न चानुमानादीनामागमं विना..

सामान्यसिद्धिपरिशेषाभ्यां वेदापौरुषेयत्वसाधनम्

मूलम्

- न चानुमानादीनामागमं विना प्रामाण्यं धर्मादिषु ; तदगोचरत्वात् । अतोऽपौरुषेयवाक्येनैव धर्मादिसिद्धेः सर्ववादिनामपि तदङ्गीकार्यम् ।

तत्त्वमञ्जरी

धर्मादिषु पौरुषेयवाक्यस्य प्रामाण्यं न चेद् अनुमानादीनां स्यादित्यत आह - न चानु-मेति ।। तदगोचरत्वात् अनुमाद्यगोचरत्वाद् धर्मादीनाम् । व्याप्तिदर्शनपूर्वकं ह्यनुमानम् । धर्मादौ साध्ये सति कस्यचित् साधनस्य व्याप्यत्वं चात्र नोपलभ्यते । तस्मात् कथमनुमानस्य धर्माधर्मादि-गोचरत्वम्; प्रत्यक्षस्य तु किमु वक्तव्यमिति ।

टीका 

किञ्च सामान्यसिद्धिपरिशेषाभ्यामपि वेदस्यापौरुषेयत्वं सिद्ध्यति । तथा हि । अस्ति तावद्धर्माधर्मस्वर्गनरकादिषु सर्ववादिसम्प्रतिपत्तिः । यस्तु तान्नाङ्गीकरोति सोऽपि पूर्वोक्तप्रकारेण बोधनीयः । ते च, प्रमाणोपेता वस्तुत्वाद्घटवत् । न ह्यप्रामाणिकेऽर्थे सर्वेषां सम्प्रतिपत्तिः सम्भवति, अतिप्रसङ्गात् । एवं सर्ववादिनां सम्प्रतिपत्तिमूले धर्मादिविषये प्रमाणे सामान्यतस्सिद्धे तस्य परिशेषेणापौरुषेयत्वं साधयितुं प्रसक्तप्रतिषेधं तावत्करोति- न चानुमानादीनामिति ।। आगमं विनेति ।। अपौरुषेयवाक्यं विनेत्यर्थः । ततश्चानुमानप्रत्यक्षपौरुषेयवाक्यानामित्युक्तं भवति । प्रत्यक्षस्य धर्मादिविषयत्वमसम्भावितं, तथा पौरुषेयागमस्यापि, पूर्वोक्तन्यायात् । किन्तु प्रमाणत्वमात्रेण तयोः  प्रसक्तिः    अनुमानं तु सम्भावितमित्यतस्तदादित्वेन ग्रहणम्    कुतो नेत्यत आह- तदिति ।। धर्मादीनामनुमानाद्यगोचरत्वात् ।

नन्वनुमानादीनि धर्मादिषु प्रमाणानि न भवन्ति, धर्मादीनां तदगोचरत्वादिति व्यधिकरण-त्वम् । मैवम् । यो यद्गोचरो न भवति तत्र तन्न प्रमाणमिति व्याप्तिसम्भवेनादूषणत्वात् । अथवा अनुमानादीनि धर्मादौ प्रमाणानि न भवन्ति अतद्गोचरत्वात् । धर्मादीनि वा अनुमानादिभिर्न प्रमीयन्ते तदगोचरत्वादिति प्रयोगद्वयमत्राभिप्रेतम् । एवमपि साध्याविशिष्टतेति चेन्न । फलाभावस्य साध्यत्वात्, सामर्थ्याभावस्य साधनत्वात् । तथा हि । प्रत्यक्षं न तावद्बाह्यम्, तस्य रूपादिमति द्रव्ये, तदीयेषु गुणकर्मसामान्येष्वेव सामर्थ्यात् । नापि मानसम्, सुखादिवद्धर्मादावनुव्यवसाया-भावात् । अन्यथा सुखमनुभवामीतिवद्धर्ममनुभवामीति स्यात् । स्वर्गादीनां तु विप्रकृष्टत्वान्न प्रत्यक्षगोचरता । न च योगादिसिद्धानां प्रत्यक्षमस्मदतीन्द्रियार्थविषयमिति वाच्यम् । तस्या-प्यपौरुषेयवाक्यं विनाऽसिद्धेः । तदिदमुक्तम्- आगमं हीति ।। किञ्च तेषां तेन धर्मादिसिद्धावप्य-स्माकं तन्निश्चयोपायो नास्ति । न ह्यन्यदीयेन प्रत्यक्षेणान्यस्य निश्चयोऽनुष्ठानं वा सम्भवति । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । सामान्यतो दृश्व्ेन कथञ्चित्स्वरूपमात्रसिद्धावपि न साधनफलसम्बन्धरूपस्तद्विशेषोऽनुमातुं शक्यः । नच तदनिश्चयेऽनुष्ठानं सम्भवति । नचैवं धर्ममीमांसाऽनुपपत्तिः । अपौरुषेयवाक्येन धर्मादिप्रतिपत्तौ तदितिकर्तव्यतात्वेन मीमांसाया उपयोगाङ्गीकारात् । एतदप्युक्तम्- आगमं विनेति ।। न च पौरुषेयं वाक्यम् । पुरुषाणाम् अज्ञानादिसम्भवेन धर्माद्युपदेष्टर्याश्वासानुपपत्तेः । न च मन्वादिष्वाश्वासो दृश्यत इति वाच्यम् । अपौरुषेयवाक्यमूलत्वनिश्चयेनैव तत्राप्याश्वासात् । एतदप्यभिहितम्- आगमं विनेति  ।।

