विरोधश्च तथाऽधिक्यं ..

उपपत्तिदोषनिरूपणम्

मूलम्

- विरोधश्च तथाऽधिक्यं न्यूनताऽसङ्गतिस्तथा ।

उपपत्तिदोषा विज्ञेया विरोधश्च स्वतोऽन्यतः ।

जनकस्यात्ययो जातिः स्वस्य वाऽन्यस्य वा भवेत् ।

जनकं प्रमाणमुद्दिश्व्ं स्वस्यार्थस्य प्रकाशनात् ।

निग्रहा एत एव स्युस्संवादानुक्तिसंयुताः ।।

तत्त्वमञ्जरी

(तं.मं.)

स विरोधो द्विविधः । स्वतो विरोधः स्वव्याहतिनामा । स्वदर्शनविरोधोऽपसिद्धान्ताख्यो वा । अन्यतो विरोधः प्रमाणान्तरविरोधः । जातेश्च विरोध एवान्तर्भाव इत्याह- जनकस्येति ।। प्रमाणत्वेनाभिमतस्य स्वस्य वाक्यस्यान्यस्य प्रमाणस्य वाऽत्ययो विरोधो जातिर्नाम । एतेष्वेव प्रतिज्ञाहान्यादीनां सर्वनिग्रहस्थानानामन्तर्भाव इत्याह- निग्रहा इति ।।

टीका  

एवं निर्दोषोपपत्तिरूपेऽनुमाने निरूपिते निर्दोषताया दोषज्ञानाधीनत्वात् के ते उपपत्तिदोषा इत्यपेक्षायामाह- विरोधश्चेति ।। योग्यताविरहो विरोधः । सत्यां सङ्गतावधिकत्वमाधिक्यम् । विवक्षितासम्पूर्तिर्न्यूनता । आकाङ्क्षाविरहोऽसङ्गतिः । अत्र विरोधोऽसङ्गतिश्चार्थदोषौ । तद्द्वारा शब्दस्यापि । न्यूनता(न्यूनाधि)धिक्ये वचनदोषौ । तद्द्वाराऽर्थस्यापि । अत एवार्थशब्दात्म-कत्वेनानुमानविभागकथनप्रस्तावे तथाविभक्ततद्दोषकथनं नासङ्गतम् ।

ननु कालात्ययापदिष्टत्वादयोऽनुमानदोषाः परैः परिगणिताः, तत् कथमेतदित्यतस्तेषामेते-ष्वेवान्तर्भावं सूचयितुं विरोधविभागमाह- विरोधश्चेति ।। इति द्विविध इति शेषः । स्वत इति ।। स्ववचनेन स्वक्रियया स्वन्यायेन स्वाभ्युपगमेन चेत्यर्थः । अन्यतः प्रमाणान्तरेण । एवमन्योऽपि विभाग ऊहनीयः ।

एवं विभागे सति किं लब्धमित्यतो दिक्प्रदर्शनाय जातेरन्तर्भावः सिद्ध इति सूचयितुं तत्स्वरूपं निरूपयति- जनकस्येति ।। स्वस्य वा जनकस्यान्यस्य वा जनकस्येति सामानाधिकरण्यम् । अत्ययोऽतिक्रमो विरोधः । किं जनकमित्यत आह- जनकमिति ।। स्वस्यार्थस्य प्रकाशनात् स्वविषयप्रतिपादनात् । प्रमाणमिति ज्ञापकत्वमात्रेणोपचारः, स्वव्याहतस्य प्रामाण्यायोगात् । ‘अन्येष्वपि दृश्यते’ इति दृशिग्रहणान्निरुपपदात् प्रादुर्भावार्थाज्जनेरपादाने, ण्यन्ताद्वा कर्तरि डप्रत्यये कृते जमिति ज्ञापकं वाक्यमुच्यते । उपसर्गाश्च क्रियासन्निधाने सति तद्विशेषका भवन्ति । असन्निधाने तु ससाधनां क्रियामाहुः, यथा प्राचार्यः, प्रान्तेवासीति । ततोऽतिरत्ययस्य वाचकः । तथाच जस्य स्वाख्यस्यान्यस्य वा, जनकस्य ज्ञापकस्य, अतिः, अत्ययो जातिरित्युक्तं भवति । अन्यच्चात्र स्वक्रिया वा स्वन्यायो वा, अन्यथा कालातीतादेरपि जातित्वप्रसङ्गात् । एवं च स्वव्याहतिर्जातिः सा त्रिविधा, स्ववचनविरोधः स्वक्रियाविरोधः स्वन्यायविरोधश्चेति लभ्यते । तथाच स्वतो विरोधे जातेरन्तर्भावः सूचितो भवति । एवमन्येषामन्तर्भावो द्रष्टव्यः ।

न केवलमनुमानदोषाणां विरोधादिभिस्सङ्ग्रहः, किन्तु परनिरूपितानां सर्वनिग्रहस्थानाना-मपीत्याह- निग्रहा इति ।। निग्रहस्थानानि । एत एव विरोधादयः प्रतिज्ञाहान्यादयः । प्रतिज्ञा-हान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधादिष्वन्तर्भाव इत्यत आह- संवादेति ।। विप्रतिपन्नप्रमेयाभ्युपगमः संवादः । तूष्णीम्भावोऽनुक्तिः । एताभ्यां संयुता विरोधादयः । एतेन प्रत्यभिज्ञाविरोधादिना वर्णानित्यत्वाद्यनुमानदूषणमुपपादितं भवति ।

