यदि न स्वरूपं भेदः..

भेदस्य धर्मिस्वरूपत्वे प्रमाणस्य धर्मिस्वरूपत्वाभावे बाधकस्य चोपवर्णनम्

मूलम्

-  यदि न स्वरूपं भेदः,  तदा पदार्थे दृष्टे प्रायः  सर्वतो  वैलक्षण्यं तस्य न ज्ञायेत । अज्ञाते च वैलक्षण्ये आत्मनि घट इत्यपि संशयः (यादिः) स्यात् । नहि कश्चित्तथा संशयं करोति । ज्ञात्वैव प्रायः सर्वतो वैलक्षण्यं कस्मिंश्चिदेव सदृशे संशयं करोति । नह्यात्मन्यहं देवदत्तो नवेति कस्यचित् संशयो भवति । सामान्यतः सर्ववैलक्षण्ये ज्ञात एव घटत्वादिज्ञानम् । अतो नान्योन्याश्रयता ।

तत्त्वमञ्जरी

अज्ञाते च घटस्य सर्वतो वैलक्षण्ये आत्मनोऽपि सर्वान्तर्भूतत्वादात्मवैलक्षण्यस्य चाज्ञात-त्वादात्मन्यपि अहं घटो वा न वेति संशयः स्यात् । स्वरूपदर्शन एव सर्वतो वैलक्षण्यं गृह्यते चेत् स्थाणुस्वरूपं दृष्टवतः कथं स्थाणुर्वा पुरुषो वेति संशयः स्यादित्यत आह- ज्ञात्वैवेति ।।  सादृश्यस्य कुत्रचित् संशयहेतुत्वे सत्यपि साक्षिणि तथा न स्यादित्याह- नह्यात्मनीति ।।

टीका  

अथ यो भेदमङ्गीकृत्य तस्य धर्मिस्वरूपत्वे प्रमाणं जिज्ञासते तं प्रत्याह- यदीति ।। अत्रापि संशयादिस्थलव्यावृत्तये प्राय इत्युक्तम् । भेदस्य धर्मिस्वरूपत्वे हि तद्दर्शन एव प्रतिभासो युज्यते । यदिच भेदो धर्मिस्वरूपादत्यन्तं भिन्नः स्यात्तदा पटदर्शने घट इव तस्य सर्वतो व्यावृत्तिर्न प्रतीयेत नियामकाभावात् । ततः किमित्यत आह- अज्ञाते चेति ।। आत्मदर्शनेन तस्य घटादिसर्वव्यावृत्तावज्ञातायामात्मविषये ‘किमुपलभ्यमानोऽहं वा घटो वा’ इति संशयो ‘घट एव’ इति विपर्ययो वा स्यात्, समानधर्मादेः सद्भावात् प्रतिबन्धकस्य च व्यावृत्तिज्ञानस्याभावात् । अस्तु  तथा  संशयादिकमिति  चेन्न    अप्रामाणिकाङ्गीकारस्यानुचितत्वादित्याशयवानाह-नहीति ।।

इदमुक्तं भवति । अस्ति तावद्भेदः । तस्य च द्वय्येव गतिः । धर्मिस्वरूपत्वं वा ततो भिन्नत्वं वेति । तत्र भेदपक्षस्य सर्वत्र संशयादिप्रसङ्गेनानुपपन्नत्वात् परिशेषात् स्वरूपत्वमेव सिद्ध्यति । नच वाच्यं धर्मिप्रतीतावप्रतीतोऽपि भेदः पश्चात् प्रत्येष्यते, स च प्रसक्तमपि संशयादिकं निरोत्स्यतीति, पश्चाद्धि, भेदोऽस्यास्मादिति प्रत्येतव्यः । नच प्राग्भेदानवगतावखण्डे वस्तुनि अस्यास्मादिति विभागेनानुवादो घटते । अतो धर्मिप्रतीतावेव भेदो न प्रतीयते चेत् न प्रतीयेतैव कदाऽपीति संशयादिप्रसङ्गो दुर्वार एव । अथाऽपातजायां निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदङ्गुलित्रयवदवभासात् न संशयाद्यवकाश इति चेन्न । तस्य भेदस्य एतदीयतयाऽनवगतस्य एतद्विषयसंशयादिप्रतिबन्धकत्वानुपपत्तेः । अन्यथा सर्वत्र संशयाद्यनुदयप्रसङ्गादिति ।।

ननु यदि भेदो धर्मिस्वरूपं स्यात् तर्हि तत्प्रतीतावेव प्रतीयेत । नचैवम् । तथा सति संशयाद्यभाव-प्रसङ्गात् । अस्ति च संशयादिकं प्रमाणसिद्धमिति न धर्मिप्रतीतौ भेदप्रतीतिः । तत्कथं तस्य तत्स्वरूपत्वमित्यत आह- ज्ञात्वैवेति ।।

अयमभिप्रायः- एक एव खल्वेकस्य वस्तुनो भेदोऽनेकत्वे प्रमाणाभावात् । स च वस्तुप्रतीतौ प्रतीयत एव किन्तु तस्य घटप्रतियोगिकत्वं पटप्रतियोगिकत्वमित्यादयोऽनन्ता धर्माः । तत्र भेदनिष्ठो यत्प्रतियोगिकत्वरूपो धर्मः सादृश्यादिवशान्न प्रतीयते तत्र संशयादिकमुत्पद्यते, नतु तत्रापि भेदस्याप्रतीतिः । अतः संशयादेरन्यथोपपत्तेर्न तदर्थं धर्मिप्रतीतौ भेदाप्रतीतिरङ्गीकार्या, यया भेदस्यास्वरूपत्वं भवेदिति ।

संशयादिस्थलेऽपि सर्वतो भेदः प्रतीयत एवेत्युक्तम्, तत्कुत इति चेन्न । भेदस्य सर्वथा-प्रतीतावात्मनि प्रतीयमानः अहं किं देवदत्तोऽथवा घट इत्यादिसंशयो घट एवेति विपर्ययो वा स्यात्, नैवमस्तीत्याह- नहीति ।। न वेत्यस्य घटो वेत्यर्थः ।

ननु घटादौ घटत्वाद्यसाधारणधर्मं दृष्टवतस्तमात्मन्यपश्यतः संशयाद्यनुत्पत्तेर्न तदर्थं सर्वतो व्यावृत्तिप्रतीतिः कल्पनीया । किञ्च सर्वाप्रतीतौ सर्वतो व्यावृत्तेः प्रत्येतुमशक्यत्वात्, सर्वप्रतीतौ सर्वेषां सर्वज्ञता चाऽपद्यत इत्यत आह- सामान्यत इति ।। घटत्वादिज्ञानम् असाधारणतयेति शेषः । घटत्वाद्यसाधारणधर्मज्ञानेन संशयाद्यनुत्पत्तिमभिलषताऽपि प्रथमं सर्वव्यावृत्तिज्ञानमेष्टव्य-मेव । तेन विना घटत्वादेरसाधारणतया ज्ञानासम्भवात् । नहि धर्मिणामविविक्तत्वे धर्मस्यासाधारण्यं भवति । नच सर्वज्ञतापातो दोषः । सामान्यतः सर्वव्यावृत्तिज्ञानस्योच्यमानत्वात् सामान्यतः सर्वज्ञानस्य च प्राणभृन्मात्रवृत्तित्वात् । नच सर्वात्मकमिदं किन्तु स्वयमेवेति धर्मिस्वरूपेण प्रतीयमानस्य भेदस्य सामान्यतः सर्वप्रतियोगिकत्वं स्मर्यमाणकतिपयविशेषप्रतियोगिकत्वं ह्यनुभूयते । तदेवं भेदस्य धर्मिप्रतीतावेव प्रतीतिसम्भवाद्युक्तं तत्स्वरूपत्वम् ।

ननु भेदस्य किं केवलस्य धर्मिस्वरूपत्वम् उत प्रतियोगिघटितस्य । नाऽद्यः  । कदापि केवलस्य तस्याप्रतिभासात् । द्वितीये प्रतियोगिनोऽपि धर्मिस्वरूपत्वापत्त्या सर्वाद्वैतप्रसङ्ग इति । मैवम् । प्रतियोगिनो निरूपकत्वेन बहिरङ्गत्वात् । कुत्र चेदमुपलब्धं येन निरूपितस्य यद्भवति तत्तन्निरूपक-स्यापि भवतीति । लम्बकर्णमानयेत्यादाविति चेन्न । चित्रगुमानयेत्यादौ किं तदभावोऽपि नोप-लब्धः । ततः स्वदृष्टिपक्षपातमपहाय लौकिकी दृष्टिमाश्रित्य भेदः कां रीतिमवलम्बतामिति विचारे, यदि प्रतीत्यनुसरणं तदा चित्रगुन्यायो भवति । प्रतीत्यतिक्रमे त्वापादनमप्यशक्यमिति ।

ननु विदारणात्मनो भेदस्य पटस्वरूपत्वे तस्यापि विदारणं स्यात् । तथा तदवयवानामपीति सर्वशून्यतापत्तिरिति । मैवम् । न हि भेदो विदारकः किन्तु विदारणम् । विदारकत्वेऽपि प्रतियोगिनो धर्मिणं विदारयेन्नतु स्वत एव । प्रतियोगिनिरूप्यत्वं च स्वरूपस्यापि भेदस्योपपादितम् । अङ्गीकृत्य चेदमुक्तम् । वस्तुतस्तु न भेदो विदारणात्मा किन्त्वन्योन्याभाव एवेति । तथाप्यनेकत्वैकार्थ-समवायिनो भेदस्य पटस्वरूपत्वे पटस्याप्यनेकत्वं स्यात् । तथा तदवयवानामपीति तद्विरुद्धमेकत्वं कुत्रापि न स्यात् । एकत्वाभावेऽनेकत्वमपि न भवेत् । तथाच सङ्ख्यारहितस्य द्रव्यस्य शून्यत्वापत्ति-रिति । मैवम् । एवं हि पटोऽप्यनेकत्वं स्यान्न त्वनेकः । अनेकत्वेऽपि कुतो नैकत्वम्? स्वस्मिन्नेकोऽ-प्यन्येन सहितोऽनेक इति विरोधाभावात् । अनेकत्वबलेनैकत्वाभावमुक्त्वा पुनस्तेनानेकत्वाभावं वदतः कुतो न पूर्वोत्तरविरोधः । नह्यत्र काऽप्यस्मद्रीतिरस्तीत्युक्तं येन पररीत्या परस्याऽपादनमिति निस्तारः ।

एवं बाधकाभावात् साधकसद्भावाच्च भेदस्य धर्मिस्वरूपत्वान्न तत्प्रतीतावन्योन्याश्रयत्व-मित्युपसंहरति- अत इति ।।

