यादित्यर्थः । केचित्तु मृते जीवे व्यभिचार इत्याहुः। तन्न । जीवस्वरूपस्य नित्यत्वेन बहिःसत्त्वरूपसाध्यस्यापि तत्र सद्भावेन व्यभिचाराप्रसक्तेरिति ध्येयम् । विशिष्टमिति ।। जीवित्वे सति गृहेऽसत्त्वमित्यर्थः    तथा च जीवित्वं नाम जीवनवत्त्वम् । तच्च मृतशरीरेऽसति च नास्तीति न व्यभिचार इति भावः । निश्चितमिति ।। जीवी गृह एवेति नियमग्राहकप्रमाणेनेत्यर्थः । तथा च जीवित्वे सतीत्यस्य गृहे सत्त्वमेवार्थः प्रतिपन्न इति भावः  । संशयस्येति ।। यदि नियमग्राहकं प्रमाणं कल्पयित्वा विरोधेन विशेषणविशेष्यभावो नोपपद्यत इत्यनुमानासम्भव इत्युच्यते तर्हि त्वदभिमतबहिःसत्त्वकल्पकार्था-(श्री.टि.) पत्त्युदयोऽपि न स्यात् । नियमग्राहकप्रमाणसचिवजीवनप्रमाणगृहाभावग्राहकप्रमाणयोः परस्पर-विरुद्धतया बलाबलानवधारणेन जीवित्वाद् गृहेऽस्ति वा प्रत्यक्षेण गृहेऽदर्शनान्मृतो वेति संशयजनकत्वादित्यर्थः।  सामान्यत इति ।। जीवता क्वचित्स्थातव्यमिति सामान्यत इत्यर्थः । प्रसक्तेति ।। प्रसक्तस्य गृहे सत्त्वस्येत्यर्थः। अनुमानजन्यैवेति ।। अयं भावः । नियमग्राहकं प्रमाणं कल्पयित्वा जीवनगृहासत्त्वयोः परस्परविरुद्धत्वेन विशेषणविशेष्यभावानुपपत्त्या अनुमानासम्भवो न मन्तव्यः । जीवता क्वचित्स्थातव्यमित्येवाङ्गीकारेणानुमान-प्रवृत्तिसम्भवात् । जीवी गृह एवेति नियमग्राहकं प्रमाणमेकं, गृहाभावग्राहकं प्रत्यक्षमपरम् । अनयोर्मध्य एकं बाध्यं विरुद्धार्थग्राहकत्वादित्यनुमानेन गृहाभावग्राहकप्रत्यक्षविरोधेन गृहनियमग्राहकप्रमाणस्यैवाप्रामाण्य-कल्पनात्    न च नियमग्राहकप्रमाणविरोधेन गृहाभावग्राहकप्रमाणस्यैवाप्रामाण्यं कुतो न कल्प्यत इति वाच्यम् । बहिष्ठे स्वस्मिन्नेव जीवनगृहाभावयोः सह दर्शनेन नियमग्राहकप्रमाणस्यैवाप्रामाण्यकल्पनौचित्या-दिति । अन्यथेति ।। उक्तरीत्याऽन्तर्भावसम्भवेऽपि पृथक्प्रामाण्याङ्गीकार इत्यर्थः ।

