नच विशेषणविशेष्यतया ..
बाधकपरिहारपूर्वकं भेदविषयकप्रत्यक्षसमर्थनम्
मूलम्
- नच विशेषणविशेष्यतया भेदसिद्धिः । विशेषणविशेष्यभावश्च भेदापेक्षः ; धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः, भेदापेक्षं च धर्मिप्रतियोगित्वमित्यन्योन्याऽश्रयतया भेदस्यायुक्तिः, पदार्थस्वरूपत्वाद् भेदस्य । नच धर्मिप्रतियोग्यपेक्षया भेदस्या-स्वरूपत्वम् ; ऐक्यवत् स्वरूपस्यैव तथात्वात् ।
तत्त्वमञ्जरी
अत्र परैरुत्प्रेक्ष्यमाणं भेदग्रहासम्भवमनूद्य दूषयति- न च विशेषणेति ।। अयमर्थः - भिन्नः पट इति विशेषणविशेष्यभावज्ञानेन भेदज्ञानम् । भिन्नः पट इत्युभयोरर्थयोर्विशेषणविशेष्य-ज्ञानं च भेदज्ञानापेक्षम् । एवमन्योन्याश्रयतया भेदस्यायुक्तिः । अपि च, घटात् पट इति धर्मि-प्रतियोगिज्ञानापेक्षया भिन्न इति हि भेदज्ञानम् । घटपटयोर्भेदज्ञानापेक्षं च तयोर्धर्मिप्रतियोगित्व-ज्ञानमिति चान्योन्याश्रयतया भेदस्यायुक्तिरिति च न वक्तव्यम् । भेदस्य पदार्थस्वरूपत्वात् स्वरूपग्रहण एव ग्रहणसम्भवात् । ननु पटस्वरूपं तावदयं पट इति गृह्यते, न धर्मिप्रतियोग्य-पेक्षया । भेदस्य तु तदपेक्षत्वात् कथं स्वरूपत्वमित्यत आह- न च धर्मीति ।। यथा तत्पक्षे स्वरूपभूतमप्यैक्यं जीवस्य ब्रह्मणैक्यमस्तीति धर्मिप्रतियोग्यपेक्षया गृह्यते, एवं स्वरूपभूतस्यैव भेदस्य धर्मिप्रतियोग्यपेक्षया ग्राह्यत्वात्, अहमिति जीवस्वरूपसिद्धावप्यैक्यासिद्धिस्तस्य मायिनः सिद्धैव ।
टीका
एवं तावद्विष्णोः सर्वोत्तमत्वे सर्वेषां सदागमानां महातात्पर्यमिति प्रमाणैरुपपादितम् । तत्र बाधकपरिहारार्थः ‘कथं च जीवपरमात्मैक्ये’ इत्यतः प्राक्तनो ग्रन्थः । तथाहि - क्षराक्षर-जडात्मकात् सर्वस्मादुत्तमत्वमित्ययमर्थो भेदसापेक्षः । भेदस्तु न कश्चिदपि प्रामाणिकः । नच घटपटादिभेदस्तावत् प्रत्यक्षसिद्ध इति वाच्यम् । भेदो हि न तावत्स्वतन्त्रः प्रतिभासते, किन्तु घटपटौ भिन्नाविति घटपटविशेषणतया वा घटपटयोर्भेद इति तद्विशेष्यतया वा, एकस्यैव भेदस्य द्विष्ठत्वपक्षे । भेदद्वयाङ्गीकारेणान्यतरमात्राऽश्रयत्वेऽपि विशेषणविशेष्यभावं धर्मिप्रतियोगिभावं वाऽनपेक्ष्य सम्बन्धिमात्रापेक्षायां गत्यन्तराभावात् । भेदस्य च विशेषणत्वे घटपटयोर्विशेष्यत्वं, तस्य विशेष्यत्वे तयोर्विशेषणत्वम् । तथाच घटपटाविति वा घटपटयोरिति वा द्वित्वावच्छिन्न-योर्घटपटयोर्विशेषणविशेष्यतया प्रतीतौ सत्यां भेदप्रतीतिः, विशेषणादिप्रतीतेर्विशेष्यादिप्रतीति-कार्यत्वात् । द्वित्वावच्छिन्नयोर्घटपटयोर्विशेषणविशेष्यभावप्रतीतिश्च भेदप्रतीत्यपेक्षा, भेदप्रतीत्य-विनाभूतत्वाद् द्वित्वप्रतीतेः । तथाचान्योन्याश्रयता ।
अथ यदाऽन्यतरमात्राश्रयो भेदो धर्मिप्रतियोगिभावापेक्षश्च, तदाऽप्यन्योन्याश्रयता । घटात् पटस्य भेद इति पटस्य भेदं प्रति धर्मित्वं घटस्य चावधित्वेन प्रतियोगित्वं प्रतीत्य हि भेदः प्रत्येतव्यः। भेदप्रतीत्यपेक्षा च धर्मिप्रतियोगित्वप्रतीतिः । अन्यथा पटस्येति घटादिति च विलक्षणप्रतीत्य-नुपपत्तेरिति । तथाचान्योन्याश्रयतया प्रत्यक्षेण भेदप्रतीतेरनुपपत्तिरिति । तदेतदाशङ्क्य निषेधति- न चेति ।। उक्तानुसारेण पदानि योज्यानि । कुतो नेत्यत आह- पदार्थेति ।। धर्मीह पदार्थ इत्युच्यते ।
अयमर्थः- न भेदो युगधर्मः । किन्त्वेकस्य धर्मोऽपरेण निरूप्यः । घटपटौ भिन्नावित्यत्रापि घटात् पटो भिन्नः पटाद् घटो भिन्न इत्येवार्थः । एवं घटपटयोर्भेद इत्यत्रापि घटपटधर्मिकं भेदद्वयमेव प्रतीयते । एकवचनं तु घटपटयो रूपमितिवत् समुदायापेक्षम् । स च भेदो धर्मिणः स्वरूपमेव । तेन धर्मिप्रतीतिरेव भेदप्रतीतिरिति प्रतीतिद्वयाभावान्नान्योन्याश्रयत्वम् । घटस्य प्रतियोगिता च पटप्रतियोगिकतद्धर्मिकभेदनिबन्धनैव । सोऽपि घटस्य स्वरूपमेव । तथाऽपि प्रतिपन्नभेदस्य प्रतियोगित्वाद् घटात् पटस्य भेदसिद्धौ पटाद् घटस्य भेदसिद्धिरित्यन्योन्याश्रयत्वमिति चेन्न । विद्यमानभेदस्य प्रतीतिमात्रेण प्रतियोगित्वोपपत्तेरिति । एतेन विशेषणविशेष्यभावप्रतीतेर्भेद-प्रतीत्यधीनत्वस्य दण्ड्यादौ दर्शनेन भेदप्रतीतिपरम्परयाऽनवस्थाप्रसङ्गोऽपि परास्तः । तथा प्रत्यक्षं किं भेदमेव गोचरयेदुत वस्त्वपि । नाऽद्यः। भेद इत्येव प्रतीत्यभावात् । द्वितीयेऽपि किं भेदपूर्वं वस्तु गोचरयेदुत वस्तुपूर्वं भेदं युगपद्वोभयम् । नाऽद्यः । भेद इत्येवाप्रतीतेः । विरम्य व्यापारायोगाच्च । अत एव न द्वितीयो नापि तृतीयः । वस्तुप्रतीतेर्भेदप्रतीतिकारणत्वेन यौगपद्यायोगात् इत्येतदपि निरवकाशमिति ।
भवेदयं परिहारो यदि भेदस्य धर्मिस्वरूपत्वं स्यात् । नच तद्युक्तम् । धर्मिस्वरूपं हि परप्रतीति-निरपेक्षमेव प्रतीयते । न हि कस्यचिदस्मादयं पट इति वा अस्मादस्य पट इति वा प्रतीतिरस्ति । किं नाम पट इत्येव । भेदस्तु घटात् पटो भिन्न इति वा घटात् पटस्य भेद इति वा धर्मिप्रतियोगिप्रतीत्य-पेक्षयैव प्रतीयते नतु जातुचिद्भेद इत्येव । तथाच सापेक्षनिरपेक्षतालक्षणविरुद्धधर्माधिकरण-योर्भेदधर्मिस्वरूपयोः कथमैक्यं स्यादित्याशङ्क्याऽह- नचेति ।। धर्मिप्रतियोगीति तत्प्रतीति-रुपलक्ष्यते । अपेक्षया प्रतीयमानत्वादिति शेषः । अस्वरूपत्वं परप्रतीतिनिरपेक्षप्रतीतिकधर्मि-स्वरूपत्वाभावः । कुतो नेत्यत आह- ऐक्यवदिति ।। यथा अनपेक्षप्रतीतिकप्रत्यक्चैतन्यस्वरूप-स्यापि जीवब्रह्मैक्यस्य जीवस्य ब्रह्मणैक्यमिति धर्मिप्रतियोगिप्रतीत्यपेक्षया प्रतीयमानत्वं परेणाङ्गीक्रियते, तथा निरपेक्षप्रतीतिकधर्मिस्वरूपस्यैव भेदस्य धर्मिप्रतियोगिप्रतीत्यपेक्षया प्रतीयमानत्वोपपत्तेः ।
एतेन, भेदपटौ नाभिन्नौ सापेक्षनिरपेक्षप्रतीतिकत्वेन विरुद्धधर्माधिकरणत्वादित्यस्यान्यतरा-नैकान्तिकत्वमुक्तं भवति । नचैक्यं न स्वरूपमिति वाच्यम् । अस्वरूपत्वे मिथ्यात्वप्रसङ्गेन तत्परस्य तत्त्वमस्यादिवाक्यस्यातत्त्वावेदकत्वप्रसङ्गात् । अस्वरूपस्यापि सत्यत्वे सदद्वैतभङ्गप्रसङ्गात् । नचैक्यं न सापेक्षमिति वाच्यम् । तथा सति तत्त्वम्पदार्थप्रतिपादकानां वेदान्तवाक्यानामैक्यपरमहा-वाक्यैकवाक्यताऽभावप्रसङ्गेन वैयर्थ्यापातात् । अथ तत्र प्रतीत्योरेव सापेक्षत्वनिरपेक्षत्वलक्षण-विरुद्धधर्माधिकरणत्वेन भेदोऽस्तु नतु तद्विषयस्य, एकस्यैवाग्नेः सापेक्षनिरपेक्षानुमितिप्रत्यक्ष-विषयत्वदर्शनेन विरोधाभावादिति ब्रूयात् तर्हि तत्प्रकृतेऽपि समानम् । अधिकश्चात्र सविशेषा-भेदाङ्गीकारेण परिहारो भविष्यतीति ।
भावबोधः