भावबोधः

ननु ‘यदि न स्वरूपं भेदः’ इत्यनेन भेदस्य धर्मिस्वरूपत्वे किं प्रमाणमुपन्यस्तमित्यत आह- इदमुक्तं भवतीति ।। भेदो धर्मिस्वरूपं धर्मिणा सहाऽनुपपन्नभेदत्वाद्धर्मिवदिति परिशेषानुमानप्रयोगो द्रष्टव्यः । स चेति ।। प्रत्येष्यमाणो भेद इत्यर्थः । निश्चयवन्निश्चयसामग्य्रापि संशयादिप्रतिबन्धिकेति भावः । तथा च धर्मिप्रतीतावपि भेदाप्रतीतौ उक्तबाधकाभावेन धर्मिणा सह भेदोपपत्तेरनुपपद्यमानभेदत्वमसिद्धमिति भावः । अथाऽपातजायामिति ।। तथा च भेदस्य धर्मिणा सह भेदेऽप्येतादृशप्रतीत्यैवोक्तबाधकपरिहारसम्भवेना-नुपपद्यमानभेदत्वमसिद्धमिति भावः । अनेकत्वे प्रमाणाभावादिति ।। न च, घटनिष्ठो भेदोऽनेकः पटाद्यनेक-निरूप्यत्वाद्भूतलनिष्ठघटपटाद्यभाववदिति अनुमानमत्र मानमिति वाच्यम् । अनेकविषयादिनिरूप्ये समूहा-लम्बनादौ व्यभिचारात् । अभावत्वेन हेतुविशेषणे चैकघटनिरूप्यप्रागभावप्रध्वंसादावनेकत्वसत्त्वेऽप्यनेक-निरूप्यत्वाभावेनाप्रयोजकत्वादिति भावः । ‘घटत्वादिज्ञानम्’ इत्युत्तरवाक्यानुकूल्याय ‘न वा’ इत्यस्यार्थमाह- घटो वेत्यर्थ इति ।। ननु सामान्यतः सर्ववैलक्षण्यसद्भाव एव किं प्रमाणं येन सामान्यतः सर्वज्ञानस्य प्राणभृन्मात्रवृत्तित्वमङ्गीकर्तव्यमित्यत आह- न सर्वात्मकमिति ।। प्रतियोगिन इति ।। न हि प्रतियोगिनो भेदे विशेषणत्वं येन विशिष्टस्य धर्मिस्वरूपत्वे विशेषणस्यापि तत्स्यात् । किन्तूपलक्षणत्वेन निरूपकत्व-मेव । अतो बहिरङ्गत्वान्न धर्मिस्वरूपत्वमित्यर्थः । ननूपलक्षणत्वपक्षेऽपि निरूप्यस्य धर्मिस्वरूपत्वे निरूपकस्यापि तत्स्यादित्यापाद्यत इत्यत आह- कुत्र चेदमिति ।। आपादनमप्यशक्यमिति ।। प्रतीत्यतिक्रमे आपाद्या-पादकयोर्व्याप्तिप्रतीतेरपि प्रतीतित्वादविशेषादतिक्रमे मूलशैथिल्यादापादनमप्यशक्यमित्यर्थः ।

।। किन्तु विदारणमिति ।। तथा च पटो विदारणं स्यात् । न च पटस्य विदारणत्वं वृत्तिविरोधादिति भावः। धर्मिणं विदारयेदिति ।। विशेषबलाद्भेदस्य धर्मित्वमभ्युपेत्येदमुक्तम् । वस्तुतो धर्मिस्वरूपत्वेन धर्मिणो विदार-णात्मकत्वेन स्वसम्बन्ध्यर्थविदारकत्वमेव स्यान्न तु स्वविदारकत्वमिति द्रष्टव्यम् । ननु विदारकमपि लवित्रादि स्वसम्बद्धं स्वसम्बन्धादेव विदारयति । धर्मिस्वरूपत्वे भेदस्य प्रतियोगिसम्बन्धाभावात्कथं ततो धर्मिणं विदार-येदित्यत आह- प्रतियोगिनिरूप्यत्वं चेति ।। पटोऽप्यनेकत्वं स्यादिति ।। अनेकस्य भावो धर्मोऽनेक-त्वम् । तथा चानेकत्वसमानाधिकरणः स्यादित्यर्थः । यद्वा ‘अनेकत्वैकार्थसमवायिनः’ इत्येतदनेकत्वाभिन्नस्येति व्याख्येयम् । अथ वा अनेकत्वभेदयोरेककार्यकारित्वेनाभेदोपचारादेवमुक्तमिति द्रष्टव्यम् । इत्युक्तमिति ।। ‘स्वस्मिन्नेकः’ इत्यादिना एकत्वानेकत्वयोर्विरोधो नास्तीत्युक्तमित्यर्थः ।

भावदीपः

स्वरूपत्वपक्षघटनायां सत्यां विपक्षे बाधकं वाच्यमित्यतो ‘भेदस्तु स्वरूपदर्शन एव सिद्धः’ इत्यादिना प्रागुक्तप्रत्यक्षसिद्धत्वरूपघटनां तावदनुवदति- भेदस्येति ।। हिशब्देनाविगानं सूच्यते । मूलार्थमाह- यदि चेति ।। नियामकेति ।। धर्मिस्वरूपत्वरूपनियामकस्याभावादित्यर्थः। ननु सामग्य्रभावाद्वा प्रतिबन्धकभावाद्वा न संशयादिरित्यत आह- समानेति ।। ननु प्रमाणं जिज्ञासमानं प्रति यदीत्यादिमूलेन किं प्रमाणमुक्तमित्यतः परिशेष उक्त इति भावेनाऽह- इदमुक्तमिति ।। भेदस्य धर्मितो भिन्नत्वपक्षे अनुपपत्तिर्नास्ति येन परिशेषावतार इति भावेन तैत्तिरीयभाष्योक्तमाशङ्कते- नच वाच्यमिति ।। कुतो न वाच्यमित्यत आह- पश्चाद्धीति ।। अखण्ड इति ।। भेदहीन इत्यर्थः । निर्विकल्पिकायामिति ।। धर्मिप्रतियोगिसम्बन्धितया भेदमविषयी-कुर्वन्त्यामित्यर्थः । अन्यथेति ।। तदीयत्वेन भेदस्याप्रतीतावपि स्वरूपप्रतीतिमात्रेण संशयविरोधित्वे सर्वत्राऽपातप्रतीतौ भेदप्रतीतेर्भावात् संशयादिः क्वापि न स्यादित्यर्थः । तावतोक्तशङ्कानिरासस्यास्पष्टत्वादाह- अयमभिप्राय इति ।। नतु तत्रेति ।। संशयादिस्थल इत्यर्थः । ययेति ।। भेदाप्रतीत्येत्यर्थः । शङ्कते- संशया-दीति ।। संशयाद्यभावोऽन्यथाऽप्युपपन्नो न भेदप्रतीत्येकाधीन इति शङ्कते- ननु घटादाविति ।। धर्मिप्रतीतावेव सर्वभेदप्रतीतौ बाधकं चाऽह- किञ्चेति ।। प्रागुक्तबाधकमनूद्य निराह- नच सर्वज्ञतापातो दोष इति ।। प्राणभृन्मात्रेति ।।

सर्वं सामान्यतो यस्मात् सर्वैरेवानुभूयते ।

तस्माद्व्यावृत्तता सर्वैस्सर्वस्मादनुभूयते ।।’

इत्यनुव्याख्यानोक्तेरिति भावः । सामान्यतस्सर्वप्रतियोगिकत्वमिति ।। सर्वज्ञानस्य साक्षिरूपत्वेन साक्ष्युपनीतं सर्वं धर्मिस्वरूपभूतभेदविषयकचाक्षुषादिज्ञाने भासत इति न तत्प्रतियोगिकत्वम् । तथा प्रत्यक्षादिनाऽनु-भूतकतिपयपदार्थानुभवजन्यस्मृत्युपनीतकतिपयपदार्थाश्च तादृशभेदज्ञाने भासन्त इति कतिपयविशेषप्रतियोगि-कत्वं चानुभूयत इत्यर्थः । स्मर्यमाणेति स्मृतेरुपनायकत्वोक्तिः पररीत्यैवेति ज्ञातव्यम् । सिद्धान्ते तु विशेषगोचरा-नुभवजन्यसंस्काराहितशक्तिकेन चक्षुरादिनैव विशेषप्रतियोगिकत्वज्ञानमिति ध्येयम् । अत एव वक्ष्यति ‘संस्कार-सहकृतेन्द्रिय’ इत्यादि । भेदनिरूपकस्य प्रतियोगिनो घटादेर्विशेषणत्वं मत्वा शङ्कते- ननु भेदस्येति ।। उपलक्षणतामुपेत्य परिहरति- मैवमित्यादिना ।। यादृशतादृशं वस्तु स्वनिरूपकं तदवश्यं निरूप्यसमानयोग-क्षेममेवेति वदन्तं प्रत्याह- कुत्र चेदमिति ।। इतीदमिति इतिशब्दस्यान्वयः । इत्यादाविति ।। देवदत्तस्याऽनयने तद्व्यावर्तकीभूतलम्बमानकर्णयोरपि आनयनक्रियान्वयदर्शनादित्यर्थः । चित्रगुमानयेत्यादाविति ।। चित्राणां गवां देवदत्तव्यावर्तकानामानयनान्वयादर्शनादित्यर्थः । उभयथा दृष्टावपि प्रकृते भवदुक्तमेव ग्राह्यमिति कुत इत्यत आह- तत इति ।। द्वेधा दर्शनादित्यर्थः । इति विचार इत्यन्वयः । अशक्यमिति ।। लम्बकर्णमानयेत्यादौ दर्शनानुरोधेनैवाऽपादनीयत्वात्तदतिक्रमे च कथमापादनम्? व्याप्तिहीनतया तर्कस्याभासतापत्तेरिति भावः ।

भिदिर् विदारणे’ इत्यतः करणे घञ्प्रत्यये ‘पुगन्त’ इति गुणे भेद इति रूपमुपेत्य शङ्कते- ननु विदार-णेति ।। विदारणं स्यादिति ।। द्वैधीभावः स्यादित्यर्थः । तथेति ।। भेदस्य तदवयवस्वरूपत्व इत्यापादकानु-षङ्गः । विदारक इति ।। भिद्यतेऽनेनेति भेद इति करणे निष्पन्नोऽयं न भवतीत्यर्थः । किन्तु विदारणमिति ।। तथाच घटो विदारणरूप एव स्यात् कुतो द्वैधीभावापत्तिः । तथात्वे विदारणात्मनो भेदस्यापि द्वेधता स्यादिति भावः । करणे घञन्तत्वमुपेत्याप्याह- विदारकत्वेऽपीति ।। प्रतियोगिन इति पञ्चमी । स्वत एवेति ।। स्वस्मादेव स्वात्मानमित्यर्थः ।

भेदस्य च स्वरूपत्वे ये वदन्ति च शून्यताम् ।

अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ।

प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात्कथञ्चन ।।’