ननु यद्यपि नियमग्राहकप्रमाणस्यायोगेन परस्परविरुद्धतया जीवित्वस्य हेतुविशेषणत्वासम्भवो नास्ति । तथाऽपि जीवनप्रमाणेन जीवनं तावत्सिद्धम् । गृहाभावग्राहकप्रमाणेन गृहेऽभावस्सिद्धः । तथा च जीवन-प्रमाणाज्जीवति वा प्रत्यक्षेण गृहेऽदर्शनान्मृतो वेति सन्देहः कस्मान्न स्यात् । तथा च सन्दिग्धं जीवनं कथं हेतुविशेषणं भविष्यति निश्चितस्यैव तथात्वदर्शनादित्याशङ्कते- एतेनेति ।। एतेन गृहाभावप्रमाणेनेति सामानाधिकरण्यम्, प्रत्यक्षरूपेणेत्यर्थः । भिन्नविषयत्वेनेति ।। परस्परविरुद्धार्थविषयकत्वाभावेनेत्यर्थः । तथा च जीवनप्रमाणं ज्योतिःशास्त्रम् । गृहाभावप्रमाणं प्रत्यक्षम्, तयोर्जीवनगृहाभावमात्रविषयकत्वेन संशया-जनकत्वात् । तद्विषययोर्जीवनगृहाभावयोः स्वस्मिन्नेव सहदर्शनेनाविरुद्धतया तत्प्रमाणयोर्विरुद्धार्थविषयकत्वा-भावेन भिन्नविषयकतया संशयजनकत्वायोगेन असन्दिग्धं जीवनं हेतुविशेषणं भविष्यत्येवेति नानुमानासम्भव इति भावः । ननु देवदत्तो बहिरस्ति जीवित्वे सति गृहेऽसत्त्वादित्यनुमानस्याप्रसिद्धविशेषणता, गृहाद्बहिर्भावस्या-नुमानात्प्रागनेनानवगतत्वादित्याशङ्कते- गृहादिति ।। केवलव्यतिरेकित्वेति ।। यत्र बहिःसत्त्वाभावस्तत्र जीवित्वे सति गृहेऽसत्त्वाभावो यथा मृत इति केवलव्यतिरेकव्याप्तिसम्भवादित्यर्थः । तथा च व्यतिरेकिणि साध्याप्रसिद्धिर्न दोष इति भावः । सामान्यव्याप्तीति ।। तथा च सामान्यव्याप्तिमूलकत्वेन सामान्यतो दृष्टानुमान-मित्यर्थः । यद्यपि ‘तदयोग्यार्थमुत्तरम्’ इति ‘प्रत्यक्षायोग्यार्थानुमापकं सामान्यतो दृष्टम्’ इति परेण लक्षितम् । तथाऽपि ‘व्याप्यव्यापकयोरन्यादृशत्वेऽपि तत्सामान्याकारानुगमेन लिङ्गलिङ्गिभावे