उपाधिभेदाङ्गीकारे..
मूलम्
- उपाधिभेदाङ्गीकारे हस्तपादाद्युपाधिभेदेऽपि तद्गतसुखदुःखादिभोक्तुर्यथा भेदो न प्रतीयते एवमेव शरीरादिभेदेऽपि भोक्तुर्भेदो न दृश्येत । सर्वदेहगतसुख-दुःखादिकमेकेनैव भुज्येत । यथा चैकाङ्गुल्याद्यपगमेऽपि न मुक्तिः, एवमेकोपाध्य-पगमेऽपि तस्यैवानन्तोपाधिसम्बद्धत्वान्न मुक्तिस्स्यात् ।।
टीका
प्राक्सत्योपाधिकृतभेदवादिनामद्वैतवादिनां बद्धमुक्तव्यवस्था न सिध्यतीत्युक्तम् । अधुना सुखदुःखादिव्यवस्थाऽपि तेषां न सिध्यतीत्याह- उपाधीति ।। उपाधिकृतो भेद उपाधिभेदः । तद्गतं तन्निमित्तकम् । शरीरादिभेदेऽपि शरीराद्युपाधिकृते भेदे सत्यपि । भोक्तुः शरीरादिनिमित्तक-सुखादेरिति शेषः । न केवलं भेदादर्शनमापाद्यते, किं तर्हीत्यत आह- सर्वेति ।।
अयमत्राऽपादनक्रमः- यदि सर्वेषां जीवानामभेदः स्यात्तदा देवदत्तशरीराद्यनुग्रहोपघातादिना देवदत्तशरीरे सुखदुःखाद्युत्पत्तौ सत्यां देवदत्त एव सुखी दुःखी वा, न यज्ञदत्त इति । तथा यज्ञदत्तशरीरे सुखाद्युत्पत्तौ यज्ञदत्त एव सुखादिमान्, न देवदत्त इति च भोक्तृभेदो न स्यात् । न चाऽपाद्यापादक-योरभेदादापादनानुपपत्तिः । स्वरूपभेदस्याऽपादकत्वात्, भोक्तृरूपभेदाभावस्याऽपाद्यत्वात् । तथा सर्वशरीरगतं सुखादिकमेकेनैव भुज्येत ।
तदयं प्रसङ्गार्थः-यदि देवदत्तशरीराधिष्ठाता जीवो यज्ञदत्तशरीराधिष्ठातृजीवाभिन्नः स्यात्तर्हि यज्ञदत्तशरीरगतसुखाद्यननुसन्धाता न स्यात् । किन्तु तदनुसन्धातैव स्यात् यज्ञदत्तशरीराधि-ष्ठातृजीववत् । अनुसन्धानं नाम अनेन सुखेनाहं सुखीत्याद्यनुभवः । ‘न चैवं, तस्माद्भिद्यते’ इति प्रसङ्गविपर्यये व्यतिरेकव्याप्तिरेवाऽश्रीयत इत्यदोषः ।
एतेनैतदपि प्रत्युक्तं यत्सुखदुःखादिव्यवस्थया भेदसिद्धिमाशङ्क्य केनचिदुक्तम् । केयं व्यवस्था नाम? किं धर्माणां भेद उत विरोधोऽथवा भिन्नाश्रयत्वम् । नाऽद्यः । एकस्याप्यनेकधर्माश्रयत्वदर्श-नात् । न द्वितीयः । सुखादीनां भावाभावरूपत्वाभावात् । कारणोपनिपाते सति सहावस्थानसम्भ-वात् । वध्यघातुकभावस्य चैकाश्रयत्वापेक्षत्वात् । न तृतीयः । अन्योन्याश्रयत्वप्रसङ्गादिति । व्यवस्थाशब्देनानुसन्धानभावाभावयोर्विवक्षितत्वात् ।
यच्चोक्तम्-किमत्रांशानामनुसन्धानमापाद्यत उतांशिनः । नाऽद्यः । हस्तगतसुखदुःखस्य पादगतेनाननुसन्धानात् । न द्वितीयः । अंशिनो ब्रह्मणः सर्वानुसन्धानस्येष्टत्वादिति । एतच्चायु-क्तम् । जीवानां तावदनुसन्धानस्याऽपाद्यत्वात् । सुखादिकारणानां सुखादीनां च हस्तादिसम्बन्धेऽपि भोक्तुरेकत्वेन व्यभिचाराभावात् । अन्यथा चरणतललग्नकण्टकोद्धरणाय हस्तव्यापारो न स्यात् । न च पुत्रादाविवोपपत्तिः । दुःखाद्यनुमानपूर्वककृपादेरनुपलम्भात् ।
अथ मतम्- अनुसन्धाने न चेतनत्वे सत्यभेदमात्रं प्रयोजकं किन्तूपाधिकृतभेदाभावसहितम् । देवदत्तयज्ञदत्तयोश्च स्वाभाविकाभेदे सत्यपि शरीराद्युपाधिकृतभेदसद्भावादनुसन्धानाभावोपपत्ति-रिति । एतदप्ययुक्तम् । स्वरूपैक्ये सति हस्तपादाद्युपाधिकृतभेदे विद्यमानेऽप्यनुसन्धानदर्शनेन स्वरूपैक्यस्यैवानुसन्धाने प्रयोजकत्वं नोपाध्यभावसहितस्येति निश्चयात् । अतः शरीरादिकृतभेदे विद्यमानेऽपि स्वरूपैक्यस्याङ्गीकारेऽप्यनुसन्धानमापाद्यत एवेति । एतेन प्रयोजकस्याऽपाद्या-व्यापकत्वमुक्तं वेदितव्यम् । नन्वत्र विशेषणस्य पक्षमात्रव्यावृर्त्त्थत्वेन वैयर्थ्यमेव कस्मान्नोक्तम् । मैवम् । साध्याव्यापकत्वस्य स्फुटत्वात् । पक्षमात्रव्यावर्तकस्यापि विशेषणस्य क्वचिदङ्गीकृतत्वेन वैयर्थ्यस्योपपादनीयत्वात् ।
अतिप्रसङ्गान्तरमाह- यथा चेति ।। सर्वजीवानामैक्यं वदन्प्रष्टव्यः-किं सर्वेषां जीवानां युगपदेव मुक्तिर्भवत्युत क्रमेण । आद्ये किमेकजीववादिनाऽपराद्धं येन तत्परित्यागेन बहुजीववादोऽङ्गीकृतः। बद्धमुक्तव्यवस्थासिद्धये खलु बहुजीववादाभ्युपगमः । तस्मिन्नपि यदि न बद्धमुक्तव्यवस्था तदा किं तेन । द्वितीये देवदत्तस्य किं स्वसम्बन्धिसर्वोपाध्यपगमो मुक्तिरुत कतिपयोपाधिविगमः । नाऽद्यः । देवदत्ताभिधोपाध्यपगमेऽपि यज्ञदत्ताद्यभिधानामनन्तोपाधीनामनपगमेन मुक्त्यभाव-प्रसङ्गात् । देवदत्तजीवस्य यज्ञदत्तादिजीवाभेदेन तदुपाधीनां सर्वेषां देवदत्तजीवसम्बन्धित्वात् । यथा कस्यचिदेकाङ्गुल्याद्यपगमेऽपि तत्सम्बन्धिकर्णाद्युपाधिसद्भावान्न मुक्तिस्तथैव । द्वितीये तु एकाङ्गुल्याद्यपगमेऽपि मुक्तिः स्यात् । देवदत्ताभिधोपाधिरेव देवदत्तसम्बन्धी न यज्ञदत्ताद्यभिधोपा-धय इति चेत्, तत्किं देवदत्तस्य यज्ञदत्तादिभ्यो भेदः । अभेदेऽप्युपाधिकृतो भेदोऽस्तीति चेत्, तर्हि उपाधिसम्बद्धस्योपाधिसम्बन्ध इत्युक्तं स्यात् । तच्च निराकरिष्यते ।