एवं प्रसक्तप्रतिषेधं विधाय इदानी परिशेषसिद्धमर्थमाह- अत इति ।। अत्र अनुमानादि-भिर्धर्माद्यसिद्धेरिति वक्तव्ये अपौरुषेयवाक्येनैव धर्मादिसिद्धेरिति वचनम् अपौरुषेयवाक्याङ्गीकारे तु न काचिदनुपपत्तिरिति सूचयितुम् । तच्च वाक्यं वेद एव परिशेषात् । तदतिरिक्तानि हि कर्तृ-प्रसिद्धिमन्ति नच धर्मादिव्यवस्थापराणि । नचैवं वेद इति भावः । नन्वेवं सति वेदेनैव सर्वेषां धर्मादिप्रतिपत्तिरित्यायातम्  । (तर्हि वादिविप्रतिपत्तिर्न स्यात् ।) सत्यमेव तत् । किन्तु धर्मादिस्वरूपे वेदेन प्रतीते तद्विशेषेषु तमतिक्रम्य स्वमतिदोषाद् वादिनां विप्रतिपत्तयः प्रतीयन्ते । अन्यथा धर्मादेर्बुद्धावारोहस्यैवासम्भवादिति ।

भावबोधः

।। स्वर्गादीनामिति  ।।  धर्मादिवन्नित्यातीन्द्रियत्वाभावेनानुव्यवसायाभावहेतोरसिद्धत्वादिति भावः । तदिदमुक्तमागमं विनेतीति ।। अनेन, आगमं वेदरूपमूलप्रमाणं विना अनुमानादीनां धर्मादिषु न प्रामाण्यं, किन्तु तत्सहितानामेवेति मूलवाक्यं प्रकारान्तरेण योजितं भवति । ननु विशिष्य धर्मादिव्याप्य-लिङ्गाभावेऽपि ‘ज्योतिष्टोमादिकं धर्मादिसाधनं, तदुद्देशेन प्रेक्षावद्भिः क्रियमाणत्वाद् यद् यदुद्देशेन पे्रक्षावद्भिः क्रियते तत् तत्साधनं यथा कृष्यादिकं धान्यादिसाधनम्’ इति सामान्यतो दृश्व्ेन धर्मादिसिद्धिर्भविष्यतीत्यत आह- सामान्यतो दृष्टेनेति ।। वैशेषिकादिभिः साध्याप्रसिद्धेर्दूषणत्वाङ्गीकारान्नैवमनुमातुं शक्यत इति ज्ञापयितुं कथञ्चिद् इत्युक्तम् । अत्रानुमानादिभिरिति ।। अनेन ‘धर्मादिकमपौरुषेयवाक्यैकप्रमाणकमनुमान-प्रत्यक्षपौरुषेयवाक्याप्रमाणकत्वे सति सप्रमाणकत्वाद्व्यतिरेकेण घटादिवत्’ इति परिशेषरूपव्यतिरेक्यनुमान-प्रयोगदर्शनपरत्वेन मूलवाक्यं व्याख्यातं भवति । मूले तदङ्गीकार्यमित्यनेन प्रतिज्ञाया अपि सूचितत्वात् ।

भावदीपः

।। पूर्वोक्तप्रकारेणेति ।। ‘यस्य तौ नाभिमतौ’ इत्यादिनोक्तप्रकारेणेत्यर्थः । ते चेति ।। धर्माधर्माद्यतीन्द्रियपदार्था इत्यर्थः । उक्तसामान्यानुमानस्य विपक्षे सम्प्रतिपत्त्यभावरूपतर्कसाहाय्यमाह- न ह्यप्रामाणिक इति ।। अतिप्रसङ्गादिति ।। शशशृङ्गादावपि तत्प्रसङ्गादित्यर्थः । तस्येति ।। सामान्या-नुमानसिद्धस्य धर्मादिप्रमाणस्येत्यर्थः । पौरुषेयागमस्यापीति ।। धर्मादिविषयत्वमसम्भावितमित्यनुकर्षः । पूर्वोक्तेति ।। ‘नच पौरुषेयेण वाक्येन तत्सिद्धिः’ इत्यादिनोक्तन्यायादित्यर्थः । सामानाधिकरण्यमपि सुसम्पाद-मित्याह- अथवेति ।। अतद्गोचरत्वादिति ।। धर्माद्यविषयकत्वादित्यर्थः । प्रयोगद्वयमत्राभिप्रेतमिति ।। हेतुसाध्ययोर्वैयधिकरण्येन उपन्यासपरवाक्य इत्यर्थः । अन्यथा, प्रयोगद्वयाभिप्रायाभावे अतद्गोचरत्वादित्येव ब्रूयादिति भावः । साध्याविशिष्टतेति ।। तत्राप्रामाण्यतदविषयकत्वयोरविशेषादिति भावः । फलेति ।। अनुमानादीनि न धर्मादिविषयप्रमितिरूपफलजनकानि तज्जननासमर्थत्वादित्येवमित्यर्थः । हेतोरसिद्धिं प्रतिज्ञापूर्वं निराह- तथा हीत्यादिना ।। बाह्यमिति ।। धर्मादिज्ञानजनने शक्तमिति योज्यम् । एवमग्रे ‘नापि मानसम्’ इत्यादावपि ज्ञेयम् । रूपादिमतीति ।। रूपरसगन्धस्पर्शोपेतद्रव्य इत्यर्थः । अनुभवेति ।। सुखमनुभवामीत्यनु-व्यवसायवद्धर्ममधर्मं वा अनुभवामीत्यनुव्यवसायाभावादिति भावः । तस्यापीति ।। योगिनां धर्मादिप्रत्यक्ष-मस्तीत्यस्यापीत्यर्थः । तदिदमिति ।। योगिनां धर्मादिप्रत्यक्षमस्तीत्येतदपौरुषेयवाक्यरूपागमं विना न सिद्धमित्येतदित्यर्थः । तन्निश्चयेति ।। धर्मादिनिश्चयेत्यर्थः ।