ननु ‘विशेषणविशेष्यभावश्च भेदापेक्षः’ इत्युक्तम् । घटादिविशेषणत्वादिना भेदप्रतीतेर्विशेष्यतया घटादिप्रतीतिसापेक्षत्वेऽपि न विशेष्यतया घटादिप्रतीतेस्तद्भेदप्रतीतिसापेक्षत्वम् । प्रत्येतव्यभेदज्ञानाभावेऽपि घटो भिन्नो घटे भेद इति भेदविशेष्यत्वादिना घटादिप्रतीतेः । तथा च कथमन्योन्याश्रय इति चेन्न । भेदस्य द्विष्ठत्वपक्षे हीयमन्योन्याश्रयतोच्यते । द्विष्ठो हि भेदः प्रतीयमानो द्वित्वावच्छिन्नघटपटयोर्विशेषणत्वादिना प्रती-यते । तादृशे च भेदज्ञाने घटपटयोर्द्वित्वावच्छेदेनैव विशेष्यत्वादिना ज्ञानं कारणं वाच्यम् । तद्विना द्वित्वावच्छिन्न-घटपटविशेषणत्वादिना भेदज्ञानानुपपत्तेः । एवं च द्वित्वावच्छेदेन घटपटयोर्विशेष्यत्वादिज्ञानं घटपटगत-द्वित्वप्रतीतिजनकघटपटभेदज्ञानं विना न सम्भवतीति युक्ताऽन्योन्याश्रयत्वशङ्केत्याशयेनाऽह- द्वित्वावच्छिन्न-योरित्यादि ।। अत एव घटादेर्विशेष्यत्वादिमात्रप्रतीतौ भेदप्रतीत्यपेक्षाऽभावाद्भेदस्यैकैकमात्राश्रितत्वपक्षे नैवमन्योन्याश्रयता सम्भवतीति धर्मिप्रतियोग्यपेक्षयेति प्रकारान्तरेण सा उपपादितेति भावः । विशेषण-विशेष्यतयेति ।। घटपटाविति विशेष्यतया घटपटयोरिति विशेषणतयेति यथायोगं सम्बन्धः । विशेषणादि-प्रतीतेरिति ।। विशेषणत्वादिना विशेषणादिप्रतीतेर्विशेष्यतावच्छेदकावच्छेदेन विशेष्यत्वादिना विशेष्यादि-प्रतीतिकार्यत्वादित्यर्थः । भेदप्रतीत्यविनाभूतत्वादिति ।। भेदप्रतीतिजन्यत्वादित्यर्थः । अन्यथाऽ-न्योन्याश्रयताऽनवकाशात् । उक्तानुसारेणेति ।। विशेषणविशेष्यतयेत्यतः पूर्वं द्वित्वावच्छिन्नयोरिति, तदनन्तरं प्रतीताविति शेषं पूरयित्वा विशेषणविशेष्यभावभेदपदयोश्च ज्ञानलक्षकत्वं, धर्मिप्रतियोग्यपेक्षयेत्यत्र धर्मिप्रतियोगि-पदयोर्भावप्रधानत्वं स्वज्ञानोपलक्षकत्वं, भेदापेक्षमित्यत्र भेदधर्मित्वप्रतियोगित्वपदानां तत्तज्ज्ञानोपलक्षकत्वमुक्त्वा विशेषणविशेष्यतयेत्यादिपदानि योजनीयानीत्यर्थः । भेदस्य प्रतियोगिस्वरूपत्वप्रतीतिनिवारणायाऽह- धर्मी-हेति ।। स च भेद इति जात्यपेक्षयैकवचनम् । घटप्रतियोगिकभेदधर्मिणां पटकुड्यादीनामनेकत्वेन घटप्रतियोगिक-भेदानामप्यनेकत्वात् । भेदस्यैकत्वे अनेकधर्मिस्वरूपत्वायोगात् । घटादिस्वरूपभेदानामननुगतत्वेऽपि पट-प्रतियोगिकत्वेनानुगमसम्भवाच्चेति द्रष्टव्यम् । ननु भेदस्य धर्मिस्वरूपत्वेन धर्मिप्रतीत्यपेक्षयाऽन्योन्याश्रय-त्वाभावेऽपि प्रतियोगिस्वरूपत्वाभावाद् भेदावधित्वेन प्रतियोगिप्रतीत्यपेक्षयाऽन्योन्याश्रयः स्यात् । अवधित्वेन प्रतियोगिज्ञाने भेदज्ञानं, भेदज्ञाने च तदवधित्वेन प्रतियोगिज्ञानमितीत्यत आह- घटस्येति ।। न चैवं प्रत्येतव्यभेदावधित्वेन प्रतियोगिज्ञानापेक्षयाऽन्योन्याश्रयाभावेऽपि प्रत्येतव्यभेदाधिकरणप्रतियोगिकभेदाधि-करणत्वेन प्रतियोगिज्ञानस्यापेक्षणीयत्वादन्योन्याश्रयः स्यादित्याशङ्कते- तथाऽपीति ।। प्रतियोगित्वात् प्रतियोगित्वेन ज्ञानादित्यर्थः । स्वनिष्ठभेदज्ञानापेक्षायामपि प्रत्येतव्यभेदज्ञानापेक्षाभावात् कथमन्योन्याश्रय इत्यत उक्तम्- घटात्पटस्य भेदसिद्धाविति ।। विद्यमानभेदस्येति ।। न हि प्रत्येतव्यभेदाधिकरणप्रतियोगिकभेद-वत्त्वेन ज्ञानमपेक्षितं येनोक्तरीत्याऽन्योन्याश्रयः स्यात् । किन्तु गोर्गवयसादृश्यज्ञानाभावेऽपि वस्तुतो गवयसादृश्यवतो गोत्वादिना प्रतीतिमात्रेण गवयविसदृशत्वेनाप्रतीतिमात्रेण वा गवयगतसादृश्यप्रतियोगित्व-बुद्धिवत्, वस्तुतस्तादृशाभेदवतो घटत्वादिना प्रतीतिमात्रेण प्रतियोगित्वज्ञानोपपत्तेस्तन्मात्रमपेक्षितमि-त्यर्थः । एतेन घटाद्यभिन्नतया ज्ञातस्यापि पटादेर्घटधर्मिकभेदप्रतियोगित्वं ज्ञायेतेति परास्तम् । तदा घटत्वादिना ज्ञानाभावात् । पटाद्यैक्येनाप्रतीतस्येति विशेषणाद्वेति ।
।। एतेनेति ।। ‘पदार्थस्वरूपत्वाद्भेदस्य’ इत्यनेनेत्यर्थः । तथा च घटभेदयोर्भेदाभावेन न तयोर्विशेषण-विशेष्यभावप्रतीत्यर्थं भेदज्ञानापेक्षा । किन्तु स्वरूपसद्भेदप्रतिनिधिविशेषवतोर्घटत्वादिना प्रतीतिमात्रेण विशेषणविशेष्यभावप्रतीत्युपपत्तेः । यत्रापि दण्डदेवदत्तादिविशेषणविशेष्ययोर्भेदोऽस्ति तत्रापि विशेषणत्वादि-प्रतीतौ न भेदज्ञानापेक्षा । विद्यमानभेदयोर्दण्डदेवदत्तादिकयोर्दण्डत्वादिना प्रतीतिमात्रेण विशेषण-विशेष्यभावप्रतीत्युपपत्तेरिति भावः । इत्येतदपि निरवकाशमिति ।। धर्मिस्वरूपत्वाद्भेदस्य धर्मिप्रतीतेरेव भेदप्रतीतित्वाद् भेदवस्तुप्रतीत्योः कार्यकारणभावस्यैवाभावेन यौगपद्यासम्भवादिति भावः । अस्वरूपत्वमित्यस्य निःस्वरूपत्वार्थकत्वभ्रमं वारयितुमाह- धर्मिस्वरूपत्वाभाव इति ।। अन्यथाऽनैकान्तिकत्वमिति ।। जीव-ब्रह्मैक्यस्य तेनैवाङ्गीकारादिति भावः । यद्यपि ब्रह्मगतब्रह्माभेदादावुभयानैकान्त्यं सम्भवति, तथाऽपि ‘ऐक्यवत्’ इति मूलवाक्येनेदमेवोक्तमिति हृदयम् । अत एवैतेनेत्युक्तम् । वैयर्थ्यापातादिति ।। ननु प्रतियोगिभूतभेदस्य धर्मिप्रतियोगिसापेक्षत्वेन तदभावरूपमैक्यं सापेक्षम् । न तु स्वयं सापेक्षम् । एवं च तत्त्वमस्यादिवाक्यस्य जीवो ब्रह्मभिन्नो न भवतीत्येवमर्थत्वेनैतद्वाक्यप्रतिपाद्याभेदप्रतियोगिभेदधर्मिप्रतियोगिरूपजीवेश्वरप्रतिपादकानां ‘विज्ञानघनः’ ‘सत्यं ज्ञानम्’ इत्यादिवेदान्तवाक्यानां तत्त्वमस्यादिवाक्यैकवाक्यत्वसम्भवेन न वैयर्थ्यमिति चेन्न । घटः पटो नेत्यादौ भेदस्यैव नञर्थत्वेनैक्याभावरूपत्वात् । अत एव टीकामूलयोर्विधिरूपत्वज्ञापनार्थम् अभेदशब्दं विहायैक्यशब्दप्रयोगः । एवमपि प्रतियोगिभूतभेदसापेक्षत्वेन स्वतः सापेक्षत्वतादवस्थ्याद्वेति द्रष्टव्यम् ।
भावदीपः
शिष्यमनस्समाधानायोक्तवक्ष्यमाणार्थौ दर्शयति- एवं तावदिति ।। एतेन पूर्वोत्तरप्रकरणयोः सङ्गतिरप्युक्ता भवति । पक्षभेदेन मूलं योजयितुमाह- भेदो हीति ।। विशेष्यतया वेति ।। प्रतिभासत इत्यनु-कर्षः । द्विष्ठत्वपक्ष इति ।। संयोगादिरिव द्वित्वत्रित्वादिरिव च भेदो घटपटयोर्व्यासज्य वर्तते इति पक्ष इत्यर्थः। अन्यतरमात्राश्रयत्वेऽपीति ।। घटनिरूपितो भेदः पटे, पटनिरूपितो भेदो घट इत्येवमित्यर्थः । विशेषण-विशेष्यतया वा धर्मिप्रतियोगिभावसापेक्षतया वा भेदः प्रतिभासत इति योज्यम् । कुतस्तद्भावापेक्षोपेयते, केवलं धर्मिप्रतियोगिरूपसम्बन्धिस्वरूपमात्रमपेक्ष्य भेदोऽवभासतामित्यत आह- विशेषणेति ।। गत्यन्तरेति ।। भेदप्रतीतौ विशेषणादिभावापेक्षां विनोपायान्तरस्याभावादित्यर्थः । आद्यपक्षं तावद्विवरितुं प्राक्प्रदर्शितप्रतीत्या-कारे किं विशेषणं किं विशेष्यमित्यतस्तद्व्यनक्ति-भेदस्य चेति ।। एवं परिष्कृत्य मूलं योजयति-तथाचेति ।। प्रतीतौ सत्यामिति शेषोक्तिः । भेदसिद्धिरित्यस्यार्थः- भेदप्रतीतिरिति ।। भिन्नाविति विशेषणतया वा भेद इति विशेष्यतया वा भेदप्रतीतिरित्यर्थः । कुत एवमित्यत आह- विशेषणादीति ।। भेदरूपविशेषणविशेष्य-प्रतीतेर्घटपटरूपविशेषणविशेष्यप्रतीतिकार्यत्वादित्यर्थः । विशेषणधीः विशेष्यधीकार्या विशेष्यधीर्विशेषण-धीकार्येति विवेकः । उत्तरवाक्यं योजयति- द्वित्वावच्छिन्नयोरिति ।। कुत एवमित्यत आह- भेदप्रतीत्यविना-भूतत्वादिति ।। तथाचेति ।। ज्ञप्तावन्योन्यसापेक्षत्वे सतीत्यर्थः । द्वितीयपक्षपरतया धर्मीत्यादिमूलं योजयति- अथेत्यादिना ।। भावेत्यत्र तज्ज्ञा(द्भा)नपरिग्रहः । अपेक्षा चेति ।। भेदप्रतीतेरिति योज्यम् । भेदधीसापेक्षत्वं धर्मित्वादिधियः कुत इत्यत आह- अन्यथेति ।। योज्यानीति ।। विशेषणविशेष्यतयेत्यनन्तरं प्रतीतौ सत्यामिति, विशेषणविशेष्यभावश्चेत्यत्र भेदापेक्ष इत्यत्र च प्रतीतिग्रहः, धर्मीत्यादिवाक्ये तावद् ज्ञानापेक्षयेति भेदज्ञानापेक्षं चेत्येवंरूपेण योज्यानीत्यर्थः । प्रतियोगिधीव्यावृत्त्यर्थमाह- धर्मीहेति ।। तावता कथमुक्तशङ्का-निरास इत्यत आह- अयमर्थ इति ।। युगधर्म इति ।। व्यासज्यवृत्तिरेक एवोभयनिष्ठ इत्यर्थः । नन्वस्त्वेवं घटात्पटो भिन्न इत्यादौ, घटपटौ द्वौ भिन्नौ घटपटयोर्भेद इत्यादौ तु कथं तत्र भेदस्यैकत्वप्रतीतेरित्यत आह- घटपटाविति ।। ननु घटस्य पटाद्भेदाभावे कथं प्रतियोगितेत्यत आह- घटस्येति ।। भेदनिबन्धनैव न संशय इत्येवकारार्थः । तर्हि तत्र धर्मिभेदप्रतीत्योर्भेदापत्तिरित्यत आह- सोऽपीति ।। तथाऽपीति ।। अन्योन्यनिरूपित-भेदयोरन्योन्यधर्मिस्वरूपत्वेऽपीत्यर्थः । प्रतिपन्नप्रभेदस्य ज्ञातभेदस्येति बहुव्रीहिः । सिद्धिर्ज्ञानम् । प्रतीति-मात्रेणेति ।। वस्तुप्रतीतिरेव भेदप्रतीतिरिति भावः ।
