‘स्वं ह्यपीतो भवति’ ..
स्वं ह्यपीत इतिवाक्यस्याभेदपरत्व निरासः
मूलम्
- ‘स्वं ह्यपीतो भवति’ इत्यत्रापि स्व इति परमात्मनोऽभिधानम् । ‘स्वात्मना चोत्तरयोः’ इति सूत्रात् । ‘स्वातन्त्र्यात्स्व इति प्रोक्त आत्माऽयं चाऽततत्वतः । ब्रह्मायं गुणपूर्णत्वाद्भगवान् विष्णुरव्ययः’ इति परमोपनिषदि । अपीत इत्यपि प्रवेशमात्रं स्वमिति द्वितीयानिर्देशात् । एकीभावविवक्षायां स्वेनेति निर्देशः स्यात् । ‘स्वं कुलायं यथाऽपीतः पक्षी स्यादेवमीश्वरम् । अप्येति जीवः प्रस्वापे मुक्तौ चान्योऽपि सन्सदा’ इति च । ‘एवमेव खलु सोम्यैतन्मनो दिशं दिशं पतित्वाऽन्यत्राऽयतनमलब्ध्वा प्राणमेवोपाश्रयते’ इत्यत्रापि मन इति जीवः, प्राण इति परमात्मा । ‘यत्रायं पुरुषः स्वपिति नाम’ इति तयोरेव प्रस्तुतत्वात् । ‘मननान्मन उद्दिश्व्ः पुद्गलो निरयं गिरन् । कर्मानुशयनाच्चैव संसार्यनुशयी स्मृतः’ इति च । ‘प्राणः प्रणयनादेष साधुत्वात्सन् हरिः स्मृतः’ इति च । ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ इत्यत्रापि भेद एव प्रतीयते । ‘स्रष्टृत्वादाश्रयत्वाच्च मुक्तानां च प्रति प्रति । स्थापनाच्च विभुर्विष्णुरन्यः संसारिणो मतः’ इति च ।
तत्त्वमञ्जरी
‘तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति’ इत्युक्त्वा हि ‘स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्राऽयतनमलब्ध्वा बन्धनमेवोपाश्रयत एवमेव सोम्येदं मन’ इत्यु-च्यते । तस्मादभेदः किं न स्यादित्यत आह- स्वं हीति ।। स्वात्मना चोत्तरयोरित्यत्र जीवस्योत्क्रान्त्यादयः स्वेन सहेति वक्तव्यम् । ‘यत्रायं पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति’ इति च पुरुषसच्छब्दाभ्यां तयोरेव प्रस्तुतत्वात् । सन्मूला इत्यादेरर्थमाह- स्रष्टृत्वादि-त्यादिपरमोपनिषदा ।
टीका
ननु यद्यपि शकुनिसूत्रदृष्टान्ते भेदः प्रतीयते । तथाऽपि न तत्र तात्पर्यं, किन्तु जीवस्य ब्रह्मैव परायणमित्यत्रैव । ‘स्वं ह्यपीतो भवति’ इति पूर्ववाक्ये जीवः स्वं स्वात्मभूतं ब्रह्मापीतो भवतीति ब्रह्मणि स्वात्मवाचिस्वशब्दप्रयोगादैक्यप्रतीतिरित्यत आह- स्वं हीति ।। अत्रापि नैक्यमुच्यत इति शेषः । कुत इत्यत आह- स्व इतीति ।। यत इति शेषः । भवेदेतद्यदि स्वशब्दो जीवस्य प्रत्यग्भावमेव ब्रूयात् । न चैवम् । यतो ब्रह्मादिशब्दवत् परमात्मनो नामैतत् । कुत इत्यतः प्रयोगदर्शनादित्याह- स्वात्मना चेति ।। सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिं चाऽह- स्वातन्त्र्या-दिति ।। आततत्वत इत्यनेन आङ्पूर्वात् तनोतेर्डमन्प्रत्यय इत्युक्तं भवति । गुणपूर्णत्वादित्यनेन बृहतेर्मन्प्रत्ययोऽमागमश्चेत्युक्तं भवति ।
तथाऽपि अपीतशब्देनैक्यस्योक्तत्वान्न शकुनिसूत्रदृष्टान्तस्य भेदे तात्पर्यम् । यावदुक्तं भवति एकीभवतीति तावदपीतो भवतीति । मैवम् । किमपीतशब्दस्य अवयववृत्तिमाश्रित्यैक्यार्थत्वमुच्यते उताखण्डवृत्तिम् । आद्ये नैक्यमस्माल्लभ्यत इत्याह- अपीत इत्यपीति ।। न केवलं स्वशब्दो नैक्यं गमयतीत्यपिशब्दार्थः । अनेन शब्देन प्रवेशमात्रं लभ्यते नैक्यम् । अपिर्ह्यपिधाने वर्तते । ‘इण् गतौ’ निष्ठाप्रत्ययश्च कर्तरि । ततश्चापिहितस्य