सामान्यतो दृष्टम् । यथा कृषीवलस्य कर्षणादिप्रवृत्तेर्धान्यादिफलकत्वदर्शनेन यागादेः स्वर्गादिफलानुमानम् । प्रेक्षावत्प्रवृत्तित्वफलवत्त्व-सामान्यानुगमात्’ इति प्रमाणपद्धत्युक्तरीत्या सामान्यतो दृष्टत्वसम्भवादिति द्रष्टव्यम् । अनुमाभेद एवेतीति ।। भेदशब्दो विशेषपरः । केवलव्यतिरेकिरूपोऽनुमानविशेषः । सामान्यव्याप्तिमूलकत्वेन सामान्यतो दृष्टानुमान-विशेषश्चेत्यर्थः ।

(श्री.टि.) ।। पक्षान्तरेति ।। ‘गृह्यमाणे स्मर्यमाणप्रतियोगिकसादृश्यज्ञानात् स्मर्यमाणे गृह्यमाणप्रतियोगिक-सादृश्यज्ञानमुपमानम्’ इति शाबरोपमाने गोव्यतिरेकेणान्यस्य गवयस्य पक्षीकरणासम्भवादित्यर्थः । गवयपक्षीकारेण तत्र गोसादृश्यानुमाने तस्य प्रत्यक्षसिद्धत्वेन सिद्धसाधनतापत्तेरिति भावः । तथा चेति ।। गौर्गवयसदृशी गवयस्य गोसदृशत्वादित्यनुमाने व्यधिकरणत्वमित्यर्थः । व्याप्तीति ।। सामान्यव्याप्तीत्यर्थः । समानाधिकरणमपि लिङ्गं सम्भवतीत्याह- गवयगतेति ।। कथमिति ।। तथा च दृष्टान्ताभावेन व्याप्ति-ग्रहासम्भवादप्रसिद्धविशेषणत्वमित्यर्थः । केवलेति ।। यो यत्सदृशो न भवति स तत्सदृशो न भवतीति व्यतिरेक-व्याप्तिसम्भवादित्यर्थः    तथा च  व्यतिरेक्यनुमानेऽप्रसिद्धविशेषणत्वं न दोषायेति भावः । अनुमाभेद एवेति ।। व्यतिरेक्यनुमानरूपानुमानविशेष एवेत्यर्थः । अन्ततः स्वकरतलयोरेव दृष्टान्तत्वसम्भवान्नाप्रसिद्ध-विशेषणत्वमित्याह- किञ्चेति ।। तथा च सदृशावेव येन प्राङ्नोपलब्धावित्युक्तमसदिति भावः । ननु ‘दृष्ट्वा सदृशमेवान्यम्’ इति शाबरोपमानस्वरूपमेवानूद्यार्थापत्त्युपमाभावा इति तस्यैवान्तर्भाव उक्तो न नैया-यिकोदीरितोपमानस्य । तत् कुत इत्यत आह- नैयायिकेति ।।