इति वैशेषिकनयानुव्याख्यानोक्तेरिति भावः । नन्वन्यानिरूप्यघटादिस्वरूपभेदस्य प्रतियोगिनिरूप्यत्वं वा कथं येन प्रतियोगिनो धर्मिणो विदारको भेदो धर्मिस्वरूपं स्यादित्यत आह- प्रतियोगीति ।। उक्तं हि सुधायाम्- ‘भेदो वस्तुस्वरूपं चेत्प्रतियोगिनिरूप्य एव न स्यात्’ इत्यादि । उपपादितमिति ।। ‘ऐक्यवत् स्वरूपस्यैव तथात्वात्’ इत्यत्रेति भावः । अन्योन्याभाव एवेति ।। तस्य च धर्मिस्वरूपत्वमविरुद्धं सर्ववस्तूनां भावाभाव-स्वरूपत्वात् । उपपादितमेतद् दृश्यत्वाधिकरणसुधादाविति भावः । अनेकत्वेति ।। अनेकत्वेन सहैकार्थसमवायिन इत्यर्थः । अनेकत्वसमानाधिकरणस्येति यावत् । एवं हीति ।। अनेकत्वैकाश्रयस्य भेदस्य पटस्वरूपत्व इत्यर्थः। पुनस्तेनेति ।। एकत्वाभावेनेत्यर्थः । इत्युक्तमिति ।। अन्योन्याश्रयतया भेदस्यायुक्तिरित्यन्तवाक्यव्याख्याना-वसरे ‘भेदो न युगधर्मः’ इत्युक्त्याऽनेकत्वसमानाश्रयो न भवति किन्त्वेकत्वैकार्थसमवाय्येवेति प्राप्तेरस्मद्रीतिरत्र त्वदुक्तानेकत्वापादने नास्तीत्युक्तप्रायमिति भावः    निस्तार इति  ।।  पूर्वोत्तरविरोधस्येति योज्यम् । बाधकेति ।। ‘धर्मिप्रतीतावप्रतीतत्वात्’ इति मूलकृदाशङ्कितबाधकानां विदारणाद्यापत्त्या घटादेश्शून्यतापत्तिरूपटीकाकृदाशङ्कितबाधकस्य चाभावात् । ‘प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यते’ इत्युक्तप्रत्यक्षरूपसाधकस्य ‘यदि न स्वरूपं भेदः’ इत्यत्रोक्तपरिशेषरूपसाधकस्य च सद्भावाच्च । भेदस्य धर्मिस्वरूपत्वादित्यतश्शब्दार्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

यः तार्किकः । ननु यर्हि सर्वतो वैलक्षण्यं ज्ञायते तर्हि संशयमात्रोच्छेदप्रसङ्ग इति चेत्तत्राऽह- अत्रा-पीति ।। ‘प्रायः सर्वतो विलक्षणं हि’ इति वाक्य इवेत्यर्थः । नियामकाभावादिति ।। धर्म्यभेदपक्षे तु तत्स्वरूप-त्वमेव तद्दर्शन एव प्रतिभासे नियामकमस्तीत्याशयः । ततः किमिति ।। सर्वतो वैलक्षण्यज्ञानानङ्गीकारे किं तत्साध्यमनिष्टमित्यर्थः । सर्वतो वैलक्षण्यज्ञानाभावस्य मयाऽङ्गीक्रियमाणत्वादिष्टापादनमिति भावः । आत्म-विषये आत्मस्वरूपे धर्मिणि । समानधर्मेति ।। धर्मिकोट्यालिङ्गितद्रव्यत्वादिरूपसमानधर्मेत्यर्थः । समान-धर्मादेस्सद्भावादिति पाठे आदिपदेन विप्रतिपत्तिग्रहणम् । भूतचतुष्टयात्मकजडदेहातिरिक्तात्माभाववादिनां चार्वाकाणां सद्भावादिति भाव इत्याहुः । ननु न समानधर्मदर्शनमात्रस्य संशयहेतुत्वम् । तथात्वे सर्वत्र संशय-प्रसङ्गात् । किन्तु विशेषादर्शनसहकृतस्यैव । प्रकृते च संशयप्रतिबन्धकीभूतस्य सर्वव्यावृत्तिरूपविशेषदर्शनस्यैव सद्भावान्न संशय इत्यत आह- प्रतिबन्धकस्य चेति ।। व्यावृत्तिज्ञानाभावस्य त्वयैवोच्यमानत्वादिति भावः । ननु  ‘यदि न स्वरूपं भेदः’ इत्यादिना भेदस्य धर्मिस्वरूपत्वे किं प्रमाणमुपन्यस्तमित्यत आह- इदमुक्तं भवतीति ।। भेदपक्षस्य धर्मिस्वरूपाद्भिन्नत्वपक्षस्य । सर्वत्र आत्मादिविषये । परिशेषादिति ।। भेदो धर्मिस्वरूपं धर्मिणा सहानुपपन्नभेदवत्त्वाद् धर्मिस्वरूपवदिति परिशेषानुमानप्रयोगो द्रश्व्व्यः । ननु धर्मिप्रतीतौ भेदो न प्रतीयते न च सर्वत्र संशयापत्तिः । भेदस्तावदादौ धर्मिस्वरूपदर्शनानन्तरं पश्चात्प्रत्येष्यते । स च प्रत्येष्यमाणो भेद इदानी प्रसक्तमपि संशयादिकं निरोत्स्यति । ‘यद्धीर्यत्र प्रतिबन्धिका तत्सामग्य्रपि तत्र प्रतिबन्धिका’ इति न्यायेन भेददर्शनस्य संशयप्रतिबन्धकत्वेन तत्सामग्य्रा धर्मिप्रतीतिरूपाया अपि तत्र प्रतिबन्धकत्वात् । तथा च धर्मिप्रतीतावपि भेदाप्रतीतौ सर्वत्र संशयादिप्रसङ्गरूपोक्तसाधकाभावेन धर्मिणा सह भेदस्य भेदोपपत्तेर्धर्मिणा सहानुपपद्यमानभेदत्वरूपः परिशेषहेतुरसिद्ध इत्याशङ्क्य निराकरोति- न च वाच्यमिति ।। प्राग् धर्मिप्रतीति-समये । अखण्डे निर्भेदे । अनुवाद इति ।। पश्चाद् भेदप्रतीतिकाल इत्यर्थः । तथा च पूर्वं धर्मिप्रतीतिसमय एव भेदप्रतीतिरङ्गीकार्येति भावः । संशयादीति ।। ‘आत्मनि घटः’ इत्यादिनोक्तसंशयादिप्रसङ्ग इत्यर्थः । तथा च धर्मिप्रतीतावपि भेदाप्रतीतौ संशयादिप्रसङ्गरूपोक्तबाधकसद्भावेनैव धर्मिणा सह भेदस्य भेदानुपपत्तेर्धर्मिस्वरूपत्व-साधकस्य धर्मिणा सहानुपपद्यमानभेदवत्त्वरूपपरिशेषहेतोर्नासिद्धिरिति भावः ।

ननु धर्मिप्रतीतिकाले अजागलस्तनायिततया यथा कथञ्चिद्भेदोऽपि प्रतीयत एव अतो न संशयाद्यवकाश इत्याशङ्कते- अथेति ।। आपातजायामिति ।। प्रथमाक्षसन्निकर्षजायां किञ्चिदिदमित्येवंरूपायामित्यर्थः । (श्री.टि.) भेदज्ञानमात्रं न संशयविरोधि, किन्तु विशेषणविशेष्यभावापन्नतया तदीयत्वेन तज्ज्ञानम् । न हि निर्विकल्पकज्ञिाने भेदस्य तदीयत्वं भासते । अतो दुर्वारः संशयादिप्रसङ्ग इत्याह- तस्येति ।। एतद्विषयेति ।। एतद्धर्मिकेत्यर्थः । अन्यथेति ।। तदीयतयाऽनवगतस्यापि तद्धर्मिकसंशयादिप्रतिबन्धकत्व इत्यर्थः । सर्व-त्रेति ।। स्थाणुर्वा पुरुषो वेत्यादिसम्प्रतिपन्नस्थलेऽपीत्यर्थः । तत्राप्यापातजायां संविदि भेदावभासस्य सत्त्वादिति भावः । असन्देहादित्युक्तां युक्तिमाशङ्कते- ननु यदीति ।। तथा सतीति ।। धर्मिप्रतीतावेव प्रतीयते चेदि-त्यर्थः । एक एव कुत इत्यत आह- अनेकत्व इति ।। भेदो नामान्योन्याभावः । अन्योन्याभावभेदे चाधिकरणभेदः प्रयोजकस्तस्यात्राभावादिति भावः । न च प्रतियोगिभेदेनाभावभेदादन्योन्याभावप्रतियोगिनां चानेकत्वात्तस्याप्य-नेकत्वमिति वाच्यम् । तथात्व एकघटप्रतियोगिकानां प्रागभावादिचतुर्णामभावानां भेदो न स्यात् । न च, घटनिष्ठो भेदोऽनेकः अनेकनिरूप्यत्वाद् भूतलनिष्ठघटपटाद्यभाववत् इत्यनुमानमत्र मानमिति वाच्यम् । अनेक-विषयनिरूप्ये समूहालम्बनज्ञानेऽनेकतन्तुपटादिसम्बन्धिनिरूप्ये समवायादौ च व्यभिचारात् । अभावत्वे सत्यनेक-निरूप्यत्वादिति हेतुविशेषणे चैकघटनिरूप्ये प्रागभावध्वंसादावनेकत्वरूपसाध्यस्य सत्त्वेऽपि अनेकनिरूप्यत्वा-भावात् तस्मिन् सत्यसम्भव इति न्यायेनाप्रयोजकत्वादित्याशयः । प्रतीयत एवेति ।। अनेकत्व एव हि न प्रतीयेतेति भावः । तर्हि संशयाद्यनुपपत्तिरित्याशङ्कते- किन्त्विति ।। उत्तरमाह- तस्येति ।। अन्यथोपपत्ते-रिति ।। सादृश्यादिवशात् पदार्थविशेषप्रतियोगिकत्वाप्रतिभासनिमित्तेनैवोपपत्तेरित्यर्थः । ययेति ।। धर्मिप्रतीतौ भेदाप्रतीत्येत्यर्थः । आत्मनि आत्मरूपे धर्मिणि । घटत्वादिज्ञानमित्युत्तरवाक्यानुकूल्याय न वेत्यस्यार्थमाह- घटो वेत्यर्थ इति ।। एष्टव्यमेवेति ।। धर्मिणामिति शेषः । तेन विनेति ।। धर्मिणां सर्वतो व्यावृत्तिज्ञानं विनेत्यर्थः । ननु धर्माणामसाधारण्यज्ञानार्थं धर्मिणां व्यावृत्तिज्ञानं कुत एश्व्व्यमित्यत आह- न हीति ।। अविविक्तत्वे अव्यावृत्तत्वे । असाधारण्यमिति ।। तदितरावृत्तित्वे सति तद्वृत्तित्वरूपासाधारणधर्मत्वमि-त्यर्थः । तथा चान्यत्र तदितरत्वं ज्ञातव्यम् । तत्प्रतियोगिकभेदस्यात्राज्ञाने तदितरत्वस्यैव अन्यत्र ज्ञातुमशक्य-त्वादिति भावः । सर्वज्ञानस्य साक्षिरूपस्य ।