तत्प्रतिबद्धेति ।। धर्मादिव्याप्तलिङ्गाभावादित्यर्थः । सामान्यतो दृष्टेनेति ।। ‘सुरनरतिर्यगादिरूपं प्रतिमुख-वैलक्षण्यरूपं वा विचित्रकार्यं विचित्रकारणजन्यं विचित्रकार्यत्वाद्घटपटादिविचित्रकार्यवद्’ इत्यादिरूपानुमाने-नेत्यर्थः । साधनेति ।। इदमस्य स्वर्गादेस्साधनम्, इदमस्याग्निहोत्रादेः फलमिति यस्साध्यसाधनभावरूपः सम्बन्धस्तद्रूपो विशेष इत्यर्थः । नचैवमिति ।। अनुमानस्य धर्मविशेषाननुमापकत्वे धर्माधर्मस्वरूपनिर्णायक-युक्त्यनुसन्धानार्थकयुक्तिनिबन्धनरूपधर्ममीमांसाऽनुपपत्तिरित्यर्थः । तदितिकर्तव्यतेति ।। अपौरुषेय-वाक्येतिकर्तव्यतेत्यर्थः । वेदेतिकर्तव्यता नाम वेदजन्यज्ञाने न्यायानुसन्धानरूपोपकारकत्वम् । न्यायानुसन्धान-रूपोपकारेणाप्रामाण्यशङ्कापगमे निश्चितप्रामाण्यकं निश्चयरूपं ज्ञानं जनयतीत्यप्रामाण्यशङ्कादिरूपदोषनिवर्तक-न्यायानुसन्धानरूपोपकारं कुर्वती न्यायनिबन्धनरूपा मीमांसा इतिकर्तव्यतेत्युच्यते । एतदपीति ।। मीमांसाऽनु-गृहीतापौरुषेयवाक्यं विना धर्माधर्माद्यसिद्धिरित्येतदित्यर्थः । नच पौरुषेयं वाक्यमिति ।। धर्मादिविषय-प्रमितिजनने शक्तमिति योज्यमिति प्रागेवोक्तम् । आगमं विनेतीति ।। मूलभूतागमं विना मन्वादिष्वनाश्वासा-दित्यर्थः । कथं परिशेष इत्यत आह- १एतदतिरिक्तानि हीति ।। न चेति ।। धर्मादिव्यवस्थापराणि च न भवन्तीत्यर्थः । न चैवमिति ।। वेदः कर्तृप्रसिद्धिमानिति धर्मादिव्यवस्थापरश्च नेत्यपि नेत्यर्थः । एवं सतीति ।। धर्मादिर्वेदेतरप्रमाणावेद्यत्वे सतीत्यर्थः । चैत्यवन्दनादिर्धर्म इति वेदाप्रामाण्यवादिनां कथं व्यवहार इत्यत आह- किन्त्वित्यादि ।। तमतिक्रम्येति ।। वेदप्रतीतं धर्मं विहायेत्यर्थः । वेदप्रतीतितः प्रकारान्तरेणेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

वक्ष्यमाणानुमाने आश्रयासिद्धिस्वरूपासिद्धिपरिहारमाह- अस्ति तावदित्यादिना ।। पूर्वोक्त-प्रकारेणेति ।। ‘यस्य तौ नाभिमतौ नासौ समयी’ इत्यादिना पूर्वोक्तप्रकारेणेत्यर्थः । ते चेति ।। सर्ववादि-सम्प्रतिपन्ना धर्माद्या इत्यर्थः । वस्तुत्वादिति ।। सर्ववादिसम्प्रतिपन्नत्वमेवेह वस्तुत्वमभिप्रेतम् । तथा च वस्तुत्वात् सर्वसम्प्रतिपन्नत्वादित्यर्थः । पक्षतावच्छेदकमेवात्र हेतुरिति भावः । अत्राप्रयोजकताशङ्कापरिहाराय हेतूच्छित्ति-रूपमनुकूलतर्कमाह - न हीति ।। कुतो न सम्भवतीत्यत आह - अतिप्रसङ्गादिति ।। अन्यथा शशविषाणादावपि सर्वसम्प्रतिपत्तिः स्यादित्यतिप्रसङ्गादित्यर्थः । सम्प्रतिमूले सम्प्रतिपत्तिं प्रति मूलभूते । मूले आगमं विनानुमानादीनामित्यन्वयः, आगमं विना स्थितानाम्, आगमातिरिक्तानामित्यर्थ इत्यभिप्रेत्य व्याचश्व्े - अपौरुषेयेति ।। किमनेनोक्तं भवतीत्यत आदिपदार्थं दर्शयन्नपौरुषेयवाक्यातिरिक्तत्वोक्त्या लब्धमर्थं च दर्श-यन्नाह-ततश्चेति ।। प्रत्यक्षादीनामिति वक्तव्येऽनुमानस्याऽदित्वेन ग्रहणे निमित्तमाह-प्रत्यक्षस्येत्यादिना ।। पूर्वोक्तन्यायादिति ।। पौरुषेयागमस्यापि धर्मादिप्रतिपादकत्वमसम्भावितम्, अज्ञानविप्रलम्भयोः प्राप्तेरित्या-द्युक्तरीत्या तत्प्रणेतर्याप्त्यनिश्चयादित्यर्थः । असम्भावितत्वे किमर्थं तदुभयग्रहणमिति पृच्छति- किन्त्विति ।। उत्तरमाह - प्रमाणत्व-मात्रेणेति ।। यो यद्गोचरो न भवतीति ।। सत्यां व्याप्तौ व्यधिकरणत्वमकिञ्चित्कर-मित्याशयः ।