अव्युत्पन्नपदोपेतवाक्यार्थस्य च सञ्ज्ञिनि ।

प्रत्यक्षप्रत्यभिज्ञानमुपमानमिहोच्यते ।।’

इति कारिकोक्तस्याकृतसमयसञ्ज्ञास्मरणसहायं तत्समभिव्याहृतवाक्यार्थप्रत्यभिज्ञाप्रत्यक्षरूपोपमानस्येत्यर्थः। अनुमानेऽन्तर्भावः स्फुट एवेति ।। अस्योपमानस्य वाच्यवाचकभावसम्बन्धप्रमितिर्हि फलम् ।

प्रमेयं तस्य सम्बन्धः’ संज्ञायां संज्ञिना सह ।

तत्प्रतीतिः फल चास्य नासौ मानान्तराद्भवेत् ।।’

इति कारिकावचनात् । इदं च फलमनुमानेनैव भविष्यति । तथा हि । अयं गवयशब्दवाच्योऽगोत्वे सति गोसदृश-त्वात्, व्यतिरेकेण घटवदिति प्रयोगसम्भवादित्यर्थः । प्रकृतोपयोगमाह- अनेनेति ।। अर्थापत्त्यादेरनुमानान्तर्भाव-कथनेनेत्यर्थः । परिहृतमिति ।। पृथक्प्रमाणत्वाभावेन तद्विरोधो नोक्त इति भावः । केचिदर्थापत्त्यादेरनुमानेऽ-न्तर्भावेन तद्विरोधोक्तावर्थापत्त्यादिविरोधोऽप्युक्तप्राय इति पृथक् तद्विरोधो नोक्त इति भाव इत्याहुः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

अन्तर्भावादिति ।। ‘प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेन’ इति भगवत्पादोक्तेरिति भावः । लिङ्गत्वादिति ।। ‘योग्यानुपलब्धेश्च लिङ्गत्वम्’ इति भगवत्पादोक्तेरिति भावः । उक्तस्येति ।। ‘उपलब्धि-योग्यस्य घटादेरनुपलब्ध्या लिङ्गेन द्वितीयमभावज्ञानम्’ इत्युक्तस्येत्यर्थः । नन्वेकस्यैव घटाभावज्ञानस्य न प्रत्यक्षानुमानजन्यत्वं सम्भवति । एकस्यैव ज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वानुपपत्तेः । परस्परविरुद्धपरोक्षत्वा-परोक्षत्वलक्षणाकारद्वयप्राप्तेश्चेत्यत आह- अत्रायं विवेक इति ।। सर्वस्यापि लिङ्गोद्भवतेतीति ।। अभावस्य तुच्छत्वेनेन्द्रियसन्निकर्षानुपपत्त्या न प्रात्यक्षिकत्वमिति गूढोऽत्र भावः । गूढाभिसन्धिरेव परिहरति- पक्षदर्श-(पां.टि.) नेति ।। तत्प्रसङ्गादिति ।। अपरोक्षाधिकरणसन्निधानादपरोक्षत्वाभिमानप्रसङ्गादित्यर्थः । बाधका-भावाच्चेति ।। झटिति जायमानघटाद्यभावज्ञानस्यापरोक्षत्वे बाधकाभावाच्च नोक्तरीत्योपचारकल्पना युक्तेत्यर्थः। पूर्ववादी स्वाभिप्रायमुद्घाटयति- अभावस्येति ।। सिद्धान्त्यपि तमुद्घाटयति- तथा सतीति ।। अन्यथा शश-विषाणादेरप्यनुमितिविषयत्वापातादिति भावः । मीमांसकमतमाशङ्कते- सर्वत्रेति ।। अपरोक्षप्रतीतेरिति ।। विना विमर्शं चक्षुर्व्यापारानन्तरं जायमानस्य स्फीतालोकमध्यवर्तिघटाद्यभावज्ञानस्यापरोक्षताया अनुभवसिद्ध-त्वान्नानुपलब्धिकरणकत्वमिति भावः । व्याप्त्यनुसन्धानस्यापीति ।। यदाऽन्धकारे किमत्रास्ति घटो न वेति विमृश्य हस्तप्रसारणादौ कृतेऽपि घटमनुपलभ्य नास्त्यत्र घट इति जानाति, तत्र व्याप्त्यनुसन्धानस्याप्यनु-भवसिद्धत्वेन व्याप्तिबलेनार्थगमकतयाऽनुपलब्धेर्लिङ्गत्वेनैव तज्जनकत्वस्य सिद्धत्वान्न स्वरूपेण तस्या जनकत्व-मिति भावः । उक्तत्वादिति ।। ‘अपरोक्षप्रतीतेरनुभवसिद्धत्वात्’ इत्यादिनेति भावः । अभावस्येति ।। अद्रव्यत्वात्संयोगस्य, अवयवावयव्यादित्वाभावेन समवायस्य चानुपपत्तेरिति भावः । ननु द्रव्ययोरेव संयोगात् कथमद्रव्यस्याभावस्य संयोग इत्यत आह- वैशेषिकादीति ।। कल्प्यतामिति ।। कल्पकस्य कार्यदर्शनस्य सत्त्वात्, सत्यपि तस्मिन् तदकल्पने च समवायस्याप्यकल्पनीयत्वप्रसङ्गादिति भावः । तज्ज्ञानावश्यम्भावा-दिति ।। लिङ्गस्य ज्ञातस्यैव करणत्वादिति भावः । उक्तत्वादिति ।। साक्षिवेद्योपलब्धिप्रतियोगिकाभाव-रूपानुपलब्धेः साक्षिवेद्यत्वस्य ‘सुखाद्ये च घटादिके’ इत्यनेनोक्तत्वादित्यर्थः ।