गतिः- प्राप्तिः प्रवेशे सति सम्भवतीति । द्वितीयस्तु नोपपद्यते । कुत इत्यत आह- स्वमिति ।। अखण्डवृत्तौ ह्यपीतशब्द ऐक्यपर्यायोऽङ्गीकार्यः । तस्य चाक्रियाऽर्थत्वाद्भवतेश्चाकर्मकत्वात् कर्मानपेक्षायां स्वमिति कर्मार्थद्वितीयानिर्देशो नोपपद्यते । अवयववृत्त्यङ्गीकारे इणः सकर्मकत्वाद् द्वितीयोपपद्यते । एवमखण्डवृत्त्यङ्गीकारे श्रुतद्वितीयाहानि-प्रसङ्गमभिधायाश्रुतकल्पनापत्तिं चाऽह- एकीभावेति ।। सहयोगे तृतीयाविधानादिति भावः ।
एवमखण्डवृत्तौ विभक्त्यनानुगुण्यादवयववृत्तौ अवश्याश्रयणीयायां प्रवेश एवास्यार्थो लभ्यत इत्युक्तम् । समाख्यारूपवाक्यान्तराच्चैवमित्याह- स्वं कुलायमिति ।। एवमपीतशब्दस्य प्रवेशार्थत्वे सिद्धे यद्यपि स्वशब्दः स्वात्मवाची । तथाऽप्यत्रासौ न स्वीकर्तुमुचितः । स्वात्मनि प्रवेशासम्भ-वात् । किन्तु परमेश्वरवाच्येव स्वीकार्य इत्यपि सिद्धम् ।
ननु शकुनिसूत्रदृष्टान्तमुक्त्वा दार्ष्टान्तिके मनसः प्राणाश्रयत्वमुच्यते । तत्कथं जीवेश्वरभेदविषयाः सर्वे दृष्टान्ता इत्युक्तमित्यत आह- एवमेवेति ।। मन इति शब्देन जीव उच्यते प्राण इति शब्देन परमात्मोच्यत इत्यर्थः । कुत इत्यत आह- यत्रेति ।। ‘यत्रायं पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति’ इति पूर्ववाक्ये, यत्र कालेऽयं पुरुषो जीवः स्वपिति तदा सता परमात्मना सम्पन्नः सङ्गतो भवतीति पुरुषसच्छब्दाभ्यां जीवेश्वरयोराश्रयाश्रयिभावेन प्रकृतत्वात् । न ह्यन्यत्प्रतिज्ञाय दृष्टान्तमुक्त्वा दार्ष्टान्तिकेऽन्यदुच्यत इति सम्भवति । असङ्गतिप्रसङ्गात् ।
अस्ति तात्पर्यज्ञापकम्, मनःप्राणशब्दयोर्जीवे परमात्मनि च शक्तिः कुत इत्यतः क्रमेणाऽगम-वाक्यद्वयं पठति- मननादिति ।। संसारी मन उद्दिष्ट इत्यादिरन्वयः । ‘मनु अवबोधने’ इत्यतोऽसुन्प्रत्ययः । पुच्छब्दो निरयवाची पुत्र इति दर्शनात् । ‘गॄ निगरणे’ पचाद्यच् रेफस्य लकारः षष्ठीसमासः । गिरन्ननुभवन्निति यावत् । कर्मानुशयनात् कर्मानुसारेण संसारे पतनात् । शीङोऽनुपूर्वादिनिः । कर्मणो योग्यतया सम्बन्धः । संसार्येवानुशयी चेति सम्बन्धः । प्रपूर्वादनितेः पचाद्यचि प्राणः । प्रणयनाज्जगत्प्रवर्तनात् । साधुत्वान्निर्दोषत्वात् ।
ननु शकुनिसूत्रदृष्टान्तप्रकरणे सन्मूला इत्यभेदः प्रतीयते । सत् परं ब्रह्म मूलम् उपादानं घटस्य मृदिव, भुजङ्गस्य रज्जुरिव वा यासां स्थावरजङ्गमानां प्रजानां ताः सन्मूलाः । तथा स्थितिकालेऽपि सद् आयतनम् आश्रयो यासां ताः सदायतनाः । न हि घटो मृदमनाश्रित्य स्थितिं लभते । अन्ते च सदेव प्रतिष्ठा पर्यवसानं यासां ताः सत्प्रतिष्ठाः- सत्स्वरूपतामेव प्रतिपद्यन्ते इति । तत्कथं सर्वस्य भेदपरत्वमित्यत आह- सन्मूला इति ।। तत्कथमित्यत आह- स्रष्टृत्वादिति ।। एतदुक्तं भवति- न तावन्मूलायतनप्रतिष्ठाशब्दा उपादानादिषु नियताः किन्तु कारणादिमात्रवाचिनः । तत्राऽगमवाक्यान्तरानुसारेण पिता पुत्रस्य मूलमायतनं प्रतिष्ठापक इतिवद् भगवान् प्रजानां निमित्तकारणादिरित्येवास्य वाक्यस्य व्याख्येयत्वाद्भेदोपपादकमेवेदं सिद्ध्यतीति ।
भावबोधः