ननु सामान्यतः सर्ववैलक्षण्यज्ञानसद्भाव एव किं प्रमाणं येन सामान्यतः सर्वज्ञानस्य प्राणभृन्मात्रवृत्ति-त्वमङ्गीकर्तव्यमित्यत आह- न सर्वात्मकमिति ।। स्वयमेवेति ।। सर्वासङ्कीर्णमित्यर्थः । सर्वव्यावृत्तमेवेति यावत् । भेदस्य धर्मिस्वरूपत्वे सर्वाद्वैतप्रसङ्ग इत्युक्तयुक्तिं स्वयमाशङ्क्य निराकरोति- नन्वित्यादिना ।। केवलस्येति ।। भेद इत्येवाप्रतीतेरिति भावः । सर्वाद्वैतप्रसङ्ग इति ।। सर्वप्रतियोगिकभेदस्य धर्मिस्वरूपत्वे ‘विशिष्टस्य यद्भवति तद्विशेषणस्यापि भवति’ इति न्यायेन प्रतियोगितया विशेषणीभूतस्य सर्वस्यापि धर्मिस्वरूप-त्वापत्त्या सर्वाद्वैतप्रसङ्ग इत्यर्थः । प्रतियोगिन इति ।। न हि प्रतियोगिनो भेदे विशेषणत्वं येन विशिष्टस्य धर्मिस्वरूपत्वे विशेषणस्यापि तत्स्यात्, किन्तूपलक्षणत्वेन निरूपकत्वरूपं बहिरङ्गत्वमेव । अतो विशेषणत्वा-भावान्नोक्तन्यायेन विशेषणीभूतस्य सर्वस्य धर्मिस्वरूपत्वमित्यर्थः । ननु प्रतियोगिनो निरूपकतयोपलक्षण-(श्री.टि.) त्वपक्षेऽपि ‘यन्निरूप्यस्य यद् भवति तत्तन्निरूपकस्यापि भवति’ इति न्यायेन प्रतियोगितया सर्व-निरूप्यस्य भेदस्य धर्मिस्वरूपत्वे निरूपकस्यापि सर्वस्य धर्मिस्वरूपत्वमापाद्यत इति पुनस्सर्वाद्वैतप्रसङ्ग इत्यत आह- कुत्र चेदमिति ।। स्वदृष्टिपक्षपातमिति ।। सर्वाद्वैतापादनाय लम्बकर्णन्यायस्यैव अनुसरणरूपमित्यर्थः। लौकिकी दृष्टिं लौकिकं दृष्टान्तमिति यावत् । रीतिः प्रकारः । लम्बकर्णमानयेति न्यायेन प्रतियोगिघटितस्य धर्मिस्वरूपत्वमुत चित्रगुन्यायेन केवलस्यैवेति प्रकारद्वयमध्ये कं प्रकारमित्यर्थः । प्रतीत्यनुसरणमिति ।। लौकिकदृष्टान्तानुसरणमिति यावत् । ननु प्रतीत्यनुसरणमकृत्वा चित्रगुन्यायस्त्यज्यत इति चेत्तत्राऽह- प्रतीत्यति-क्रमे त्विति ।। ‘येन निरूपितस्य यद्भवति तत्तन्निरूपकस्यापि भवति’ इति व्याप्तिबलात्प्रकृते सर्वाद्वैतापादनं कर्तव्यम् । तत्रेयं व्याप्तिः कुत्रोपलब्धेति पृश्व्े लम्बकर्णमानयेत्यादाविति लौकिकदृष्टान्तानुसरणं कर्तव्यमेव । तदतिक्रमे त्वापादने व्याप्तेर्ग्रहीतुमशक्यत्वेन तदसिद्ध्या तर्कस्य प्रशिथिलमूलत्वापत्तेस्सर्वाद्वैतापादन-मप्यशक्यमित्यर्थः । विदारणात्मन इति ।। ‘भिदिर् विदारणे’ इति धातोः करणसाधनत्वमङ्गीकृत्य ‘भिद्यते- विदीर्यते विभज्यतेऽनेन’ इति व्युत्पत्त्या विदारकत्वरूपस्य विभागजनकत्वरूपस्येत्यर्थः । तस्यापि घटस्यापि विदारणं विभागः । तदवयवानामपीति ।। विभागजनकत्वरूपो भेदः स्वभाव इति तेष्वपि विदारणापत्त्या क्रमेण सर्वशून्यतापत्तिरित्यर्थः । भेदनं- विदारणं विभाग इति यावदिति भावसाधन एवायं भेदशब्दोऽङ्गीक्रियते न करणसाधन इत्याशयेनाऽह- किन्तु विदारणमिति ।। यथोक्तमनुव्याख्याने - ‘विदारणार्थो धातुश्च विभागगुणवाचकः’ इति । तथा च विभागरूपभेदस्य घटस्वरूपत्वे घटो विभागरूपं विदारणमेव स्यात् । न तु घटस्य विदारणम् । एवं च तस्यापि विदारणं स्यादित्याद्युक्तमयुक्तं स्ववृत्तिविरोधादिति भावः ।

भेदशब्दस्य करणसाधनत्वमङ्गीकृत्याप्याह- विदारकत्वेऽपीति ।। विभागजनकस्वभावत्वेऽपीत्यर्थः । प्रतियोगिनो धर्मिणं विदारयेदिति ।। भेदो हि यस्य यतस्तं ततो विदारयेन्न यं कमपि यतः कुतश्चित् । तथा च प्रतियोगिनः सकाशादेव च धर्मिणो भेदोऽङ्गीकृतो न तु स्वस्मादेवेति तमेव धर्मिणं ततः प्रतियोगिनः सकाशादेव विदारयेन्न तु स्वस्मादेवेत्यर्थः । यथोक्तमनुव्याख्याने-

यतोऽन्यस्य प्रतियोगित्वमिष्यते ।

प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात् कथञ्चन ।।’ इति ।

अत्र विशेषबलाद्विभागजनकत्वस्वभावत्वरूपभेदस्य धर्मत्वमङ्गीकृत्य धर्मिणं विदारयेदित्युक्तम् । वस्तुतस्तु विभागजनकत्वस्वरूपस्य भेदस्य धर्मिस्वरूपत्वे धर्मिण एव स्वसम्बन्ध्यन्यपदार्थविदारकत्वं प्राप्तम् । न तु स्वविदारकत्वमिति द्रष्टव्यम् । ननु तथापि विदारकं लवित्रादि स्वसम्बद्धं केशादिकं स्वसम्बद्धात्प्रदेशाद्विदारयतीति दृष्टम् । विदारकस्वभावस्य भेदस्य धर्मिस्वरूपत्वे धर्मिणैव तादात्म्यरूपस्सम्बन्धः प्राप्तो न प्रतियोगिना । तथा च प्रतियोगिना सम्बन्धाभावात्कथं ततो धर्मिणं विदारयेदित्यत आह- प्रतियोगिनिरूप्यत्वं चेति ।। तथा च तन्निरूप्यत्वमेव प्रतियोगिना साकं भेदस्य सम्बन्ध इति भावः । स्वरूपस्यापीति ।। धर्मिस्वरूपस्यापीत्यर्थः। (श्री.टि.) उपपादितमिति ।। न च धर्मिप्रतियोग्यपेक्षया भेदस्यास्वरूपत्वम्, ऐक्यवत्स्वरूपस्यैव तथात्वादि-त्यनेनैक्यप्रतिबन्द्या सिद्धान्ते सविशेषाभेदाङ्गीकारेण चोपपादितमित्यर्थः । अङ्गीकृत्य चेति ।। विदारणशब्दो भावसाधनः करणसाधनश्चेति पक्षद्वये यत्समाधानमुक्तं तत् ‘भिदिर् विदारणे’ इति भिदधातोर्विदारणार्थत्व-मङ्गीकृत्यैवोक्तमित्यर्थः । तर्हि वस्तुतत्त्वं किमित्यत आह- वस्तुतस्त्विति ।। विदारणात्मेति ।। अत्रास्माकं विवक्षित इति शेषः । अन्योन्याभाव एवेति ।। इदमुक्तं भवति ।

क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः ।

प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः ।।’

इति वचनाद् भिदिर्विभागवचनोऽन्यत्ववचनश्च । भिन्नो घट इत्युक्ते स्फुटित इति गम्यते । भिन्नं गगनं घटादित्युक्ते अन्यदिति विज्ञायते । तत्र विभागो विदारणात्मा नान्यत्वम् । अन्यत्वमेवात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वेऽस्माभिः कथिते विदारणप्रसङ्गेन शून्यतापादनमसङ्गतमेव, छलत्वादिति ।

ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न । ‘विदारणार्थो धातुश्च विभागगुणवाचकः’ इत्यनुव्याख्याने गुणग्रहणेनैव परिहृतत्वात् । विभागो हि गुणतया वैशेषिकादिभिरुपपादितोऽन्यता चान्योन्याभाव इति भावाभावरूपतया स्फुटस्तयोर्भेदः । यस्तु मायावादी गुणादिप्रक्रियां नानुमन्यते स तु ‘अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च’ इत्यनुव्याख्यानोक्तरीत्या बोधनीयः । तथा हि यदा मायावादी तत्त्व-वादिभिरस्माभिः पराजितः सन्निरुत्तरतया तूष्णीमास्ते तदा संयुक्तयोस्तदीययोरोष्ठयोर्विदारणलक्षणविभागा-भावेऽप्योष्ठौ भिन्नौ भवत एव । तथैव प्रतीतिरप्यस्त्येव । तथा च तत्र भिन्नावित्यस्य अन्योन्याभावलक्षण-भेदवन्तावित्येवार्थो वक्तव्यः । एवं च यदभावे यदस्ति तत्ततोऽन्यदिति प्रसिद्धमेव । अतो विभागादन्योन्याभाव-रूपो भेदोऽर्थान्तरमेवेति सुधोक्तरीत्यैवोपपादनं द्रष्टव्यम् । सर्वशून्यतापत्तिरित्युक्तं सर्वशून्यतापादनं च

विभागेनाल्पतैव स्यात्कुत एव च शून्यता ।

न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।।’

इत्यनुव्याख्यानोक्तरीत्या परिहर्तव्यम् । एकाभावादित्युक्तां युक्तिमाशङ्क्य निराकरोति- तथापीत्यादिना ।। अनेकत्वं स्यादिति ।। अनेकत्वाधारत्वं स्यान्न त्वेकत्वाधारतेत्यर्थः । तदवयवानामपीति ।। अनेकत्वैकार्थ-समवायिनो भेदस्य तत्स्वरूपत्वात्तेषामप्यनेकत्वाधारत्वं स्यादित्यर्थः । न भवेदिति ।। तस्य तत्समाहाररूपत्वात् तत्कार्यत्वाद्वेति भावः । सङ्ख्यारहितस्येति ।। एकत्वानेकत्वसङ्ख्यारहितस्येत्यर्थः । शून्यत्वेति ।। सङ्ख्यायाः सामान्यगुणत्वादिति भावः । एवं हीति ।। अनेकत्वैकार्थसमवायिनो भेदस्य पटस्वरूपत्व इत्यर्थः । अनेकत्वं स्यादिति ।। अनेकस्य भावोऽनेकत्वं ‘तस्य भावस्त्वतलौ’ इति भावे त्वप्रत्ययविधानात् । तथा चानेकनिष्ठो धर्मस्स्यादित्यर्थः । न त्वनेक इति ।। अनेकत्वाधिकरणभूतो धर्मीत्यर्थः । भेदपटयोरभिन्नत्वेन यथा भेदो अनेकनिष्ठो धर्मस्तथा तदभिन्नः पटोऽप्यनेकतन्त्वादिनिष्ठधर्म एव स्यान्न त्वनेकत्वाधिकरणभूतो धर्मी । तथा (श्री.टि.) च पटस्याप्यनेकत्वं स्यादित्युक्तमनेकत्वाधारत्वापादनमसदिति भावः । अङ्गीकृत्याप्याह- अनेक-त्वेऽपीति ।। पटस्यानेकत्वाधारत्वेऽपीत्यर्थः । एकत्वम् एकत्वाधिकरणत्वम् । नन्वेकस्य नानेकत्वं विरोधादिति चेत्तत्राऽह- स्वस्मिन्निति ।। तेन एकत्वाभावेन । नन्वेकत्वानेकत्वयोर्विरोधस्य भवद्भिरङ्गीकृतत्वेन पररीत्यैव परं प्रत्यापादनान्न मम पूर्वोत्तरविरोध इत्यत आह- न ह्यत्रेति ।। ‘स्वस्मिन्नेकोऽन्येन सहितोऽनेक इति विरोधा-भावात्’ इत्यनेनैकत्वानेकत्वयोरस्मन्मते विरोध एव नास्तीत्युक्तमित्यर्थः । यदुक्तं सङ्ख्यारहितस्य द्रव्यस्य शून्यता-पत्तिरिति तन्न । वैशेषिकाणां गुणादिपञ्चकवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वसम्भवेन सङ्ख्या-राहित्यस्य शून्यतानापादकत्वादित्यवधेयम् । बाधकाभावादिति ।। सापेक्षत्वादिति कारिकोक्तबाधकपञ्चका-भावादित्यर्थः । साधकेति ।। ‘यदि न स्वरूपं भेदः’ इत्यादिनोक्तपरिशेषानुमानरूपसाधकसद्भावाच्चेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