व्यधिकरणत्वशङ्काऽनर्हं प्रयोगद्वयं दर्शयति - अथ वेत्यादिना ।। एवमपीति ।। प्रयोगद्वये व्यधि-करणत्वाभावेऽपीत्यर्थः । साध्याविशिष्टतेति ।। अतद्गोचरत्वादित्यस्य हेतोरनुमानादीनां धर्मादिविषयक-प्रमाजनकत्वाभावादित्यर्थः । धर्मादिविषयकप्रमितिकारणत्वाभाव एव च साध्य इति प्रथमप्रयोगे साध्याविशिष्ट-त्वम् । द्वितीयप्रयोगेऽपि धर्मादीनामनुमानादिजन्यप्रमाविषयत्वाभावः साध्यः । अनुमानादिजन्यप्रमाविषयत्वा-भावरूपं तदगोचरत्वं हेतुरिति द्वितीयप्रयोगे च साध्याविशिष्टत्वमित्यर्थः । उभयत्रापि समाधानमाह - फलाभाव-स्येत्यादिना ।। फलोपधानाभावस्येत्यर्थः । सामर्थ्यं योग्यता, तदभावस्येत्यर्थः । तथा चानुमानादीनि धर्मादिविषयप्रमारूपफलजनकानि न भवन्ति धर्मादिविषयकप्रमाजनकत्वयोग्यतारूपसामर्थ्यशून्यत्वात् । यद् यज्जनकत्वयोग्यताशून्यं तत् तज्जनकं न भवति, यथा दण्डः पटस्य । तथा धर्मादीन्यनुमानादिजन्यप्रमारूपफल-विषयभूतानि न भवन्ति । अनुमानादिजन्यप्रमाविषयत्वयोग्यताशून्यत्वात् । यद् यज्जन्यप्रमाविषयत्वयोग्यताशून्यं तत् तज्जन्यप्रमाविषयो न भवति, यथा रूपं घ्राणस्य इति सामान्यव्याप्तिमूलकप्रयोगद्वयस्यात्राभिप्रेतत्वेन न साध्याविशिष्टतेत्याशयः । प्रसक्तप्रतिषेधप्रकारं दर्शयति - प्रत्यक्षमिति ।। धर्मादिविषयकं प्रत्यक्षमित्यर्थः । तदीयेषु तदाश्रितेषु । सामर्थ्यादिति ।। धर्मादीनां च रूपादिरहितत्वाद्रूपादिमद्द्रव्याश्रितत्वाभावाच्च न बाह्यप्रत्यक्षविषयत्वमिति भावः । मानसमिति ।। धर्मादिकं मनोजन्यानुभवविषय इत्यर्थः । अनुभवेति ।। अनुभवानुव्यवसाययोरभावादित्यर्थः । धर्मादिविषयकानुभवाभावे हेतुस्तदवगाह्यनुव्यवसायाभावादिति । अन्यथेति ।। सुखादिवद्धर्मादेर्मानसप्रत्यक्षविषयत्व इत्यर्थः । इति स्यादिति ।। इत्येवं मनोजन्यानुभवाव-गाह्यनुव्यवसायः स्यादित्यर्थः ।

(श्री.टि.)  ननु धर्मादावनुभवानुव्यवसाययोरभावेऽपि

यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।

अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ।।’

इति वचनेन स्वर्गस्य सुखरूपत्वावगमान्नरकस्य च दुःखस्वरूपत्वान्मनसा तद्विषयकोऽनुभवोऽनुव्यवसायश्च स्यादेवेत्यत आह- स्वर्गादीनां त्विति ।। परलोके जायमानानां सुखादीनां विप्रकृष्टत्वेनैतद्देहावच्छेदेन मनसाऽ-नुभवितुमयोग्यतया न मानसप्रत्यक्षविषयत्वमित्यर्थः । योगिप्रत्यक्षमेव धर्मादिसद्भावे प्रमाणमित्याशङ्क्य निराकरोति- न चेति ।। तस्यापि योगादिसिद्धानां प्रत्यक्षस्यापि । अनुमानादीनामित्यत्र आदिपदोक्तयोगि-प्रत्यक्षस्यापि, आगमं विना अपौरुषेयवाक्यं विना असिद्ध्या, धर्मादिविषये प्रामाण्यं प्रमापकत्वं नास्तीति मूलयोजनामभिप्रेत्याऽह - तदिदमुक्तमिति ।। तेषां योगादिसिद्धानाम् । तेन स्वकीयप्रत्यक्षेण । ननु तर्हि तदीयप्रत्यक्षेणैवास्माकमपि तन्निश्चयोऽनन्तरमनुष्ठानं च सम्भवतीति चेत्तत्राऽह - न हीति ।। एवं प्रमाणत्वमात्रेण प्रसक्तं प्रत्यक्षं निराकृत्यानुमानं निराचश्व्े- नापीति ।। तत्प्रतिबद्धेति ।। धर्मादिव्याप्तलिङ्गाभावादित्यर्थः । ननु विशिष्य धर्मादिव्याप्तलिङ्गाभावेऽपि ‘ज्योतिष्टोमादिकं धर्मादिसाधनं तदुद्देशेन प्रेक्षावद्भिः क्रियमाणत्वात् । यद् यदुद्देशेन प्रेक्षावद्भिः क्रियते तत् तत्साधनं यथा कृष्यादिकं धान्यादिसाधनम्’ इति सामान्यतो दृष्टेन धर्मादिसिद्धिर्भविष्यतीत्यत आह- सामान्यतो दृष्टेनेति ।। सामान्यव्याप्तिमूलकत्वाद् अस्य सामान्यतो दृश्व्त्वं ज्ञातव्यम् । वैशेषिकादिभिः साध्याप्रसिद्धेर्दूषणत्वाङ्गीकारान्नैवमनुमातुं शक्यत इति ज्ञापयितुं कथञ्चिदित्यु-क्तम् । अन्ये तु, ननु देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तस्य भोगहेतुत्वाद् देवदत्तप्रयत्न-जन्यस्रगादिवदित्यनुमानेन धर्मादिसिद्धिर्भविष्यतीत्यत आह- सामान्यतो दृष्टेनेति ।। अस्य प्रत्यक्षायोग्यार्था-नुमापकत्वात्सामान्यतो दृष्टत्वम् । यथाऽऽहुः-