।। एतेनेति ।। भेदस्य धर्मिस्वरूपतया धर्मिप्रतीतेरेव भेदप्रतीतित्वकथनेनेत्यर्थः । भेदप्रतीतिपरम्पर-येति ।। भेदो हि धर्म्यपेक्षया विशेषणादिभावेन प्रत्येतव्यः । सा च प्रतीतिर्दण्डचैत्रयोरिव धर्मिभेदयोर्भेदप्रतीत्य-धीना । सा च धीर्भेदप्रतीत्यन्तराधीनेति अनवस्थेत्यर्थः । धर्मिप्रतीतेरेव भेदप्रतीतित्वेन विशेषणादिभावेन भेदप्रतीतेरभावान्नानवस्थेति भावः । तथेति ।। एतदपि निरवकाशमित्यन्वयः । एतेनेत्यनुषङ्गः । स्वरूपस्य धर्म्याद्यनपेक्षत्वादाह- तत्प्रतीतिरुपलक्ष्यत इत्यादि ।। निस्स्वरूपत्वमिति धीनिरासायाऽह- परप्रतीति-निरपेक्षप्रतीतिकेति ।। सापेक्षनिरपेक्षप्रतीतिकत्वेनेति ।। हेतौ तृतीया । अन्यतरेति ।। जीवब्रह्मैक्यरूप-विपक्षस्य सिद्धान्तिनाऽनङ्गीकारान्मायावादिनोऽनैकान्त्यमित्यर्थः । तत्त्वम्पदार्थेति ।। तत्पदार्थत्वम्पदार्थयोः परमात्मजीवात्मनोः प्रतिपादकानां ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति, ‘विज्ञानघनः’ इत्यादिवेदान्तवाक्यानां वैयर्थ्यापातात् । ऐक्यस्यान्यनिरपेक्षत्वेन जीवब्रह्मरूपधर्मिप्रतियोगिप्रतिपादनस्यानपेक्षितत्वेन तत्प्रतिपादनद्वारा तदेकवाक्यताऽभावप्रसङ्गेनेत्यर्थः । सापेक्षेति ।। व्याप्तिज्ञानादिसापेक्षेत्यर्थः । तर्हि तदिति ।। तत् समाधान-मित्यर्थः । न केवलं साम्यमात्रमित्याह- अधिकश्चेति ।। सविशेषाभेदेति ।। भेदस्य धर्मिणेति योज्यम् । एतेनाप्रामाणिकैक्यप्रतिबन्द्या समाधिर्न समाधिः, किन्त्वन्य एव वाच्य इति चोद्यं समाहितं भवति ।
वाक्यार्थदीपिका
(श्री.टि.)
पूर्वग्रन्थसङ्गतत्वेनोत्तरग्रन्थमवतारयति- एवं तावदित्यादिना ।। अस्तु भेदसापेक्षत्वं, ततः का नो हानिरित्यत आह- भेदस्त्विति ।। अन्योन्याश्रयेण प्रत्यक्षेण भेदसिद्धिं दूषयिष्यन् भूमिकामारचयति- भेदो हीति ।। स्वतन्त्र इति ।। अन्यानालिङ्गिततयेत्यर्थः । भेद इत्येवाप्रतीतेरिति भावः । किन्तु एकस्यैव भेदस्य द्विष्ठत्वपक्षे घटपटौ भिन्नौ भेदवन्ताविति घटपटविशेषणतया वा घटपटयोर्भेद इति घटपटविशेष्यतया तद्व्यावर्त्यतया तद्विशिष्टतयेति यावत्, भेदः प्रतिभासत इत्यन्वयो द्रश्व्व्यः । भेदद्वयाङ्गीकारेणेति ।। घटपटौ भिन्नावित्यत्र घटात्पटो भिन्नः पटाच्च घटो भिन्न इति घटपटधर्मिकं भेदद्वयमेव प्रतीयत इत्यङ्गीकारेणेत्यर्थः । अन्यतरमात्राश्रयत्वेऽपीति ।। अन्यतरमात्राश्रयत्वपक्षेऽपीत्यर्थः । सम्बन्धिमात्रेति ।। भेदस्य सम्बन्धिव्यति-रिक्तान्यपदार्थापेक्षाया अभावात् केवलसम्बन्ध्यपेक्षैवास्तीत्यर्थः । तथा च भेदस्य ससम्बन्धिकपदार्थत्वेन केवलं सम्बन्ध्यपेक्षायां सत्यां धर्मिप्रतियोगिभावमनपेक्ष्य गत्यन्तरं नास्ति धर्मिप्रतियोगिभावेनैव सम्बन्ध्यपेक्षाऽस्तीति (श्री.टि.) यावत् । भेदो हि धर्मितयैकं सम्बन्धिनं प्रतियोगितया चापरं सम्बन्धिनमपेक्षत इत्यर्थः । एक एव भेदो द्विष्ठ इति तार्किकाणां पक्षेऽन्योन्याश्रयमुपपादयति- तथा चेत्यादिना ।। तथा चान्योन्याश्रयतेत्यन्तेन । इदं वाक्यं बुद्ध्या विवेकेनेत्थं योज्यम् । घटपटौ भिन्नाविति द्वित्वावच्छिन्नघटपटयोर्विशेष्यतया प्रतीतौ सत्यां तद्विशेषणीभूतभेदप्रतीतिः कुत इत्यतस्तदुपपादयितुमुक्तम्- विशेषणादिप्रतीतेर्विशेष्यादिप्रतीतिकार्यत्वा-दिति ।। घटपटयोर्भेद इत्यत्र घटपटयोर्विशेषणतया तत्प्रतीतौ सत्यां तद्विशेष्यतया भेदप्रतीतिः कुत इत्यतस्तदुप-पादयितुं विशेषणादिप्रतीतेर्विशेष्यादिप्रतीतिकार्यत्वादित्यादिपदद्वयं प्रयुक्तम् । तथा च घटपटयोर्भेद इति विशिष्ट-प्रतीतेर्विशेषणप्रतीतिकार्यत्वादिति तदर्थः ।
नन्वत्र विशेषणप्रतीतेर्विशेष्यप्रतीतिकार्यत्वादिति कथम् । न हि दण्डप्रतीतिर्देवदत्तप्रतीतिकार्येति चेत् । अत्र केचित् । विशेषणशब्देन विधेयं ग्राह्यं विशेष्यशब्देन चोद्देश्यम् । एवं च विधेयप्रतीतेरुद्देश्यप्रतीति-कार्यत्वादित्यर्थः, ‘सिद्धं धर्मिणमुद्दिश्य साध्यधर्मो विधीयते’ इति वचनादित्याहुः । तन्न स्वरसम् । उद्देश्य-विधेयभावस्य वाक्य एव दृष्टत्वेन प्रतीतावदर्शनात् । तस्या एव चात्र प्रकृतत्वादिति । वस्तुतस्तु विशेषणशब्देन ससम्बन्धिकपदार्थग्रहणम् । विशेष्यशब्देन च सम्बन्धितावच्छेदकप्रकारकसम्बन्धिग्रहणम् । तथा च ससम्बन्धिक-पदार्थप्रतीतेः सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानकार्यत्वादित्यर्थः । अत्र ससम्बन्धिकपदार्थप्रतीतेः सम्बन्धि-ज्ञानकार्यत्वादित्येवोक्तौ प्रमेयत्वादिना रूपेण घटपटादिसम्बन्धिज्ञाने सति घटपटौ भिन्नौ घटपटौ संयुक्तावि-त्यादिप्रतीतिः स्यादत उक्तम्- सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानकार्यत्वादिति ।। तत्र च न प्रमेयत्वं सम्बन्धितावच्छेदकम्, अधिकवृत्तित्वात् । किन्तु द्वित्वमेवेति नोक्तदोषः । तथा च प्रकृते घटपटौ भिन्नावित्यत्र भेदरूपससम्बन्धिकपदार्थप्रतीतेर्द्वित्वरूपसम्बन्धितावच्छेदकप्रकारकघटपटरूपसम्बन्धिज्ञानकार्यत्वं वाच्यमिति भावः । भेदप्रतीत्यविनाभूतत्वादिति ।। द्वित्वप्रतीतेर्भेदप्रतीतिजन्यत्वादित्यर्थः । अन्यथाऽन्योन्याश्रयताऽ-नवकाशात् । तथा चान्योन्याश्रयतेति ।। तथा हि घटपटौ भिन्नावित्यत्र द्वित्वावच्छिन्नघटपटयोर्विशेष्यतया प्रतीतौ सत्यां तद्विशेषणीभूतभेदप्रतीतिः । कुतः? विधेयप्रतीतेरुद्देश्यप्रतीतिकार्यत्वादिति केचित् । वस्तुतस्तु ससम्बन्धिकपदार्थप्रतीतेः सम्बन्धितावच्छेदकप्रकारकसम्बन्धिप्रतीतिकार्यत्वात् । भेदप्रतीतौ सत्यां च द्वित्वा-वच्छिन्नघटपटोभयप्रतीतिः द्वित्वप्रतीतेर्भेदप्रतीतिकार्यत्वात् । तथा च घटपटयोर्भेद इत्यत्रापि द्वित्वावच्छिन्नघट-पटयोर्विशेषणतया प्रतीतौ सत्यां तद्विशिष्टभेदज्ञानम् । कुतः? विशिष्टप्रतीतेर्विशेषणप्रतीतिकार्यत्वात् । भेदज्ञाने च द्वित्वावच्छिन्नघटपटोभयज्ञानम् । भेदप्रतीतिजन्यत्वाद् द्वित्वप्रतीतेः, इत्येवमेकस्यैव भेदस्य द्विष्ठत्वपक्षेऽ-न्योन्याश्रयतेत्यर्थः ।