नियामकेति ।। प्रतीतिनियामकस्य तदभेदस्याभावादित्यर्थः । ‘संशयः स्यात्’ इत्युक्तं तत्कुत इत्यतस्तदभावः किं कारणाभावप्रयुक्त उत प्रतिबन्धकसद्भावप्रयुक्त इति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- समानधर्मादेरिति ।। वस्तुत्वादिसाधारणधर्मादेरित्यर्थः । द्वितीयं दूषयति- प्रतिबन्धकस्येति ।। किमनेन धर्मिस्वरूपत्वे प्रमाणमुक्तं भवतीत्यत आह- इदमुक्तं भवतीति ।। करिष्यमाणानुमान आश्रयासिद्धिं परिहरति- अस्ति तावदिति ।। स्वरूपे प्रमाणस्योक्तत्वादिति भावः । परिशेषादिति ।। भेदो धर्मिस्वरूपं धर्मिणा सहानुपपन्नभेदत्वाद् धर्मिवदिति परिशेषादित्यर्थः । स चेति ।। प्रत्येष्यमाणो भेद इत्यर्थः । ततश्च ‘यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्य्रपि तत्प्रतिबन्धिका’ इति  न्यायेन  भेदज्ञानवत्तत्सामग्य्रा अपि संशयप्रतिबन्धकत्वेन भेदज्ञानाभावेऽपि भेदज्ञानसामग्रीसद्भावेन तत एव संशयाभावोपपत्त्या भेदपक्षेऽप्यनुपपत्त्यभावात् परिशेषानुमाने हेत्वसिद्धिरिति भावः । धर्मिप्रतीत्यनन्तरं भेदप्रतीतेरेवासम्भवेन धर्मिज्ञानदशायां भेदप्रतीतिसामग्रीविरहेण तया संशयप्रतिबन्धानुपपत्त्या तदनुपपत्तेर्दुर्वारत्वेन न हेत्वसिद्धिरिति भावेन परिहरति- पश्चाद्धीति ।। अखण्डे निर्भेद इत्यर्थः । अन्यथा स्वस्मिन्नपि स्वतो भेदग्रहप्रसङ्गादित्यर्थः । भेदस्य धर्मिस्वरूपत्वाभावेन तत्प्रतीतेरेव भेदप्रतीतित्वाभावेऽपि तत्प्रतीतिकालीनभेदविषयकनिर्विकल्पकाङ्गीकारात् तादृशभेदज्ञानस्यैव संशयादिप्रति-बन्धकत्वात् तत एव तदनुत्पत्तेर्न भेदपक्षस्यानुपपत्तिरिति उक्तहेतोरसिद्धिरेवेति शङ्कते- अथेति ।। भेदविषयक-निर्विकल्पकज्ञानस्यापि संशयादिप्रतिबन्धकत्वे तस्य संशयादिस्थलेऽपि विद्यमानत्वेन तत्रापि संशयाभावापत्त्या निर्विकल्पकस्य तस्य तत्प्रतिबन्धकत्वासम्भवेन सविकल्पकरूपस्यैव तस्य तत्प्रतिबन्धकत्वस्थित्या तस्य चोक्त-रीत्या धर्मिस्वरूपत्वाभावेऽसम्भवेन संशयादिप्रसङ्गस्य दुर्वारत्वान्नासिद्धिरित्याशयेन परिहरति- न तस्येत्या-दिना ।। ‘प्रायः सर्वतो विलक्षणं हि’ इत्यादिनोक्तस्य प्रतिपादनात् ‘ज्ञात्वैव’ इत्युत्तरग्रन्थस्य वैयर्थ्यमाशङ्क्य ‘तत्रापि विशेषं वक्ष्यामः’ इत्युक्तविशेषोपदर्शकत्वान्न तदिति भावेन पुनस्तदेव शङ्कते- नन्विति ।। प्रमाणा-भावादिति ।। न च निरूपकानेकत्वमेव तत्र प्रमाणमिति वाच्यम् । अनेकविषयनिरूप्यस्येश्वरज्ञानस्य, अनेकद्वैतनिरूप्यस्याद्वैतस्य चैक्यदर्शनेन तत्र व्यभिचरिततया तस्य तत्रामानत्वात् । घटादिव्यावृत्तिज्ञानस्येव (पां.टि.) घटत्वाद्यसाधारणधर्मज्ञानस्यापि संशयादिप्रतिबन्धकत्वाङ्गीकारात् तन्मात्रेणापि संशयाद्यभावोपपत्तेर्न तदर्थतया व्यावृत्तिज्ञानस्याऽवश्यकत्वमित्यभिप्रेत्य शङ्कते- नन्विति ।।

ननु सामान्यतः सर्ववैलक्षण्यज्ञाने सिद्धे सामान्यतः सर्वज्ञानस्य प्राणभृन्मात्रवृत्तित्वं कल्पनीयम् । सामान्यतः सर्ववैलक्षण्यज्ञान एव किं प्रमाणमित्यत आह- न सर्वात्मकमिति ।। प्रतियोगिघटितस्येति ।। प्रतियोगि-विशिष्टस्येत्यर्थः । सर्वस्वरूपत्वापत्त्येति ।। घटत्वविशिश्व्स्य घटस्य ज्ञातत्वे घटत्वस्यापि ज्ञातताया दृष्टत्वेन, यद्विशिष्टस्य यस्य यद्भवति तद्विशेषणस्यापि भवतीति व्याप्तेरिति भावः । इष्टापत्तिं परिहरति- सर्वाद्वैतेति ।। भवेदेतदेवम्, यदि प्रतियोगिनो भेदं प्रति विशेषणत्वं स्यात्  । न चैतदस्ति । किन्तूपलक्षणत्वेन निरूपकत्व-मेव । ततश्च बहिरङ्गत्वान्न स्वरूपत्वमिति न सर्वाद्वैतप्रसङ्ग इत्याशयेन परिहरति- मैवमिति ।। ननु प्रतियोगिनो विशेषणत्वाभावेऽपि निरूपकत्वात् प्रतियोगिनिरूपितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि तत् स्यात् । यन्निरूपितस्य यस्य यद्भवति तन्निरूपकस्य तद्भवतीति व्याप्तेरित्यतो दृष्टान्ताभावेन व्याप्त्यसिद्धिमुपदर्शयति- कुत्र चेति ।। ‘लम्बकर्णमानयेत्यादौ’ इत्यादिपदेन ‘नीलमानीयताम्’ इत्यादेः परिग्रहः । ‘चित्रगुमानयेत्यादौ’ इत्यादिपदेन ‘काशीवासी समागतः’ इत्यादेः परिग्रहः । तदभाव इति ।। निरूपितस्य क्रियान्वयेऽपि निरूपकस्य क्रियान्वयाभाव इत्यर्थः । ननु चित्रगुरित्यादौ पारमार्थिकी दृश्व्मिवलम्बमानस्य परिकरवतोऽपि क्रियान्वया-सिद्धेर्व्याप्यागमनान्न तत्र व्यभिचार इत्यतः, तर्हि लम्बकर्णमानयेत्यादावपि पारमार्थिकी दृष्टिमवलम्बमानस्य परिकरवतः क्रियान्वयासिद्धेर्न तस्य व्याप्तिग्रहणस्थलत्वमिति नोक्तव्याप्तिसिद्धिः । न हि व्याप्तिग्रहणस्थले लौकिकी दृष्टिरेवानुसरणीया, व्यभिचारोदाहरणस्थले तु पारमार्थिकी दृष्टिरेवानुसरणीया इत्यत्र पक्षपातं विनाऽन्य-न्नियामकमस्तीत्याशयेनाऽह- स्वदृष्टिपक्षपातमपहायेति ।। अशक्यमिति ।। व्याप्त्यसिद्ध्या मूलशैथिल्यात् प्रतियोगिनो धर्मिस्वरूपत्वापादनमशक्यमित्यर्थः ।

।। विदारणात्मनो भेदस्येति ।। ‘भिदिर् विदारणे’ इति विदारणार्थकभिदिधातुनिष्पन्नभेदशब्दार्थत्वाद्भेदस्य विदारणात्मकत्वमित्यर्थः । अत्र भेदस्य विदारणत्वं नाम भिद्यतेऽनेनेति भेद इति करणसाधनतया विदारक-त्वमेवाभिप्रेतम् । अन्यथा उत्तरदूषणासङ्गतेरित्यवधेयम् । तस्येति ।। विदारकस्य लवित्रादेः स्वसम्बन्धि-वस्तुविदारकत्वदर्शनाद् विदारकस्य भेदस्य स्वसम्बन्धिधर्मिविदारकत्वमवश्यं वाच्यम् । अन्यथा विदारकत्व-रूपस्वभावहानिप्रसङ्गादिति भावः । यद्यपि स्वरूपाभेदवादे भेदस्य धर्मिसम्बन्धाभावान्न तद्विदारकत्व-प्रसञ्जनस्यावकाशः । तथापि भेदस्य धर्मत्वं चास्तीति भ्रान्त्या शङ्केयमिति ध्येयम् । अत एव परिहारे तथैव विभावयिष्यतीति ध्येयम् । इश्वपत्तिं परिहरति- तथेति ।। विदारकस्य भेदस्य तदवयवस्वभावत्वेन तद्विदारक-त्वावश्यम्भावादिति भावः । भिद्यतेऽनेनेति भेद इति करणसाधनत्वपक्षे तस्य धर्मिविदारकत्वप्राप्तावपि, अस्माभिर्भेदनं भेद इति भावसाधनत्वाङ्गीकारान्न भेदस्य विदारकत्वप्राप्तिः, किन्तु विदारणप्राप्तिरेव । तथा च पटोऽपि विदारणं स्यान्न तु पटस्य । न हि विदारणस्य विदारणं, स्ववृत्तिविरोधादित्याशयेन समाधत्ते- मैवमित्या-(पां.टि.) दिना ।। पूर्ववाद्यभिप्रेतं करणसाधनत्वं भेदशब्दस्यानङ्गीकृत्य भावसाधनत्वं चाङ्गीकृत्य भेदस्य धर्मिस्वरूपत्वे पूर्ववाद्युक्तो धर्मिविदारकत्वप्रसङ्गः परिहृतः । पूर्ववाद्युक्तं तस्य करणसाधनत्वमङ्गीकृत्याप्युक्त-प्रसङ्गं परिहरति- विदारकत्वेऽपीति ।। इदमुक्तं भवति- विदारको हि भेदो यस्य यतस्तं ततो विदारयेत् । न तु यं कमपि यतः कुतश्चित् । न च पटस्वरूपस्य भेदस्य पट एव प्रतियोगी । येन तस्य तत एव विदारकत्वं स्यात् । किन्तु पटादन्य एव । ततो विदारकत्वं तु नानिश्व्म् । तस्य शून्यतानापादकत्वादिति ।