दृष्टं सामान्यतो दृष्टमिति चास्य विधाद्वयम् ।

पूर्वं प्रत्यक्षयोग्यार्थं तदयोग्यार्थमुत्तरम् ।।’ इति ।

देवदत्तशरीरादिकं धर्मातिरिक्तदेवदत्तविशेषगुणजन्यमित्यपि साधयितुं शक्यत्वेनातिप्रसङ्गित्वान्नैवमनुमातुं युक्तमित्याशयेन कथञ्चिदित्युक्तमित्याहुः । केचित्तु, ननु तथाऽपि सुखदुःखादिकमसाधारणकारणजन्यं भावत्वे सत्युत्पत्तिमत्त्वाद् घटादिवदिति सामान्यतो दृष्टेन परिशेषाद्धर्मादिस्वरूपसिद्धिर्भविष्यतीत्यत आह सामान्यतो दृष्टेनेतीत्याहुः । साधनेत्यादि ।। पूर्वाग्रदूर्वास्थापनादिसाधनजनितमदृष्टमीदृशं फलमुपजनयतीत्येवंरूपो धर्म-विशेष इत्यर्थः । अनुमातुं शक्यः, अनुमानेन निश्चेतुं शक्यः । ननु माऽस्तु तन्निश्चयः । तथाऽपि तत्स्वरूप-ज्ञानमात्रेणैवालमित्याशङ्क्य निषेधति- न चेति ।। नन्वनुमानस्य धर्मज्ञापकत्वाभावे ‘अथातो धर्मजिज्ञासा’ इत्यादिना धर्ममीमांसाकरणवैयर्थ्यं स्यात् । मीमांसाया युक्त्यनुसन्धानरूपतयाऽनुमानरूपत्वादित्यशङ्क्य प्रतिषेधति- न चैवमिति ।। अनुमानस्य आगमम् अपौरुषेयागमं विना स्वातन्त्र्येण धर्मादिषु प्रामाण्यं (श्री.टि.)तत्प्रमापकत्वं नास्तीति मूलयोजनामभिप्रेत्य तत्फलितमर्थमाह - अपौरुषेयवाक्येनेति ।। यथाऽऽहुः-

धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।

इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ।।’ इति ।

प्रमाणत्वमात्रेण प्रसक्तं पौरुषेयागमं निराचश्व्े - न चेति ।। दृश्यत इति ।। तथा च तद्वाक्येन धर्मादि-सिद्धिर्भविष्यतीति भावः । आगमं विनाऽनुमानादीनामित्यस्यापौरुषेयागमव्यतिरिक्तानामित्यर्थस्योक्तत्वात्, तल्लब्धस्य पौरुषेयागमस्य मन्वादिप्रणीतस्य धर्मादिषु प्रामाण्यं धर्मादिप्रमाजनकत्वं नास्ति, कुतः आगमं विना अपौरुषेयवाक्यमूलकत्वं विना तेष्वाश्वासाभावादिति शेष इति मूलयोजनामभिप्रेत्याह - अपौरुषे-येति ।। अत्रेत्यादि ।। अनेन धर्मादिकम् अपौरुषेयवाक्यैकप्रमाणकम् अनुमानप्रत्यक्षपौरुषेयवाक्याप्रमाणकत्वे सति सप्रमाणकत्वाद्व्यतिरेकेण घटवदिति परिशेषरूपव्यतिरेक्यनुमानप्रदर्शनपरं मूलवाक्यमित्युक्तं भवतीति ज्ञातव्यम् । नन्वस्त्वपौरुषेयवाक्यम् । तद्वेद एवेति कुत इत्यत आह- तच्चेति ।। अपौरुषेयमित्यर्थः । न चैव-मिति ।। कर्तृप्रसिद्धिशून्यो धर्मादिव्यवस्थापरश्चेत्यर्थः । नन्वेवमिति ।। अपौरुषेयवाक्येनैव धर्मादिसिद्ध्यङ्गी-कार इत्यर्थः । सर्वेषां वादिनाम् । तथा च तेषां धर्मादौ आनुमानिकत्वादिविप्रतिपत्तिर्न स्यादिति भावः । वेदेन ‘धर्मं चरत माऽधर्मम्’ इत्यादिवेदेन । प्रतीते सामान्येन सर्ववादिनां प्रतीते सति । तद्विशेषेषु अग्नीषोमीय-पश्वालम्भनादिरूपधर्मविशेषेषु । तम् ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिवेदम् । अतिक्रम्य ‘न हिंस्यात्’ इत्यादेरुत्सर्गाभिप्रायेण प्रवृत्तत्वमज्ञात्वा, स्वबुद्धिदोषाद् वादिनाम् अहिंसैव परमो धर्मः, केशोल्लुण्ठनं धर्मः, सप्तघटिकातः प्राग्भोजनं धर्मः, इत्यादिरूपा विप्रतिपत्तयः । प्रतीयन्ते प्रतीता भवन्ति विस्तृता भवन्तीत्यर्थः। एवं च धर्मादेरानुमानिकत्वादिविप्रतिपत्तिः स्वमतिदोषाद्युक्तेति भावः । अन्यथेति ।। सामान्यतो धर्मादि-स्वरूपस्य वेदात्प्रतीत्यभाव इत्यर्थः । बुद्धाविति ।। तथा च धर्मादावनुमानप्रवृत्तिरपि न सम्भवति आश्रया-सिद्धिप्रसङ्गादिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