व्यवच्छिनत्तीति ।। अनेन तुशब्दो विशेषार्थ इत्युक्तं भवति । तमेव विशेषं दर्शयति- तस्येति ।। ननु जीवित्वस्य गृहे सत्त्वरूपत्वे गृहाभावस्य वाऽजीवित्वरूपत्वे जीवित्वगृहाभावयोर्गृहसत्त्वगृहाभावरूपत्वप्राप्त्या जीवित्वाजीवित्वरूपत्वप्राप्त्या वा विरुद्धत्वप्रसङ्गेऽपि जीवित्वस्य गृहे सत्त्वरूपताया गृहाभावस्य चाजीवित्व-रूपतायाश्चाभावान्न विरुद्धत्वमिति न विशेषणविशेष्यभावानुपपत्तिरित्यतो यो हि मातापितृभ्यां सुशिक्षितो न जातु गृहाद्बहिर्निस्सरति सोऽन्यानपि तथा मन्यमानो जीवनग्राहकप्रमाणस्य गृहे सत्त्वमर्थतया प्रतिपद्यते तं प्रति जीवित्वगृहाभावयोर्गृहे सत्त्व-गृहाभावरूपत्वप्राप्त्या तयोर्विरुद्धत्वस्यावर्जनीयत्वादिति भावेनोक्तम्- येन हि जीवनं गृह एवेति निश्चितमित्यादि ।। विशेषणविशेष्यभावानुपपत्तेरिति ।। अविरोधप्रतीतेश्च बहिर्भावकल्पनोत्तरकालीनत्वेनेतरेतराश्रयग्रस्तत्वादिति भावः । अनुदयप्रसङ्गादिति ।। अन्यथा प्रकरणसमे-नापि किञ्चिदवधारणप्रसङ्गादिति भावः । अन्यथेति ।। उक्तरीत्याऽर्थापत्तेरनुमानान्तर्भावसम्भवेऽपि पृथक्प्रामाण्य इत्यर्थः । कथमनुमानमितीति ।। अप्रसिद्धविशेषणत्वस्यानुमानदूषणत्वान्नार्थापत्तेरनुमानत्वमिति भावः । न केवलव्यतिरेकिण्यप्रसिद्धविशेषणत्वं दूषणम् । अन्यथा केवलव्यतिरेकिमात्रे तत्सम्भवेन तत्प्रामाण्यभङ्ग-प्रसङ्गादित्याशयेनाऽह- केवलव्यतिरेकित्वेति ।। ननु केवलव्यतिरेकिणि तस्यादूषणत्वेऽन्यत्र तदसम्भवात्तस्य दूषणत्ववार्तैव लुप्येतेत्यतस्तस्य दूषणत्वेऽपि व्याप्तिग्रहपरिपन्थित्वेनैव दूषणतया सत्यां व्याप्तौ तददूषणत्वस्या-न्यत्र व्यवस्थितत्वात् प्रकृते च व्याप्तिसत्त्वान्न तस्य दूषणत्वमित्याशयेन व्याप्तिमुपपादयति- यो जीवन् यत्र (पां.टि.) नास्तीति ।। पक्षान्तरासम्भवादिति ।। गवयगतसादृश्यस्य प्रत्यक्षत्वेनाननुमेयतया गवयस्य पक्षत्वासम्भवादित्यर्थः । अङ्गीकृत्य व्यधिकरणत्वस्य दूषणत्वं सामानाधिकरण्यमुपपादयति- गवयगतेति ।। अङ्गीकृत्याप्रसिद्धविशेषणत्वस्य दूषणत्वं समाधत्ते- केवलेति ।। अङ्गीकृत्य चाप्रसिद्धविशेषणत्वमिदं समाधान-मुक्तम् । वस्तुतस्तु तदेव नास्तीत्याह- किञ्चेति ।। ननु ‘दृष्ट्वा सदृशमेवान्यम्’ इत्यादिना मीमांसकोपमानं निरूप्य ‘अर्थापत्तिश्चोपमा च ह्यनुमाभेद एव तु’ इत्यादिना तदन्तर्भावस्येव नैयायिकोदीरितोपमानस्यापि स्वरूपनिरूपणपूर्वकमनुमानेऽन्तर्भावस्य  कथनीयत्वात्  कुतस्तस्यानुक्तिरित्यतो  निमित्तोक्त्या  तदनुक्तिं समर्थयते- नैयायिकोदीरितोपमानस्य त्विति ।। ‘संज्ञासंज्ञिसम्बन्धप्रमितिसाधनमनधिगतसङ्गतिसंज्ञास्मरण-सहायं तत्समभिव्याहृतातिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम्’ इति नैयायिकोदीरितोपमानस्येत्यर्थः । अनु-मानेऽन्तर्भाव इति ।। व्याप्तिमपेक्ष्यार्थगमकस्यैवानुमानत्वात्, अगोत्वे सति गोसदृशस्य गवयशब्दवाच्या-दन्यस्यादर्शनेनागोत्वे सति गोसदृशत्वस्य गवयसदृशवाच्यत्वेन व्याप्तिनिश्चयादुपमानस्य व्याप्तिबलेनार्थ-गमकत्वसिद्धेरनुमानेऽन्तर्भावः स्फुट एवेत्यर्थः ।

लघुप्रभा

(व्या.टि.)

न चैकस्योभयान्तर्भावो विरुद्ध इत्यतः परामर्शापरामर्शविशेषादिति मूलमनुसन्धाय विवेचयति- अत्रायमिति ।। राजगृहादिमात्रमिति ।। मात्रपदव्यावर्त्यमाह- गजाभावमननुभूयेति ।। ननु ‘समासेऽनञ्पूर्वे क्त्वो ‘ल्यप्’ इति नञ्समासपर्युदासादस्य नञ्समासत्वात् कथं ल्यबिति चेन्न । ‘पूर्वं धातुरुपसर्गेण युज्यते’ इति न्यायेन गतिसमासं विधाय ततो ल्यपि सति तदन्तेन नञ्समासः । अतो न दोष इति भावः । अन्यत्रेति ।। देशान्तर इत्यर्थः । प्रातरत्रेति ।। एतच्छब्देनाधिकरणनिर्देशः । प्रकृतमाह- यत्त्विति ।। प्रत्यक्षेति ।। इन्द्रिये-त्यर्थः । वादिनामङ्गीकारानौचित्यज्ञापनाय प्रत्यक्षार्थप्रतियोगिकेत्यभावं विशिनष्टि । अभावस्य प्रतियोगिग्राह-केन्द्रियग्राह्यत्वयुक्तिसूचनाय झटितीत्यंशं लिङ्गोद्भवतायां साधकाभावपरत्वेन व्याचश्व्े- विलम्बेन विनेति ।। परिज्ञानादित्यंशं बाधकपरतया व्याचश्व्े- अपरोक्षतया च ज्ञानादिति ।। अपरोक्षत्वप्रकारेण ज्ञानानुव्यव-सायादित्यर्थः । न त्वपरोक्षत्वेनानुभवानुभवादिति । नाभावज्ञानं लिङ्गोद्भवमिति प्रतिज्ञायां वैयधिकरण्यात् । ‘परोक्षत्वापरोक्षत्वे ज्ञानगते न विषयोपाधिके’ इति टीकाविरोधाच्च । विपक्षेऽनुभवापलापं प्रसञ्जयितुमनुभवानु-सारिणामित्याह । विलम्बेन विनोत्पत्तिहेतोरसिद्धिम् अपरोक्षतयाऽनुभवहेतोरन्यथासिद्धिं च शङ्कते- अभ्या-सेति ।। अनुपलब्धिरिति ।। युगपच्छतपत्री छिन्नेतिवत् । अपरोक्षेत्यनुभवविशेषणम् । अभिमान इति ।। इदं प्रकारयोर्ज्ञानद्वयस्याविवेको वा सोपाधिकभ्रमो वेत्यर्थः । धूमानुमानेऽपीति बहुव्रीहिः । धूमलिङ्गकानुमितावि-त्यर्थः । तदिति ।। व्यवधानानुपलब्ध्यपरोक्षताभिमानयोरित्यर्थः । तत्राप्यभ्यासपाटवसौष्ठवादित्यर्थः । बाध-केति ।। अभावज्ञानस्यापरोक्षत्वानुभवबाधकाभावादित्यर्थः । सौगतः शङ्कते- अभावस्येति ।। तुच्छत्वेन निरुपाख्यत्वेन । अनुमितीति ।। तस्या अप्युपाख्यारूपत्वादिति भावः । मतान्तरं दूषयितुमनुवक्ति- विमर्शा-नन्तरमिति ।। परोक्षतयेति ।। इत्थम्भूतलक्षणे तृतीया । तदिति ।। अनुभवेत्यर्थः । न स्यादिति ।। तस्या  अनुभवैकवेद्यत्वादित्यर्थः । अनुपलब्धेः षष्ठप्रमाणत्ववादी भाट्टः शङ्कते- सर्वत्रेति ।। अनुपलब्धिरेवेत्येतद्व्यव-(व्या.टि.) च्छिनत्ति- अपरोक्षेति ।। अभावस्येति शेषः । स्वरूपेणैवेत्येतद्व्यवच्छिनत्ति- व्याप्त्यादीति ।। अनुपलब्धेरिति शेषः । कल्पकस्येति ।। अपरोक्षतयाऽनुभवस्येत्यर्थः । भावप्रतिबन्दी गृह्णाति- घटेनेति ।। तां मोचयति- अपरोक्षेति ।। तदिति ।। घटप्रतितेरित्यर्थः । प्रतिबन्दी द्रढयति- सममिति ।। अभावस्याद्रव्यत्वात् कथं संयोग इत्यत आह- वैशेषिकादीति ।। अनुपलब्धेर्लिङ्गत्वमसहमानो नैयायिकः शङ्कते- अनुपलब्धे-रिति ।। तज्ज्ञानेति ।। लिङ्गस्य ज्ञातकारणत्वादित्यर्थः । उक्तत्वादिति ।। ‘सुखाद्ये च’ इति साक्षिवेद्यप्रतियोगि-काभावस्य साक्षिवेद्यताया उक्तत्वादित्यर्थः ।