एतेनैतज्जीवभेदकसर्वोपाध्यपगमोऽस्य मुक्तिरित्यपि परास्तम् । उपाध्यपरामर्श एतज्जीवे-त्यस्यायोगात् । भाव्यपेक्षयैवमुक्तिरिति चोपाधेर्भेदकत्वानुपत्त्यादिना दूषयिष्यते ।
प्राग्ब्रह्मणः सर्वोपाधिसम्बन्धित्वेनोपाधिनिवृत्त्या तद्भावमापन्नस्यापि न मुक्तिरित्युक्तम् । इदानीन्तूपाधिनिवृत्तेरेवाभावादित्युच्यत इति भेदः ।।
भावबोधः
सुखदुःखादेर्मनोगतत्वादाह- तन्निमित्तकमिति ।। मूले उपाधिभेदाङ्गीकारस्याऽपादकत्वं प्रतीयते । न च तद्युज्यते । हस्तपादाद्युपाधिभेदेऽपीत्यादिनोपाधिभेदाभावस्यानुसन्धानं प्रत्यप्रयोजकत्वसमर्थनं प्रतीयते । तदपि न युज्यते । आपादकस्यानुक्तत्वेन तन्निरासायोपाधिमाशङ्क्य तदप्रयोजकत्ववर्णनस्यासङ्गतत्वादित्यत आह- अयमत्राऽपादनक्रम इति ।। भोक्तृभेदो न स्यादित्यर्थः । अनेन ‘भोक्तुर्भेदो न दृश्येत’ इत्यत्र न दृश्येतेत्येतदापाद्यस्य प्रामाणिकपरित्यागरूपानिष्टत्वज्ञापनार्थमुक्तमिति सूचितं भवति । भोक्तृरूपेति ।। भोक्तृरूपाणां भेदाभावस्येत्यर्थः । अनेन भोक्तुरित्येतदुक्ततात्पर्यं भवति । नन्वेवमिष्टापत्तिः स्यात् । वस्तुगत्या भोक्तुरेकत्वाङ्गीकारेण भोक्तृभेदाभावादित्यत आह- तदयं प्रसङ्गार्थ इति ।। देवदत्तादेर्यज्ञदत्तादिगत-सुखदुःखादिविषयकानुमितिरूपानुसन्धानसम्भवेनेष्टापादनमित्यत आह- अनुसन्धानं नामेति ।। ननु सिद्धान्ते तर्कस्याऽपाद्यानिष्टत्वं विपर्यये पर्यवसानं च साध्यसाधकत्वोपयोगीत्यङ्गीकृतम् । तथा च न च जीवाः परस्परगतसुखाद्यनुसन्धानास्तस्माद्भिद्यन्त इति विपर्यये पर्यवसानम् । अनुसन्धानाभावस्य भेदेन व्याप्तिग्रहं विना न सम्पद्यत इति तयोर्व्याप्तिग्रहो वक्तव्यः । न च स प्रकृते सम्भवति । आपादकभूतस्वाभाविकैक्याभावस्य परेण क्वाप्यनङ्गीकारेण दृष्टान्तासिद्धेरित्यत आह- प्रसङ्गविपर्यय इति ।। यत्र स्वाभाविकैक्यं तत्रानुसन्धानमिति व्यतिरेकव्याप्तेरुपपादितत्वादिति भावः । एकस्यापीति ।। तथा च धर्मभेदरूपव्यवस्थायाः व्यभिचारान्न धर्मिभेदसाधकत्वमिति भावः ।
ननु सुखदुःखादीनां परस्परविरहरूपत्वलक्षणविरोधाभावेऽपि सहानवस्थानरूपविरोधो भविष्यतीत्यत आह- कारणोपनिपाते सतीति ।। तथा चासिद्धिरिति भावः । एकाश्रय-त्वापेक्षत्वादिति ।। तथा च विरुद्धत्वान्न धर्मिभेदसाधकत्वमिति भावः । अन्योन्याश्रयप्रसङ्गादिति ।। धर्मिभेदसिद्धौ धर्माणां भिन्नाश्रयत्वलक्षण-व्यवस्थासिद्धिः । तत्सिद्धौ च धर्मिभेदसिद्धिरित्यर्थः । हस्तादिसम्बन्धेऽपीति ।। सुखकारणविषयाणां हस्तादिना संयोगः । सुखादीनां तु निमित्तनिमित्तिभाव इति सम्बन्धो बोद्धव्यः । विशेषणस्य पक्षमात्रव्यावृत्त्यर्थत्वे-नेति ।। स्वाभाविकैक्यवादिमते भेदाभावस्य केवलान्वयित्वेन पर्वतेतरत्वादौ पर्वतेत्यस्येवोपाधिकृतेत्यस्य पक्ष-मात्रव्यावृत्तिप्रयोजकत्वेनेत्यर्थः । क्वचिदङ्गीकृतत्वेन वैयर्थ्यस्योपपादनीयत्वादिति ।। क्वचिदनु-कूलतर्करहितस्थले पक्षमात्रव्यावर्तकविशेषणवतोऽप्युपाधित्वाङ्गीकारेण प्रकृतापादकस्याऽपाद्येन व्याप्तावानुकूल्यं व्युत्पाद्योपाधिकृतेति विशेषणवैयर्थ्यस्योपपादनीयत्वादित्यर्थः । स्पष्टप्रतिभासदूषणमनादृत्य उपपाद्य-दूषणाभिधानेऽकौशलं स्यादिति भावः । ननु स्वीयसर्वोपाध्यपगम एव मुक्तिः । तथा च यज्ञदत्ताद्यभिधोपाधीनां देत्तदत्तीयत्वाभावात्तदनपगमेऽपि देवदत्तमुक्तिर्न विरुद्धेत्यत आह- देवदत्तजीवस्येति ।। देवदत्ताभिधशरीरा-वच्छिन्नचेतनस्येत्यर्थः । एवं यज्ञदत्तजीवेत्यादावपि द्रष्टव्यम् । अनेन तस्यैवेत्येतदुक्ततात्पर्यकं ज्ञातव्यम् । उपाधिकृतभेदवत्युपाधिसम्बन्धाङ्गीकारे उपाधिसम्बन्धस्यैवोपाधिसम्बन्ध इत्युक्तं स्यात् । उपाधिसम्बन्धं विना तत्कृतभेदासम्भवादिति भावः । नन्वेतज्जीवेत्युक्तिर्न प्राङ्निष्पन्नोपाधिसम्बन्धापेक्षया । किन्तु भाव्युपाधि-सम्बन्धापेक्षया । तथा चोपाध्यपरामर्श इत्याद्युक्तात्माश्रयानवकाश इत्यत आह- भाव्यपेक्षयैवमिति ।। प्राग्ब्रह्मण इति ।। ‘यदि चैकमेव ब्रह्म’ इत्यत्र संसार्येव ब्रह्मेत्यादिबलात्प्राग्यस्य ब्रह्मण एव सर्वदोपाधिसम्बन्धस्य प्रतिपादितत्वात् । अत्र च तस्यैवानन्तोपाधिसम्बन्धत्वादित्युक्त्या प्राप्तुर्जीवस्यैवोपाध्यनिवृत्तेरेवोक्तत्वादिति भावः ।
भावदीपः