‘स्वं ह्यपीतो भवतीत्यत्रापि’ इत्यस्य स्व इति परमात्मनोऽभिधानम्’ इत्यनेनैकवाक्यत्वे पूर्वं स्वशब्दा-दीनां परमात्मवाचकत्वानुक्तेरपिशब्दानुपपत्तिः । अत एव तद्वाक्यस्यैक्यपरत्वं नेति प्रतिज्ञाऽध्याहाराभावे एतस्यासङ्गतिश्च स्यादित्यतो यथायोगं शेषं पूरयति- अत्रापि नैक्यमिति ।। प्रत्यग्भावमिति ।। प्रत्यक्त्वं निमित्तीकृत्य जीवमेव वदेदित्यर्थः । अपिहितस्य गतिरिति ।। यथा तिरोहितस्य पक्षिणो गतिः कुलायप्रवेशं विना न सम्भवति तथा तिरोहितस्य जीवस्य गतिः स्वशब्दवाच्यपरमात्मप्रवेशं विना न सम्भवतीत्यर्थः । मूलोदाहृतश्रुत्यंशेन जीवस्यैव प्रकृतत्वं ज्ञायते नेश्वरस्य, अतस्तयोरिति कथमित्यतस्तच्छेषमप्युदाहरति- सता भावबोधः
सोम्येति ।। आश्रयाश्रयिभावेनेति ।। अत एव पूर्वं स्वयं सम्पन्नो भवतीत्यन्तमुदाहृतम् । पुत्र इति दर्शनादिति ।। पुन्नाम्नो नरकात् त्राता पुत्र इति पुत्रशब्दनिर्वचने पुच्छब्दस्य नरकवाचित्वदर्शनादित्यर्थः। ननु स्रष्टृत्वादेरिवोपादानत्वादेर्ग्रहणसम्भवे भेद एवेति कथं नियम्यत इत्यत आह- एतदुक्तं भवतीति ।।
भावदीपः
अन्यमतेनाह- किन्तु जीवस्येति ।। ‘प्राणमेवोपाश्रयते प्राणबन्धनं हि सोम्य मनः’ इति पूर्ववाक्ये मनःशब्दितजीवस्य प्राणशब्दितब्रह्मपरायणत्वोक्तेरिति भावः । अध्याहृतसाध्यान्वयायाह- यत इति शेष इति ।। जीवप्रत्यग्भावमिति ।। जीवगतप्रत्यक्त्वमित्यर्थः । स्वात्मनेति ।। द्वितीयस्य तृतीयपादे उत्क्रान्ति-गत्यागतीनामिति नये ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छति, अमुष्मादिमं लोकमागच्छति’ इति श्रुता-वुक्तोत्क्रमणगत्यागतीनां हेतूनां सकाशाज्जीवोऽणुरेवेत्युक्ते, त उत्क्रान्त्यादयो न जीवस्य स्वातन्त्र्येण । किन्तु स्वात्मना च- परमात्मनैव, कुतः? उत्तरयोः ‘स्वात्मना परेणेमं गर्भमनुप्रविशति’ इति ‘एष ह्येनं जीवमभि-जीवयति’ इति चोत्तरयोर्वाक्ययोः सकाशाज्ज्ञायत इत्यर्थः ।
ननु नायं सूत्रार्थः । किन्तु स्वात्मना जीवात्मना सम्बद्धयोर्मरणादुत्तरयोर्गमनागमनयोः ‘चन्द्रमसमेव ते सर्वे गच्छन्ति’ इति वाक्योक्तयोर्व्याप्ते जीवेऽनुपपत्तेर्मध्यमपरिमाणत्वेऽनित्यत्वापत्तेरणुर्जीव इत्येव । अतो नात्र हरावात्मपदप्रयोग इत्यत आह- सूत्रार्थे विप्रतिपन्नमिति ।। आङ्पूर्वादिति ।। आतन् इति स्थिते औणादिकडमन्प्रत्यये ‘चुटू’ इति डकारस्येत्संज्ञायां लोपे डिति भस्य टेर्लोप इति अन् इत्यस्य लोपे आत्मेति रूपमिति भावः । बृहतेरिति ।। बृह वृद्धावित्यतो मनिन्प्रत्यये ‘मिदचोऽन्त्यात्परः’ इति ऋकारात्परतो अमागमे यणादेशे च ब्रह्मेति रूपमिति ज्ञेयम् । अपीतशब्देन कथमैक्यस्योक्तिरित्यत आह- यावदुक्तमिति ।। अयमेकीभावशब्दसमान इति भावः । इतिपदानन्तरमनेनेति शेषोक्त्या वाक्यं योजयति- अनेन शब्देनेति ।। यद्वा अपीत इत्यपि अपीतशब्दोऽपि प्रवेशमात्रं गमयति नैक्यमित्येव योजना अपिपदार्थोक्त्योक्तप्रायेति तात्पर्यार्थमाह- अनेनेत्यादिना ।। अपिधाने तीरोधाने इत्यर्थः । कर्तरीति ।। इणो गत्यर्थत्वाद्गत्यर्थाकर्मकेत्या-दिना कर्तरि क्तप्रत्यय इति भावः । प्रवेशस्त्वार्थिको न शाब्द इति भावेनाह- प्रवेशे सति सम्भवतीति ।। ‘अविज्ञातं प्रविश्व्ं यदपीतमिति कीर्त्यते’ इत्युक्तदिशाऽन्यैरज्ञेयत्वेनानुप्रविश्व् इत्यर्थोऽस्येति भावः । तृतीया-विधानादिति ।। ‘सहयुक्तेऽप्रधाने’ इति सूत्रेणेति भावः । अन्यथानुपपत्त्यापि स्वशब्दोऽत्र भगवद्वाचीत्याह- एवमपीतशब्दस्येति ।।