भावबोधः

नन्वर्थशब्दात्मकत्वेनानुमानविभागस्योक्तत्वात्तद्दोषा अपि ‘विरोधासङ्गती ह्यार्थे न्यूनाधिक्ये तु वाचिके’ इत्येवं विभक्ततया वक्तव्याः । विरोधासङ्गत्योरर्थसम्बन्धित्वं न्यूनाधिक्ययोर्वचनसम्बन्धित्वमनभिधाय व्यामिश्रत्वेन च तदुक्तिरसङ्गतेत्यत आह- अत एवेति ।। चतुर्णामपि दोषाणामुक्तरीत्या द्विविधानु-मानसाधारण्यादेवेत्यर्थः । स्ववचनेनेति ।। स्ववक्तृकवाक्यगतपदावान्तरवाक्ययोस्तदन्तर्गतपदान्तरा-वान्तरवाक्यान्तरलक्षणस्ववचनेनेत्यर्थः । एवं स्ववचनविरोध इत्यत्रापि ज्ञातव्यम् । स्वाभ्युपगमेन चेति ।। स्वपूर्वाचार्याङ्गीकारेणेत्यर्थः । एवमन्योऽपीति ।। हेतुविरोधो द्विविधः असिद्धिरव्याप्तिश्च । दृष्टान्तविरोधो द्विविधः साध्यवैकल्यं साधनवैकल्यं चेत्यादिरूप इत्यर्थः । अन्यथा स्वरूपासिद्ध्यादेरन्तर्भावो न सिद्ध्येदिति भावः । सामानाधिकरण्यमिति ।। न तु स्वस्यान्यस्य वा यज्जनकं तस्येति वैयधिकरण्यमित्यर्थः । ननु प्रकाशनं ज्ञानव्यापारो ज्ञानं वा । उभयथा करणनिष्ठत्वाभावात् कथं ज्ञापकत्वे हेतुत्वेनोच्यत इत्यतो व्याचश्व्े - स्वविषयेति ।। ज्ञापकत्वमात्रेणेति ।। स्वव्याहतवाक्यस्यापि ज्ञापकत्वेन तद्रूपगुणयोगेनेत्यर्थः । दृशि-ग्रहणादिति ।। अनेन ‘सप्तम्यां जनेर्डः’ इत्युक्त्वा उपपदविशेषयोगेन तद्विधायक ‘पञ्चम्यामजातौ’ इत्यादिसूत्रवत् सामान्यत उपपदयोगेन डप्रत्ययविधायकस्यास्य सूत्रस्य ‘अन्येष्वपि’ इत्येतावता पूर्णत्वे यद् दृशिग्रहणं करोति पाणिनिस्तेनेदं ज्ञापयति यत्र यत्रोपपदे सत्यसति वा डप्रत्ययकार्यं दृश्यते तत्र सर्वत्र डप्रत्ययो भवति । तथा कारकान्तरेऽपि वाच्ये डप्रत्ययो भवतीत्युक्तं भवति । व्याहतवाक्यस्यार्थजनकत्वाभावादाह- प्रादुर्भावार्था-दिति ।। ‘स्वस्यार्थस्य प्रकाशनात्’ इति मूलानुरोधेनैतदिति द्रष्टव्यम् । अन्यथा ज्ञानापेक्षया जनेरुत्पत्त्यर्थत्वोप-पत्तेः । ण्यन्ताद्वेति ।। अत्रापि प्रादुर्भावार्थाज्जनेरित्यनुवर्तते । कर्तरि अर्थज्ञापनलक्षणक्रियायाम् । जमिति ज्ञापकमिति ।। जन्यते ज्ञाप्यतेऽर्थोऽस्मादिति वा जनयति ज्ञापयत्यर्थमिदमिति वा जमिति वाक्यमुच्यत इत्यर्थः। जस्य स्वाख्यस्येति ।। तथा च मूले जनकस्येति कर्तरि षष्ठी । तथा च जेन जनकेन स्वाख्येन स्ववचनेन स्वक्रियया स्वन्यायलक्षणाख्येन वा वाक्यस्य विरोधो जातिरिति भावः । विरोधादीनां परपराजयादि-रूपत्वाभावादाह- निग्रहस्थानानीति ।। निगृह्यते पर एभिरिति व्युत्पत्तेरिति भावः ।