घटपटौ भिन्नावित्यत्र घटपटधर्मिकं भेदद्वयमेव प्रतीयत इति पक्षेऽप्यन्योन्याश्रयत्वमुपपादयति- अन्य-तरेति ।। धर्मिप्रतियोगिभावापेक्षश्चेति ।। धर्मिप्रतियोगिभावमनपेक्ष्य सम्बन्धिमात्रापेक्षायां गत्यन्तराभावादि-त्युक्तत्वादिति भावः । तामुपपादयति- घटात्पटस्येत्यादिना ।। अन्यथेति ।। धर्मिप्रतियोगित्वप्रतीतेर्भेद-(श्री.टि.) प्रतीत्यपेक्षाऽभाव इत्यर्थः । विलक्षणप्रतीत्यनुपपत्तेरिति ।। प्रत्युत घटाद् घटस्येति प्रतीत्यापत्ते-रिति भावः । इत्यन्योन्याश्रयतेति सम्बन्धः । तथा हि । घटात् पटो भिन्न इत्यत्र प्रत्येतव्यभेदाधिकरणपटप्रतियोगिक-भेदवत्त्वेन घटज्ञाने जाते तस्य प्रतियोगित्वज्ञानम् । तस्मिंश्च सति घटप्रतियोगिकपटधर्मिकभेदज्ञानम् । ततश्च पटे प्रतियोगित्वज्ञानम् । तस्मिंश्च सति पुनस्तत्प्रतियोगिकघटधर्मिकभेदज्ञानम् । ततश्च तस्य प्रतियोगित्वज्ञान-मित्येवंरूपेण भेदद्वयाङ्गीकारपक्षेऽपि धर्मिप्रतियोगिभावप्रतीत्यपेक्षया अन्योन्याश्रयता द्रश्व्व्येत्यर्थः । उक्तानु-सारेणेति ।। विशेषणविशेष्यतयेत्यतः पूर्वं द्वित्वावच्छिन्नयोरित्यनन्तरं च प्रतीताविति शेषपूरणं कृत्वा, विशेषणविशेष्यभावश्च भेदापेक्ष इत्यत्र विशेषणविशेष्यपदयोः स्वज्ञानोपलक्षकत्वम्, धर्मिप्रतियोग्यपेक्षयेत्यत्र धर्मिप्रतियोगिपदयोर्भावप्रधानत्वं स्वज्ञानोपलक्षकत्वं, भेदापेक्षं च धर्मिप्रतियोगित्वमित्यत्र भेदधर्मित्व-प्रतियोगित्वपदानां स्वज्ञानोपलक्षकत्वमुक्त्वा विशेषणविशेष्यतयेत्यादिपदानि योज्यानीत्यर्थः । ‘पदार्थ-स्वरूपत्वाद्भेदस्य’ इत्युक्ते प्रतियोगिनोऽपि पदार्थत्वेन तत्स्वरूपत्वमपि भेदस्य प्राप्नोति । तथात्वे घटाद्घटस्य भेद इति प्रतीतिः प्रसज्येतेत्यत आह- धर्मीहेति ।। इह वाक्ये पदार्थशब्देन धर्म्युच्यते न प्रतियोगीत्यर्थः । न भेदो युगधर्म इति ।। एक एव भेद उभयधर्म इति नेत्यर्थः । ननु भेदो यद्येकस्य धर्मोऽपरेण निरूप्यस्तर्हि घटपटौ भिन्नावित्यत्रैकस्यैव भेदस्य कथमुभयधर्मत्वप्रतीतिरित्यत आह- घटपटौ भिन्नावित्यत्रेति ।। ननु घटपटयोर्भेद इत्यत्र घटपटधर्मिकं भेदद्वयमेव यदि प्रतीयेत तर्हि घटपटयोर्भेदाविति द्विवचनप्रयोगः स्यात्, न तु घटपटयोर्भेद इत्येकवचनप्रयोग इत्यत आह- एकवचनं त्विति ।। ननु भेदस्य धर्मिस्वरूपत्वेन धर्मि-प्रतीत्यपेक्षयाऽन्योन्याश्रयाभावेऽपि प्रतियोगिस्वरूपत्वाभावाद्भेदावधित्वेन प्रतियोगित्वज्ञाने भेदज्ञानं, भेदज्ञाने च तदवधित्वेन प्रतियोगिज्ञानमिति प्रतियोगिप्रतीत्यपेक्षयाऽन्योन्याश्रयस्तु स्यादेवेत्यत आह- घटस्येति ।। तद्धर्मिकेति ।। घटधर्मिकेत्यर्थः । प्रकारान्तरेण प्रतियोगिप्रतीत्यपेक्षया अन्योन्याश्रयं शङ्कते- तथाऽपीति ।। प्रतिपन्नभेदस्येति ।। प्रत्येतव्यभेदाधिकरणप्रतियोगिकभेदवत्त्वेन ज्ञातस्य घटस्येत्यर्थः । प्रतियोगित्वात् प्रतियोगित्वेन ज्ञानादित्यर्थः । भेदसिद्धावित्यनन्तरं घटस्य प्रतियोगित्वप्राप्त्या इति शेषः । भेदसिद्धिरिति ।। तथा च घटस्य प्रतियोगित्वप्राप्त्या तत्प्रतियोगिकपटधर्मिकभेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः । विद्यमानभेद-स्येति ।। प्रत्येतव्यभेदाधिकरणप्रतियोगिकभेदवतो घटस्येत्यर्थः । तथा च घटे प्रत्येतव्यभेदाधिकरणप्रतियोगिक-भेदस्य सत्तया भाव्यमित्येव,न तु तज्ज्ञानमप्यपेक्षितं,येनान्योन्याश्रयः स्यादिति भावः । प्रतीतिमात्रेणेति ।। घटत्वादिना प्रतीतिमात्रेणेत्यर्थः । प्रतियोगित्वोपपत्तेरिति ।। पटधर्मिकभेदं प्रतीति शेषः । इदमत्राऽकूतम् । यथा हि गोर्गवयसादृश्यज्ञानाभावेऽपि वस्तुतो गवयसादृश्यवतो गोत्वादिना प्रतीतिमात्रेण गवयविसदृशत्वेन अप्रतीतिमात्रेण वा गवयगतसादृश्यप्रतियोगित्वबुद्धिर्भवति, एवं वस्तुतः प्रत्येतव्यभेदाधिकरणप्रतियोगिकभेदवतो घटादेर्घटत्वादिना ज्ञानमात्रेण प्रतियोगित्वज्ञानोपपत्तेर्घटत्वादिना ज्ञानमात्रमेवापेक्षितम् । न च वाच्यं घटत्वादिना प्रतीतिमात्रेण प्रतियोगित्वज्ञाने पटाद्यभिन्नतया ज्ञातस्यापि घटादेः पटधर्मिकभेदं प्रति प्रतियोगित्वं ज्ञायेतेति ।
(श्री.टि.) तदा घटत्वादिना ज्ञानाभावात् । यद्वा पटाद्यैक्येनाप्रतीतस्य घटादेर्घटत्वादिना ज्ञानमात्रेण प्रतियोगित्व-ज्ञानमुपपद्यत इत्युच्यमानत्वाददोष इति ।
।। एतेनेत्यादि ।। दण्डदेवदत्तयोर्विशेषणविशेष्यभावस्य तदुभयभेदप्रतीतिसापेक्षताया दृष्टत्वेन भेदस्यापि स्वातन्त्र्येण कदाऽप्यप्रतिभासेन कयोश्चिद्विशेषणतया विशेष्यतया वा प्रतीयमानत्वेन तत्र विशेषणविशेष्यभाव-प्रतीतेर्भेदान्तरप्रतीतिसापेक्षत्वं वाच्यम् । सोऽपि भेदः पुनर्विशेषणविशेष्यभावेनैव प्रतीयत इति पुनस्तत्प्रती-तेर्भेदान्तरप्रतीतिसापेक्षत्वं वाच्यम्, तदप्येवमिति भेदप्रतीतिपरम्परया अनवस्था स्यादिति अनवस्थाप्रसङ्गोऽपि, एतेन ‘पदार्थस्वरूपत्वाद्भेदस्य’ इति घटभेदयोरेकत्वोक्त्या भेदाभावकथनेनापास्त इत्यर्थः । तथा च घटभेद-योर्भेदाभावेन विशेषणविशेष्यभावस्यैवाभावान्न तदर्थं भेदज्ञानापेक्षेति भावः । यदि क्वचित् तयोर्विशेषणविशेष्य-भावप्रतीतिरस्ति तदपि न तदर्थं भेदज्ञानापेक्षा, किन्तु घटभेदयोः सविशेषाभेदाङ्गीकारेण तदुपपत्तेः । यत्र दण्ड-देवदत्तयोर्विशेषणविशेष्ययोर्भेदोऽस्ति तत्रापि विशेषणत्वादिप्रतीतौ न भेदज्ञानापेक्षा, किन्तु विद्यमानभेदयोर्दण्ड-देवदत्तयोर्दण्डत्वादिना प्रतीतिमात्रेण विशेषणविशेष्यभावप्रतीत्युपपत्तेरिति द्रश्व्व्यम् । भेदपूर्वं वस्त्विति ।। आदौ भेदं विषयीकृत्य पश्चाद् वस्तु विषयीकरोतीत्यर्थः । वस्तुपूर्वं भेदमिति ।। आदौ वस्तु विषयीकृत्य पश्चाद्भेदं विषयीकरोतीत्यर्थः । विरम्य व्यापारेति ।। स्थित्वा स्थित्वा व्यापारो विरम्य व्यापारः । अस्य चेतनधर्मत्वेन जडे प्रत्यक्षेऽयोगादित्यर्थः । अत एवेति ।। विरम्यव्यापारायोगादेवेत्यर्थः । इत्येतदपि निरवकाशमिति ।। एतदपि दूषणमवकाशशून्यमित्यर्थः । धर्मिस्वरूपत्वाद्भेदस्य धर्मिप्रतीतेरेव भेदप्रतीतित्वेन भेदवस्तुप्रतीत्योः कार्यकारणभावस्यैवाभावेन यौगपद्यसम्भवादिति भावः ।
‘सापेक्षत्वात्सावधेश्च तत्त्वे द्वैतप्रसङ्गतः । एकाभावादसन्देहान्न रूपं वस्तुनो भिदा ।।’
इत्युक्तं भेदस्य वस्तुस्वरूपत्वाभावे युक्तिपञ्चकं दूषयिष्यन् सापेक्षत्वाद्भिदा भेदो न वस्तुनो रूपं स्वरूपमित्युक्ता-माद्यां युक्तिमाशङ्क्य निराकरोति- भवेदयमित्यादिना ।। परिहारोऽन्योन्याश्रयपरिहारः । अस्मादयं पट इति वेति ।। घटात्पटो भिन्न इतिवदिति शेषः । अस्मादस्य पट इति वेति ।। घटात्पटस्य भेदवदिति शेषः । जातुचित् कदाचित् । भेदधर्मिस्वरूपयोः भेदस्वरूपधर्मिस्वरूपयोः । अस्वरूपत्वमित्यस्य निःस्वरूपत्वार्थ-कत्वभ्रमं वारयितुमाह- धर्मिस्वरूपत्वाभाव इति ।। तथात्वादित्यस्याभिप्रायो- धर्मिप्रतियोगिप्रतीत्यपेक्षया प्रतीयमानत्वोपपत्तेरिति ।।