धर्मादिकम् अपौरुषेयशब्दप्रमाणकम् इन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वात् । यद् यदप्रमाणकत्वे सति सप्रमाणकं तत् तदितरप्रमाणकं यथा सम्मतम् । न चाप्रसिद्धविशेषणत्वम् । सामान्यव्याप्तेरुक्तत्वेन व्याप्तौ सत्यां तस्यादोषत्वादित्यभिप्रेतानुमाने आश्रयासिद्धिं तावत्परिहरति- अस्ति तावदिति ।। वादिनामिति ।। समयिनामित्यर्थः । अप्रामाणिकाभ्युपगमे समयित्वमेव तेषां न स्यात् । न ह्यप्रामाणिकविषयः समयश्चेत्युपपन्नमिति भावः । ननु चार्वाकस्य न धर्मादिषु सम्प्रतिपत्तिरस्तीत्यतस्तद्रीत्या आश्रयासिद्धिरपरिहार्यैवेत्यत आह- यस्त्विति ।। पूर्वोक्तेति ।। ‘यस्य तौ नाभिमतौ नासौ समयी’ इत्यादि-पूर्वोक्तप्रकारेणेत्यर्थः  । तथा च न तद्रीत्याऽप्याश्रयासिद्धिरिति भावः । हेतौ विशेष्यासिद्धिं परिहरति- ते चेति ।। अप्रयोजकत्वमाशङ्क्याप्रामाणिकत्वे सर्वसम्प्रतिपत्तिविषयत्वानुपपत्तिरूपबाधकसत्त्वान्न तदित्या-(पां.टि.) शयेनाऽह- न ह्यप्रामाणिकेति ।। यथा चात्र नेष्टापत्तिस्तथोक्तं प्राक् ‘अस्ति तावत्’ इत्यादिना । प्रत्यक्षादीनामिति प्रत्यक्षादित्वेन ग्रहणे कर्तव्ये तदकृत्वाऽनुमानादित्वेन ग्रहणे किं निमित्तमित्यतो नियामककथनेन तदुपपादयति- प्रत्यक्षस्येत्यादिना ।। ‘तथा हि, प्रत्यक्षं न तावद्बाह्यम्’ इत्यादिवक्ष्यमाणरीत्येति शेषः । पूर्वोक्ते-ति ।। ‘न च पौरुषेयेण वाक्येन तत्सिद्धिः’ इत्यादिपूर्वोक्तेत्यर्थः । अङ्गीकृत्य वैयधिकरण्यस्य दूषणत्वं समाधानमाह- अथ वेति ।। एवमपि वैयधिकरण्यपरिहारेऽपि । प्रत्यक्षमपि किमस्मदादीनामभिमतं किं वा योगिनाम् । आद्येऽपि किं बाह्यम्, उत मानसमिति विकल्पान् मनसि निधायाऽद्यं प्रतिषेधति- प्रत्यक्षमिति ।। तत्कुत इत्यतो घ्राणश्रोत्ररसनानां गन्धशब्दरसलक्षणनियतविषयत्वेनात्र प्रामाण्यमसम्भावितमिति भावेन चक्षुःस्पर्शनयोरसामर्थ्यमुपपादयति- तस्येति ।। द्वितीयं दूषयति- नापीति ।। तृतीयमाशङ्क्य निषेधति- न चेति ।। अङ्गीकृत्यापौरुषेयवाक्यं विना योगिप्रत्यक्षसिद्धिं दूषणान्तरमाह- किञ्चेति ।। ननु योगिप्रत्यक्षेणैव अस्माकमपि धर्मादिसिद्धिः किं न स्यादित्यतोऽतिप्रसङ्गान्नैवमित्याह- न हीति ।। नन्वस्माकमुपाया-भावाद्धर्माद्यनिश्चयेऽपि योगिप्रत्यक्षात्तत्सिद्धिरपरिहार्यैव । प्रत्यक्षेण वस्तुसिद्धेर्यत्किञ्चित्पुरुषीयप्रत्यक्षमात्र-सापेक्षत्वेन सर्वपुरुषीयप्रत्यक्षानपेक्षत्वादित्यत आह- अनुष्ठानं वेति ।। अस्मदीयधर्मानुष्ठानस्यास्मदीय-तन्निश्चयमात्रसाध्यत्वान्न तेन विना तत्सम्भवतीत्यर्थः । तत्प्रतिबद्धेति ।। तद्व्याप्तेत्यर्थः । सामान्यतो दृष्टे-नेति ।। देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तभोगहेतुत्वाद्देवदत्तप्रयत्नजन्यस्रगादिवदिति सामान्यतो दृष्टेनेत्यर्थः । देवदत्तशरीरादेर्देवदत्तविशेषगुणजन्यत्वं न साक्षात्साध्यम् । धर्माधर्मयोरप्यारम्भक-प्रेरणादिरूपेणैवोप-योगाङ्गीकारात्, देवदत्तशरीरं न साक्षाद्देवदत्तविशेषगुणजन्यं शरीरत्वाद्यज्ञदत्तशरीरवदिति सत्प्रतिपक्षत्वाच्च । नापि परम्परया तत् । तथा सति जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्त्याऽर्थान्तरत्वापा-तात् । देवदत्तविशेषगुणजन्यतया विनाऽप्याकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुत्वसम्भवेनाप्रयोजकत्वाच्च इत्यादियुक्तिपादोदितमेव दूषणमभिप्रेत्योक्तम्- कथञ्चिदिति ।। न चैवमिति ।। साधनफलसम्बन्धरूपधर्म-विशेषस्यानुमानाविषयत्व इत्यर्थः । धर्ममीमांसानुपपत्तिरिति ।। धर्ममीमांसाया युक्त्यनुसन्धानात्मकत्वादिति भावः । आश्वासानुपपत्तेरिति ।। धर्माद्युपदेष्टर्याप्तिनिश्चयानुपपत्त्या तद्वाक्ये प्रामाण्यनिश्चयानुपपत्तेरित्यर्थः । आश्वास इति ।। आप्तत्वनिश्चय इत्यर्थः । उपलक्षणं चैतत् । तद्वाक्ये प्रामाण्यनिश्चयो दृश्यत इत्यपि द्रष्टव्यम् । नन्वेवं सामान्यसिद्धिपरिशेषाभ्यामपौरुषेयवाक्यसिद्धावपि वेदापौरुषेयत्वस्यासिद्धत्वात् ‘किञ्च सामान्यपरि-शेषाभ्यां वेदापौरुषेयत्वं सिद्ध्यति’ इत्येतत्प्रतिज्ञाविरोध इत्यत एतदुभयोपजीवनेन प्रवृत्तपरिशेषान्तरेण तत्सिद्धेरभिप्रेतत्वान्न तद्विरोध इति वेदापौरुषेयत्वविषयकं परिशेषमाह - तच्चेति ।। गूढाभिसन्धिराशङ्कते - नन्वेवमिति ।। गूढाभिसन्धिरेव परिहरति - सत्यमिति ।। प्रमापकस्य प्रमाणस्यैकत्वाद्धर्मादौ वादिना मतभेदो न स्यादित्याशयेन शङ्किता स्वाभिप्रायमुद्घाटयति - किन्त्विति ।।