भावदीपः

योग्यतेति ।। अन्योन्यान्वय (घटकयोग्यता) विरह इत्यर्थः । सत्यां सङ्गताविति ।। आकाङ्क्षा-पूर्तौ सत्यामित्यर्थः । आकाङ्क्षेति ।। पदानामन्योन्याकाङ्क्षाविरह इत्यर्थः । ननु व्याप्त्यादिमल्लिङ्ग-रूपानुमानस्यार्थरूपत्वेनाशब्दत्वादर्थदोष एवात्र वक्तव्यो न वचनदोष इत्यत आह- अत एवेति ।। वचनद्वारा अर्थस्यापि दोषत्वादेवेत्यर्थः । परम्परया दोषरूपस्यात्रोक्तौ का सङ्गतिरित्यत उक्तम्- अर्थशब्दात्मकत्वे-नेति ।। ‘युक्तिः प्रतिज्ञारूपा च’ इत्यादिना ‘त्रियाद्यवयवात्मिकाम्’ इत्यादिना च व्याप्त्यादिमल्लिङ्ग-परोपदेशरूपार्थशब्दात्मकत्वेन परार्थानुमानविभागकथनप्रस्ताव इत्यर्थः । एवमन्य इति ।। असङ्गत्यादौ विभाग इत्यर्थः । स च पद्धत्यादौ व्यक्तः । यद्वा प्रमाणान्तरेणेत्यत्रापि समबलप्रमाणप्रबलप्रमाणेति प्रत्यक्ष-विरोधानुमानविरोधभेदेन अन्यविरोधविभाग इत्यर्थः । अथवा प्रतिज्ञाहेतुदृष्टान्तविरोधभेदेन अन्यो विरोधविभाग इत्यर्थः । एतेषामुदाहरणानि लक्षणादिग्रन्थान्तरे व्यक्तानि । स्वान्ययोर्जनकस्येति भ्रमनिरासायाऽह- इति सामानाधिकरण्यमिति ।। स्वस्यार्थस्येत्यस्य व्याख्या- स्वविषयेति ।। यस्य वाक्यस्य विरोध उच्यते तदत्र स्वपदेन गृह्यते । स्वस्य यो विषयः स स्वविषयः । वाक्यनिष्ठत्वलाभाय प्रकाशनादित्यस्य प्रतिपादनादित्यर्थ उक्तः । उपचारः कुत इत्यत आह- स्वव्याहतस्येति ।। स्वेनैव व्याहतस्य विरुद्धस्येत्यर्थः । जनकस्येत्या-दिनोक्तोऽर्थो जातिपदेन कथं लब्ध इत्यत आह- अन्येष्वपीति ।। ‘सप्तम्यां जनेर्डः’, ‘पञ्चम्यामजातौ’ इति सूत्रद्वयेन सप्तम्याद्युपपदे जनेर्डप्रत्ययं विधायान्येष्वपि प्रातिपदिकेषु निरुपपदेष्वपि डप्रत्ययो दृश्यत इत्युक्तत्वाद् दृशिग्रहणादित्युक्तम् । प्रादुर्भावार्थादिति ।। ‘जनी प्रादुर्भावे’ इति धातुपाठादिति भावः । अपादान इति ।। ‘अपादाने पञ्चमी’ इत्युक्तेः जायते ज्ञायतेऽस्मादित्यर्थे डप्रत्यय इत्यर्थः । जनयतीति जनकं न तु जायत इति । अतो जनक इत्यर्थलाभायाऽह- ण्यन्ताद्वेति ।। तथाच जन् णि ड इति स्थिते ‘चुटू’ इति डकारव्यञ्जनस्य, ‘णेरनिटि’ इति णिप्रत्ययस्य, ‘डित्यभस्यापि टिलोपः’ इत्यन् इत्यस्य च लोपे कृदन्तत्वेन ‘कृत्तद्धितसमासाश्च’ इति प्रातिपदिकसञ्ज्ञायां स्वाद्युत्पत्तौ जमिति रूपमिति भावः । नचात्र णिचि परतः ‘अत उपधायाः’ इत्युपधावृद्धिः शङ्क्या । टिलोपेन तस्यापि लोपात् । अतिरित्यनेन अत्यय इत्यर्थलाभप्रकारमाह- उपसर्गाश्चेति ।। तद्विशेषका इति ।। अर्थान्तरापादका इत्यर्थः । अतिशेतेऽनुभवति प्रतिष्ठत इत्यादौ तथा दृश्व्ेरिति भावः । यद्वा प्रभवतीत्यादौ प्रकृश्व्त्वाद्यतिशयाधायका इत्यर्थः । ससाधनामिति ।। कर्तृकरणादिरूपं साधनं निमित्तं प्रत्ययोत्पत्तौ यस्याः क्रियायाः सा ससाधना, तामित्यर्थः । ‘यो व्यतीरवीविपत् । यो व्यतीरभाणयत्’ इत्यादौ विशेषेणाधि-कानित्यर्थदर्शनादिति भावः । प्राचार्य इति ।। ‘प्रादयो गताद्यर्थे प्रथमया’ इति समासेन प्रगत आचार्यः प्राचार्यः प्रगतोऽन्तेवासी प्रान्तेवासीत्यत्र प्रेत्युपसर्गः कर्तृसाधनप्रत्ययान्तगमनक्रियां वक्ति यथा, तथाऽत्रापि ‘इण् गतौ’ इति क्रियां भावसाधनयुक्तां वक्तीत्यर्थः । तत इति ।। उपसर्गाणां ससाधनक्रियावाचित्वस्यापि सत्त्वादित्यर्थः । उभयत्रापि जस्येत्यस्यार्थो- ज्ञापकस्येति ।।

ननु स्वस्य ज्ञापकस्यात्ययो विरोधः स्वेनैवेति व्यक्तः । अन्येन स्वस्य जस्यात्यय इत्यत्र अन्यत्किं प्रत्यक्षादिः प्रमाणान्तरं वा ततोऽन्यद्वेत्यत आह- अन्यच्चात्रेति ।। कुत एवमित्यत आह- अन्यथेति ।। अन्यपदेन प्रमाणान्तरग्रहणे सति प्रबलप्रमाणविरोधः कालातीतः, समबलप्रमाणविरोधः सत्प्रतिपक्ष इति तयोरपि जात्युत्तरत्वापत्त्या अनुमानदोषत्वेन सदुत्तरता न स्यादिति भावः । उदाहरणमेतेषां पद्धत्यादौ व्यक्तम् । त्रयाणां जातित्वे सङ्ग्राहकं धर्मं वदन् फलितमाह- एवं चेति ।। अस्त्वेवं जातिस्वरूपं क्वान्तर्भावोऽस्या इत्यत आह- तथाचेति ।। जातेरुक्तरूपत्वे सति ‘विरोधश्च स्वतोऽन्यतः’ इत्युक्तस्वतोविरोध इत्यर्थः । अन्येषामिति ।। परोक्ताशेषानुमानदोषाणामित्यर्थः । स च व्यक्तोऽन्यत्रेति भावः । शङ्कते- प्रतिज्ञेति ।। एताभ्यां संयुता इति ।। द्वावर्थदोषौ द्वौ वचनदोषौ द्वौ पुरुषदोषौ । तथाच परोक्तार्थवचनपुरुषदोषाणां यथायोगं तेष्वन्तर्भाव इति भावः । एतेनेति ।। विरोधविभागकथनेन । अन्यतो विरोध इत्युक्त्या प्रतिज्ञाविरोधस्याप्यन्यत इत्यनेन प्राप्तत्वादुपपादितमित्यर्थः । इति युक्तिदोषोक्तिः ।

वाक्यार्थदीपिका

(श्री.टि.)