प्रागिति ।। ‘यदि चैकमेव ब्रह्मोपाधिभेदात्संसरति’ इत्यादिग्रन्थ इत्यर्थः । सुखदुःखादि-व्यवस्थाऽपीति ।। तथा च न पुनरुक्ततादोष इति भावः । भोक्तुरित्यत्र कस्येत्याकाङ्क्षायामाह- शरीरादि-निमित्तकेति ।। मूले आपादकानुक्त्याऽऽपाद्यापादकभावादेरस्फुटत्वदाह- अयमत्रेति ।। यद्वा मूलोक्तापादनस्य विशेषापादनरूपत्वेन द्वितीयकक्ष्यात्वात्प्रथमकक्ष्यापन्नसामान्यापादनं तावदापाद्योक्तिपूर्वमाह - अयम-त्रेति ।। अवस्थाभेदेन भेदमुपेत्याऽह- स्वरूपाभेदस्येति ।। तथेति ।। यदीत्यापादकभेदस्येहायोगादाह- तदयमिति ।। अनुसन्धानं ज्ञानमात्रं चेन्मुखप्रसादादिना परकीयसुखादिज्ञानं जीवभेदेऽपि सम्भवतीत्यत आह- अनुसन्धानं नामेति ।। इत्यादीति ।। तत्कृतोच्चत्वादिरादिपदार्थः । न चैवमिति ।। नानुसन्धानवानि-त्यर्थः । भिद्यत इति ।। देवदत्तशरीराधिष्ठाता जीवो यज्ञदत्तशरीराधिष्ठातृजीवादिति योज्यम् । प्रसङ्गविपर्यय इति ।। प्रसङ्गस्य विपर्ययपर्यवसाने यत्रान्योन्यानुसन्धानाभावस्तयोस्तत्र भेद इत्यन्वयव्याप्तौ न दृष्टान्तोऽ-स्ति । सर्वजीवानां भिन्नाभिन्नत्वेन विवादग्रस्तत्वात्, यो यद्गतसुखदुःखाद्यनुसन्धानवान् स तदभेदवान् यथा यज्ञदत्तशरीराधिष्ठातृजीवस्तेनैवाभेदवानिति दृष्टान्तसम्भवाद्व्यतिरेकव्याप्तिराश्रीयत इत्यर्थः । एके तु यत्रान्यो-न्यानुसन्धानाभावः तत्र तयोर्भेदः यथा घटपटयोरित्येवंरूपा व्यतिरेकव्याप्तिरित्याहुः । धर्माणां भेदो न धर्मिभेदकल्पक इति भावेनाऽह- एकस्यापीति ।। धर्माणां विरोधस्तदाश्रयधर्मिभेदक इति पक्षे विरोधो नामान्योन्यविरहरूपत्वं वा वध्यघातुकभावो वा । आद्य आह- सुखादीनामिति ।। दुःखाभाव एव सुखमिति मते सुखदुःखोभयकारणोपनिपातेन भावाभावरूपसुखदुःखयोस्सहावस्थानसम्भवादित्यर्थः । द्वितीय आह- वध्येति ।। ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायात्समानाश्रययोरेव मूषकमार्जारयोर्वध्यघातुक-भावदर्शनाच्चेति भावः । अन्योन्याश्रयत्वेति ।। सुखादिधर्माणां भिन्नाश्रयत्वे सिद्धे तदाश्रयधर्मि-भेदसिद्धिः । तत्सिद्धौ च धर्माणां भिन्नाश्रयत्वसिद्धिरित्येवमित्यर्थः । इत्येतत्प्रत्युक्तमिति पूर्वेणान्वयः । हस्तेति ।। हस्तपादाद्युपाधिभेदेन जीवांशानां भिन्नत्वादिति तन्मतावष्टम्भेनेयमुक्तिः । पादगतेनेति ।। अंशेनेति योज्यम् । सुखादिकारणानामिति ।। सुरूपसुस्पर्शसुगन्धादिसम्बन्धेन तन्निमित्तकसुखादौ जाते सतीत्यर्थः । व्यभिचाराभावादिति ।। देवदत्तशरीराधिष्ठातेत्यादि प्रागुक्तप्रयोगे यो यदधिष्ठात्रभिन्नः स तन्निमित्तसुखाद्यनु-न्धातेत्यभिमतव्याप्तेरिति योज्यम् । न च पुत्रादाविवेति ।। रोदनादिकार्येण पुत्रादौ दुःखमनुमाय दयया तद्दुःखपरिहाराय पितुर्यथा प्रवृत्तिः तथैवास्तु किमनुसन्धानकल्पनयेत्यर्थः । न चेतनत्वे सतीति विभागः । अनुसन्धानदर्शनेनेति ।। सुखादिकारणानामित्युक्तदिशेति भावः ।
एतेनेति ।। स्वरूपैक्यस्यैव प्रयोजकत्वकथनेनेत्यर्थः । हस्तपादाद्युपाधिभेदेऽप्यनुसन्धानदर्शनेनेति वा । परोक्तस्य उपाधिकृतभेदाभावसहितस्वरूपैक्यरूपप्रयोजकस्यानुसन्धानरूपापाद्याव्यापकत्वमुक्तं वेदितव्यमि-त्यर्थः । पक्षमात्रेति ।। शरीराद्युपाधिकृतभेदस्य पक्ष एव सत्त्वेन तदभावरूपं विशेषणं पक्षमात्रव्यावर्तकमित्यर्थः। क्वचिदिति ।। सर्वं तेजोऽनुष्णं पदार्थत्वादित्यादौ तेजोऽन्यत्वाद्युपाधावित्यर्थः । उपपादनीयत्वादिति ।। स्वरूपैक्यमात्रस्यानुसन्धानव्याप्तत्वेन निमित्तेन तादृशं विशेषणमिह व्यर्थमेव व्यावर्त्याभावादित्युपपाद-नीयत्वादित्यर्थः । अतिप्रसङ्गान्तरमिति ।। सुखदुःखादिव्यवस्थानुपपत्तिरूपप्रसङ्गापेक्षया मुक्त्यनुपपत्ति-रूपप्रसङ्गान्तरमित्यर्थः । मूलं घटयितुं परिष्करोति- सर्वजीवानामिति ।। ‘एकोपाध्यगमेऽपि’ इत्यादिमूलं योजयति- नाऽद्य इत्यादिना ।। अन्यदीयोपाधीनां कथं देवदत्तीयत्वमित्यत आह- देवदत्तजीवस्येति ।। यथा चेत्यादिपूर्ववाक्यं व्याचश्व्े- यथेति ।। द्वितीये त्विति ।। कतिपयोपाध्यपगम एव मुक्तिरिति पक्ष इत्यर्थः । उपाधिसम्बद्धस्येति ।। प्रागेवोपाधिसम्बन्धवशाद्धि देवदत्तयज्ञदत्तचैत्रमैत्रादिसञ्ज्ञका जीवा जाताः । तेषामेवो-पाधिसम्बद्धतया देवदत्तादिसञ्ज्ञकानामौपाधिकभेदोऽस्तीत्युक्ते सत्युपाधिसम्बद्धस्योपाधिसम्बन्धो भेदकारीत्युक्तं स्यात् । तच्च ‘उपाधिकृतांशकल्पने’ इत्यादिना तुल्यन्यायेन निराकरिष्यत इत्यर्थः । उपाध्यपरामर्श इति ।। एतज्जीवेत्यत्रैतच्छब्देनैतदुपाध्यवच्छिन्नचेतनेत्येवमेतच्छब्देन जीवत्वसम्पादकोपाध्यपरामर्श इत्यर्थः । परामर्शे तूपाधिसम्बद्धस्यैवोपाधिसम्बन्ध इत्यायातीति भावः । भाव्यपेक्षयेति ।। ‘इग्यणस्सम्प्रसारणम्‘ ‘अग्नये जुश्व्ं निर्वपामि’ इत्यादाविव येनोपाधिना देवदत्तो यज्ञदत्त इत्यादिसञ्ज्ञको भविष्यति, तदुपाधिरेतच्छब्देन परा-मृश्यते । तथा चोपाधेरेकत्वान्नोपाधिसम्बद्धस्योपाधिसम्बन्ध इति दोष इति भावः । दूषयिष्यत इति ।। ‘किंचोपाधिः’ इत्यादिनेत्यर्थः । प्राग्ब्रह्मण इति ।। ‘यदि चैकमेव ब्रह्म’ इत्यादावित्यर्थः । इदानीमिति ।। यथा चेत्यादिना ग्रन्थेनेत्यर्थः । अतो न पुनरक्तिरिति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