अस्ति तात्पर्यज्ञापकमिति ।। प्रकरणरूपं दृष्टान्ताख्योपपत्तिरूपं चेत्यर्थः । इत्यादिरन्वय इति ।। ‘संसारी पुद्गिल उद्दिष्टः’ संसारी अनुशयी उद्दिष्ट इत्येवमन्वय इत्यर्थः । असुन्प्रत्यय इति ।। निरुक्तत्वादिति भावः । एवमग्रेऽपि । पुत्र इतीति ।। पुत्तो नरकात् त्रायत इति पुच्छब्दस्य नरके प्रयोगदर्शनादित्यर्थः । पचाद्यचीति ।। ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इति पचादेराकृतिगणत्वात्तेनाच्प्रत्यये ऋकारस्य इर् इत्यादेशे रेफस्य च लत्वे गिल इति रूपं, पुतो गिलः पुद्गिल इत्यर्थः । अनुपूर्वादिनिरिति ।। अनु शी इति स्थिते इनि प्रत्यये ‘सार्वधातुकार्धधातुकयोः’ इति गुणेऽयादेशे चानुशयीति रूपमिति भावः । एवशब्दचशब्दयोरन्वयमाह- इति सम्बन्ध इति ।। पचाद्यचीति ।। ‘पूर्वपदात्संज्ञायामगः’ इति णत्वे चेत्यपि ध्येयम् । ब्रह्मपरिणामो जगदिति मतेनाह- घटस्य मृदिवेति ।। ब्रह्मविवर्तमतेनाह- भुजङ्गस्य रज्जुरिवेति ।। उपादानशब्दोऽस्मिन्पक्षे आरोपाधिष्ठानपरः । प्रतिपद्यन्त इति इतिपदस्य इत्यभेदः प्रतीयत इति पूर्वेणान्वयः । स्रष्टृत्वादिति वचनोक्त्या प्रागुक्ताभेदप्रतीतेः का गतिरित्यतस्तथा व्याख्यैवायुक्तेति भावेनाह- एतदुक्तम्भवतीति ।। कारणा-दीति ।। कारणाश्रयस्थापनमात्रवाचिन इत्यर्थः । तत्रेति ।। परोक्तार्थनैयत्याभावे सतीति, कारणादिमात्रवाचित्वे सतीति वाऽर्थः । प्रतिष्ठापक इति ।। तत्तद्योग्यस्थलविशेषे स्थापक इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
स्वात्मवाचीति ।। जीववाचीत्यर्थः । प्रत्यग्भावमेवेति ।। अन्तरवस्थितत्वरूपं प्रत्यक्त्वं निमित्ती-कृत्य जीवमेव वदेदित्यर्थः । स्वात्मना चेतीति ।। ‘स एतेनैव स्वात्मना परेणेमं गर्भमाविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते तं वा एतमभिवदन्ति स्वात्मेति’ ‘एष ह्येवानन्दमादत्ते एष ह्येनं जीवमभिजीव्य जीवयत्येष उद्गमयत्येष आगमयति’ इत्युत्तरयोर्वाक्ययोस्सत्त्वात् । ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति’ इति वाक्योक्ता उत्क्रान्त्यादयो जीवस्य स्वात्मना च- परमात्मनैव न स्वातन्त्र्येणेति सूत्रार्थो द्रष्टव्यः । विप्रतिपन्नं प्रतीति ।। सूत्रस्य अर्थान्तरं वदिष्यामीति वदन्तं प्रतीत्यर्थः । आङ्पूर्वकात्तनोतेरिति ।। आङ्पूर्वात् ‘तनु विस्तारे’ इत्यस्माद् डमन्प्रत्यये ‘टेः’ डिति परे भस्य टेर्लोपः स्यादिति सूत्रेण डित्त्वात् टिभूतस्य अन् इत्यस्य लोपे ‘आत् मन् आत्मन्’ इति नकारान्तप्रातिपदिकनिष्पत्त्यनन्तरं स्वाद्युत्पत्तौ आत्मेति भवतीति द्रष्टव्यम् । बृहतेर्मन्प्रत्यय इति ।। ‘बृह वृद्धौ’ वृद्धिः पूर्णत्वं तच्च गुणतः । तथा चास्मात् मन्प्रत्यये अमागमे ‘मिदचोऽन्त्यात्परः’ अन्त्यादचः परो मित्स्यादिति सूत्रेण मित्त्वादन्त्यादचः परं जाते बृ अह् मन् इति जाते ‘इको यणचि’ इति यणादेशे ब्रह्मन् इति प्रातिपदिकं निष्पद्यत इत्यर्थः ।