लघुप्रभा

(व्या.टि.)

एवं वेदापौरुषेयत्वे बाधकाभावं साधकेष्वप्रमितकर्तृकत्वानुमानं प्रत्यभिज्ञाप्रत्यक्षं चोक्त्वा परिशेषा-(व्या.टि.) नुमानमपि विवक्षुः प्रतिजानीते - किञ्चेति ।। अन्यच्चेत्यर्थः । सामान्यसिद्धीति ।। धर्मादिविषय-प्रमाणसिद्ध्यपौरुषेयेतरपरिशेषाभ्यां वेदापौरुषेयत्वमित्यर्थः । ननूद्देश्यसिद्धौ समप्राधान्यभाव एव द्विवचननिर्देशो युक्तः । यथा दर्शपूर्णमासाभ्यामिति । न चात्र समप्राधान्यम् । सामान्यसिद्धेर्विशेषपरिशेषाङ्गत्वात् । टीकायां ‘सामान्यतः सिद्धे’ इति निमित्तसप्तमीप्रयोगाच्च । अतस्तथा प्रयोगोऽयुक्त इति चेत् । मैवं मंस्थाः । उभयोरङ्गाङ्गि-भावे सामान्यासिद्धौ कस्य विशेषः परिशिष्येत । विशेषपरिशेषाभावे सामान्यसिद्धिः क्वोपयुज्येत इत्युभयोरा-वश्यकत्वे सामान्येन  तथोक्तिः    अथ वा सामान्यसिद्धिपरिशेषयोरुभयोर्विशेषणविशेष्यभावेनानुमानावयव-त्वात् तथोक्तिः । अनुमानप्रकारश्च- धर्मादिः अपौरुषेयप्रमाणकः तदितराप्रमाणकत्वे सति सप्रमाणकत्वात् । यद् यदितराप्रमाणकत्वे सति सप्रमाणकं तत् तदेकप्रमाणकं यथा सम्मतमिति । अपौरुषेयं, वेद एव, अकर्तृकत्व-प्रसिद्धिमत्त्वे सति धर्मादिव्यवस्थापरत्वादिति तर्कताण्डवदिशा बोध्यः । नन्वेवमपि धर्मादौ प्रमाणसामान्यसिद्धिः, तस्यापौरुषेयवाक्येतरत्वनिरासेनापौरुषेयवाक्यत्वपरिशेषः, अपौरुषेयवाक्यस्य वेदतदतिरिक्तान्यतरत्वसिद्धिः, वेदातिरिक्तत्वनिरासेन वेदत्वपरिशेष इति सामान्यसिद्धिद्वयस्य परिशेषद्वयस्य वक्ष्यमाणत्वेन कथं द्विवचनमिति चेन्न । सामान्यसिद्धित्वेन परिशेषत्वेन च एकीकरणात् । अथ वा सामान्यसिद्धिभ्यां परिशेषसिद्धिभ्यामिति प्रत्येकं (विभिन्न) विभक्त्यर्थस्यान्वयः । यथा ‘ओजःसहोऽम्भसा वर्तते’ इति सूत्रे अम्भसेत्येकत्वस्य, यथा वा द्वापरादाविति भागवते द्वापरे चादौ चेति तात्पर्यानुसारेणैकत्वस्य, यथा वा ‘अजाविखरयोः’ (अजाविभ्याम्) इति द्वित्वस्य प्रत्येकमन्वयः । वेदस्यापौरुषेयत्वमिति ।। अपौरुषेयस्य वेदत्वमित्यर्थः । तथैव परिशिष्यमाण-त्वात् । समानवित्तिवेद्यतया तथोक्तिः । तत्राऽद्यौ सामान्यसिद्धिपरिशेषौ दर्शयति- अस्ति तावदिति ।। सम्प्रतिपत्तिः निश्चयः । हेतोः स्वरूपासिद्धिं वारयति- यस्त्विति ।। प्रयोगप्रकारं दर्शयति- ते चेति ।। हेतुं दर्शयति- वस्तुत्वादिति ।। सर्वसम्प्रतिपन्नवस्तुत्वादित्यर्थः । विपक्षे हेतूच्छित्तिं बाधिकामाह- न हीति ।। अतिप्रसङ्गादिति ।। अमूलफलप्रसङ्गादित्यर्थः । निष्कृष्याऽह- एवमिति ।। सिद्ध इति निमित्तसप्तमी ।