उपाधीनां भेद इत्यन्यथाप्रतीतिनिरासाय शाकपार्थिवादिवत् मध्यमपदलोपी समास इत्याशयेनाऽह- उपाधिकृत इति ।। सुखदुःखादेर्मनोगतत्वेन हस्तपादगतत्वाभावादाह- तन्निमित्तकमिति ।। हस्तादीनां (श्री.टि.) सुखदुःखादिभोगावच्छेदकत्वेन सुखाद्युत्पत्तौ निमित्तत्वादित्यर्थः । अत्र ‘भोक्तुर्भेदो न दृश्येत’ इत्यनेनाऽपादिते भोक्तृभेदाभावे ‘उपाधिभेदाङ्गीकारे’ इत्युक्तोपाधिभेदस्याऽपादकत्वं प्रतीयते । तदयुक्तम् । अप्रयोजकत्वात् । अतोऽत्र भोक्तृभेदो न स्यात्सर्वदेहगतसुखदुःखादिकमेकेनैव भुज्येतेत्युक्तापादने यदि सर्वेषां जीवानामभेदः स्यादित्यापादकमध्याहार्यम् । पुनरनुसन्धाने अथ मतमित्यादिना प्रयोजकान्तरशङ्कायामुपाधि-भेदाङ्गीकार इत्यादिकं तस्य व्यभिचारप्रदर्शनार्थं प्रवृत्तमित्याशयेनाऽपादनप्रकारं दर्शयति- अयमत्राऽपादनक्रम इति ।। अनुग्रहः स्रक्चन्दनादिप्रियवस्तुसम्बन्धः । उपघातोऽप्रियवस्तुसम्बन्धः । भोक्तृभेदो न स्या-दिति ।। ननु तर्हि मूले भोक्तुर्भेदो न स्यादित्येव वक्तव्यम् । न दृश्येतेति किमर्थमुक्तमिति चेन्न । भोक्तुर्भेदो न स्यादित्युक्तापाद्यस्य प्रामाणिकपरित्यागरूपानिष्टत्वज्ञापनार्थत्वादिति द्रष्टव्यम् । भोक्तुर्भेद इत्यत्र भोक्तुरित्यस्याभिप्रायं वक्तुमाह- न चाऽपाद्येति ।। स्वरूपाभेदस्येति ।। चैतन्यैक्यस्येत्यर्थः । भोक्तृरूप-भेदाभावस्येति ।। उक्तरीत्या व्यवस्थया सुखदुःखभोक्तृदेवदत्तयज्ञदत्ताभिधरूपाणां भेदाभावस्याऽपाद्य-त्वादित्यर्थः । नन्वेवमपीष्टापत्तिः स्यात् । वस्तुगत्या भोक्तुरेकत्वाङ्गीकारेण भोक्तृरूपभेदस्याप्यभावादित्यत आह- तदयं प्रसङ्गार्थ इति ।।
ननु देवदत्तादेर्यज्ञदत्तादिगतसुखदुःखादिविषयकानुमितिरूपानुसन्धानसम्भवेनेष्टापादनमित्यत आह- अनु-सन्धानं नामेति ।। ननु सिद्धान्ते तर्कस्यापाद्यानिष्टत्वं विपर्ययपर्यवसानं च साध्यसाधकत्वोपयोगीत्यङ्गी-कृतम् । तथा च न जीवाः परस्परसुखदुःखाद्यनुसन्धातारः, तस्मात्स्वाभाविकैक्यवन्तो न भवन्तीति विपर्यये पर्यवसानम् अनुसन्धानाभावस्य स्वाभाविकैक्याभावेन व्याप्तिग्रहं विना न सम्पद्यत इति तयोर्व्याप्तिग्रहो वक्तव्यः। न च स प्रकृते सम्भवति । आपादकभूतस्वाभाविकैक्याभावस्य परेण क्वाप्यनङ्गीकारेण दृष्टान्ताभावादित्यत आह- प्रसङ्गविपर्यय इति ।। यत्र स्वाभाविकैक्यं तत्रानुसन्धानं यथा यज्ञदत्तशरीराधिष्ठाता जीव इति व्यतिरेकव्याप्तिरेवाश्रीयत इति दृष्टान्ताभावेन व्याप्तिग्रहानुपपत्तिरूपो दोषो नास्तीत्यर्थः । भेदसिद्धिमिति ।। धर्मिभूतजीवभेदसिद्धिमित्यर्थः । धर्माणां भेद इति ।। तथा च धर्मभेदाद्धर्मिभेद इत्यर्थः । विरोध इति ।। तथा च विरुद्धधर्मभेदाद्धर्मिभेद इत्यर्थः । भिन्नाश्रयत्वमिति ।। तथा च भिन्नाश्रयधर्मभेदाद्धर्मिभेद इत्यर्थः । एक-स्यापीति ।। तथा च रूपरसादिधर्माणां भेदेऽपि धर्मिणो घटस्यैकत्वेन भेदाभावेन व्यभिचारान्न धर्मभेद-रूपव्यवस्थाया धर्मिभेदसाधकत्वमिति भावः । सुखादीनामिति ।। तथा च सुखदुःखादीनां परस्परविरह-रूपत्वलक्षणविरोधाभावेन स्वरूपासिद्धिरिति भावः । ननु सुखदुःखादीनां परस्परविरहरूपत्वलक्षण-विरोधाभावेऽपि सहानवस्थानरूपो विरोधो भविष्यतीति नासिद्धिरित्यत आह- कारणोपनिपाते सतीति ।। सुखदुःखकारणानां युगपद्देहसम्बन्धे सति तज्जन्यसुखदुःखयोः सहावस्थानसम्भवादित्यर्थः । तथा च पुनरसिद्धिरेवेति भावः । ननु तथाऽपि सुखदुःखादीनां वध्यधातुकभावेन विरोधो भविष्यतीति नासिद्धिरित्यत आह- वध्यघातुकभावस्येति ।। एकस्मिन्स्थाने सतोरेव ह्यहिमूषकयोर्वध्यघातुकभावो दृष्टो न भिन्नस्थाने (श्री.टि.) सतोरित्येवं वध्यघातुकभावरूपविरोधस्यैकाश्रयत्वसापेक्षत्वेन वध्यघातुकभावविरोधोपेतसुख-दुःखादिधर्मभेदस्य प्रत्युत धर्म्यभेदसाधकत्वेन विरुद्धत्वान्न धर्मिभेदसाधकत्वमिति भावः । अन्योन्याश्रयत्व-प्रसङ्गादिति ।। धर्मिभेदसिद्धौ धर्माणां भिन्नाश्रयत्वलक्षणव्यवस्थासिद्धिः । तत्सिद्धौ च तया धर्मिभेदसिद्धिरित्य-न्योन्याश्रयत्वप्रसङ्गादित्यर्थः । एतेनेत्युक्तं विशदयति- व्यवस्थाशब्देनेति ।। यस्य सुखमुत्पन्नं तस्यैव तदनुसन्धानभावो नान्यस्य, यस्य दुःखमुत्पन्नं तस्यैव तदनुसन्धानमन्यस्य तदभाव इति सुखदुःखाद्यनुसन्धान-भावाभावयोरेव व्यवस्थाशब्देन विवक्षितत्वादित्यर्थः ।