अर्थापत्त्युपमानयोरिति ।। अनेन मूले अर्थापत्त्युपमाशब्दौ करणपरौ, अनुमाशब्दोऽपि करणसाधन इति सूचितम् । अनुमानसामग्रीति ।। अनुमानशब्दोऽत्र भावसाधनोऽनुमितिपरः । व्यवच्छिनत्ति ।। एते इति शेषः । व्यवच्छेदकं विशेषं दर्शयति- तस्येत्यादिना इतीत्यन्तेन ।। अनुमितिसामग्रीसद्भावं स्फुटयितुं तदभावमुपक्षिपति- नन्वित्यादिना ।। अनुमितिसामग्य्रां हि लिङ्गमेकम् । तदिह प्रधानं, तदिह दुर्लभम् । तथा हि- किं बहिर्भावे जीवनं लिङ्गमुत गृहेऽसत्त्वमुत विशिष्टमिति विकल्प्याऽद्यं निराह- न तावदिति ।। द्वितीयं पराचश्व्े - नापीति ।। तृतीयं पराकरेति- न चेति ।। परस्परेति ।। जीवनगृहाभावप्रमाणयोर्विरोधेनेत्यर्थः । विशेषणविशेष्यभावेति ।। सहभावाभावादित्यर्थः । प्रमाणद्वयविरोधं पराचश्व्े- विप्रतिपत्त्येति ।। आवश्य-कत्वेन, सामग्रीवशसम्पन्नत्वेन । अर्थापत्तेरपि, अनुमितिभिन्नप्रमितेरपि । जीवनं गृह एवेति निश्चिन्वानस्य बहिर्भावप्रमितेरेवानुपपत्त्या अर्थापत्तिवाचोयुक्ती रिक्ता स्यादित्यर्थः । उपसंहरति- अत इति ।। बहिर्भाव-बोधावश्यम्भावादित्यर्थः । जीवनप्रमाणेन जातकरूपज्योतिश्शास्त्रेण, सामान्यतो गृहे वा बहिर्वेति देशसामान्यत इत्यर्थः । प्रसक्तेति ।। देशविशेषेत्यर्थः । अनुमानेति ।। प्रसक्तप्रतिषेधरूपलिङ्गजन्येत्यर्थः । परिशेषस्य लिङ्गत्वाभावे बाधकमाह- अन्यथेति ।। शङ्कते- एतेनेति ।। अनन्तरोत्पन्नेन गृहाभावग्राहकप्रमाणेनेति सामाना-धिकरण्यम् । प्रथमं निश्चितमपि प्रामाण्यसंशयेनेवानिश्चितप्राबल्यकेन विरोधिप्रमाणेन सन्दिग्धं भवतीति भावः। कथं विशेषणमिति ।। हेतुविशेषणमित्यर्थः । विशिष्टस्य हेतुत्वे सन्दिग्धासिद्धिप्रसङ्गादित्यर्थः । भिन्नविषय-त्वेनेति ।। सामान्ययत्किञ्चिद्विशेषाभावप्रमाणयोः परस्परविरोध्यर्थानवगाहनेन संशयाहेतुत्वादित्यर्थः । अनेन अनुमिमानेन अनवगतत्वात्, निदर्शन इति शेषः । केवलेति ।। यो बहिर्नास्ति नासौ जीवनवत्त्वे सति गृहेऽसन् यथा गृहे एव सन्निति व्यतिरेकव्याप्तिग्रहसम्भवादित्यर्थः । सामान्यव्याप्तीति ।। अस्मिन् पक्षे गृहे एव सतो निदर्शनत्वसम्भवादित्यर्थः । मूलमारोहयति- तदिदमिति ।। व्यतिरेकिरूपो वा सामान्यतो दृष्टरूपो वा अनुमाप्रभेद एव न प्रमाणान्तरमिति भावः । इत्यर्थापत्त्यन्तर्भावकथनम् ।

व्याप्तिपक्षधर्मतोभयावश्यम्भावाभिमानेन नानुमानत्वमुपमानस्येत्याशङ्कते- स्यादेतदिति ।।

आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ।

केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ।।’

इत्यनुव्याख्यामभिव्याख्याय प्रत्याख्याति- मैवमिति ।। यम इति ।। सहोत्पन्न इत्यर्थः । उभयावश्यम्भावाभिमान-नयेऽप्युपमानस्यानुमानत्वप्रकारं प्रकटयति- गवयगतेति ।। कथमिति ।। सादृश्यानुपलब्धौ तत्प्रतियोगि-त्वस्याप्यदृष्टव्याप्तिकत्वेनानुमानत्वं किंप्रकारमित्यर्थः । उपपत्तेरिति ।। वैधर्म्यदृष्टान्तप्रदर्शितव्याप्तिकत्वादि-त्यर्थः । गृहीतेति ।। सन्निहितसदृशोपलब्धौ तत्र व्याप्तेरतिसुग्रहत्वादिति भावः । स्फुट एवेति ।। गोसादृश्यस्य गवयपदशक्त्युपधानतयाऽतिदेशवाक्यार्थं स्मरतः सदृशदर्शनानन्तरम् अयं गवयपदवाच्यो गोसदृशत्वादित्यनु-मानसौलभ्यान्न तत्पार्थक्यं शङ्कितमिति भावः । अस्यानुक्तिशङ्कापरिहारकत्वेनोक्तोपयोगमाह- अनेनेति ।।