ननु निष्प्रतियोगिकधर्मिस्वरूपभूतभेदस्य सप्रतियोगिकत्वासम्भवेन न प्रतियोगिनोऽपि सकाशाद्धर्मिणो विदारकत्वं तस्येत्यतः, भेदस्य धर्मिणा सह सविशेषाभिन्नत्वेन निर्विशेषाभिन्नत्वाभावाद् भेदकार्यकारिविशेषबलेन प्रतियोग्यनिरूप्यधर्मिस्वरूपस्यापि भेदस्य सप्रतियोगित्वोपपत्तेर्युक्तं धर्मिणः प्रतियोगिनः सकाशाद्विदारकत्वं तस्येत्याशयेनाऽह- प्रतियोगिनिरूप्यत्वं चेति ।। अङ्गीकृत्य चेदमुदितमिति ।। भेदशब्दस्य विभागरूप-विदारणवाचित्वमङ्गीकृत्यैव ‘न भेदो विदारकः किन्तु विदारणम्’ इत्युक्तमित्यर्थः । न विदारणात्मेति ।। विभागरूपविदारणात्मा नेत्यर्थः, मानाभावादिति भावः । ननु भेदशब्दादेव भेदस्य विभागात्मकविदारणा-त्मकत्वमवगम्यते । स हि भिदिधातो रूपम् । स च विदारणार्थतया व्याख्यात इति भावेन शङ्कते-किन्त्विति।। परिहरति- अन्योन्याभाव एवेति ।। प्रकृत इति शेषः । अयमर्थः-

क्रियावाचित्वमाख्यातुमेकैकार्थः प्रदर्शितः ।

प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः ।।’

इति वचनाद्भिदिर्विभागवचनोऽन्यत्ववचनश्च । ‘भिन्नो घटः’ इत्युक्त्या विभागरूपस्फुटितत्वस्येव ‘भिन्नं गगनं घटात्’ इत्युक्त्याऽन्यत्वस्याप्यवगमात् । अन्यथा संयुक्तयोरोष्ठयोर्भिन्नाविति व्यवहाराभावप्रसङ्गात् । विभागान्य-त्वयोर्मध्ये विभागो विदारणात्मा, नान्यत्वम् । तदेव चात्र प्रकृतमिति न शून्यत्वप्रसङ्ग इति । तथापीति ।। इयं च शङ्का भेदस्य वस्तुधर्मत्वं, तत एव तन्निष्ठत्वं चेति भ्रान्त्येति द्रष्टव्यम् । इष्टापत्तिं परिहरति- तथेति ।। अनेकत्वैकार्थसमवायिनो भेदस्य तत्रापि सत्त्वादिति भावः । तत्रापीष्टापत्तिं परिहरति- इति तद्विरुद्धमिति ।। तत्रापि तां परिहरति- एकत्वाभावे चेति ।। न भवेदिति ।। अनेकत्वस्य तत्समाहाररूपत्वतदसमवायिकारणत्व-योरन्यतरत्वस्यावश्यम्भावादिति भावः । अस्तु तस्यैकत्वानेकत्वशून्यत्वम् । ततोऽपि किमित्यत आह- तथा चेति ।। सङ्ख्यायाः सामान्यगुणत्वादिति भावः । एवं हीति ।। भेदस्यानेकत्वैकार्थसमवायित्वेऽप्यनेकत्वैकार्थ-समवायिभेदात्मकः पटो यत्रास्ति तस्यैवानेकत्वं स्यात्, तत्प्रसञ्जकपटात्मकभेदस्य तत्रैव सत्त्वात् । न त्वनेकः। न तु पटोऽनेकः । न तु पटस्यानेकत्वमापादनीयम् । तत्प्रसञ्जकस्य भेदात्मकपटस्य पटेऽसत्त्वादित्यर्थः । अङ्गीकृत्यापि पटस्यानेकत्वापादनं दूषयति- अनेकत्वेऽपीति ।। नन्वेकत्वानेकत्वयोर्विरुद्धत्वात् कथमनेकत्ववतः पटस्यैकत्वं स्यादित्यतः, नैकत्वानेकत्वे स्वरूपेण विरुद्धे । एकस्य पटस्यान्यापेक्षयाऽनेकत्वदर्शनात् । किन्तु यदपेक्षयाऽनेकत्वं तदपेक्षयैकत्वं विरुद्धम् । तत्र पटस्य परस्मात् प्रतियोगिन एव भेदेन तदपेक्षयैवानेकत्वात् (पां.टि.) तदपेक्षयैवैकत्वस्य विरुद्धत्वेऽपि स्वतो भेदाभावेन तदपेक्षयानेकत्वाभावान्न स्वापेक्षयैकत्वस्य विरुद्ध-त्वमित्याशयेनाऽह- स्वस्मिन्निति ।। कुतो न पूर्वोत्तरविरोध इति ।। अश्वत्वसद्भावेन गोत्वाभावं प्रसाध्य पुनर्गोत्वाभावेनाश्वत्वाभावसाधने विरोधदर्शनादिति भावः । नन्वनेकत्वबलेनैकत्वाभावस्य एकत्वाभाव-बलेनानेकत्वाभावस्य च पररीत्यैव परं प्रत्यापादनान्न पूर्वोत्तरविरोधो ममेत्यत आह- न हीति ।। उक्तमिति ।। ‘स्वस्मिन्नेकोऽप्यन्येन सहितोऽनेकः’ इत्यनेन ग्रन्थेनैकत्वानेकत्वयोरविरुद्धत्वस्योपपादनादित्यर्थः । बाध-केति ।। सापेक्षत्वशून्यत्वाद्यापत्त्यादिरूपबाधकेत्यर्थः । साधकेति ।। धर्मिप्रतीतावपि गृह्यमाणत्व(रहितत्व)-रूपसाधकेत्यर्थः ।

लघुप्रभा

(व्या.टि.)

द्वितीये आह- अथेति ।। संशयादिस्थले इष्टापत्तिमाशङ्क्य निराह-अत्रापीति ।। स्वरूपत्वे प्रत्यक्ष-घटनां तावदाह- भेदस्येति ।। यदीति ।। ननु दण्डिज्ञाने तदत्यन्तभिन्नोऽपि दण्डः प्रतीयत इति प्रशिथिलमूलस्तर्क इत्यत आह- नियामकेति ।। घटादिव्यावृत्तविशिष्टान्तर्गत्यादिनियामकविशेषाभावादित्यर्थः । अस्वरूपत्व-वादिनोऽप्रतीतेरिश्व्त्वेन स्वतोऽबाधकत्वात्ततो बाधकं शङ्कते- ततः किमिति ।। आत्मदर्शनेनेति मूले शेषोक्तिः। अज्ञातायामिति ।। अविषयीकृतायामित्यर्थः । विशिश्व्वाचकानां पदानां विशेषणवाचकपदसमभिव्याहारे विशेष्यमात्रपरत्वनियमात्, ‘स तपोऽतप्यत’ इत्यादिवत् । आत्मनीति वैषयिकाधिकरणे सप्तमीत्याह- आत्म-विषय इति ।। एककोटिकसंशयाभावादाह- अहं वेति ।। घटो वेत्यनेन मूले वाशब्दाध्याहारं सूचयति- विपर्ययो वेति ।। अनेन ‘संशयादिः स्यात्’ इत्यादिशब्दो भिन्नक्रम इत्यसूचयत् । सम्भृतसामग्रीकस्य प्रतिबन्धकाभावेऽ-वश्यम्भावादित्यनुक्रमेणाऽह- समानेत्यादिना ।। इष्टापत्तिमाशङ्कते- अस्त्विति ।। आपाद्यानिश्व्त्वं स्पष्टमाचष्टे- अप्रामाणिकेति ।। ननु सर्वत्र संशयादिप्रसङ्गेन परपक्षप्रतिक्षेपेऽपि स्वपक्षे किमायातम् ? न हि परपक्षप्रतिक्षेप एव स्वपक्षसिद्धिः । पक्षान्तरस्यापि सम्भवादित्यत आह- इदमुक्तं भवतीति ।। द्वय्येवेति ।। द्वाववयवाविति विगृह्य ‘सङ्ख्याया अवयवे तयप्’ इति प्राप्तस्य तयपो ‘द्वित्रिभ्यां तयस्यायज्वा’ इत्यादिष्टस्यायचोऽपि स्थानिवत्त्वेन तयप्त्वात् ‘टिड्ढाणञ्’ इत्यादिना ङीपि द्वयीति रूपं न्यरूपि । एवेति तृतीयव्युदासः । स्वरूपत्वमेवेति ।। परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वेन पक्षान्तरस्याप्रसक्तेः स्वपक्षसिद्धिरिति भावः ।