यच्चोक्तमिति ।। परेण स्वग्रन्थ इत्यर्थः । अंशानां जीवानाम् । अंशिनो ब्रह्मणः । भास्करमते जीव-ब्रह्मणोरंशांशिभावाङ्गीकारादंशानामित्याद्युक्तम् । यत्र स्वाभाविकैक्यं तत्रांशानामनुसन्धानमित्यस्य व्यभिचार-माह-हस्तगतसुख(दुःख)स्येति ।। हस्तावच्छिन्नांशगतसुखस्येत्यर्थः । पादगतेन अंशेन । इष्टत्वादिति ।। तथा चानिष्टत्वरूपाङ्गविकलत्वादाभासभूतस्तर्क इति भावः । जीवानाम् अंशानाम् । तत्रोक्तं व्यभिचारं परिहरति- सुखादिकारणानामिति ।। स्रक्चन्दनादिविषयाणामित्यर्थः । सुखादीनां तज्जन्यसुखादीनाम् । हस्तादि-सम्बन्धेऽपीति ।। सुखादिकारणविषयाणां हस्तादिना संयोगः सम्बन्धः । सुखादीनां च हस्तादिना निमत्तनिमित्तिभाव इति सम्बन्धो बोद्धव्यः । भोक्तुरेकत्वेनेत्यनन्तरम् अनुसन्धानसद्भावादिति शेषः । यद्यपि सुखादिकारणीभूततत्तद्विषयसम्बन्धस्तज्जन्यसुखादिकञ्च हस्ताद्यवच्छेदेनैवास्ति, अतस्तदवच्छिन्नांशानामनु-सन्धानं त्वयोच्यते । तथाऽपि भोक्तुरेकत्वेन तत्तदंशानां स्वभाविकैक्यसद्भावेनानुसन्धानमस्त्येवेति न व्यभिचार इति भावः । पादगतसुखस्य हस्तगतेनानुसन्धानानङ्गीकारे बाधकमाह- अन्यथेति ।। ननु यथा पुत्रपादतल-लग्नकण्टकोद्धरणाय तदीयदुःखानुसन्धानाभावेऽपि पितुः कृपया प्रवृत्तिर्भवति तथाऽत्र कृपया प्रवृत्तिरुपपद्यते । तथा च न तदन्यथानुपपत्त्याऽनुसन्धानं कल्पनीयमित्याशङ्कते- न च पुत्रादाविवेति ।। दुःखाद्यनुमानपूर्व-केति । रोदनादिना तदीयदुःखादिकमनुमायानन्तरं जातया कृपया तदीयकण्टकोद्धरणादौ पितुः प्रवृत्तिरुपलब्धा, तथाऽत्रानुपलम्भादित्यर्थः ।
‘उपाधिभेदाङ्गीकारे’ इत्यादिमूलनिवर्त्यामाशङ्कामाह- अथ मतमिति ।। घटस्य घटेनाभेदे सत्यप्यनु-सन्धानाभावाद्व्यभिचार इत्यतश्चेतनत्वे सतीत्युक्तम् । प्रयोजकमिति ।। येन परस्परानुसन्धानं स्यादिति भावः । एतेनेति ।। हस्तपादाद्युपाधिभेदेऽपीत्यादिना वाक्येनेत्यर्थः । आपाद्येति ।। उपाधिकृतभेदाभाव-सहितस्वरूपैक्यरूपप्रयोजकस्य व्यभिचारादनुसन्धानरूपापाद्याव्यापकत्वमुक्तं वेदितव्यमित्यर्थः । विशेषण-स्येत्यादि ।। स्वाभाविकैक्यवादिमते भेदाभावस्य केवलान्वयित्वेन पर्वतेतरत्वादौ पर्वतेत्यस्येवोपाधिकृतेत्यस्य विशेषणस्य पक्षमात्रव्यावृत्तिप्रयोजकत्वेनानुमानमात्रोच्छेदकत्वाद्वैयर्थ्यमेव कस्मान्नोक्तम्, आपाद्याव्यापकत्वं कस्मादुक्तमित्यर्थः । साध्येति ।। आपाद्येत्यर्थः । उक्तप्रयोजके आपाद्याव्यापकत्वस्य स्फुटत्वात् तदेवोक्तमिति भावः । क्वचिदिति ।। यत्रोपाधेः साध्यव्यापकताग्राहकानुकूलतर्को नास्ति तत्र पक्षमात्रव्यावर्तकविशेषण-वतोऽप्युपाधित्वमङ्गीकृतम् । अनुकूलतर्कसद्भावे पक्ष एव साध्यव्यापकताभङ्गापत्तेः ।
(श्री.टि.) ‘अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः ।।’
इति वचनात् । अतो बाधोन्नीतपक्षेतरत्वमुपाधिरिति भावः । वैयर्थ्यस्योपपादनीयत्वादिति ।। प्रकृते चाऽपादकस्याऽपाद्येन व्याप्तावनुकूलतर्कं व्युत्पाद्य पक्ष एवाऽपाद्याव्यापकत्वं प्रयोजकस्योपपाद्योपाधिकृतेत्यस्य विशेषणस्य वैयर्थ्यमस्माभिरुपपादनीयं भवतीति प्रयत्नगौरवमायाति । अत आपाद्याव्यापकत्वरूपं स्फुटदूषण-मुपेक्ष्योपपादनीयदूषणाभिधानेऽकौशलं स्यादिति तदेवोक्तमिति भावः । तस्मिन्नपीति ।। बहुजीववादाभ्युप-गमेऽपीत्यर्थः । ननु स्वीयसर्वोपाध्यपगम एव मुक्तिः । तथा च यज्ञदत्ताद्यभिधोपाधीनां देवदत्तीयत्वाभावात् तदनपगमेऽपि देवदत्तमुक्तिर्न विरुद्धेत्यत आह- देवदत्तजीवस्येति ।। देवदत्ताभिधशरीरावच्छिन्नचेतनस्येत्यर्थः। यज्ञदत्तादिजीवाभेदेनेति ।। यज्ञदत्ताद्यभिधशरीरावच्छिन्नचेतनाभेदेनेत्यर्थः । अनेन तस्यैवेत्येतत् उक्ततात्पर्यकं ज्ञातव्यम् । तत्किमिति ।। येन देवदत्ताभिधोपाधिरेव देवदत्तसम्बन्धी न यज्ञदत्ताभिधोपाधिरिति स्यादिति भावः । शङ्कते- अभेदेऽपीति ।। देवदत्तयज्ञदत्तयोरित्यर्थः । तर्हीति ।। देवदत्तयज्ञदत्तयोरुपाधिसम्बद्धत्वेन तयोरभेदमङ्गीकृत्य पुनरुपाधिकृतभेदाङ्गीकारे उपाधिसम्बद्धस्यैवोपाधिसम्बन्ध इत्युक्तं स्यात्, उपाधिसम्बन्धं विना तत्कृतभेदासम्भवादिति भावः । अस्त्विति चेत्तत्राऽह- तच्चेति ।। ‘उपाधिसम्बद्धस्यैवोपाधिसम्बद्धत्वं तदुपाधिकृतत्वे आत्माश्रयत्वमुपाध्यन्तरकल्पनेऽनवस्था’ इत्यत्राऽत्माश्रयत्वादिना निराकरिष्यत इत्यर्थः । एतेनेत्युक्तं विशदयति- उपाध्यपरामर्श इति ।। उपाध्यविवक्षायामित्यर्थः । तथा हि । जीवस्यैतत्त्वं नामेतर-वैलक्षण्यं भेद इति यावत् । इदं चोपाधिसम्बन्धं विना न सम्भवति । तथा चैतज्जीवेत्यस्य प्राङ्निष्पन्नोपाधि-सम्बन्धकृतभेदवतो देवदत्तस्येत्यर्थस्स्यात् । तस्य यज्ञदत्तादिभेदकसर्वोपाध्यपगमोऽस्य देवदत्तस्य मुक्तिरित्युक्तं स्यात् । तथा च तत्रोपाधेरेकत्वविवक्षायामात्माश्रयत्वमिति भावः । नन्वेतज्जीवेत्युक्तिर्न प्राङ्निष्पन्नोपाधि-सम्बन्धकृतभेदापेक्षया, किन्तु भाव्युपाधिसम्बन्धकृतभेदापेक्षयैव । तथा चोपाध्यपरामर्श इत्युक्तात्माश्रयानवकाश इत्यत आह- भाव्यपेक्षयैवमुक्तिरिति ।। एवमुक्तिः एतज्जीवेत्युक्तिः । दूषयिष्यत इति ।। ‘किञ्चोपाधि-रात्मनः’ इत्यादिनेत्यर्थः । ननु प्राक् ‘यदि चैकमेव ब्रह्म’ इत्यत्र ‘तद्भावमापन्नस्यापि न मुक्तिः’ इति मुक्त्यभाव उक्तः । इदानी यथा चैकेत्यत्रापि न मुक्तिस्स्यादिति मुक्त्यभाव एवोच्यत इति पूर्वग्रन्थेन गतार्थतेत्यत आह- प्रागिति ।। यदि चैकमेव ब्रह्मेत्यत्र सर्वदा संसार्येव ब्रह्मेति प्राप्यस्य ब्रह्मण एव सर्वदोपाधिसम्बन्धस्य प्रतिपादितत्वात्तद्भावमापन्नस्यापि न मुक्तिरिति प्रतिपादितम् । अत्र च तस्यैवानन्तोपाधिसम्बद्धत्वादित्युक्त्या प्राप्तुर्जीवस्योपाध्यनिवृत्त्युक्त्या मुक्त्यभाव उच्यत इति भेद इति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