तद्द्वारेति ।। अर्थस्य दुष्टत्वे तत्प्रतिपादकशब्दस्यापि दुष्टत्वादिति भावः । तद्द्वारेति ।। वचनस्य दुष्टत्वे तत्प्रतिपादितार्थस्यापि दुष्टत्वादिति भावः । ननु द्विविधमनुमानं स्वार्थं परार्थं चेत्यर्थशब्दात्मकत्वे-नानुमानविभागस्योक्तत्वात्तद्दोषा अपि ‘विरोधासङ्गती ह्यार्थे न्यूनाधिक्ये तु वाचिके’ इत्येवं विभक्ततया वक्तव्यम् । तथाच विरोधासङ्गत्योरर्थसम्बन्धित्वं न्यूनाधिक्ययोर्वचनसम्बन्धित्वं मनसि निधाय ‘विरोधश्च तथाऽऽधिक्यम्’ इत्यर्थवचनदोषयोर्न्यूनतासङ्गतिरिति वचनार्थदोषयोश्च व्यामिश्रतयोक्तिः कुत इत्यत आह- अत एवेति ।। चतुर्णामपि दोषाणामुक्तरीत्या द्विविधानुमानसाधारण्यादेवेत्यर्थः । अर्थेति स्वार्थानुमानम्, तत्र शब्दप्रयोगाभावात् । शब्देति परार्थानुमानम् । तथा विभक्तेति ।। अर्थशब्दात्मकत्वेन विभक्तेत्यर्थः । तद्दोषकथनम् अर्थशब्दात्मकानुमानदोषकथनम् । स्ववचनेनेति ।। एकस्मिन्नेव वाक्ये पदयोरवान्तरवाक्ययोर्वा परस्परं विरोधः स्ववचनविरोधः । यथा मे माता वन्ध्या इति तदुदाहरणम् । स्वक्रियाविरोधो मूकोऽहमिति । मेयं मानसापेक्षं न भवतीति स्वन्यायविरोधः । स्वपूर्वाचार्याङ्गीकारेण विरोधः स्वाभ्युपगमविरोधः । पूर्वा-चार्यवचनस्यापि स्वेनाङ्गीकृतत्वात् । अपसिद्धान्त इति यावत् । यथा मीमांसकस्येश्वराभ्युपगम इति द्रष्टव्यम् । इदं च न साक्षाद्विरोधविभागकथनपरम् । किं नाम? विरोधप्रभेदरूपो यस्स्ववाक्यविरोधः तत्प्रभेदरूपा या जातिस्तद्विभागकथनपरमित्यवधेयम् । एवमन्योऽपीति ।। हेतुविरोधादिविभाग इत्यर्थः । इयमत्र विभाग-परिशुद्धिः । विरोधस्तावद् द्विविधः; समयबन्धप्रश्नस्वपक्षसाधनादिरूपकथासाधारणोऽनुमानमात्रनिष्ठश्चेति । अनुमानविरोधस्त्रिविधः, प्रतिज्ञाहेतुदृश्वन्तविरोधभेदेन । प्रतिज्ञाविरोधोऽपि द्विविधः प्रमाणविरोधः स्ववाक्य-विरोधश्चेति । प्रमाणविरोधोऽपि द्विविधः, प्रबलप्रमाणविरोधस्समबलप्रमाणविरोधश्चेति । स्ववाक्यविरोधोऽपि द्विविधः, अपसिद्धान्तो जातिरिति । जातिस्त्रिविधा स्ववचनविरोधस्स्वक्रियाविरोधस्स्वन्यायविरोधश्चेति । हेतुविरोधोऽपि द्विविधः, स्वरूपासिद्धिख्याप्तिश्चेति । अव्याप्तिस्त्रिविधा, साध्येन सम्बन्धस्तदभावेनापि सम्बन्धः साधारणानैकान्तिक इति यावत् । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धो विरुद्ध इति यावत् । उभय-सम्बन्धाभावोऽसाधारणानैकान्तिक इति यावदिति । दृष्टान्तविरोधोऽपि द्विविधः साध्यवैकल्यं साधनवैकल्यं चेति ।