ननु तथापि न भेदस्य धर्मिस्वरूपत्वं तत्र प्रमाणाभावात् । न च तद्दर्शन एव प्रतिभासो लिङ्गम्, असिद्धेः । न च तद्दर्शन एव भेदाप्रतिभासे प्रतिबन्धकाभावेन समानधर्मदर्शनादिना सर्वत्र संशयाद्यापातेन तन्निवृत्तये वस्तुप्रतीतावेव भेदप्रतीतिरेष्टव्येति वाच्यम् । तन्निवृत्तेरन्यथासिद्धेरित्याशयेनाऽशङ्क्य निषेधति- न च वाच्य-मिति ।। पश्चादिति ।। वस्तुप्रतीत्यनन्तरं सादृश्यवदभाववच्च प्रतियोगिस्मरणे सतीत्यर्थः । प्रत्येष्यत इति ।। इणः कर्मणि लृट् । प्रसक्तमपीति ।। अयं भावः । द्विविधो बाधो मीमांसितः, प्राप्तबाधोऽप्राप्तबाधश्चेति । तत्र तार्तीयोऽप्राप्तबाधो दाशमिकः प्राप्तबाध इति । तत्र भेदप्रतीतेः संशयादिकं प्रति श्रुतिलिङ्गाधिकरणन्यायेन कार्यानुत्पादव्याप्यत्वरूपप्रतिबन्धकत्वापरपर्यायाप्रसञ्जकत्वरूपाप्राप्तबाधकत्वाभावेऽपि शरकुश(कर)न्यायेन (व्या.टि.) प्राप्तप्रतिषेधकत्वरूपप्राप्त-बाधकत्वं युज्यत इति न तन्निवृत्तये वस्तुप्रतीतेर्भेदप्रतीत्यभेदः प्रत्येतव्य इति । निरोत्स्यतीति ।। निपूर्वाद्रुधेः लृटि स्ये लघूपधलक्षणगुणे च रूपं निरूप्यम् । यद्वा ‘यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्य्रपि तत्र प्रतिबन्धिका’ इति न्यायेन भेदप्रतीतिसामग्री प्रतिबन्धिकेत्यभिप्रायेणायं ग्रन्थः प्रवृत्तः । दूषयितुमुपक्रमते- पश्चाद्धीति ।। सविकल्पक इत्यर्थः । हीति प्रतीतिप्रसिद्धिं द्योतयति । तथा प्रतीयतां किं बाधकमित्यत आह- न चेति ।। अनुवाद इति ।। अनु सविकल्पकज्ञानमनुसृत्य वादो व्यवहारः, तथा ज्ञानव्यवहारो न युज्यत इत्यर्थः । अयं भावः- यदि भेदो वस्तुप्रतीतौ न प्रतीयेत तदा अस्यास्माद्भेद इत्युत्तरकालं सविकल्पकं ज्ञानं तथा व्यवहारश्च न स्यात्  । अस्यास्मादिति धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य हि भेदो ज्ञायते । न चागृहीतभेदं वस्तु तथोपदेश्व्ुं शक्यते । एकस्मिन्नपि तत्प्रसङ्गादिति । तदुक्तमनुव्याख्याने ‘अन्यथाऽ-स्यामुना भेद इति वक्तुं न शक्यते’ इति । निगमयति- अत इति ।।

ननु पश्चात्तन्याः सविकल्पकप्रतीतेरुत्थानासम्भवेन संशयाद्यवारकत्वेऽपि प्रथमप्रतीतेर्निर्विकल्पकरूपाया भेदविषयत्वेन संशयादिवारकत्वेन किमाद्यप्रतीतेरेव सविकल्पकत्वाभ्युपगमेनेति शङ्कते- अथेति ।। एतदीयत-येति ।। धर्मिवस्तुसम्बन्धित्वेनेत्यर्थः । विपक्षे बाधकमाह- अन्यथेति ।। दूरस्थवनस्पत्योश्चूतपनसयोः पनसचूत-कोटिकसंशयविपर्ययाभावप्रसङ्ग इत्यर्थः । दोषात्तत्र तथेति चेत्, भेदस्य स्वरूपप्रतीत्यैवोपयोगे दोषस्या-किञ्चित्करत्वात् ।

निर्विकल्पके प्रमाणाभावाच्च । तथा हि- न तावत्तत्र प्रत्यक्षं मानम् । तस्यातीन्द्रियत्वाभ्युपगमात् । नापि व्यवहाररूपकार्येण तदनुमानम् । व्यवहारस्य सविकल्पकज्ञानसाध्यत्वात् । नापि, प्राथमिकं गौरिति प्रत्यक्षं, जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वाद् अनुमितिवदित्यनुमानं मानम् । दृष्टान्तस्य साध्यविकलत्वात् । न चानुमितौ साध्यप्रसिद्धेर्हेतुतया तत्र विशेषणज्ञानजन्यत्वं सिद्धमेवेति वाच्यम् । व्याप्त्यादिज्ञानसत्त्वे साध्यप्रतीतिविलम्बेनानुमितिविलम्बाभावेन तत्र तस्याहेतुत्वात् । न च साध्यप्रतीत्यभावे व्याप्तिग्रह एव नास्तीति वाच्यम् । तर्हि तस्य तज्जनकत्वेनान्यथासिद्धतयाऽनुमितावजनकत्वात् । किञ्च ‘यद्विशेषयोः’ इति न्यायेन विशिष्टज्ञाने विशेषणज्ञानस्य हेतुत्वे विशेष्यज्ञानस्यापि जनकत्वं स्यात् । अनुमितौ तस्यापि जनकत्वात् । किञ्च संयुक्ताविमौ समवेतावित्यादिज्ञाने संयोगसमवायादिरूपविशेषणस्य, अनुव्यवसाये व्यवसायगतस्य रजतत्वप्रकारकत्वस्य विशेषणस्य, अभावज्ञाने प्रतियोगित्वाभावत्वादिरूपस्य विशेषणस्य पूर्वमज्ञातस्यैव भानमित्यभ्युपगमेन तत्र व्यभिचारः । नापि, ज्ञानत्वं निर्विकल्पकत्वसमानाधिकरणं सकलज्ञानवृत्तित्वात् सत्तावदित्यनुमानं मानम् । अप्रयोजकत्वात् । इच्छात्वव्यवहारत्वानुमितित्वादिकं पक्षीकृत्यापि प्रयोगसम्भवेन निर्विकल्पकेच्छादिसिद्धिप्रसङ्गाच्च । नापि, चक्षुश्चाक्षुषसविकल्पकातिरिक्तज्ञानकरणं ज्ञानकरणत्वाद् घ्राणवदि-त्यनुमानं मानम् । अप्रयोजकत्वात् । अनेन निर्विकल्पकसिद्धौ तदतिरिक्तेति विशेषणदानेन सविकल्पक-निर्विकल्पकातिरिक्तज्ञानसिद्धेरेवं तदतिरिक्तज्ञानसिद्धिरित्यतिप्रसङ्गाच्च । नापि, जागरादिसविकल्पप्रत्यक्षं (व्या.टि.) जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वाद् दण्डीति विशिष्टप्रत्यक्षवदित्यनुमानं मानम् । दृष्टान्ते साध्यविकलत्वात् । दण्डपुरुषयोर्युगपदिन्द्रियसन्निकर्षेऽसंसर्गाग्रहे च सति विनैव दण्डज्ञानं दण्डीति ज्ञानोत्पत्ति-दर्शनात् । तस्मान्नानुमानं मानम् । आगमस्तु तत्र नेष्टो दृष्टो वा । तस्मादप्रामाणिकं निर्विकल्पकम् । तदुक्तं तैत्तिरीयभाष्ये  ‘किञ्चिदिति प्रत्ययस्यासिद्धेः(द्धिः)’ इति    ‘न च पश्चाद्भेदो ज्ञायत इत्यत्र किञ्चिन्मानम्’ इति च ।

उक्ततर्कस्य प्रतिकूलतर्कपराहतिं शङ्कते- ननु यदीत्यादिना ।। न च तत्प्रतीतावेव प्रतीत्या धर्मिस्वरूपत्वं साधयत इष्टापादनमेतत् । अन्यथा पूर्वहेतोर्वाद्यसिद्धिप्रसङ्गात् । अतो विपर्ययापर्यवसानात्तर्काभासोऽयमित्यतस्तं विपर्यये पर्यवसाययति- न चैवमिति ।। तथा सतीति ।। इष्टापत्तावित्यर्थः । संशयादीति ।। भेदप्रतीतेस्तत्संशय-विपर्ययविरोधित्वादित्यर्थः । प्रसञ्जनीयस्यानिष्टत्वं दर्शयति- अस्ति चेति ।। तथा च तत्प्रतीतावेव प्रतीतेः स्वयमनिश्व्त्वाभावेऽप्यनिष्टप्रसञ्जकत्वादनिष्टत्वमिति भावः । विपक्षे बाधकेन स्वोक्ततर्कस्य विपर्यये पर्यवसान-मुपपाद्योपसंहरति- न धर्मिप्रतीताविति ।। तत्सिद्धमर्थमाह- तत्कथमिति ।। अत्रापि मूले प्राय इति स्मर्यमाण-सदृशविशेषप्रतियोगिकभेदव्युदासाय ।

ननु प्रतीतौ संशयानुपपत्तिं प्रसञ्जयन्तं प्रति पुनः प्रतीतौ संशयप्रदर्शनमसङ्गतम्, उक्तदोषानुद्धारादित्यत आह- अयमभिप्राय इति ।। एकस्य वस्तुन इति हेतुगर्भविशेषणम् । धर्मिस्वरूपस्य तदैक्येनैक्यावश्यम्भावादिति भावः । प्रमाणाभावादिति ।। प्रतियोगिभेदस्य सादृश्यादौ व्यभिचारेणाऽनन्त्यप्रसङ्गेन च भेदाप्रमाणत्वादिति भावः । प्रतीयत एवेति ।। विषयीभवत्येवेत्यर्थः । यद्वा तत्प्रतीत्युपाधिनैवास्य ज्ञेयत्वं नान्यथेत्यर्थः । संशयानुपपत्तिं शङ्कितां स्मारयति- किन्त्विति ।। उत्तरयति- तस्येत्यादिना ।। अयं भावः । न स्वरूपेण भेदप्रतीतिः संशय-प्रतिबन्धिका, किन्तु सप्रतियोगिकत्वेन । तत्र धर्मिस्वरूपेण प्रतीयमानो भेदो न सर्वात्मकमिदं, किन्तु स्वयमेवेति सामान्यतः सर्वप्रतियोगिकत्वेन स्मर्यमाणकतिपयविशेषप्रतियोगिकत्वेन चानुभूयमानो विरुणद्ध्येव सर्वत्व-कोटिकं स्मर्यमाणकतिपयकोटिकं च संशयं विपर्ययं वा । परन्तु यत्प्रतियोगिकत्वेन नोपलब्धस्ततो विरोधिज्ञाना-भावादेव स्यातामेव संशयविपर्ययौ । समानविषये तद्विरोधिप्रकारकत्वेन संशयादिविरोधित्वादिति । वक्ष्यत्ये-तदुपरिश्वत् । तदेतदभिप्रेत्याऽह- न तु तत्रापीति ।। अनेन प्राक् साधारण्येन भेदप्रतीतिरुपपादिता, अत्र विशिष्य संशयादिस्थलेऽपीति न पुनरुक्तिरिति । निगमयति- अत इति ।। अन्यथेति ।। भेदप्रतीतावपि तद्धर्मविशेषाप्रतीतिमात्रेणेत्यर्थः । ययेति ।। विपर्यये पर्यवसन्नयेति शेषः । भवेदिति ।। सिद्धमिति शेषः । उक्तमनूद्य नियामकं पृच्छति- संशयादिस्थलेऽपीति ।। उक्तमिति ।। ‘कस्मिंश्चिदेव सदृशे’ इति मूलेनेति शेषः । तत्र हि कस्मिंश्चिदिति बाह्यार्थ इत्यर्थः  । एवेति साक्षिभास्यव्युदासः । तत्रापि न सर्वत्रेत्याह- सदृशे इति ।। तेन विसदृशव्यवच्छेदः । यद्वा कस्मिंश्चिदिति सदृशविशेषणम् । न सदृशमात्रे किन्तु सुसदृशेत्यर्थः । तेन संशयादिस्थले सर्वस्मात्- सामान्यतो विशेषतश्च स्मर्यमाणकतिपयविसदृशादिविशेषाच्च व्यावृत्तिरनुभूयत (व्या.टि.) इत्युक्तमित्यर्थः । तदेतद्विस्पष्टमाचष्ट तैत्तिरीयभाष्ये भगवान् भाष्यकारः ‘यदा संशयीत तदाऽपि कुतश्चिद्व्यावृत्तमेव ज्ञायते । न हि सर्वमिदं भवति न वेति कस्यचित्संशयः’ इति । कस्मिंश्चिदेवेत्येवकारव्यावर्तित-साक्षिभास्यात्मादौ संशयाद्यनास्पदे संशयाद्यभावप्रसङ्गाभावेन निराबाधं सार्वत्रिकनैसर्गिकभेदप्रतीतिः सिद्धेत्याह- भेदस्येति ।। आत्मनीति ।। साक्षिभास्योपलक्षणमेतत् । तथा घट इति सर्वस्य । यथोक्तं तैत्तिरीयभाष्ये ‘सर्वस्य स्वरूपं सर्वैरेवानुभूयते । अन्यथाऽहं दृष्टोऽन्यो वा दृष्ट इत्यपि संशयः स्यात् । न ह्यज्ञाताद्वस्तुनो व्यावृत्तिः केनचिच्छङ्क्यते’ इति च । न चैवमिति ।। अनेन प्रतितर्कस्येष्टापादनं सिद्धसाधनं च सूचितम् । इत्याहेति ।। इत्युक्तं मा विस्मार्षीरित्यर्थः । संश(यस्य)ये स्मर्यमाणविसदृशकोटिकत्वलाभाय व्याचश्व्े- न वेत्यस्येति ।। अयं भावः- यथाऽनभ्यासदशापन्नजलादिज्ञाने प्रमात्वसंशयेऽप्यभ्यासदशापन्नबाह्यजलादिज्ञाने, तथा साक्षिभास्यसुखादिज्ञाने प्रमात्वसंशयाद्यभावेन धर्मिप्रतीतेरेव तद्विषयकत्वमङ्गीकृत्य क्वाचित्कसंशयादिक-मन्यथोपपादितम्, तथाऽत्रापि साक्षिभास्यात्मादौ बाह्ये च ज्ञातप्रतियोगिवैजात्ये संशयाद्यभावेन क्वाचित्कसंशया-दिकमन्यथोपपाद्य निराबाधया धर्मिप्रतीतावेव प्रतीत्या स्वरूपत्वसिद्धिरिति ।