अपीतशब्देन कथमैक्यमुक्तमित्यत आह- यावदिति ।। यावत्प्रमेयमित्यर्थः । अखण्डवृत्तिं रूढिम् । अस्मात् अपीतशब्दात् । अनेनेति ।। अपीत इत्यनेन शब्देनेत्यर्थः । तदुपपादयति- अपिर्हीति ।। अपिधाने आच्छादने । वर्तत इति ।। ‘अपिधानतिरोधानपिधानाच्छादनानि च’ इति कोशादित्यर्थः । निष्ठाप्रत्यय इति ।। क्तप्रत्यय इत्यर्थः । ‘क्तक्तवतू निष्ठा’ इति स्मरणात् । तथा च अपिपूर्वकात् इण् गतावित्यस्मात् क्त-प्रत्यये ककारलोपे अपीत इति भवति । कर्तरीति ।। अपि आच्छादनं यथा स्यात्तथा स्वम् इतः प्राप्तो भवतीत्यर्थः। नन्वथापि प्राप्तिरेव प्राप्ता न तु प्रवेश इत्यत आह- ततश्चेति ।। अपिहितस्य गतिरिति ।। यथा तिरोहितस्य पक्षिणो गतिः कुलायप्रवेशं विना न सम्भवति तथा तिरोहितस्य जीवस्य गतिः स्वशब्दवाच्यपरमात्मप्रवेशं विना न सम्भवतीत्यर्थः । तस्य चेति ।। ऐक्यपर्यायस्यापीतशब्दस्येत्यर्थः । अक्रियार्थत्वादिति ।। ऐक्यस्य (श्री.टि.) क्रियारूपत्वाभावेन तद्वाचकापीतशब्दस्य क्रियावाचकत्वाभावादित्यर्थः । तथा चापीतशब्दस्य क्रियावाचित्वे हि क्रियायाः कर्मापेक्षायां द्वितीयानिर्देशोऽपेक्षितः स्यान्न चैवमिति भावः । ननु भवतीति क्रियावाचिपदसद्भावात्तत्र कर्मापेक्षायां द्वितीयानिर्देशो युक्त इति चेत्तत्राह- भवतेश्चेति ।। भूधातोः सत्तार्थकत्वेनाकर्मकत्वादित्यर्थः ।
‘वृद्धिक्षयभयजीवितमरणं लज्जासत्तास्थितिजागरणम् ।
शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः ।।’
इति वचनादिति भावः । इण इति ।। इण् धात्वर्थभूतायाः प्राप्त्यपरपर्यायाया गतेरित्यर्थः । विधानादिति ।। ‘सहयुक्तेऽप्रधाने’ इति सूत्रेणेत्यर्थः । पुत्रेण सहागतः पितेत्युदाहरणम् । ननु कथमेतत् । यद्यत्र सहयोगः स्यात्तर्ह्येव तद्योगे तृतीयाऽऽपादनीया स्यात्, स एव नास्तीति चेत्सत्यम् । अस्माभिरश्रुतकल्पनमापद्यते । एवं चैक्यस्य सहार्थापेक्षत्वादपीतशब्दस्यैक्यार्थत्वे सहशब्दयोगः स्यात् । ततश्च तद्योगे च स्वेनेति तृतीयानिर्देशश्च स्यादित्युभयस्याप्यापादनादिति भावः । प्रवेशासम्भवादिति ।। स्वस्येति शेषः । कर्तृकर्मविरोधादिति भावः। अन्यदिति ।। जीवेश्वरयोराश्रयाश्रयिभावरूपं प्रमेयं प्रतिज्ञाय तत्र शकुनिसूत्रदृष्टान्तमुक्त्वा दार्ष्टान्तिके मनसः प्राणाश्रयत्वकथनमयुक्तम् असङ्गतत्वादित्यर्थः ।
शङ्कते- अस्तीति ।। तात्पर्यज्ञापकम् आश्रयाश्रयिभावेन जीवेश्वरयोरेवोपक्रान्तत्वरूपमित्यर्थः । तथापीति शेषः । मनःप्राणशब्दयोरिति ।। ‘मन इति जीवः प्राण इति परमात्मा’ इत्यत्र उच्यत इति शेषोक्त्या तयोः शब्दयोः शक्तिरुक्ता । तत्कुत इत्यर्थः । इत्यादिरिति ।। संसारी पुद्गल उद्दिश्व् इत्यन्वयो द्रष्टव्यः । असुन्निति ।। तथा च उन् इत्यस्य लोपे मनस् इति प्रातिपदिकं निष्पद्यत इत्यर्थः । तत्र ज्ञापकमाह- पुत्र इतीति ।। ‘पुन्नाम्नो नरकात् त्राता पुत्र इत्यभिधीयते’ इति पुत्रशब्दनिर्वचनपरे वाक्ये पुच्छब्दस्य नरकवाचित्वदर्शनादित्यर्थः । पचाद्यजित्यादि ।। तथा च पुच्छब्दोपपदात् ‘गॄ निगरणे’ अस्मात्कर्तरि पचाद्यचि गॄ अ इति स्थिते ‘सार्वधातु-कार्धधातुकयोः’ अनयोः परयोरिगन्ताङ्गस्य गुणः स्यादिति सूत्रेण गॄ इत्यत्रत्यऋकारस्य गुणे ‘उरण् रपरः’ इति रपरत्वे पुत् गरेति जाते, ‘अचि विभाषा’ रो लत्वं स्यादजादौ प्रत्यये पर इति रस्य लत्वे ‘झलां जश् झशि’ इति तकारस्य दकारे पुद्गलेति रूपमित्यर्थः । षष्ठीसमास इति ।। तथा च पुतो गलः पुद्गल इत्यर्थः । ‘कृदतिङ् इति’ तिङ्वर्जप्रत्ययस्य कृत्त्वोक्तेरच्प्रत्ययस्य कृत्त्वात् तद्योगे ‘कर्तृकर्मणोः कृती’ इति षष्ठ्या एवानुशासनादिति भावः । शीङोऽनुपूर्वादिनिरिति ।। अनुपूर्वकात् ‘शीङ् स्वप्ने’ अस्मादिनिप्रत्यये ‘सार्वधातुकार्धधातुकयोः’ इति सूत्रेणेकारस्य एकाररूपे गुणे ‘शे इन्’ इति जाते ‘एचोऽयवायावः’ एचः क्रमादय् अव् आय् आव् एते स्युरचीति सूत्रेण एकारस्यायादेशे अनुशय् इन् अनुशयिन्निति प्रातिपदिकनिष्पत्तिरित्यर्थः । चैवशब्दयोरन्य-समुच्चायकान्यनिषेधकयोरेकत्र विरोधेन सम्बन्धाभावादाह- संसार्येवेति ।। प्रपूर्वादिति ।। प्रपूर्वाद् ‘अन चेष्टायाम्’ (श्री.टि.) अस्मात् पचाद्यचि ‘अनितेः’ उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णत्वं स्यादिति सूत्रेण नस्य णत्वे प्राणेति रूपम् । निर्दोषत्वादिति ।। निर्दोषो हि साधुरित्युच्यत इति भावः ।
घटस्य मृदिवेति ।। परिणामवादिभास्कररीत्योक्तम् । मायावादिरीत्याऽऽह- भुजङ्गस्य रज्जुरिवेति ।। निर्विकारत्वश्रुतिविरोधेन ब्रह्मणः परिणामित्वरूपोपादनत्वायोगाद् भुजङ्गं प्रति रज्जुर्यथा विवर्ताधिष्ठानत्वेनोपादानं तथा ब्रह्मापि स्थावरजङ्गमात्मकप्रपञ्चारोपाधिष्ठानत्वेनोपादानमित्यर्थः । तदुपपादयति- न हीति ।। एवं प्रजाः सदात्मकं ब्रह्माश्रित्यैव स्थितिं लभन्ते इति सदायतना इत्यर्थः । उपलक्षणमेतत् । भुजङ्गो रज्जुमनाश्रित्य स्थितिं न लभत इत्यपि द्रष्टव्यम् । तत्तात्पर्यमाह- सत्स्वरूपतामेवेति ।। ननु स्रश्व्ृत्वादेरिवोपादनात्वादेरपि ग्रहणसम्भवे भेद एवोच्यत इति कथं नियम्यत इत्यत आह- एतदुक्तं भवतीति ।। उपादानादिष्विति ।। मूलशब्द उपादाने, आयतनशब्दः स्थितिकाल आश्रये, प्रतिष्ठाशब्दश्चान्ते पर्यवसाने न नियत इत्यर्थः । मूलादिशब्दा नियमेनो-पादानादिवाचिनो न भवन्तीति भावः । कारणादिमात्रेति ।। मूलशब्दः कारणमात्रवाची, आयतनशब्द आश्रयमात्रवाची, प्रतिष्ठाशब्दश्च स्थापकत्ववाचीत्यर्थः । आगमवाक्यान्तरेति ।। स्रष्टृत्वादित्यागमवाक्ये-त्यर्थः । स्रष्टृत्वादिति प्रमाणे प्रतिकल्पेषु मुक्तानां स्थापनात् । एवं विरुद्धधर्माधिकरणत्वाद्विष्णुः संसारिणोऽन्यो मत इत्यर्थः । निमित्तकारणादिरिति ।। एवं च सत् ब्रह्म मूलं निमित्तं यासां ताः सन्मूलाः । सत् ब्रह्म आयतनम् आश्रयो यासां ताः सदायतनाः । सत् परं ब्रह्मैव मुक्तौ प्रतिष्ठापकं यासां ताः सत्प्रतिष्ठा इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
सूत्रार्थे विप्रतिपन्नं प्रतीति ।। ‘स्वात्मना चोत्तरयोः’ इत्यस्यायमर्थः - उत्क्रान्तिः कदाचिद-चलतोऽपि ग्रामस्वाम्यनिवृत्तिवद् देहस्वाम्यनिवृत्त्या कर्मक्षयेण वा कल्प्येत, उत्तरे तु गत्यागती नाचलतः सम्भवतः । स्वात्मना हि तयोः सम्बन्धो भवति । गमेः कर्तृस्थक्रियात्वादमध्यमपरिमाणस्य गत्यागती अणुत्व एव सम्भवतः । सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते । न ह्यनपसृप्तस्य देहाद्गत्यागती स्याताम् । देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनाच्च ‘चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरप्रदेशेभ्यः’ इति । ‘स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववाक्रमति’ ‘शुक्रमादाय पुनरेति स्थानम्’ इति चान्तरपि शरीरे शरीरस्य गत्यागती भवतः । तस्मादणुत्वसिद्धिरिति । सति चैवं कथमस्य सूत्रस्य भगवतः स्वशब्दवाच्यत्व-साधकतयोदाहरणम् । सूत्रस्य भगवदुक्तार्थपरत्वासिद्धेरित्याशयः । यत्तु चशब्द एवार्थे, स्वात्मनैव परमात्मनैव जीवस्योत्क्रान्तिगत्यागतयो भवन्ति न स्वतः । ‘सोऽस्माच्छरीरादुत्क्रम्य’ इति पौष्यायणश्रुतिवाक्यादुत्तरयोः स एतेनैव परमात्मनेत्यादिवाक्ययोस्तथैव वक्तव्यत्वादिति सूत्रार्थकथनम्, तत्तु अस्य ग्रन्थस्य स्वसिद्धान्त-ग्रन्थत्वभ्रान्तिमात्रमूलकत्वेन, विप्रतिपन्नमित्यस्यादर्शनेन चात्यन्तायुक्तत्वादुपेक्ष्यम् ।
डमन्प्रत्यय इति ।। आङ्पूर्वात्तनोतेर्बाहुलकडमन्प्रत्यये डित्त्वात् अन् इति टिलोपे आत्मन्निति प्रातिपदिक-निष्पत्तिरिति भावः । बृहतेरिति ।। वृद्ध्यर्थाद् बृहतेः ‘अन्येभ्योऽपि दृश्यते’ इति मनिन्प्रत्ययः । दृशिग्रहण-(पां.टि.) सामर्थ्याद्धातोरमागमश्चेत्यर्थः । यद्यपि ‘बृंहेर्नोऽच्च’ इति बृंहेर्मनिनि नकारस्य अकारे च ब्रह्मशब्दो व्युत्पादितः । तथापि ‘बृह बृहि वृद्धौ’ इति बृहतेरपि पाठादन्येभ्योऽपि दृश्यत इति मनिनि दृशिग्रहणसामर्थ्या-दमागमेन तस्य चैतद्रूपमित्यभिसन्धायैवमुक्तमिति ध्येयम् । यद्यपि इदितो बृंहे रूपाश्रयणे न दृशिग्रहणसामर्थ्य-माश्रयणीयम् । तथापि ‘बृह जातिजीव’ इति धात्वन्तरादपि एतद्रूपनिष्पत्तिरिति सूचनायैवमुक्तमिति द्रश्व्-व्यम् । निष्ठाप्रत्यय इति । क्तप्रत्यय इत्यर्थः । क्तस्य च कित्त्वाद्गुणनिषेधे इत इति रूपनिष्पत्तिरिति भावः । तस्य चेति ।। ऐक्यशब्दपर्यायस्य अपीतशब्दस्य क्रियार्थत्वाभावान्न स्वमिति कर्मापेक्षित्वमिति भावः । अस्तु तर्हि क्रियार्थस्य भवतेः कर्मापेक्षत्वमित्यतो भवेदेवं यदि तस्य सकर्मत्वं स्यात्, न चैतदस्ति, अतो न तस्यापि कर्मापेक्षत्वमित्याह- भवतेश्चेति ।। अखण्डवृत्तौ स्वमिति द्वितीयानिर्देशानुपपत्तिमुपपाद्यावयववृत्तौ तदुपपत्तिमाह- अवयववृत्त्यङ्गीकारे त्विति ।। सहयोग इति ।। ‘सहयुक्तेऽप्रधाने’ इत्यनेनेति शेषः । असुन्प्रत्यय इति ।। ‘असुन्’ इति सूत्रेण कर्तरीति शेषः । दर्शनादिति ।। ‘पुन्नाम्नो नरकात् त्राता पुत्र इत्यभिधीयते’ इति वचनादिति भावः । पचाद्यजिति ।। ‘गॄ निगरणे’ इत्यतः कर्तरि पचादित्वादचि तस्मिन्परतो गुणे रपरत्वे च गर इति रूपनिष्पत्तिरिति भावः । लकार इति ।। निर्वचनत्वादिति भावः । षष्ठीसमास इति ।। पुतो गलः पुद्गल इति षष्ठीसमास इत्यर्थः । कर्तृकर्मणोः कृति’ इति कृद्योगे कर्तरि षष्ठ्या एवानुशासनादिति भावः । इनिरिति ।। अनुपूर्वात् शीङः कर्तरि इनि सार्वधातुकेति गुणेऽयादेशे अनुशयिन्निति प्रातिपदिकनिष्पत्तिरिति भावः । अनिते-रिति ।। चेष्टार्थकादनतेः कर्तरि पचादित्वादचि प्राणेति प्रातिपदिकनिष्पत्तिरिति भावः । विवर्तवादिभिः परैर्निर्विकारतया ब्रह्मणः परिणामित्वानभ्युपगमान्मृद्दृश्वन्तानानुगुण्यं मन्वानः तदनुगुणं दृष्टान्तमाह- भुजङ्गस्येति ।।
लघुप्रभा
(व्या.टि.)