।। जातेरन्तर्भावः सिद्ध इति ।। प्रतिज्ञाविरोधप्रभेदरूपस्ववाक्यविरोध इति शेषः । सामानाधिकरण्य-मिति ।। स्वाख्यजनकस्य अन्यरूपजनकस्येति सामानाधिकरण्यं न तु स्वस्य यज्जनकं तस्य अन्यस्य यज्जनकं तस्येति वैयधिकरण्यमित्यर्थः । ननु प्रकाशनं ज्ञानव्यापारो ज्ञानं वा, उभयथा करणनिष्ठत्वाभावाद्वाक्यस्य ज्ञापकत्वे कथमयं हेतुः स्यादित्यत आह- स्वविषयप्रतिपादनादिति ।। उपचार इति ।। स्वव्याहतवाक्यस्यापि ज्ञापकत्वेन प्रमाणभूतवाक्यस्वव्याहतवाक्ययोर्ज्ञापकत्वरूपगुणयोगादित्याशयः। उपचारे बीजं स्वयमेव दर्शयति- स्वव्याहतस्येति ।। ननु जातिरित्यत्र जशब्देन ज्ञापकं वाक्यम् अतीत्यनेनात्ययश्च कथं लभ्यत इत्यतस्तद्दर्शयति- अन्येष्वपीत्यादिना ।। ‘जनी प्रादुर्भावे’ प्रादुर्भावो विषयप्रकाशनं विषयप्रतिपादनमिति यावत् । एवं च प्रादुर्भा-(श्री.टि.) वार्थाज्जनेरपादाने जन्यते ज्ञाप्यतेऽर्थोऽस्मादित्यपादानविवक्षायां डप्रत्यये डित्त्वविधानसामर्थ्यादभ-स्यापि टिभूतान्  इत्यस्य  लोपे ज् अ जेति ज्ञापकं वाक्यं जन्यते ज्ञाप्यतेऽर्थो यस्मादिति व्युत्पत्त्योच्यते । ननु कथमेतत्? ‘सप्तम्यां जनेर्डः’ सप्तम्यन्त उपपदे जनेर्धातोर्डप्रत्ययः स्यात् । यथा पङ्के जातं पङ्कजम् । ‘पञ्चम्यामजातौ’ जातिवर्जे पञ्चम्यन्ते उपपदे जनेर्डस्स्याद्भूते, पद्माज्जातः पद्मज इति । अजातौ किम् अश्वाज्जातो अश्वजः इति नैव भवति । ‘अन्येष्वपि दृश्यते’ अन्येष्वप्युपपदेषु सत्सु जनेर्डो दृश्यते । यथा द्विर्जायते इति द्विज इति । एवं सूत्रत्रयेण सोपपदजनिधातोरेव डप्रत्ययविधानात् प्रकृते च जनेर्निरुपपदत्वात् कथमत्र डप्रत्ययप्राप्तिर्येन जमिति रूपं स्यादित्यत उक्तम्- अन्येष्वपि दृश्यत इति दृशिग्रहणान्निरुपपदादिति ।। अयमर्थः । यद्यत्र सोपपद-जनिधातोरेव डप्रत्ययोऽभिप्रेतः स्यात्तदा अन्येष्वपीति सूत्रे दृशिग्रहणं व्यर्थं स्यात् । अन्येष्वपीत्येतावतैव विवक्षितार्थसिद्धेः । ‘पञ्चम्यामजातौ’ इत्यत्रेव अत्रापि जनेर्डप्रत्यय इत्यस्यानुवृत्तिसम्भवात् । अतो ‘व्यर्थं सत्किञ्चिदिश्व्ं ज्ञापयति’ इति न्यायेन दृशिग्रहणसामर्थ्याद्यत्र यत्रोपपदे सत्यसति च डप्रत्ययकार्यं दृश्यते तत्र सर्वत्र डप्रत्ययो भवतीति ज्ञायते । अतोऽत्र निरुपपदजनिधातोरेव डप्रत्यये जमिति रूपं युक्तमिति भावः । प्रकारान्तरमप्याह- ण्यन्ताद्वा कर्तरीति ।। अत्र निरुपपदात्प्रादुर्भावार्थाज्जनेरित्येतावदनुवर्तते । तथा च ‘जनी प्रादुर्भावे’ अस्माण्णिच्, तस्य च ‘णेरनिटि’ इति लोपे जनिधातुर्णिजन्तस्तस्मादर्थज्ञापनलक्षणक्रियायां कर्तर्यभिधेये सति डप्रत्यये टिलोपे जनयति ज्ञापयत्यर्थमिति व्युत्पत्त्या जमिति ज्ञापकं वाक्यमुच्यत इत्यर्थः ।

ननु तथाऽप्यतीत्युपसर्गस्य अत्यय इत्यर्थप्रदर्शनमयुक्तम् । उपसर्गाणां क्रियागतविशेषप्रकाशकत्वात् । प्रकृते च क्रियासमभिहाराभावेन तदयोगादित्यत आह- उपसर्गाश्चेति ।। तद्विशेषका इति ।। क्रिया धात्वर्थः तद्विशेषका इत्यर्थः, यथा प्रजयतीत्यादौ प्रादयः ‘धातावेव विलीनोऽर्थ उपसर्गेण काश्यते । प्रहाराहारसंहार-विहारपरिहारवत्’ इति वचनात् । ससाधनामिति ।। कारकगतामित्यर्थः । यथा प्राचार्यः, प्रान्तेवासीत्यादौ प्रादिरुपसर्ग आचार्यादिरूपकर्तृकारकगतां गमनक्रियामेव वक्ति । तथा च प्रगत आचार्य आचार्यस्य गमनं जातमित्यर्थः । एवमन्तेवासिनोऽपि गमनं जातमित्यर्थः । ननु प्रगत आचार्य इत्यत्र गत इति कर्तारमपि वक्तीति प्रतीयते इति चेत्सत्यं कर्तृसम्बन्धं विहाय केवलक्रियामात्रस्य प्रदर्शयितुमशक्यत्वादेव तथा प्रदर्शनम् । न तु कर्तारमपि वक्तीत्याशयेनेति ध्येयम् । ततः किं प्रकृत इत्यत आह- तत इति ।। प्रकृते क्रियासन्निधानाभावादि-त्यर्थः ।  अत्ययस्येति  ।।  कर्तृभूतवाक्यनिष्ठविरोधरूपक्रियया इत्यर्थः । जस्य स्वाख्यस्येत्यादि । कर्तरि षष्ठी । स्वाख्येन जनकेन अन्येन वा जनकेनेत्यर्थः । स्वक्रिया स्वन्यायो वेति ।। न तु प्रमाणान्तरमित्यर्थः । तथा च जेन जनकेन स्वाख्येन स्ववचनेन स्वक्रियास्वन्यायलक्षणान्येन वा वाक्यस्यातिरत्ययो विरोधो जातिरुच्यत इति भावः । ननु ‘अन्यच्चात्र स्वक्रिया स्वन्यायो वा’ इति कुतो व्याख्यायते । अन्यदित्यनेन प्रमाणान्तरं गृहीत्वा तद्विरोधो जातिरिति कस्मान्नोच्यत इत्यत आह- अन्यथेति ।। अन्यदिति प्रमाणान्तरं गृहीत्वा तद्विरोधस्य जातित्वाभिधाने कालातीतसत्प्रतिपक्षयोरपि जातित्वप्रसङ्ग इत्यर्थः । ननु ‘जनकस्यात्ययो जातिः’ इत्यनेन (श्री.टि.) स्ववचनविरोधः स्वक्रियाविरोधः स्वन्यायविरोधश्च जातिरित्युक्तं स्यात् । तथा चाननुगम इत्याशङ्क्य सामान्यलक्षणं वदन् मूलं विभागकथनपरतया योजयति- एवं चेति ।। ‘जातिमाहुरथान्ये तु स्वव्याघातकमुत्तरम्’ इति कारिकानुसारेणाऽह- स्वव्याहतिर्जातिरिति ।। ‘जातेरन्तर्भावः सिद्ध इति सूचयितुं तत्स्वरूपं निरूपयति’ इत्युक्तम् । अनेन कुत्रान्तर्भावः सूचित इत्यत आह- तथा च स्वतो विरोध इति ।। प्रतिज्ञाविरोधप्रभेदरूपे स्ववाक्यविरोध इत्यर्थः । अन्येषां हेत्वाभासानाम् । तत्र असिद्धविरुद्धसाधारणानैकान्तिकासाधारणा-नैकान्तिकानां हेतुविरोधेऽन्तर्भावः । बाधसत्प्रतिपक्षयोः प्रमाणविरोध इत्यादि द्रष्टव्यमित्यर्थः । ननु विरोधादीनां परपराजयरूपत्वाभावादेत एव निग्रहा इति परपराजयरूपनिग्रहत्वं कथमुच्यत इत्यत आह- निग्रहस्थाना-नीति ।। परपराजयनिमित्तानीत्यर्थः । तथा च निगृह्यते पराजीयते एभिरिति व्युत्पत्त्या निग्रहशब्देन निग्रह-स्थानान्युच्यन्त इत्यर्थः । ‘अखण्डिताहङ्कृतिना पराहङ्कारखण्डनम् । निग्रहस्तन्निमित्तस्य निग्रहस्थानतोच्यते’ इति कारिकावचनादिति भावः । प्रकृतोपयोगं दर्शयति- एतेनेति ।। विरोधस्यानुमानदूषणत्वकथनेनेत्यर्थः । तथा च विरोधस्यानुमानदूषणत्वाभावात्प्रत्यभिज्ञाविरोधेन वर्णानित्यत्वानुमानं कथं दूषितमिति शङ्काऽनव-काशः । प्रत्यभिज्ञाविरोधो हि प्रबलप्रमाणविरोधः । स चानुमानविरोधप्रभेदभूतो यः प्रतिज्ञाविरोधः तत्प्रभेदभूतो यः प्रमाणविरोधस्तत्प्रभेदभूतः । एवं च तद्विरोधकथनेनानुमानदूषणं युक्तमिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