ननु साक्षिभास्यात्मादौ आत्मघटादिसंशयानुत्पत्त्या हि तद्व्याप्यतया व्यावृत्तिप्रतीतिरुपगता । न त्वेवं सम्भवति । तदनुत्पत्तेरन्यथासिद्धेरिति शङ्कते- नन्वित्यादिना ।। अपश्यत इति ।। उपलक्षणमेतत् । तद्विपरीतं च पश्यत इति योज्यम् । अन्यथा साधारणधर्मदर्शने तदसाधारणधर्मादर्शनस्य संशयादिहेतुत्वेन तन्निवर्तक-त्वानुपपत्तेः । तदर्थम् अनुत्पत्तय इत्यर्थः । दूषणान्तरं प्रतिजानीते- किञ्चेति ।। अन्यच्चेत्यर्थः । अशक्यत्वा-दिति ।। वैलक्षण्यज्ञानस्य प्रतियोगिज्ञानपूर्वकत्वादिति भावः । मूले व्यापकत्वमवधारणार्थः, वह्निमानेव धूमवानितिवत् । ज्ञानसामान्यस्य तन्नान्तरीयकत्वाभावाच्छेषं पूरयति- असाधारणतयेति ।। तदविनाभाव-मुपपादयति- तेन विनेति ।। असाधारण्यमिति ।। इतरविविक्तधर्मिवृत्तित्वमेवासाधारण्यम् । तच्चेतरव्या-वृत्त्यज्ञाने दुर्ज्ञानम् । किञ्चासाधारणधर्मादर्शनं संशयमात्रसाधारणमिति संशयमात्रोच्छेदापत्तिः । न च विपरीत-दर्शनसहितं संशयोच्छेदकमिति वाच्यम् । विपरीतदर्शनमात्रस्यैव तदुपपत्तेः । तद्भिन्नवृत्तिधर्मवत्तया धर्मिदर्शन-रूपविपरीतदर्शनस्य तद्भेदज्ञानसापेक्षत्वाच्च । प्राणभृन्मात्रवृत्तित्वादिति ।। अन्यथा सर्वोपसंहारवती व्याप्तिर्न सिद्ध्येदिति सर्वानुमानतर्कोच्छेदः स्यात् । सर्वशब्दप्रयोगः, सर्वस्य सर्वविज्ञानं नास्तीति प्रतिषेधः, ‘सर्वं खल्विदं ब्रह्म’ इति वाक्यार्थधीश्च न स्यादिति भावः ।

ननु तर्हि भेदस्य विशेषतो ज्ञातत्वे पदार्थस्वरूपमपि विशेषतो न ज्ञायेत तदात्मकत्वात्तस्येति चेत्, सत्य-मेतत् । यथोक्तं तैत्तिरीयभाष्ये- ‘यावत्सर्वतो भेदो विशेषतो न ज्ञायते, तावत् स्वरूपमेव विशेषतो न ज्ञातम्’ इति । ननु ‘एक एव खल्वेकस्य वस्तुनो भेदः’ इत्यनुपपन्नम् । भेदस्यान्योन्याभावरूपत्वात् । प्रतियोगिभेदेनाभाव-भेदस्यात्यन्ताभावे दर्शनात् । घटवति नीलघटो नास्तीति प्रतीतेः, नीलघटवति घटो नास्तीत्यप्रतीतेश्च विशेषाभावातिरिक्तः सामान्याभावः सिद्धः । तथैव भेदोऽपि, घटो नेति नीलघटो नेति च प्रतियोगितावच्छेदक-(व्या.टि.) भेदाद्भेदसिद्धेः । तथैव पदार्थविदो वदन्ति । तत्कथमन्योन्याभावरूपभेदस्यैकस्यैव सामान्यतः सर्वप्रतियोगिकत्वं घटादिरूपेण विशेषप्रतियोगिकत्वं लोकविरुद्धं सिद्ध्यतीत्यतः, अनुभवशरणा भगवच्चरणा इत्याह- न च सर्वात्मकमिति ।। अनुभवेन न्यायातिक्रमो न्याय्य एवेति भावः । एवं बाधकोद्धारे साधकं सुदृढतरमित्याह- तदेवमिति ।। भेदस्य धर्मिस्वरूपत्वे बाधकान्तरमाशङ्कते- नन्विति ।। स्वरूपासिद्धिं (द्धिमाशङ्कते) ब्रूते- कदाऽपीति ।। केवलस्य प्रतियोगिविनिर्मुक्तस्य । द्वितीयं दूषयति- सर्वाद्वैतेति ।। सर्वस्यापि भेदप्रतियोगित्वादिति भावः । उद्धरति- मैवमिति ।। निरूपकत्वेन बहिरङ्गत्वादिति ।। तटस्थत्वादित्यर्थः। व्याप्तेर्निदर्शनं पृच्छति- कुत्र चेदमिति ।। तदाशङ्कते- लम्बेति ।। आदिपदेन ‘यत्किञ्चित्सोमलिप्तं तेनावभृथं यन्ति’ इति वैदिकमप्युदाहरणं द्रश्व्व्यम् । तत्र सोमलिप्तस्यावभृथदेशनयने सोमस्यापि नयनान्वयदर्शनात् । तद्व्यभिचारस्थलमाह- चित्रेति ।। इत्यादाविति ।। अत्राप्यादिपदेन ‘गोदोहनेन पशुकामस्य प्रणयेत्’ ‘श्वेतायै श्वेतवत्सायै दुग्धे’ इत्यादिवैदिकमप्युदाहर्तव्यम् । तत्रापि निरूपकगोवत्सादेः प्रणयनदुग्धाद्यन्वयादर्शनात् । ततश्च व्यभिचारेण भूयोदर्शनान्न व्याप्तिरिति भावः । उपसंहरति- तत इति ।। व्याप्त्यभावादित्यर्थः । ननु भूयोदर्शनेन (दर्शने) संशयः स्यात् कुतो निश्चय इत्यत उक्तम्- यदि प्रतीत्यनुसरणमिति ।। अनुभवानुसरण-मित्यर्थः । प्रतियोगिनामनेकेषामेकधर्म्यस्वरूपत्वानुभवादित्यर्थः । अशक्यमिति ।। आपादनस्यापि दर्शन-मूलत्वादित्यर्थः ।

भेदशब्दस्यापि धात्वनुगमभ्रान्त्या बाधकमाशङ्कते- नन्वित्यादिना ।। सर्वशून्यतेति ।। अवयवशैथि-ल्यादि-त्यर्थः । घञि भावाधिकारादाह- न हीति ।। विदारकत्वेऽपीति ।। घञ्विधौ कारकग्रहणादित्यर्थः । भेदो न धर्मिस्वरूपं विदारकत्वादित्यत्र स्वतो विदारकत्वं वा प्रतियोगिनो वेति विकल्प्याऽद्येऽसिद्धिमाह- न त्विति ।। द्वितीयेऽप्रयोजकतामाह- स्वरूपस्यापीति ।। आकाशो वायुना भिन्नो, मेरुर्मन्दरेण भिन्न इत्यवि-दार्येऽपि तच्छब्दप्रयोगात् । न यौगिको भेदशब्दः किन्तु रूढ एव । सापेक्षयोगादपि निरपेक्षरूढेर्बलीयस्त्वात् । अत एव पूर्वतन्त्रे ‘यद्योन्यां गायति तदुत्तरयोर्गायन्ति’ इत्यत्र उत्तरशब्दस्य दिक्शब्दत्वेन सापेक्षत्वाद्योन्युत्तर-ऋग्ग्रहणे प्राप्ते ‘सापेक्षनिरपेक्षयोर्निरपेक्षं बलीयः’ इत्युत्तरग्रन्थस्थऋच्येव साम, वाचनिकातिदेशविषय इति निरणायि । तदेतदभिप्रेत्याऽह- अन्योन्याभाव एवेति ।। पुनर्बाधकान्तरं प्रसञ्जयति- तथापीति ।। एकत्वाभाव इति ।। आदिमसङ्ख्याभावे परिगणनानुपपत्तेरिति भावः । सुधायां तु ‘तत्समाहाररूपत्वात् तत्कार्यत्वाद्वा तस्य’ इत्यन्यथोपपादितम् । प्रसङ्गानौचित्यं दर्शयति- एवं हीति ।। अङ्गीकृत्यापि दोषमाह- अनेकत्वेऽपि वेति ।। स्वस्मिन्निति पूर्वान्वयि । तर्हि एको नैक इति विरोध इत्यत आह- एक इति ।। स्वयमिति शेषः । स्वस्मिन् स्वविषयमात्र इति, व्यवहार्य इति शेष इति वा । स्वव्याहतिं चाऽह- अनेकत्वबलेनेति ।। पररीत्या परस्याऽपादनमित्यत आह- न हीति ।। ‘भेदो न युगधर्मः’ इत्यनेन अनेकत्वैकार्थसमवायितायाः, ‘स्वस्मिन्’ इत्यनेन एकत्वानेकत्वविरोधस्याभावोक्त्या नास्मद्रीतिरित्युक्तप्रायमित्यर्थः ।