जीव इति ।। ‘अत्रायं स्वपिति’ इति प्रकृत इह कर्तृत्वेन सम्बद्ध इत्यर्थः । स्वमित्यनूद्य स्वात्मभूतमिति व्याख्या । स्वप्रत्यग्भूतमित्यर्थः । ‘स्वमज्ञातिधनाख्यायाम्’ इति सूत्रे स्वशब्दस्य प्रत्यगर्थात्मवाचिताया उक्तत्वादित्यर्थः । अत्रापीतो भवतीति प्रकृतो जीवः स्वशब्दोक्तप्रत्यगैक्ये पदिन्यायेन प्रतियोगितया सम्बध्यत इति भावः । अत्रापीतः परम् इत्यतः परमिति शेषः । प्रत्यग्भावमेवेति ।। तदर्थमेवेत्यर्थः । न चैवमिति ।। नानार्थत्वान्नार्थविशेषनिर्णय इत्यर्थः । वस्तुतस्तु यद्यपि स्वशब्दः स्वात्मवाची तथापि स्वमज्ञातीति सूत्रनिर्देशात्,
‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने ।’
इत्यमरकोशाच्च नपुंसक एव तद्वाची, न पुंलिङ्गः । स तु ‘आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारतः । तथैव स्व इति प्रोक्तस्तस्माद् ब्रह्मात्मभूः स्वभूः ।
‘स्वातन्त्र्यात्स्व इति प्रोक्तो विष्णुः सर्वेश्वरेश्वरः’
इत्यादिवचनेन ब्रह्मासाधारणः । अत एव मूले स्व इति पुंलिङ्गनिर्देशः कृत इति रहस्यम् । ‘स्वात्मना चोत्तरयोः’ इति सूत्रार्थस्तु ‘एकः प्रसूयते जन्तुरेक एव प्रमीयते’ इति गत्यादिस्वातन्त्र्यमाशङ्क्य स एतेन स्वात्मनेत्युत्तर-(व्या.टि.) योर्वाक्ययोः परमात्मनैवोत्क्रान्त्यादय इति भगवद्भाष्यादवगन्तव्यः । विप्रतिपन्नमिति ।। वादिवाक्ये विश्वासाभावात् ।
डमन्प्रत्यय इति ।। डित्त्वाट्टिलोप इत्यपि ग्राह्यम् । अमागम इति ।। मित्त्वादन्त्याचः परेणापि बोध्यः । पञ्चपाद्यां तु ‘बृंहेर्नोऽच्च’ इति प्रकृत्यन्तरान्निरुक्तम्, नो नकारस्याकार इत्यर्थः । मूलं वाक्यभेदेन योजयति- यत इति ।। उत्तरवाक्यस्य यत इति शेषं मनसि निधाय व्याचश्व्े- अनेनेति ।। लाभप्रकारमाह- अपिर्हीति ।। कर्तरीति ।। गत्यर्थाकर्मकेति तथा विहितत्वादित्यर्थः । छान्दोग्यभाष्ये तु ‘अप्ययो नामाविज्ञेयत्वेन प्रवेशः । अविज्ञातं प्रविश्व्ं यदपीतमिति कीर्त्यते इति शब्दनिर्णये’ इति प्रकारान्तरेण व्याख्यातम् । ऐक्यपर्यायस्तत्परपद-पर्यायः । तस्यापीतपदस्य । न समानोयं दोषो मत्पक्ष इत्याह- अवयववृत्तीति ।। सहयोग इति ।। ‘सहयुक्तेऽप्रधाने’ इति तद्विवक्षायां तृतीयाविधानादित्यर्थः । कुलायमिति ।। नीडमित्यर्थः । यद्यपीति ।। प्राक्पुंलिङ्गस्वशब्दस्य ब्रह्मादिशब्दवदसाधारणब्रह्मवाचित्वान्न प्रत्यगर्थवाचित्वमित्युक्तम् । अधुना ‘स्वमज्ञाति-धनाख्यायाम्’ इति पुंलिङ्गस्यापि जस्युक्तसंज्ञाविकल्पविधानात्तद्वाचित्वेऽपि नात्र तदर्थत्वम् । उपपत्तिविरोधादि-त्याह- तथापीति ।। ज्ञापकमिति ।। उपक्रमवाक्यमिति शेषः । दर्शनादिति ।। ‘पुन्नाम्नो नरकात् त्राता पुत्र इत्यभिधीयते’ इति निर्वचनेन पुतस्त्रातरि पुत्र इति प्रयोगदर्शनादित्यर्थः । पचाद्यजिति ।। पचादिलक्षणोऽजि-त्यर्थः । तथा च गिरतेरचि ‘इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ इति गुणः । रेफस्येति ।। ‘अचि विभाषा’ इति रेफस्य लत्वमित्यर्थः । प्रपूर्वादिति ।। ‘प्राणं देवा अनुप्राणन्ति’ ‘प्राणः परमनुप्राणिति । तस्मादाहुः प्राणस्य प्राणः’ इति श्रौतनिर्वचनादिति भावः । प्रणयनादिति निमित्तान्तरम् । प्रपूर्वान्नयतेर्डच् प्रत्यये प्रणः, प्रण एव प्राणः, प्रज्ञाद्यणिति निर्वचनान्तरं द्रष्टव्यम् । घटस्य मृदिवेति विवरणरीतिः । भुजङ्गस्य रज्जुरिवेति भामतीरीतिः । स्थावरजङ्गमात्मिकानामिति इत्वेनैव पाठः । जङ्गमात्मकानामिति पाठे कप्रत्ययान्तात्मशब्देन विग्रहे टापः सुपः परत्वान्नेत्वमिति ध्येयम् । नियता इति ।। व्याख्येयेऽपि मूलपदप्रयोगात् ।
‘य आसामेवमायतनं वेद आयतनवान् भवति’
‘य आसामेवं प्रतिष्ठां वेद प्रत्येव तिष्ठति’
इति इष्टकानामाश्रये लयाधिष्ठानेऽप्यायतनप्रतिष्ठापदप्रयोगान्न तदर्थनियम इति भावः । आगमवाक्यान्तरेति।।
‘जगतो मूलमप्येष निमित्तं न विकारवान् ।
बीजजीवो यथा मूलमङ्कुरस्याविकारतः ।।
यथा पिता पुत्रतन्वास्तद्देहो हि विकारवान् ।
एवं हरिर्मूलमपि न विकारी कथञ्चन ।।’
इति छान्दोग्यभाष्योदाहृतवाक्यान्तरानुसारेणेत्यर्थः । प्रजानां चेतनत्वेन सत्यत्वेन च ताः प्रति सत उपादानत्वभ्रमाधिष्ठानत्वयोरयोगाच्च ।