।। एतेनेति ।। ‘ऐक्यवत्’ इति मूलवाक्येनेत्यर्थः । अन्यतरेति ।। मायावादिमतेऽनैकान्त्यमित्यर्थः । जीव-ब्रह्मैक्यस्य तेनैवाङ्गीकृतत्वादिति भावः । ऐक्यं न स्वरूपमिति ।। प्रत्यक्चैतन्यस्वरूपं न भवतीत्यर्थः । तथा च साध्यस्यापि सत्त्वान्न व्यभिचार इति भावः । अस्वरूपत्वे ब्रह्मस्वरूपत्वाभावे । तत्परस्य ऐक्यपरस्य । न सापेक्षमिति ।। तथा च हेतोरेवाभावान्न व्यभिचार इति भावः । तथा सतीति ।। ऐक्यस्य धर्मिप्रतियोगि-सापेक्षत्वाभाव इत्यर्थः । तत्त्वम्पदार्थेति ।। ‘तत्त्वमसि’ इति महावाक्येन त्वं तदसीति जीवस्य ब्रह्मणैक्ये (श्री.टि.) बोधिते धर्मिप्रतियोगिभूतत्वंतत्पदार्थस्वरूपजिज्ञासायां तत्स्वरूपनिरूपणाय प्रवृत्तानाम् ‘विज्ञान-घनः’,‘योनिमन्ये प्रपद्यन्ते’,‘सत्यं ज्ञानमनन्तम्’ इत्यादिवेदान्तवाक्यानामैक्यपरमहावाक्येन एकवाक्य-तोच्यमाना अयुक्ता स्यात् । ऐक्यस्य जीवब्रह्मरूपधर्मिप्रतियोगिसापेक्षत्वाभावाङ्गीकारादिति भावः । प्रतीत्यो-रेवेति ।। ऐक्यप्रतीतिप्रत्यक्चैतन्यरूपब्रह्मप्रतीत्योरित्यर्थः । तद्विषयस्य ऐक्यस्य, तथा चैक्ये हेतोरेवाभावान्न व्यभिचार इति भावः । ननु प्रत्यक्चैतन्याभिन्नस्य एकस्यैवैक्यस्य सापेक्षत्वादिना विरुद्धप्रतीतिद्वयविषयत्वं कथं युक्तं, विरोधादित्यत आह- एकस्यैवाग्नेरिति ।। सापेक्षनिरपेक्षानुमितिप्रत्यक्षेति ।। अनुमितेर्ज्ञातकरण-सापेक्षत्वात् प्रात्यक्षिकज्ञानस्य तदभावादिति भावः । यद्वा अनुमितेर्व्याप्तिलिङ्गादिज्ञानसापेक्षत्वात्, प्रात्यक्षिक-ज्ञानस्य ज्ञानसापेक्षत्वाभावात् । न च दण्डी देवदत्त इति प्रात्यक्षिकविशिष्टज्ञानं विशेषणज्ञानसापेक्षं दृष्टमिति वाच्यम् । विशिष्टज्ञानस्य विशेषणविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहाभ्यामेवोपपत्तौ विशेषणज्ञानस्य तत्रा-कारणत्वादिति भावः । प्रकृतेऽपीति ।। अत्रापि भेदप्रतीतिधर्मिभूतपटप्रतीत्योरेव सापेक्षत्वनिरपेक्षत्वे, न तु तद्विषयस्य भेदस्येति वक्तुं शक्यत्वेन स्वरूपासिद्धिरिति भावः । अङ्गीकृत्य चैतदुक्तम् । वस्तुतस्तु भेदस्य निरपेक्षधर्मिस्वरूपत्वेऽपि सापेक्षत्वं युक्तम् । धर्मिणा निर्विशेषा-भेदानङ्गीकारात्, विशेषस्य भेदप्रतिनिधित्वा-दित्याशयेनाऽह- अधिकश्चात्रेति ।। ‘कदाचिद्धर्मिस्वरूपसिद्धौ भेदसिद्धेः परेणाभ्युपगतत्वात्’ इति वक्ष्यमाणत्वेन स्वरूपासिद्धिपरिहाराय कदाचिदित्युक्तमिति ज्ञातव्यम् ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
‘न च विशेषणविशेष्यतया’ इत्याद्युत्तरग्रन्थस्य प्रकृतेन सङ्गत्यप्रतीतेरानर्थक्यमाशङ्क्य वृत्त-वर्तिष्यमाणयोः सङ्गतिप्रदर्शनेन तस्य सार्थतां दर्शयितुं वृत्तं तावदनुवदति- एवमिति ।। ननु न चेत्यादिना प्रत्यक्षेण घटपटभेदसिद्धेरन्योन्याश्रयत्वेनायुक्ततोच्यते, न तु पूर्वमुपपादितेऽर्थे किञ्चिद्बाधकमिति कथमुत्तर-ग्रन्थस्योक्तार्थे बाधकपरिहारार्थत्वमित्यत आशङ्क्यमानायाः प्रत्यक्षेण घटपटभेदसिद्धेरयुक्ततायाः साक्षा-दुक्तेऽर्थेऽनुपपत्तित्वाभावेऽपि तत्र अभिप्रेतसाक्षादनुपपत्त्युपपादकत्वादस्त्येवोक्तेऽनुपपत्तितेत्यभिप्रेत्य साक्षात्तत्रानुपपत्तिं स्वयमुद्घाटयन्नेव तदुपपादकतया मूलोक्तां प्रत्यक्षेण घटपटभेदसिद्धेरयुक्ततां योजयति- तथा हीति ।। मूले प्रत्यक्षेण भेदसिद्धेरयुक्तत्वोपपादकतयोक्तस्यान्योन्याश्रयत्वस्योपपादनाय, ‘विशेषणविशेष्यतया भेदसिद्धिः’ इत्युक्तम् । तद युक्तम् । ‘अयं घटः’ इत्यादिरूपेण घटादेरिव भेदस्यापि स्वातन्त्र्येण प्रतिभाससम्भवेन विशेषणविशेष्यतया तत्प्रसिद्धेरेवासिद्धेः, तत्सिद्धावपि विशेषणविशेष्यतयैव प्रतीयत इति नियमासिद्धेः तत्सिद्धावपि विशेषणत्वादिना भेदप्रतीतेर्विशेष्यादिप्रतीतिसापेक्षत्वासिद्ध्या तदुपजीवनेन अन्योन्याश्रयत्वा-नवकाशाद् इत्यतस्तदुपपादनाय स्वातन्त्र्येण प्रतिभासं तावत् प्रतिक्षिपति- भेदो हीति ।। भेद इत्येवाप्रतीतेरिति भावः । यदि न स्वातन्त्र्येणावभासते कथं तर्हि भासत इत्याशङ्क्य मूलोक्तां विशेषणविशेष्यतया भेदप्रतीति-मभिनयेन दर्शयति- किन्त्वित्यादिना ।। नन्वस्तु भेदस्य घटपटविशेषणत्वादिना प्रतीतिः, तथापि न तन्नियमः, अस्यास्माद्भेद इति धर्मिप्रतियोगिभावापेक्षयाऽपि तत्प्रतीतिसम्भवादित्यतस्तन्नियममुपपादयति- एकस्यैव (पां.टि.) भेदस्येत्यादिना ।। इयमत्र योजना । किं भेदस्य द्विष्ठत्वपक्षमवलम्ब्य धर्मिप्रतियोगिभावापेक्षया प्रतीतिराशङ्क्यते, किं वा भेदद्वयाङ्गीकारेण अन्यतरमात्राश्रयत्वपक्षमवलम्ब्य ? आद्यस्योत्तरम् ‘एकस्यैव भेदस्य द्विष्ठत्वपक्षे गत्यन्तराभावात्’ इति । अस्मिन् पक्षे उभयोरिति धर्मित्वेन घटपटयोर्धर्मिप्रतियोगिभावस्यैवाभावेन तदपेक्षया प्रतीतेरसम्भावितत्वाद्विशेषणत्वादिनैव तत्प्रतीतिसिद्धिरिति भावः । अन्यतरमात्राश्रित इति द्वितीय-पक्षेऽपि धर्मिप्रतियोगिभावानपेक्षायामपि विशेषणत्वादिना भेदप्रतीत्यसम्भवोऽभिमतः किं वा तदपेक्षायामिति पृच्छामः । तत्राऽद्यस्योत्तरं भेदद्वयाङ्गीकारेणान्यतरमात्राश्रयत्वेऽपि धर्मिप्रतियोगिभावमनपेक्ष्य सम्बन्धमात्रा-पेक्षायां गत्यन्तराभावादिति । अत्र पक्षे उभयोर्धर्मिप्रतियोगिभावसत्त्वेऽपि सतोऽपि तस्याविवक्षया सम्बन्धमात्रा-पेक्षायाम् अस्यास्माद्भेद इति धर्मिप्रतियोगिभावापेक्षया भेदप्रतीत्यसम्भवेन घटपटविशेषणत्वादिनैव तत्प्रतीतेर्वक्त-व्यत्वादुक्तनियमासिद्धिरिति भावः । एवं भेदस्य घटपटविशेषणत्वादिना भेदप्रतीतिनियममुपपाद्य तस्या विशेष्यादिप्रतीत्यपेक्षामुपपादयितुं विशेषणविशेष्यभावं स्पष्टयति- भेदस्य चेति ।। तस्येति ।। भेदस्येत्यर्थः । भेदप्रतीति-रिति ।। द्वित्वावच्छिन्नघटपटविशेषणत्वादिना भेदप्रतीतिरित्यर्थः ।
ननु विशेषणविशेष्यतया विशेष्यविशेषणतया वा घटपटयोर्द्वित्वावच्छिन्नयोरप्रतीतावपि तद्विशेषणत्वादिना भेदप्रतीत्यभ्युपगमे बाधकाभावान्न तस्यास्तदधीनत्वमिति कथमन्योन्याश्रयत्वमित्यतो देवदत्ताज्ञाने तद्विशेषणतया दण्डज्ञानस्य दण्डाज्ञाने च तद्विशेष्यतया देवदत्तज्ञानस्य चादर्शनेन तद्विशेषणत्वादिज्ञानस्य विशेष्यादिज्ञान-कार्यत्वात् कार्यस्य च कारणापेक्षत्वाद्युक्तं तस्य तदधीनत्वमित्याशयेनाऽह- विशेषणादिप्रतीतेरिति ।। अत्र ‘घटपटौ भिन्नौ’ इत्यादिप्रतीतेस्तद्विशेषणत्वादिविषयकत्वमात्रमेव विवक्षितं न तु तद्विशेषणत्वादिप्रकारक-त्वम् । तथा सति घटपटभेदो विशेषणमित्यादिविशेषणत्वादिप्रकारकभेदज्ञानस्य विशेष्यादिभूतघटपट-ज्ञानापेक्षत्वप्राप्तावपि ‘घटपटौ भिन्नौ’ इत्यादिज्ञानस्य अतत्प्रकारकत्वेनोक्तयुक्त्या विशेष्यादिज्ञानापेक्षत्वा-प्राप्त्या तदुपजीवनेनान्योन्याश्रयानुत्थानप्रसङ्गात् । तद्विशेषणत्वादिविषयतामात्रविवक्षायां तु नायं दोषः । घटपटौ भिन्नावित्यादिज्ञानस्य तद्विशेषणत्वाद्यप्रकारकत्वेऽपि तद्विशेषणत्वादिविषयकत्वेनोक्तयुक्त्या विशेष्यादि-भूतघटपटज्ञानापेक्षत्वप्राप्त्या तदुपजीवनेनोक्तान्योन्याश्रयसम्भवात्, विशेष्यत्वादिना विशेष्यादिप्रतीतित्वा-वच्छिन्नस्यापि घटपटान्यतरप्रतीतिमात्रस्य सत्त्वेऽपि भेदप्रतीतेरभावेन विशेषणादिप्रतीतित्वावच्छिन्नं प्रति कारणत्वासम्भवात् कथं तस्यास्तज्जन्यत्वमित्यतो द्वित्वावच्छिन्नविशेष्यत्वादिज्ञानत्वस्यैव कारणतावच्छेदकत्वाद् घटपटान्यतरप्रतीतिसत्त्वेऽपि कारणतावच्छेदकावच्छिन्नस्य कारणस्याभावाद्युक्तो भेदप्रतीत्यभाव इत्याशयेन द्वित्वावच्छिन्नयोरिति द्वित्वावच्छिन्नत्वेन घटपटयोर्विशेषणमुक्तम् । विशेषणविशेष्यभावप्रतीतिश्चेति ।। विशेष्यविशेषणभावेन भेदप्रतीतिश्चेत्यर्थः । भेदप्रतीत्यविनाभूतत्वादिति ।। यद्यपि विशेषणादि-प्रतीतेर्विशेष्यादिप्रतीतिकार्यत्वादिति पूर्वोक्तयुक्त्यैव द्वित्वावच्छिन्नयोर्घटपटयोर्विशेषणविशेष्यभावप्रतीतेर्भेद-प्रतीतिसापेक्षत्वं वक्तुं सुकरम्, तथापि तस्य प्रकारस्य पूर्वोक्तयुक्त्यैव सुज्ञानत्वादनेनापि प्रकारेण भेदप्रतीत्यपेक्षाया (पां.