ननु मूले अनुमानादीनामित्युक्तिरयुक्ता । अन्यपदार्थयोरुभयोर्बहुत्वान्वयायोगात् । अस्य चाप्रकृत्यर्थ-त्वात् । प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेरिति चेन्न । अनुमानम् आदिर्येष्विति निर्धारणसप्तम्या विगृह्य समस्यमानानां पदार्थानां सम्भूयान्वयोपपत्तेः, शास्त्रादिसङ्गतिरितिवत् । तथाऽन्वयं दर्शयति- तत-श्चेति ।। त्रयाणां प्रमाणत्वेन प्रसक्तावप्यनुमानस्य सम्भावितत्वेन धर्मादावधिकप्रसक्तेरादित्वेन कीर्तनमित्या-शयेनाऽह- प्रत्यक्षस्येत्यादिना तदादित्वेन ग्रहणमित्यन्तेन ।। व्यधिकरणत्वमिति ।। साहचर्यनियमरूप-व्याप्तिविघटकतया दूषणमिति शेषः । व्याप्तिसम्भवेनेति ।। अविनाभावरूपव्याप्तौ सामानाधिकरण्याप्रवेशादिति भावः । साहचर्यनियमो व्याप्तिरिति पक्ष आह- अथ वेति ।। अतद्गोचरत्वादिति ।। मूले नञ्व्यत्ययोऽभिसंहित इति भावः । ननु तदविषयकत्वस्यैव तदप्रामाण्यरूपत्वेनाऽद्ये साध्याभेदः । एवं तदविषत्वस्यैव तदप्रमेयत्वरूपत्वेन द्वितीयेऽपीति शङ्कते- एवमपीति ।। फलाभावस्येति ।। आद्ये विषयीकरणरूपफलाभावस्य, द्वितीये विषयी-(व्या.टि.) भवनरूपफलाभावस्येत्यर्थः । पक्षे साध्यसाधने विशिष्योपपादयति- तथा हीति ।। अत्र प्रत्यक्षं लौकिकमलौकिकं वेति विकल्प्याऽद्ये बाह्यं मानसं वेति विकल्प्याऽद्यं निराह- न तावदिति ।। तदीयेषु द्रव्याश्रि-तेषु । सामान्ये गुणकर्मद्वारा तदीयत्वं बोध्यम् । द्वितीयं निरस्यति- नापि मानसमिति ।। अनुभवानुव्यवसाय इति ।। अनुभवस्य साक्षात्कारस्य,अनुव्यवसाय इति षष्ठीतत्पुरुषः । केचित्तु अनुभवानुव्यवसाययोरिति द्वन्द्व-माहुः । तन्न । ‘अनुभवाननुव्यवसायाद्’ इति सुधाऽनानुगुण्यात् । अन्यथा धर्ममनुभवामीति स्यादिति ।। अनुभूतेऽनुव्यवसायस्य दृश्व्त्वादित्यर्थः । अतीन्द्रियैकदेशे स्वर्गादौ लौकिकप्रत्यक्षसाधारणसन्निकर्षाभावेन प्रत्यक्षमात्रं निरस्यति- स्वर्गादीनां त्विति ।। लौकिकप्रत्यक्षमात्रे सन्निकर्षो हि प्रयोजक इति भावः । स्वर्गादिपदेन सुखादिविवक्षायां कालविप्रकर्षो देशविशेषविवक्षायां देशविप्रकर्षो बोध्यः । अलौकिकप्रत्यक्षं शङ्कते- न चेति ।। तस्येति ।। योगजप्रत्यक्षस्येत्यर्थः । मूलमारोहयति- तदिति ।। प्रागागमं विनेति विना कृतानामिति व्याख्या-तम् । अधुना न सिद्धं योगिप्रत्यक्षमित्यपि व्याख्यातम् । वैयधिकरण्यं करणफलयोरित्याह- किञ्चेति ।। तत्प्रति-बद्धेति ।। प्रतिबन्धो व्याप्तिः । सामान्यत इति ।। इष्टापूर्तादिविषया प्रवृत्तिः फलवती प्रेक्षावत्प्रवृत्तित्वाद् इति सामान्यतो दृष्टेनेत्यर्थः । अनुष्ठानमिति ।। ‘ज्ञात्वा कर्म समाचरेत्’ इति ज्ञानपूर्वकत्वादनुष्ठानस्येत्यर्थः । मूलमनुकूलयति- एतदपीति ।। अनेन, आगमकरणं विना प्रामाण्यम् इतिकर्तव्यतात्वमिति व्याख्यातम् । आश्वासेति ।। आप्तिनिश्चयेत्यर्थः । वाक्यमूलत्वेति ।। ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’ इति वेदेनैव तदाप्ति-निश्चयादित्यर्थः । मूलमनुकरोति-एतदिति ।। अनेनाऽगमं विना प्रामाण्यम् आप्तवाक्यत्वमिति व्याख्या-तम् । द्वितीयौ सामान्यसिद्धिपरिशेषौ दर्शयति- तच्चेति ।। सामान्यतः सिद्धं धर्मादिविषयापौरुषेयवाक्यमि-त्यर्थः । न चैवं वेद इति वैधर्म्योपनयः । शङ्कते- वेदेनैवेति ।। तथा च कारणान्तराभावाद्धर्मे विप्रतिपत्त्यनुपपत्तिरिति गूढाशयः । वेदेनैवेत्येतदङ्गीकरोति - सत्यमिति ।। विप्रतिपत्तिमूलं पृच्छति- किन्त्विति ।। तदाह- स्वमति-दोषादिति ।। ‘तामसत्वाच्च लोकस्य’ इत्युक्तेरिति भावः ।