योग्यताविरह इति ।। साधनाभिमतस्यार्थस्य साध्याभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वमित्यर्थः । नन्वेवं सति सिद्धसाधनताऽपि विरोध एव स्यात् । न हि सिद्धस्य साध्यता सम्भवति । न चास्त्विति वाच्यम् । तथा सति ‘सिद्धसाधकोऽसङ्गतः’ इति स्ववचनविरोधात्, इति चेन्न । सति साकाङ्क्षत्वेऽन्वयायोग्यत्वं विरोधः । न च सिद्धसाधनस्य साकाङ्क्षताऽस्तीति नासौ विरोधेऽ-न्तर्भवतीति भावः । सत्यां सङ्गताविति ।। सत्यामाकाङ्क्षायामित्यर्थः । आकाङ्क्षितस्याप्यन्येन कृतकार्यस्य प्रयोगोऽधिकमित्यर्थः । नित्यत्वानित्यत्वविप्रतिपत्तौ वर्णात्मकः शब्दो नित्यो गुणश्चेत्यादौ अनित्यत्वप्रतिज्ञयैव कृतकार्येऽर्थान्तरेऽतिव्याप्तिवारणाय अन्येन कृतकार्यस्येत्युक्तम् । विवक्षितेति ।। अवश्यवक्तव्यस्य एकदेशावचनविशिश्व्मेकदेशवचनमित्यर्थः । अधिकापेक्षयैकदेशवचनत्वात्सम्पूर्णप्रयोगेऽतिव्याप्ति-वारणायावश्यवक्तव्यस्येत्युक्तम् । सम्पूर्णप्रयोगे एकदेशवचनस्यापि भावादतिव्याप्तिरित्यत उक्तम् । एक-देशावचनविशिष्टमिति ।। अनुक्तावतिव्याप्तिवारणाय एकदेशवचनमित्युक्तम् । आकाङ्क्षाविरह इति ।। प्रतिज्ञाविषये आकाङ्क्षालक्षणसम्बन्धविरह इत्यर्थः  । अर्थदोषाविति ।। साक्षादुपपत्तित्वाभिमतार्थदोषावि-त्यर्थः । परार्थानुमानसाधारण्यार्थमाह- तद्द्वारेति ।।  दुष्टार्थप्रतिपादकवचनस्यापि तेन दोषेण दुष्टत्वादि-त्यर्थः । न्यूनेति ।। द्वन्द्वान्ते श्रूयमाणस्य भावशब्दस्य प्रत्येकमभिसम्बन्धान्न्यूनत्वाधिकत्वे इत्यर्थः । वचन-दोषाविति ।। साक्षादिति शेषः । परार्थानुमान एव तद्दर्शनादिति भावः । तद्द्वारेति ।। वचनदोषात्तत्प्रति-पादितोपपत्तेरपि दुष्टत्वादिति भावः । नन्वर्थशब्दात्मकत्वेनानुमानविभागस्योक्तत्वात्तद्दोषाणामपि ‘विरोधा-(पां.टि.) सङ्गती ह्यार्थे न्यूनाधिक्ये तु वाचिके’ इत्येवं विभक्ततया वक्तव्यत्वाद्विरोधासङ्गत्योरार्थत्वं न्यूनाधिक्य-योर्वचनसम्बन्धित्वमनभिधाय व्यामिश्रतया तत्कथनमसङ्गतमित्यत आह- अत एवेति ।। साक्षात्परम्परा-साधारण्येन चतुर्णामपि द्विविधानुमानदोषत्वादेवेत्यर्थः । स्वत इति स्ववचनेनेत्यादि ।। अनेन स्वेनेति स्वत इति मूले आद्यादित्वात्तृतीयान्तात्तसिरित्युक्तं भवति । प्रमाणान्तरेणेति ।। अनेनान्येनेत्यन्यत इति तृतीयान्तादेव तसिरित्युक्तं भवति । एवमिति ।। प्रबलप्रमाणविरोधः समबलप्रमाणविरोधश्चेति प्रमाणविरोधविभागः, असङ्गतिरप्यनेकविधेति तद्विभागश्च द्रश्व्व्य इत्यर्थः । स्वस्य यज्जनकं तस्येति, अन्यस्य यज्जनकं तस्येति च व्यधिकरणषष्ठीत्वभ्रमनिरासायाह- स्वस्य वा जनकस्येति ।। मुख्यत्वे बाधकमाह- स्वव्याहतस्येति ।। ननु ‘सप्तम्यां जनेर्डः’ इत्यादिना सोपपदादेव जनेर्डप्रत्ययविधानादत्र च पङ्कजादाविव सोपपदत्वाभावात् कथं निरुपपदाज्जनेर्डप्रत्यय इत्यत आह- अन्येष्वपीति ।। यद्यप्यत्रापिशब्दस्य सर्वोपाधिव्यभिचारार्थताया वृत्त्यादौ स्थितेः, अपिशब्दबलादेव निरुपपदात् प्रादुर्भावार्थाज्जनेर्डप्रत्यय इत्येव वक्तुमुचितम् । तथाऽपि दृशिग्रहणस्य तत्र प्राप्तातिप्रसङ्गपरिहारार्थत्वस्य तत्रैव सिद्धेः केवलेन तेन तदसिद्धिरित्यभिप्रेत्य तदुक्तमिति द्रष्टव्यम् । अपादान इति  ।।  जायतेऽस्मादित्यपादाने प्रादुर्भावार्थाज्जनेर्डप्रत्यये डित्त्वाट्टिलोपे जमिति ज्ञापकं वाक्यमुच्यत इति सम्बन्धः । ण्यन्ताद्वा कर्तरीति ।। अन्तर्णीतण्यर्थात् प्रादुर्भावार्थाज्जनेर्जनयति ज्ञापयतीति कर्तरि डप्रत्यये डित्त्वाट्टिलोपे जमिति ज्ञापकं वाक्यमुच्यत इति सम्बन्धः ।