उपाधिकृत इति ।। मयूरव्यंसकादित्वात्समास इति भावः । सुखदुःखादीनामन्तःकरणगततया हस्तपादादिगतत्वाभावात्तदुक्त्यनुपपत्तिमाशङ्क्य तदभिप्रायमाह- तन्निमित्तकमिति ।। मूले उपाधिभेदाङ्गी-कारस्याऽपादकत्वं भोक्तृभेदाभावस्याऽपाद्यत्वं प्रतीयते । न च तद्युक्तम् । भोक्तृभेदस्याप्यौपाधिकत्वेनाऽ-(पां.टि.) पाद्यापादकयोर्विरोधादित्यतोऽभेदस्यैवाऽपादकत्वमित्याह- अयमत्रेति ।। भोक्तुर्भेदो न स्या-दिति ।। मूले ‘भोक्तुर्भेदो न दृश्येत’ इति दर्शनपर्यन्तधावनमापाद्यस्यानिष्टत्वसूचनार्थमित्याशयः । भोक्तु-रित्येतन्मूलाभिप्रायमाह- भोक्तृरूपेति ।। भोक्तृरूपाणां भेदाभावस्येत्यर्थः । ननु यदि सर्वेषां जीवानामभेदः स्यात्तर्हि सर्वशरीरगतसुखदुःदिकमेकेनैव भुज्येतेत्यापादनं कृतं तदनुपपन्नम् । सकलजीवाभेदरूपस्याऽपादक-स्यैकस्मिन्सर्वशरीरगतसुखादिभोगरूपस्याऽपाद्यस्य चाप्रसिद्धत्वाद् व्याप्तिग्रहणस्थलाभावेन व्याप्त्यभावाच्च वैयधिकरण्याच्चेत्यतः प्रसङ्गार्थमाह- तदयमिति ।। यद्वा एवमपीष्टापत्तिः स्यात् । वस्तुगत्या भोक्तुरेकत्वाङ्गीकारेण भोक्तृभेदाभावादित्यत आह- तदयमिति ।। एकपदं चैतत् । सोऽयं प्रपञ्च इत्यर्थः । प्रसङ्गस्तर्कः अर्थः प्रयोजनं यस्य प्रपञ्चस्य सोऽयं प्रसङ्गार्थः । ननु देवदत्तादेर्यज्ञदत्तादिगतसुखदुःखादिविषयकानुमितिरूपानुसन्धान-सत्त्वा-दिष्टापादनमित्यत आह- अनुसन्धानं नामेति ।। ननु सिद्धान्ते तर्कस्याऽपाद्यानिष्टत्वं विपर्यये पर्यवसानं च साध्यसाधकत्वोपयोगीत्यङ्गीकृतम् । तथा च जीवाः परस्परगतसुखाद्यननुसन्धातारस्तस्माद्भिद्यन्त इति विपर्यये पर्यवसानमनुसन्धानाभावस्य भेदेन व्याप्तिग्रहं विना न सम्पद्यत इति तयोर्व्याप्तिग्रहो वक्तव्यः । न च स प्रकृते सम्भवति । आपादकभूतस्वाभाविकैक्याभावस्य परेण क्वाप्यनङ्गीकारेण दृष्टान्तासिद्धेरित्यत आह- प्रसङ्गविपर्यय इति ।। यत्र स्वाभाविकैक्यं तत्र अनुसन्धानमिति व्यतिरेकव्याप्तिरेवाऽश्रीयत इत्यर्थः । एकस्यापीति ।। तथा च धर्मभेदरूपव्यवस्थाया व्यभिचारान्न धर्मिभेदसाधकत्वमिति भावः । ननु सुखदुःखादीनां परस्परविरह-रूपत्वलक्षणविरोधाभावेऽपि गोत्वाश्वत्ववत्सहानवस्थानलक्षणविरोधो भविष्यतीत्यत आह- कारणोपनिपाते सतीति ।। तथा चासिद्धिरिति भावः । एकाश्रयत्वापेक्षत्वादिति ।। ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायादिति भावः । तथा च विरुद्धत्वान्न धर्मिभेदसाधकत्वमिति भावः । अन्योन्याश्रयत्वेति ।। धर्मि-भेदसिद्धौ धर्माणां भिन्नाश्रयत्वलक्षणव्यवस्थासिद्धिः, तत्सिद्धौ च धर्मिभेदसिद्धिरित्यन्योन्याश्रयत्वेत्यर्थः । अंशानामिति ।। जीवानाभित्यर्थः । ततश्च यत्र स्वाभाविकैक्यं तत्रांशानामन्योन्यगतसुखदुःखाद्यनुसन्धानमिति व्याप्त्यभावात्तद्रूपाङ्गविकलत्वादाभासत्वम् । तत्राप्यन्योन्यानुसन्धाने च तेषां पादे मे वेदना, शिरसि मे दुःखमिति न प्रतीयेत । किन्तु पादे वेदनेतिवद् दुःखमित्यपि शिरसि दुःखमितिवद्वेदनेत्यपीत्युभयत्रोभयं प्रतीयेतेति भावः। इष्टत्वादित्युपलक्षणम् । तस्याभोक्तृत्वादित्यपि ग्रन्थान्तरोक्तरीत्या द्रष्टव्यम् । जीवानां तावदिति ।। तावच्छब्देन द्वितीयपक्षपरिग्रहं सूचयति ।
नन्वंशानामनुसन्धानाऽपादनमयुक्तम् । पूर्वोक्तव्यभिचारकलङ्कितत्वादित्यत आह- सुखादीति ।। हस्तादि-सम्बन्धेऽपीति ।। सुखादिकारणविषयाणां हस्तादिना संयोगे सुखादीनां च निमित्तनैमित्तिकभावरूपसम्बन्धे च सतीत्यर्थः । श्रूयमाणशब्दस्य श्रोत्रसम्बन्धेऽपि वीणायाः क्वणननिमित्तत्वाद् वीणायां शब्द इतिवत्पादे दुःखहेतोः कण्टकस्य सम्बन्धात्तदवच्छेदेन दुःखप्रतीतिरिति भावः । अन्यथेति ।। हस्तावच्छिन्नस्य पादाव-च्छिन्नगतसुखदुःखाद्यनुसन्धानाभाव इत्यर्थः । व्यापारो न स्यादित्यत्र झडितीति पूरणीयम् । अत एवान्यत्र (पां.