टि.) वक्तुं शक्यत्वाच्च तदुक्तिरिति भावः । अस्तु तर्हि अन्यतरमात्राश्रयत्वेऽपि धर्मिप्रतियोगिभावापेक्षेति द्वितीयः पक्षः । अत्र च अन्यतरमात्राश्रितत्वेन द्विष्ठत्वाभावादेकस्य भेदस्योभयधर्मिकत्वाभावेन घटपटयोः धर्मिप्रतियोगिभावसम्भवेन तदपेक्षया प्रतीतिसम्भवेन विशेषणत्वादिना तत्प्रतीतिनियमासिद्धेर्न तदुपजीवने-नोक्तोऽन्योन्याश्रयः । अन्यतरमात्राश्रयत्वेऽपि धर्मिप्रतियोगिभावापेक्षाया अङ्गीकारेण अस्यास्माद्भेद इति धर्मिप्रतियोगिभावापेक्षयैव प्रतीतिसम्भवेन विशेषणत्वादिना तत्प्रतीत्यप्राप्तेः न तदुपजीवनेनाप्युक्तः स इत्याशयेन शङ्कते- अथेति ।। न च घटात् पटस्य भेद इतिवत् पटाद् घटस्य भेद इत्यपि प्रतीतेर्विद्यमानत्वात् कथमन्यतरमात्राश्रितत्वनिश्चय इति वाच्यम् । अस्माभिर्भेदद्वयाङ्गीकारेण पटप्रतियोगिकघटधर्मिकभेदस्य घट-निष्ठतायाः, घटप्रतियोगिकपटधर्मिकभेदस्य पटनिष्ठतायाश्च निश्चेतुं शक्यत्वेन तन्निश्चय इत्याशयात् । एवमपि अन्योन्याश्रयत्वं दुष्परिहरमित्याह- तदाऽपीति ।। तत्कथमित्यत आह- घटादीति ।। प्रतीत्येति ।। विषयी-कृत्येत्यर्थः । प्रत्येतव्य इति ।। विषयीकर्तव्य इत्यर्थः । अत्र च भेदप्रकारकसाक्षात्प्रतीतेर्धर्मित्वप्रतियोगित्वोल्ले-खित्वं नियतमित्यत्रैव तात्पर्यम्, नतु पौर्वापर्येऽपि । ज्ञानस्य विरम्यव्यापारायोगेन क्रमेणोल्लेखासम्भवात् । एवं च भेदप्रतीतौ धर्मितावच्छेदकप्रतियोगितावच्छेदकप्रकारकधर्मिप्रतियोगिप्रतीत्योरेव हेतुत्वेन धर्मित्वप्रतियोगित्व-प्रतीत्योरहेतुत्वाद् धर्मित्वप्रतियोगित्वं च प्रतीत्य हि भेदः प्रत्येतव्य इति कथं हेतुहेतुमद्भावकथनमिति चोद्यं निरस्तं भवति । ननु एवमपि कथमन्योन्याश्रय इत्यत आह- भेदप्रतीत्यपेक्षेति ।। घटात्पटो भिन्न इति घटस्य प्रतियोगित्वं पटस्य धर्मित्वं च विरुद्धाकारमवगाहमाना भेदप्रतीतिः पूर्वं घटपटयोर्भेदप्रतीतिमपेक्षत इत्यर्थः । तदेवोपपादयति- अन्यथेति ।। तथा च भेदप्रतीतौ भेदप्रतीत्यपेक्षायामन्योन्याश्रयः स्पश्व् एवेति भावः । एतच्च अन्योन्याश्रयत्वं पूर्वं प्रतीतस्य पश्चात्प्रत्येतव्यस्य भेदस्य च परस्परं भेदमाश्रित्योक्तम् । एकत्वे तु आत्माश्रयत्वमेवेति बोध्यम् । तेन भेदप्रतीतौ भेदप्रतीत्यपेक्षायाम् आत्माश्रय एव स्यात्, न तु अन्योन्याश्रय इति शङ्काऽनवकाश इति ध्येयम् ।
एवं प्रकारद्वयेनान्योन्याश्रयतामुपपाद्य अन्योन्याश्रयतया भेदस्य अयुक्तिरिति वाक्यमपेक्षितं शेषं पूरयन्नेव व्याचश्व्े- तथा चेति ।। परस्पराश्रयकार्याणामसम्भवादिति भावः । भेदस्य धर्मिप्रतियोगिस्वरूपत्वे ‘यद् यदत्यन्ताभिन्नेनात्यन्ताभिन्नं तत्तेनात्यन्ताभिन्नम्’ इति नियमाद् धर्म्यत्यन्ताभिन्नभेदात्यन्ताभिन्नत्वात् प्रतियोगि-नोऽपि धर्म्यत्यन्ताभिन्नत्वप्रसक्त्या तस्य तदुभयस्वरूपत्वानुपपत्त्या पदार्थपदस्य धर्मिप्रतियोगिसाधारण्येन पदार्थमात्रपरत्वानुपपत्तेर्धर्मिपरत्वमेव तस्येत्याशयेन व्याचश्व्े- धर्मीहेति ।। ननु तथापि भेदस्य द्विष्ठत्वपक्षे विशेषण-विशेष्यतया प्रतीतिनियमात् तदुपजीवनेन प्रसक्तान्योन्याश्रयताया न परिहारः । धर्मिस्वरूपत्वेन भेदप्रतीतेर्धर्मि-प्रतीत्यनपेक्षत्वप्राप्त्या तदपेक्षाप्रयुक्तान्योन्याश्रयपरिहारेऽपि प्रतियोगिस्वरूपत्वाभावेन तत्प्रतीत्यनपेक्षत्वा-प्राप्तेर्भेदप्रतीत्यपेक्षप्रतियोगिप्रतीतिसापेक्षत्वाद् भेदप्रतीतेर्नान्यतरमात्राश्रयत्वेऽपि तत्परिहार इत्यत आह- अयमर्थ इति ।। न भेदो युगधर्मः किन्त्वेकस्येति ।। ‘संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक्’ इत्यादिना अन्यत्र (पां.टि.) द्विष्ठत्वनिरासेनान्यतरमात्राश्रितत्वसमर्थनादिति भावः । ननु घटपटसम्बन्धितयाऽनुभूयमानस्य भेदस्य कथमेकमात्राश्रितत्वम् । तथात्वे चैकस्मिन्नेव भिन्नप्रत्ययप्रसङ्गोऽपीत्याशङ्क्य एकमात्राश्रितस्यापि भेदस्य अन्यप्रतियोगिकत्वादुभयसम्बन्धितया प्रतिभासोऽतिप्रसङ्गाभावश्चेत्याशयेनाऽह- परेण निरूप्य इति ।। भवेदेवं यदि भेदस्यैकमात्रवृत्तित्वे प्रमाणं स्यात् । तदेव नास्तीत्यतः, पटो घटाद्भिन्न इति पटधर्मस्य भेदस्य घटप्रति-योगिकत्वान्न घटधर्मत्वं, यो प्रतियोगिको नासौ तद्धर्मो, यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्म इत्यनुमान-मेव तत्र मानमित्याशयेनाप्याह-परेण निरूप्य इति ।। ननु भेदो द्विविधः एकपृथक्त्वमनेकपृथक्त्वं चेति । तत्र पटो घटाद्भिन्नो घटः पटाद्भिन्न इत्यन्यनिरूप्यतया प्रतीयमानस्यैकपृथक्त्वस्य एकैकाश्रितत्वमभ्युपगम्यते । यत्तु ‘भिन्नाभिन्नाविमौ’, ‘भिन्नौ इमौ’ इति प्रतीयते तदनेकपृथक्त्वमनेकाश्रितमेव । प्रतियोगिनिरूप्यस्य एकाश्रयत्वे मानाभावादित्यतो यथा शुक्ला इमे पटा इत्यादिप्रतीतौ अनेके पदार्था अनेकानि तद्विशेषणानि शौक्ल्यान्यवभासन्ते, तथा भिन्नौ इमावित्यादिप्रतीतावप्यनेके पदार्थाः अनेके भेदाः प्रकाश्यन्त इति विशेष-प्रमाणाभावेन अभ्युपगन्तव्यत्वान्नानुपपत्तिरित्याशयेनाऽह- घटपटौ भिन्नौ इत्यत्रापीति ।। ननु घटपटयोर्भेद इति प्रतीतौ अनेकाश्रितस्य भेदस्य प्रतिभासात् कथमेकाश्रितत्वं तस्येत्यतः, किमत्रानेकस्य धर्मितयाऽवभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासमुतोभयावभासमिति विकल्पान् मनसि निधाय पक्षत्रयेऽप्युत्तरमाह- एव-मिति ।। तथा चानेकस्य धर्मित्वेऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरिति भावः ।