नन्वस्तु जमित्यनेन ज्ञापकस्य स्वस्यान्यस्य वा लाभस्तथापि न अतिरित्यनेनात्ययस्य लाभः सम्भवति । अतेरुपसर्गतया क्रियागतातिशयद्योतकत्वस्य व्युत्पन्नत्वेन क्रियासन्निधाने तद्गतातिशयद्योतकत्वेऽपि प्रकृते तदसन्निधानेन तद्गतातिशयद्योतकत्वासम्भवादित्यतो नायमस्ति नियमो य उपसर्गाः क्रियागतातिशयद्योतका एवेति । तथा सति प्राचार्यः प्रान्तेवासीत्यादौ क्रियाया असन्निधानेन तद्गतातिशयसमर्पकत्वासम्भवप्रसङ्गात् । यत्र क्रियासन्निधानं तत्रैव । यत्र त्वसन्निधानं तत्र सातिशयक्रियावाचका एवेत्यतोऽत्र अतेरत्ययवाचकत्वोप-पत्तेर्युक्तोऽनेनात्ययस्य लाभ इत्याह- उपसर्गाश्चेति ।। स्वन्यायो वेति ।। प्रागुक्तः स्वाभ्युपगमस्तु स्ववाक्य-विरोधीयापसिद्धान्तरूपद्वितीयकोटिघटक इति नेहोक्त इति ज्ञेयम् । ननु ‘विरोधश्च स्वतोऽन्यतः’ इत्यत्रेव अन्यशब्दस्य  प्रमाणान्तरपरत्वमेवास्तु  किं स्वक्रियादिमात्रपरत्वाश्रयणेनेत्यत आह- अन्यथेति ।। एव-मिति ।। अन्येषां बाधसत्प्रतिपक्षादीनां यथायोग्यं प्रमाणविरोधादावन्तर्भावो वाच्य इत्यर्थः । तूष्णीम्भाव इति ।। परबोधनार्थं वक्तव्यस्यावचनमित्यर्थः ।

लघुप्रभा

(व्या.टि.)

दोषज्ञानेति ।। अभावज्ञाने प्रतियोगिज्ञानस्य सामान्यसामग्रीत्वादिति भावः । मूले चतथाशब्दौ परस्परसमुच्चये । उद्देशक्रमेण विरोधादीन् लक्षयति- योग्यतेत्यादिना ।। आधिक्यस्यानाकाङ्क्षिताभिधान-रूपत्वेनासङ्गतावन्तर्भावः स्यादित्यत आह- सत्यामिति ।। साकाङ्क्षत्वेऽप्यन्येन कृतकार्यत्वात्तद्वचनं दोषान्तर-मिति भावः । असम्पूर्तिर्वचनेनेति शेषः । अत्रोपपत्तिदोषा इति सामान्योक्त्या साक्षाद्दोषत्वभ्रान्तिं वारयितुं (व्या.टि.) विविनक्ति- अत्रेति ।। ननूपपत्तिदोषप्रश्ने तद्वचनदोषनिरूपणमसङ्गतमित्याशङ्क्योपपत्तेरपि परार्थाया अर्थशब्दात्मकत्वात् तथाविभक्ततद्दोषनिरूपणमपि नासङ्गतमित्याह (त्यत आह)- अत एवेति ।। स्वार्थपरार्थभेदेनार्थशब्दात्मकत्वेनेत्यपरे । एतेषु विरोधादिषु । इतीति ।। प्रतियोगिद्वैविध्येनेत्यर्थः । स्वत इत्यत्र स्वशब्देनाऽत्मीयवाचकेन वचनक्रियान्यायाभ्युपगमाश्चत्वारो विरोधप्रतियोगितयोपादीयन्त इत्याशयेन व्याचष्टे- स्वत इति ।। विरोधप्रतियोग्यन्यपदार्थमाह- प्रमाणान्तरेणेति ।। यथोक्तं प्रमाणलक्षणे - ‘विरोधो मानस्व-वाक्याभ्याम्’ इति । प्रमाणान्तरविरोधादेवमप्यवान्तरविभागो विज्ञेय इत्याह- एवमन्योऽपीति ।। ऊहनीय इति ।। ‘प्रतिज्ञाहेतुदृष्टान्तभेदेन’ इति प्रमाणलक्षणानुसारेणेति शेषः । दिक्प्रदर्शनायेति ।। जात्यन्तर्भाव-वदशेषनिग्रहान्तर्भावसूचनायेत्यर्थः । सामानाधिकरण्यमिति ।। स्वान्यपदाभ्यां जनकपदस्येत्यर्थः । सामाना-धिकरण्यं तु भिन्नप्रवृत्तिनिमित्तानामेकस्मिन्नर्थे वृत्तिः । अन्वयं दर्शयति- स्वस्येति ।। स्वरूपस्येत्यर्थः । मूले स्वस्यार्थस्येति व्यधिकरणं मत्वा व्याचष्टे- विषयेति ।। उपचारे बीजमाह- ज्ञापकत्वमात्रेणेति ।। मुख्ये बाधकमाह- स्वव्याहतस्येति ।।