टि.) तदुक्तम् । एतदेवाऽशङ्कासमाधानाभ्यामुपपादयति-न चेत्यादि ।। किमनेन शङ्कितोपाधेर्दूषणमुक्तम्भ-वतीत्यत आह- एतेनेति ।। आपाद्याव्यापकत्वमिति ।। आपाद्यव्यापकत्वे सत्यापादकाव्यापकत्वस्यैवोपाधि-लक्षणत्वेनाऽपाद्याव्यापकस्य तदनाक्रन्तत्वादनुपाधित्वमिति भावः । विशेषणस्येति ।। स्वाभाविकैक्यवादिमते भेदाभावस्य केवलान्वयित्वेन पर्वतेतरत्वादौ पर्वतेत्यस्येवौपाधिकेत्यस्य पक्षमात्रव्यावृत्तिप्रयोजनकत्वेन वैयर्थ्यमेव कुतो नोक्तमित्यर्थः । क्वचिदिति ।। क्वचिदनुकूलतर्करहितस्थले पक्षमात्रव्यावर्तकविशेषणवतोऽप्युपाधित्व-दर्शनेन प्रकृते चाऽपादकस्य व्याप्तावनुकूलतर्कस्य सत्त्वेन विशेषणवैयर्थ्यस्योपपादनीयत्वादित्यर्थः । स्पष्ट-प्रतिभासदूषणमनादृत्योपपाद्यदूषणाभिधानस्याकौशलाऽपादकत्वेनाकर्तव्यत्वादिति भावः । ननु स्वकीय सर्वोपाध्यपगमस्यैव देवदत्तमुक्तित्वाद्यज्ञदत्ताद्यन्योपाधीनां देवदत्तीयत्वाभावात्तदनपगमेऽपि न तन्मुक्तिर्विरुद्धे-त्यत आह- देवदत्तजीवस्येति ।। देवदत्ताभिधशरीरावच्छिन्नस्य चैतन्यस्येत्यर्थः । तथा चाभेदपक्षे स्वकीयत्व-परकीयत्वादिरूपेण विशेषानुपपत्तेरुक्तदोषतादवस्थ्यमिति भावः । तर्हीति ।। उपाधिकृतभेदवति उपाधि-सम्बन्धाङ्गीकारे उपाधिसम्बन्धस्यैवोपाधिसम्बन्ध इत्यङ्गीकृतं स्यात् । उपाधिसम्बन्धं विना तत्कृतभेदासम्भा-वादिति भावः । नन्वेतज्जीवेत्युक्तिः न प्राङ्निष्पन्नोपाधिसम्बन्धापेक्षया । किन्तु भाव्युपाधिसम्बन्धापेक्षया । तथा चोपाध्यपरामर्श इत्युक्ताऽत्माश्रयानवकाश इत्यत आह- भाव्यपेक्षयेति ।। प्रागिति ।। ‘यदि चैकमेव ब्रह्मोपाधिसम्बन्धात्संसरति’ इत्यत्रेत्यर्थः । भेद इति ।। ततश्च न तेनास्य पौनरुक्त्यमिति भावः ।
लघुप्रभा
(व्या.टि.)
पूर्वोत्तरग्रन्थयोरेकवाक्यतापनुत्तये तदर्थभेदमाह- प्रागित्यादिना ।। वाद्यन्तरत्वप्रतिपत्तिनिरासा-याह- तेषामिति ।। उपाधिकृत इति ।। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । तत् तस्मिंस्ततो (वौ) वा गतमित्यभिप्रेत्य व्याचष्टे- तन्निमित्तकमिति ।। मूले ‘तद्गतसुखदुःखादिभोक्तुः’ इति सुखदुःखादि भुङ्क्ते इति सुखदुःखादिभोक्तेति तृन्नन्तेन द्वितीयासमासोऽभिसंहित इति सूचितम् । तृजन्तत्वे ‘तृजकाभ्यां कर्तति’ इति समासप्रतिषेधात् । अत एव टीकायां तद्गतमिति विशेषणे द्वितीयानिर्देशः । सुखदुःखादीति भिन्नपदं वा । शरीरादिभ्यो भेद इति व्युत्पत्तिमुपेत्य व्याकरोति-शरीरादीति ।। सत्यपीत्यनादरसूचनं वा । भोक्तुरित्यस्यापेक्षितं पूरयति- शरीरादीति ।। सुखादेरिति ।। ‘कर्तृकर्मणोः कृति’ इति षष्ठीविधानादिति भावः । तर्कितं तर्कान्तरेण समुच्चिनोति- न केवलमिति ।। ननु नेदमापादनद्वयं सम्भवति । आपादकाभावात् । तथा हि । किमत्रोपाधि-भेदाभाव आपादकः स्वरूपैक्यं वा विशिश्व्ं वा । नाऽद्यः । तस्यानङ्गीकारपराहतत्वात् । पक्षे तदभावेन भेदादर्शनानुसन्धानयोरापादनायोगाच्च । न द्वितीयः । स्वरूपैक्यमात्रस्य जडे व्यभिचारात् । चेतनत्वे सति स्वरूपैक्यस्येहानुपन्यासात् । अत एव न तृतीयः । अप्राप्तकालता च । विशेष्यं ह्यादौ प्रदूष्य पश्चाद्विशिश्व्ं दूषणीयम् । विशिष्टस्य प्रथमं बुद्ध्यनारोहात् । विशेषणस्योपाधिभेदाभावरूपोपाधेरापाद्याप्रयोजकत्वं वा वक्त-व्यम् । तथैवाऽपादितं तत्वप्रकाशिकायां भगवत्पादैः-
(व्या.टि.) ‘सुखदुःखादिभोगस्य स्वरूपैक्ये न भेदतः ।
दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ।।’ इति ।
अतः कथमयमापादनविनिमय इत्यतस्तथैवेदमपि योजनीयमित्याह-अयमत्राऽपादनक्रम इत्यादिना ।। अत्र क्रम इत्यनेनात्रापि स्वरूपैक्ये भेदेनादर्शनं परस्परसुखदुःखाद्यनुसन्धानं चाऽपाद्य पश्चादथ मतमित्यादिना विशिष्टं प्रयोजकमाशङ्क्य निरसिष्याम इति सूचयति । जडे व्यभिचारापनोदायाऽह- जीवानामिति ।। तर्कस्यानिष्टप्रसङ्गतासिद्धये भोक्तुर्भेदमनुभावयति- देवदत्तशरीरादीति ।। अभेदादिति ।। अभेदभेदाभाव-योरभेदादित्यर्थः । स्वरूपेति ।। भोक्तृस्वरूपेत्यर्थः । भोक्तृरूपेति ।। यद्यपि स्वरूपाभेदे विशिष्टरूपाभेदो नाऽपादयितुं शक्यते । विशिष्टस्य पदार्थान्तरत्वेन व्याप्त्यभावात् । तथाऽप्यत्र तदभेदे स्वरूपाभेदस्यैव प्रयोजकत्वात् कारणाभावेन कार्याभावापादनं युक्तमिति भावः । द्वितीयं प्रसङ्गमाह- तथेति ।। नन्विदमपीष्टापादनम् । स्वरूपैक्यवादिनो भोक्त्रैक्यस्येष्टत्वात् । पूर्वप्रसङ्गाभेदाच्चेत्यत आह- तदयमिति ।। पूर्वासङ्कीर्ण इत्यर्थः । तदनुसन्धातैवेति ।। पूर्वं भोक्तृभेदाभाव आपादितोऽत्र तु भोगसाङ्कर्यमिति न पुनरुक्तिरित्यर्थः । अनुसन्धानस्य ज्ञानमात्रत्व इष्टापत्तिमाशङ्क्य तदर्थमाह- अनुसन्धानं नामेति ।। प्रसङ्गं विपर्यये पर्यवसाययति- न चैव-मिति ।। तर्कस्यानुमानानुग्राहकत्वेन तद्विपर्ययस्यानुमानत्वात् तस्य च देवदत्तशरीराधिष्ठाता जीवो यज्ञदत्त-शरीराधिष्ठिताद्भिद्यते तदनुसंहितसुखाद्यननुसन्धातृत्वात्तदननुसंहिततदनुसन्धातृत्वादित्यत्रान्वयव्याप्तेरसम्मते-रयुक्तिरित्यत आह- प्रसङ्गविपर्यय इति ।। सुखदुःखादिव्यवस्थाऽभावमनापाद्य भोक्तृभेदादर्शनापादने को हेतुरित्यतस्तथाऽपादनलब्धमाह- एतेनेति ।। निरुक्तव्यवस्थाया धर्मिभेदव्यभिचारं दर्शयति- एकयापीति ।। द्वितीये किं विरोधो भावाभावरूपो वा सहानवस्थानरूपो वा वध्यघातुकभावो वेति विकल्पं प्रकल्प्य निरस्यति- न द्वितीय इति ।। द्वितीये प्रथमं निराह- सुखादीना-मिति ।। द्वितीये द्वितीयं तुसति- कारणोपनिपाते सतीति ।। सहानवस्थानेति ।। ‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् इति सर्वत्र नियमः’ इति स्मृतेरिति भावः । द्वितीये तृतीयं व्युदस्यति- वध्यघातुकभावस्येति ।। एकेति ।। ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायादिति भावः । अन्योन्याश्रयत्वेति ।। धर्मिभेदे सिद्धे धर्माणां भिन्नाश्रयत्वसिद्धिः तत्सिद्धौ तत्सिद्धि-रित्यन्योन्यव्यपेक्षेत्यर्थः । मूले भोक्तृपदस्वरसनिरस्यं दर्शयति- यच्चोक्तमित्यादिना ।। यथेत्यादिना निदर्शने भेदादर्शनफलमाह- जीवानामिति ।। अंशानामित्यर्थः । तावदिति ।। सर्वदेहगतेत्यर्थः । सुखादिकारणा-नामिति ।। अन्यथेति ।। अंशानां परस्परानुसन्धानाभाव इत्यर्थः । अनुसन्धानेन विना प्रवृत्तिं शङ्कते- न चेति ।। उपपत्तिरिति ।। कृपादि प्रयोजकान्तरेणेति भावः । दुःखादीति ।। रोदनादिनेति शेषः । अनुसन्धाने प्रयोजकमाशङ्कते- अथ मतमिति ।। परिशेषं दर्शयति- किन्त्विति ।। देहाद्युपाधिभेदाभावविशिष्टमैक्यमनुसन्धाने प्रयोजकत्वादुपाधिरित्यर्थः । किमनेन प्रसङ्गोपाधेर्दूषणमित्यत आह- एतेनेति ।। स्वरूपैक्यस्य पक्षेऽपि सत्त्वेन तद्व्यावर्तकविशेषणस्य पर्वतेतरत्वादिवदनुपाधित्वं शङ्कते- नन्वत्रेति ।। मात्रेति ।। वैयर्थ्यमिति ।। पक्षतदितर-(व्या.टि.) व्यावर्तकविशेषणवत्त्वे ह्युपाधिनिवृत्त्या साध्यनिवृत्तिसाधनेऽन्वयदृष्टान्तलाभेन व्याप्तिग्रहौपयि-कताऽन्यथा वैयर्थ्यमित्यर्थः । एवेति तस्यापरिहार्यतामाह । क्वचिदिति ।। बाधोन्नीत इत्यर्थः । उपपादनीय-त्वादिति ।। अनुकूलतर्काभावस्थले पक्षमात्रव्यावर्तकविशेषणस्य सार्थक्यदर्शनेऽपि प्रकृततर्केऽनुकूलतर्कसत्त्वेन पक्षमात्रव्यावर्तकस्य वैयर्थ्यमेवेत्युपपादनीयत्वादित्यर्थः । अत एवादूषणत्वादिति वक्तव्य उपपादनीयत्वा-दित्युक्तमित्यवधेयम् ।
अतिप्रसङ्गान्तरमिति ।। बद्धमुक्तव्यवस्थाभङ्गरूपमित्यर्थः । मूलस्य द्वितीयकल्पं विकल्प्याऽद्यकल्पदूषण-परत्वात्तदपेक्षितविकल्पाद्यकल्पदूषणे बहिरेवोपस्करोति- सर्वजीवानामित्यादिना ।। बहुजीववादाभ्युपगम-वैफल्यप्रदर्शनाय तदुद्देश्यासिद्धिमाह- बद्धमुक्तव्यवस्थासिद्धय इति ।। समानकालावच्छेदेन बद्धमुक्तावस्थानं बद्धमुक्तव्यवस्थेत्यर्थः । द्वितीये प्रथमकल्पदूषणपरतया मूलं योजयति- देवदत्ताभिधोपाध्यपगमेऽपीति ।। अन्योपाधीनां स्वसम्बन्धमुपपादयति- देवदत्तजीवस्येति ।। मुक्त्यभावप्रसङ्गे यथेत्यादिमूलमन्वयदृष्टान्तपरतया योजयति-यथेति ।। द्वितीयकल्पे मूलस्य प्रसङ्गनिदर्शनपरत्वाप्रतिभासात्तदभिसंहितं विपक्षे मुक्तिप्रसङ्गं बहिरेवोप-स्कृत्य प्रत्यक्षविरोधेन तं विपर्यये पर्यवसाय्य तन्निदर्शनेन मुक्त्यभावं निर्धारयति- द्वितीये त्विति ।। अस्मिन् पक्षे स्यादस्ति स्यान्नास्तीतिवत् स्याच्छब्दो युक्तार्थः । द्वितीयकल्पदोषपरिहारायान्योपाधेः स्वसम्बन्धाभावं शङ्कते- देवदत्ताभिधोपाधिरेवेति ।। तत्किमिति काक्वा योजनीयम् । उपाधिकृतो भेद इति ।। देवदत्तादि-शरीरभेदप्रयोजकान्योपाधिप्रयुक्तो जीवभेद इत्यर्थः । उपाधिसम्बन्धस्येति ।। पूर्वोपाधिसम्बन्धस्योत्तरोपाधि-सम्बन्ध इत्यर्थः । निराकरिष्यत इति ।। किं तदुपाधिसम्बद्धस्योतान्योपाधिसम्बद्धस्येति विकल्प्याऽद्ये आत्मा-श्रयः, द्वितीयेऽनवस्थेति वक्ष्यमाणदिशेति भावः । उक्तप्रकारमन्यत्राप्यतिदिशति- एतेनेति ।। जीवभेदकेति अङ्गुल्यादेर्निरासः । तस्य देहभेदकत्वेऽपि जीवभेदकत्वाभावात् । यज्ञदत्तादिदेहव्युदासाय एतदिति । अतीता-नागतसङ्ग्रहाय सर्वेति । परासप्रकारं दर्शयति- उपाधीति ।। उपाधिं विना जीवभेदकाभावादिति भावः । भावीति ।। उपाधिसम्बन्धेन य एतज्जीवो भविष्यति तदपेक्षयेत्यर्थः । यथोक्तं महाभाष्ये-‘भाविनी सञ्ज्ञा विज्ञायते । तद्यथाऽस्य सूत्रस्य शाटकं वय इति यस्मिन् ते शाटको भवति’ इति । यथा वा पूर्वतन्त्रे ‘यूपं तक्षति यूपमष्टास्त्रीकरोति’ इत्यादि । यस्मिन् संस्कृते यूपो भवति तमित्यर्थः । ‘दृष्टादृष्टगणो यूपः’ इति मीमांसकप्रवादः। दूषयिष्यत इति दूषेर्णिजन्तात्कर्मणि यकि लृटि बोध्यः । यदि चैकमेवेत्यतोऽस्य पुनरुक्तिं वारयितुमुक्तिभेदमाह- प्रागित्यादिना ।। उपाधिनिवृत्त्येति ।। स्वोपाधिनिवृत्त्येत्यर्थः । उपाधिनिवृत्तेरेवेति ।। सर्वजीवानां स्वरूपैक्येन सर्वोपाधीनां स्वोपाधित्वादित्यर्थः।