ननु च नान्योन्यप्रतियोगिकधर्मिकानेकभेदविषयत्वमुदाहृतप्रतीतेः कल्पयितुं शक्यम् । वक्त्रभिप्रायस्य वचनलिङ्गकत्वेन भेद इत्येकवचनेन प्रतीतेर्द्विधर्मिकैकभेदविषयत्वस्यानुमानसिद्धत्वादित्यत आह- एकवचनं त्विति ।। तथा च एकवचनेन प्रतीतेरेकार्थविषयकत्वानुमानस्य घटपटयो रूपमित्यादौ अनैकान्तिकत्वेन समुदायविषयकत्वेन अन्यथासिद्धत्वेन च आभासत्वात् न तेन भेदप्रतीतेः द्विधर्मिकैकभेदविषयकत्वसिद्धिरिति भावः । एवं भेदस्य द्विष्ठत्वाभावेन धर्मिप्रतियोगिसापेक्षप्रतीतिकत्वसम्भवेन गत्यन्तराभावासिद्ध्या विशेषण-त्वादिना तत्प्रतीतिनियमासिद्धेर्नान्योन्याश्रयत्वमिति ग्रन्थान्तरानुरोधेन स्वयं परिहारमभिधाय धर्मिप्रतियोगि-भावापेक्षाऽङ्गीकृतौ उद्भावितान्योन्याश्रयत्वपरिहारकतया मूलं योजयति- स चेति ।। ननु भेदस्य धर्मिस्वरूपत्वेन प्रतीतिभेदस्यैवाभावादितरेतरसापेक्षत्वस्य सुतरामभावात् तदपेक्षयाऽन्योन्याश्रयासम्भवेऽपि तस्य प्रतियोगि-स्वरूपत्वाभावेन तज्ज्ञानापेक्षयाऽन्योन्याश्रयत्वमपरिहरणीयमेवेत्यतः, किं भेदस्य प्रतियोगिनश्च स्वरूपेण ज्ञाने परस्परापेक्षत्वमभिमतमुत विशेषरूपेण तज्ज्ञान इति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति - घट-स्येति ।। तथा च भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात् प्रतियोगिस्वरूपज्ञाने च एतद्भेद-ज्ञानानपेक्षणात् न परस्परापेक्षत्वमिति नान्योन्याश्रय इति भावः । द्वितीयमाशङ्कते- तथापीति ।। धर्मिणः सकाशाद् भेदेन प्रतिपन्नस्यैव प्रतियोगित्वादित्यर्थः । अप्रतीतभेदस्यापि प्रतियोगित्वे स्वस्यापि तत्प्रसङ्गादिति भावः । न स्वरूपेण प्रतीतिमात्रं विवक्षितम् अपि तु विद्यमानभेदत्वमपि, तथा च स्वस्य स्वस्मात् तदभावान्न (पां.टि.) भेदग्रहप्रसङ्गः । नाप्यन्योन्याश्रयता । विद्यमानभेदत्वमात्रस्यैव तत्र प्रयोजकत्वेन तज्ज्ञानस्यातन्त्र-त्वादित्याशयेन समाधत्ते- विद्यमानभेदस्येति ।। अत्रासति प्रतिबन्धक इत्यपि पूरणीयम् । अन्यथा क्षीरनीरयोरपि भेदग्रहप्रसङ्गात् । तत्प्रयोजकस्य विद्यमानभेदत्वे सति स्वरूपग्रहस्य तत्रापि सत्त्वात् । असति प्रतिबन्धक इत्य-स्यापि प्रयोजकताकोटावन्तर्भावे तु नायं दोषः । तत्र समानाभिहारलक्षणदोषप्रतिबन्धादेव तदग्रहणोपपत्तेरिति द्रष्टव्यम् ।
।। एतेनेति ।। भेदस्य स्वातन्त्र्येणाप्रतीत्या इदमस्माद्भिन्नमनयोर्भेद इति वा वस्तुविशेषणत्वेन विशेष्यत्वेन तत्प्रतिभासनियमसिद्धेर्विशेषणविशेष्यभावेन तत्प्रतिभासस्य च दण्ड्यादौ तद्भावप्रतिभासस्य विशेषणविशेष्य-भूतयोः दण्डदेवदत्तयोर्भेदतद्ग्रहपूर्वकत्वदर्शनेन भेदभेदिनोः विशेषणविशेष्यभावग्रहणात् प्रागेव भेदान्तरग्रह-पूर्वकत्वस्यावश्याश्रयणीयत्वाद् भेदान्तरग्रहणस्यापि विशेषणविशेष्यभावेन तत्प्रतिभासतया तद्भेदभेदिनोः विशेषणविशेष्यभावग्रहणात् पूर्वभाविभेदान्तरग्रहणपूर्वकत्वम्, एवं तस्य तस्यापि इत्यनवस्था । न च मूले तदभावान्नेदमनवस्थादूषणमिति वाच्यम् । ‘विशेषणविशेष्यभावग्रहणहेतोः पूर्वपूर्वभेदग्रहणस्यासिद्धौ तदसिद्धेर्मौलिकभेदासिद्ध्या मूलक्षतिसद्भावात्’ इति प्रमाणमालायामानन्दबोधोक्तदूषणमपि भेदप्रतीतेर्विशेषण-विशेष्यभावप्रतीतित्वनिरासेन निरस्तमित्यर्थः । भेदवस्तुनोः किमेकैकग्राहकं प्रत्यक्षमुत उभयग्राहकम्, उभयग्रहपक्षे युगपत् क्रमेण वा, क्रमपक्षेऽपि किं पूर्वं किमपरमिति दूषयद्भिर्मण्डनमिश्रैर्भेदग्राहकत्वमेव प्रत्यक्षस्य नास्तीत्युक्तम् । तदनूद्य उक्तातिदेशेन दूषयति- तथेति ।। एतेनेति वर्तते । वस्त्वेवेति तु पक्ष(स्त्व)स्तदनर्थ-बीजमिति परित्यक्तः । अप्रतीतेरिति ।। तथा प्रतीतेरननुभवादिति भावः । उपपत्तिविरुद्धं च प्रत्यक्षेण भेदग्रहण-पूर्वकं वस्तुग्रहणमित्याह- विरम्येति ।। न च उभयशक्तियुक्तस्यापि पुरुषस्य एकानन्तरमन्यकार्यस्येव उभय-विषयीकरणशक्तियुक्तस्यापि प्रत्यक्षस्य भेदग्रहणपूर्वकं वस्तुग्राहकत्वसम्भवान्नोपपत्तिविरुद्धमिति वाच्यम् । पुरुषस्य चेतनत्वादिच्छाक्रमेण तत्र कार्यक्रमसम्भवेऽपि बुद्धेरचेतनत्वात् न क्रमेणार्थद्वयग्राहकत्वं सम्भवतीत्याशय इति स्वामिनः । यद्वा क्षणभङ्गित्वाद्बुद्धेः प्रथमं वस्तुबोधकत्वं पश्चाद् भेदबोधकत्वमिति व्यापारक्रमानुपपत्तेरि-त्यर्थः । न च क्षणमात्रवृत्तित्वं न क्षणिकत्वं ब्रूमः । येन व्यापारक्रमानुपपत्तिः स्यात् । किन्त्वाशुतरविनाशित्वमिति युज्यत एव व्यापारक्रम इति वाच्यम् । तत्पक्षेऽपि जन्मातिरिक्तव्यापाराभावेन जाताया बुद्धेर्व्यापारक्रमानुप-पत्तेरित्यन्यत्र विस्तरः । अत एवेति ।। विरम्यव्यापारानुपपत्तेरेवेत्यर्थः । वस्तुप्रतीतेरिति ।। धर्मिप्रतियोगिरूप-वस्तुप्रतीतेरित्यर्थः । निरवकाशमिति ।। भेदस्य वस्तुस्वरूपत्वं वदतो मम मते वस्तुग्रहस्यैव भेदग्राहकत्वेन मां प्रत्युक्तविकल्पानामनवसरदुस्थत्वान्न प्रत्यक्षस्य भेदग्राहकत्वानुपपत्तिरिति भावः ।
।। यथेति ।। यद्यपि प्रतीतौ सापेक्षस्यापि ब्रह्मणि ब्रह्माभेदस्य निरपेक्षब्रह्मस्वरूपत्ववत् प्रतीतौ सापेक्षस्यापि भेदस्य निरपेक्षधर्मिस्वरूपत्वमस्त्विति ब्रह्मनिष्ठब्रह्माभेदे मतद्वयरीत्या अनैकान्त्योपपादकतया शक्यमिदं व्याख्यातुम् । व्याख्यातं च न्यायामृतकृद्भिः । तथापि निरसनीयत्वेन प्रकृतजीवब्रह्मैक्यपरित्यागेन ब्रह्मनिष्ठ-(पां.टि.) ब्रह्माभेदपरत्वे च ऐक्यपदस्य प्रकृताप्रकृतत्यागस्वीकारप्रसङ्गभिया जीवब्रह्मैक्यपरतामेवाऽश्रित्यान्य-तरानैकान्त्योपपादकत्वेन इह टीकायां व्याख्यातमित्यवधेयम् । अन्यतरानैकान्त्यमिति ।। जीवब्रह्मैक्यस्य सिद्धान्तिनाऽनङ्गीकृतत्वेन उभयरीत्या तत्रानैकान्त्यासम्भवादिति भावः । न स्वरूपमिति ।। न प्रत्यक्चैत-न्याभिन्नमित्यर्थः । तथा च साध्यस्यापि सत्त्वान्नानैकान्त्यमिति भावः । अस्वरूपत्व इति ।। चैतन्यव्यतिरिक्तस्य सर्वस्य परेण मिथ्यात्वाङ्गीकारादिति भावः । यद्यप्यत्र अपसिद्धान्तो वक्तुं शक्यः तत्त्वमस्यादिवाक्यस्याखण्डार्थ-निष्ठतायाः परेणाङ्गीकारात् । तथापि स्पष्टत्वात् शिष्यैरेव स ऊह्यतामिति भावेन नोक्तः । इष्टापत्तिमाशङ्क्याऽह- तत्परस्येति ।। उपलक्षणं चैतत् । भेदस्य सत्यत्वं च स्यादित्यपि द्रश्व्व्यम् । सदद्वैतेति ।। अभावद्वैतं चान्यत्र निरस्तमिति भावः । हेतोरेव तत्र अभावान्नानैकान्त्यमित्याशङ्क्य निषेधति- नचेति ।। तत्त्वम्पदार्थप्रति-पादकानामिति ।। ‘सत्यं ज्ञानमनन्तम्’ इति तत्पदार्थप्रतिपादकानाम् ‘अथ यो वेदेद जिघ्राणि’ इत्यादि-त्वम्पदार्थप्रतिपादकानां चेत्यर्थः । एकवाक्यत्वाभावप्रसङ्गेनेति ।। ऐक्यस्य निरपेक्षत्वेन एकवाक्यताप्रयो-जकीभूतसाकाङ्क्षत्वविरहादिति भावः । न च प्रतियोगिनो भेदस्य सापेक्षत्वात्तदभावरूपमैक्यं सापेक्षवदेवेत्येक-वाक्यतोपपत्तिरिति वाच्यम् । घटः पटो नेति नञर्थस्य भेदस्यैव तादात्म्यनिषेधकत्वेन वैपरीत्यस्य वोचित-त्वात् । ऐक्ये भेदसापेक्षत्वस्य दुर्वारत्वाच्च इत्याशयात् । सापेक्षनिरपेक्षेति ।। व्याप्तिज्ञानादिसापेक्षतन्निरपेक्षे-त्यनुमितिप्रत्यक्षयोः विशेषणम् । उपलक्षणं चैतत् । एकस्यामेव तत्तायां संस्कारसापेक्षतन्निरपेक्षस्मृत्यनुभव-विषयत्वस्य दर्शनादिति द्रश्व्व्यम् । ननु प्रतिबन्द्या अनुत्तरत्वेऽपि वा तयैक्यमङ्गीकुर्वाणस्य प्रतिवादिनो मुख-मुद्रणसम्भवेऽपि तदनङ्गीकुर्वाणस्य उक्तरीत्या भेदस्य धर्मिस्वरूपत्वमाक्षिपतः शिष्यस्य न तया मुखमुद्रणम् । तं प्रत्युक्तप्रतिबन्द्याद्यप्रवृत्तेः, इत्यतो भेदस्यान्योन्याभावतया स्वरूपमात्रत्वाभावात्तस्य च वस्तुना सविशेषा-भिन्नत्वाद् भेदप्रतिनिधिविशेषबलेन सापेक्षत्वनिरपेक्षत्वरूपविरुद्धधर्माधिकरणत्वोपपत्त्या अन्यथोपपन्नत्वात् न तेन धर्मिस्वरूपत्वाभावसाधनं सम्भवतीति परिहारः शिष्यं प्रत्यपि सम्भवत्येवेत्याह- अधिकश्चेति ।।
लघुप्रभा
(व्या.टि.)