ननु ‘सप्तम्यां जनेर्डः’ इति ‘पञ्चम्यामजातौ’ इति वा सत्युपपदे कर्तरि डविधानात् कथं निरुपपदाज्जनेर्ड-प्रत्ययान्तपदप्रयोग इत्यतोऽपादाने कर्तरि च डं  साधयति- अन्येष्वपीति ।। श्रुतसप्तम्याद्यन्योपपदेषु द्विजादिपदेषु, अनुपपदेषु ‘अकृष्या(दि)असेधादपसद्मनोजाः’ इत्यादिषु दर्शनादत्रापि निरुपपदाड्डप्रत्ययो निष्प्रत्यूह एवेति भावः । अपादान इति कर्तरीति च व्युत्पत्तिप्रकारं दर्शयति- प्रादुर्भावार्थाज्जनेरिति ।। जायते प्रादुर्भवत्यस्मादिति व्युत्पन्नोऽयं जशब्दोऽपादानसाधनः, जनयति प्रादुर्भावयतीति व्युत्पत्त्या कर्तृसाधनोऽयं जशब्द इति भावः । ण्यन्तादिति ।। अन्तर्णीतण्यर्थादित्यर्थः । अन्यथा णिलोपस्य स्थानिवद्भावेन टिलोपानापत्तेरिति भावः । ननूपसर्गाणां सन्निहितधात्वर्थातिशयकत्वस्यार्थान्तरद्योतकत्वस्य वा प्रजयत्यनुभवतीत्यादौ दर्शनेन केवल-स्यातीत्यस्य नैरर्थक्येन कथं तेन समासोऽत्यय इत्यर्थकथनं वा कथमित्यत आह- उपसर्गाश्चेति ।। क्रियासन्निधाने क्रियावाचकधातुसहपाठेत्यर्थः, यथा प्रजयन्तीति । ससाधनामिति ।। साधनं प्रत्ययोत्पत्तौ निमित्तं कर्तृकर्म-भावादि, तद्युतमित्यर्थः । प्रकृते भावयुतत्वम् । तच्च सिद्धावस्थोपेतत्वम् । उपसर्गत्वव्यवहारश्च क्रियायोग-दशाभिप्रायकः । प्रकृते क्रियायोगाभावात् । अन्यथा कुगतिसूत्रे प्रादिग्रहणं च व्यर्थमित्यवधेयम् । निगमयति- तत इति ।। किमत्रान्यदन्यो वेत्यत आह- अन्यच्चेति ।। अत्रेत्यनेन न पूर्वत्रेव प्रमाणान्तरमिति भावः । कुतो नेत्यत आह- अन्यथेति ।। प्रमाणविरोधस्याप्यत्र परिग्रह इत्यर्थः । निर्गलितं दर्शयति- तथा चेति ।। ननु प्रमाणलक्षणादिनाऽस्य विरोधः । तत्र जातेः स्ववाक्यविरोधेऽन्तर्भाव उक्तः । अत्र तु स्वविरोधे, (न) तत्र जातित्वेनैकीकृताः स्ववचनविरोधादयस्त्रयः । अत्र तु विविक्ताः । अपसिद्धान्तस्तत्रोक्तः । अत्र तु स नोक्तः। स्वाभ्युपगमविरोधश्चोक्त इति चेन्न । स्ववाक्यविरोधपदस्य स्वविरोधपरत्वात् । ‘विरोधश्च स्वतोऽन्यतः’ इति स्वशब्दार्थत्वकथनाय विवेकः । एकीकरिष्यति च ‘स्वव्याहतिः’ इति । अपसिद्धान्तस्वाभ्युपगमविरोध-(व्या.टि.) पदयोरनतिभिन्नार्थत्वमिति । ननु कथमेवं जात्यन्तर्भावसिद्ध्या परोदीरिताशेषदोषान्तर्भावादिकं प्रदर्शितमित्यत आह- एवमन्येषामिति ।। यथायथमन्यविरोध इति शेषः ‘प्रमाणविरुद्धार्था प्रतिज्ञा प्रतिज्ञा-विरोधः’ इति प्रमाणलक्षणानुसारेण कालातीतादीनां प्रमाणविरोधादिष्वन्तर्भावो द्रश्व्व्य इत्यर्थः । निग्रह-स्थानानीति ।। अनेन  मूले निग्रहा इत्यायुर्घृतमितिवदुपचार इत्युक्तं भवति    निगृह्यन्ते अनेनेति करणे ‘ग्रहवृदृ’ इत्यबन्तं वा । अर्थवचनदोषेष्विति ।। अत्र द्वन्द्वान्ते श्रुतदोषपदमुभयत्र बुद्ध्या सम्बध्यार्थदोषौ च वचनदोषाश्च तेष्विति विग्रहो द्रष्टव्यः । अस्योपयोगं दर्शयति- एतेनेति ।। इत्युपपत्तिदोषनिरूपणवादः ।