शिष्यमनस्समाधानाय वृत्तवर्तिष्यमाणे ग्रन्थसन्दर्भे सङ्गतिं दर्शयति- एवं तावदिति ।। प्राक्तन इति ।। ‘सायञ्चिरम्’ इत्यादिना ट्युस्तुडिति भावः । बाधकं प्रकाशयति- तथा हीति ।। समतीतक्षराक्षर-पदनिरुक्तिलभ्यार्थमनुवदति- क्षराक्षरेति ।। भेदेति ।। एकस्यैव उच्चावचभावासम्भवादिति भावः । कश्चि-दिति ।। किम्प्रतियोगिकोऽपीत्यर्थः । भेदे प्रत्यक्षमाशङ्क्य निराह- न चेति ।। अनपेक्षप्रतीतिमननुभवेन निराह- भेदो हीति ।। स्वतन्त्रः सम्बन्ध्यनपेक्षः । अपेक्षायामपि भेदो व्यवस्थया प्रतीयत इत्याह- किन्त्विति ।। ननु घटः पटाद्भिन्न इति प्रतीयत इति कथमुक्तव्यवस्थेत्यतो वक्ति- एकस्यैवेति ।। द्वित्वादिवद्व्यासज्यवृत्तित्वमत इत्यर्थः । अन्यतराश्रयत्वेऽपि धर्मिप्रतियोगिभावाविवक्षायामुक्तदिशैव प्रतीतिरिति वक्ति- भेदद्वयाङ्गीकारे-णेति ।। गत्यन्तराभावादिति ।। सम्बन्ध्यन्तराभावादित्यर्थः । भेदस्य विशेष्यत्वे घटपटयोरपि तत्त्वसम्भवेन तस्य विशेषणत्वे तयोरपि तत्त्वसम्भवेन कथं विशेषणविशेष्यभाव इत्यतो वक्ति- भेदस्य चेति ।। एकस्य (व्या.टि.) विशेषणभावेन भानेऽपरस्य तत्सम्बन्धिनो विशेष्यतानियमादिति भावः । तथापि कथं मिथआश्रय इत्यत आह- तथा चेति ।। विशेषणविशेष्यतयेति योज्यम् । विशेषणादिप्रतीतेरिति ।। घटपटौ भिन्नौ, घटपटयोर्भेद इति प्रतीत्योः क्रमेण विशेषणविशेष्यभूतो यो भेदस्तत्प्रतीतेरुक्तप्रतीत्योर्विशेष्यादिभूतौ यौ द्वित्वावच्छिन्नघटपटौ तत्प्रतीतिकार्यत्वादित्यर्थः । कार्यकारणभावस्तु घटपटौ संयुक्तावित्यादौ द्वित्वावच्छिन्नघट-पटप्रत्यक्षमन्तरा संयोगप्रत्यक्षादर्शनेन तद्धर्मावच्छिन्नधर्मिनिष्ठविषयतानिरूपितानेकाश्रितधर्मनिष्ठविषयता-शालिप्रत्यक्षत्वेन तद्धर्मावच्छिन्नविषयकप्रत्यक्षत्वेन भूतलत्वेन भूतलप्रत्यक्षमन्तरा ‘भूतलं घटाभाववत्’ इत्यादि-प्रत्यक्षानुदयेनाभावप्रत्यक्षत्वेनाधिकरणतावच्छेदकप्रत्यक्षत्वेन वा बोध्यः । द्वित्वप्रत्यक्षस्य भेदप्रत्यक्षाधीनत्वा-च्चान्योन्याश्रयः । सिद्धान्ते भेदस्यानेकाश्रितत्वाभावान्न प्रथमकार्यकारणभावाक्रान्तत्वम् । धर्मिप्रतीतेरेव भेद-प्रतीतित्वेनानुभवसिद्धत्वेन द्वितीयकार्यकारणभावेऽपि अभावपदं भेदोत्तरपरम्, बाधकाभावात् कार्यकारणभावद्वयं मानं वा मन्तव्यम् । केचित्तु, विशेषणादिभावेन भेदप्रतीतिं प्रति विशेष्यादिभावेन द्वित्वावच्छिन्नघटपटप्रतीतिर्हेतुः। एवमेतां प्रति सा हेतुरिति भेद एव चायं हेतुहेतुमद्भाव इति न विशिष्टप्रत्ययमात्रविलोपः । द्वित्वप्रतीतेर्भेदप्रतीत्य-धीनत्वं चाभ्युच्चययुक्तिरित्याहुः । द्वितीयं दूषयति- अथेत्यादिना ।। उक्तानुसारेणेति ।। उक्तदिशा आकाङ्क्षि-तानि पूरणीयानीत्यर्थः । पदार्थशब्दस्य प्रतियोगिसाधारण्यादाह- धर्मीहेति ।। अत्राऽद्यपक्षमनभ्युपगमेन पराचश्व्े- न भेद इति ।। ‘यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु’ इत्यभिधानाद्युगशब्दो युग्मवचनः । आश्रये द्विवचनं बाधकमाशङ्क्य परिहरति- घटपटावित्यादिना ।। एकवचनं साधयति- एकवचनमिति ।। एकमात्राश्रितत्वपक्षं परिगृह्य तद्दोषं निरस्यति- स च भेद इत्यादिना ।। स्वरूपत्वे किमायातमित्यत आह- तेनेति ।। प्रतीतिद्वयाभावेन तत्सापेक्षत्वनिमित्तोऽन्योन्याश्रयः सुतरां नास्तीति भावः । ननु घटस्य पटप्रतियोगिकभेदाभावे कथमेतद्धर्मिक-भेदप्रतियोगिता । अन्यथा पटस्यापि स्यादित्यत आह- घटस्येति ।। तथा सत्यत्राभावेऽपि तत्रान्योन्याश्रयः स्यादत आह- सोऽपीति ।। नन्वन्योन्यनिरूपितभेदयोरन्योन्यधर्मिस्वरूपत्वेऽपि प्रतियोगित्वापेक्षयाऽन्यो-न्याश्रयः, भेदज्ञानाधीनत्वात्तज्ज्ञानस्येत्याशङ्कते- तथापीति ।। प्रतिपन्नभेदस्येति बहुव्रीहिः, ज्ञातभेदस्ये-त्यर्थः । सिद्धिर्ज्ञानम् । निराह- नेति ।। प्रतीतिमात्रेणेति ।। प्रतियोगितावच्छेदकप्रकारकप्रतियोगि-ज्ञानस्यैवाभावज्ञानकारणत्वेन प्रतियोगित्वप्रकारकज्ञानस्याभावज्ञानोत्तरकालिकस्यानावश्यकत्वात् । भेदस्य धर्मिस्वरूपत्वेनान्योऽपि दोषः परिहृत इत्याह- एतेनेति ।। प्रतीतिपरम्परयेति ।। भेदधर्मिणोर्विशेषणविशेष्य-भावे भेदप्रतीत्यपेक्षा, तयोरप्येवं तयोरप्येवमिति परम्परयेत्यर्थः । दूषणान्तरमप्यनेनापास्तमिति समुच्चिनोति- तथेति ।। निरवकाशमित्यनेनान्वयः । कारणत्वेनेति ।। धर्मिप्रतीतित्वेनेति भावः ।
‘सापेक्षत्वात्सावधेश्च तत्त्वे द्वैतप्रसङ्गतः । एकाभावादसन्देहान्न रूपं वस्तुनो भिदा’ इति भिन्नभेदवाद्युक्त-धर्मिस्वरूपत्वबाधकान्याहत्याद्वैती शङ्कते- भवेदेवमित्यादिना ।। धर्मिस्वरूपत्वेनान्योन्याश्रयत्वादिपरिहार-दूषकस्याद्वैतिनः स्वरूपत्वखण्डने तात्पर्यं न तु धर्मिभेदसाधने, अपसिद्धान्तानौचित्यादिप्रसक्तेरित्यवधेयम् । (व्या.टि.)परिहारः । अन्योन्याश्रयादेरिति शेषः । स्यादिति ।। युक्तमिति शेषः । तन्निबन्धनत्वात्तत्परिहारस्येति भावः। अत्र भेदस्य धर्मिस्वरूपत्वे सापेक्षत्वनिरपेक्षत्वरूपविरुद्धधर्माधिकरणत्वानुमानं बाधकमभिसन्धाय तस्य पक्षधर्मतामुपपादयति- धर्मिस्वरूपं हीत्यादिना ।। परेति ।। धर्मिप्रतियोगिविशेषेत्यर्थः । अवधारणव्यावर्त्यं प्रदर्श्य निरस्यति- न हीति ।। निरपेक्षप्रतीतिं दर्शयति- किन्नामेति ।। अत्रापि व्यावर्त्यं दर्शयति- न त्विति ।। कथमित्याक्षेपे, निरुपाधिकसम्बन्धभङ्गादिति भावः । तत्प्रतीतिरिति शक्यसम्बन्धप्रदर्शनम् । अपेक्षयेति ।। इत्यतः परमिति शेषः । प्रतियोग्यस्वरूपत्वसिद्ध्या सिद्धसाधनवारणायाऽह- धर्मीति ।। मुखतोऽन्यथासिद्धिं वदतोऽभिप्रायमाह- एतेनेति ।। तत्र साध्यस्यापि सत्त्वेन व्यभिचाराभावमाशङ्क्य परिहरति-न चैक्यमिति ।। अनिष्टं प्रसञ्जयति- मिथ्यात्वेति ।। प्रतिपक्षं प्रतिक्षिपति- अस्वरूपस्यापीति ।। हेत्वननुगमान्नानैकान्त्यमिति शङ्कते- न चैक्यमिति ।। अनिष्टं प्रसञ्जयितुमापादकमनुवदति- तथा सतीति ।। धर्मिप्रतियोग्यनपेक्षायामिति भावः । तत्त्वम्पदार्थेति ।। धर्मिप्रतियोगिभूतजीवब्रह्मपराणाम् ‘योऽयं विज्ञानमयः’ ‘सत्यं ज्ञानमनन्तम्’ इत्यादीनामित्यर्थः । एकवाक्यताऽभावेति ।। अन्वयप्रतियोगिसमर्पकत्वाभावेत्यर्थः । नन्वैक्ये हेतुरगतः, सापेक्षत्वनिरपेक्षत्वरूपविरुद्धधर्माधिकरणत्वेन प्रतीत्योर्भेदेऽपि तत्प्रतीतिकत्वयोर्विरोधाभावादिति शङ्कते- अथेति ।। कुतो न विरोध इत्यतो निदर्शयति- एकस्येति ।। समानमिति ।। तथा च स्वरूपासिद्धो हेतुरिति भावः । न केवलं सममित्याह- अधिकश्चेति ।। मन्मते धर्मिणाऽत्यन्ताभेदेऽपि सविशेषाभेदेन भेदस्य सापेक्षत्वं सूपपादं सूद्धरबाधकमिति भावः ।