‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति तद्गृहीतत्वाच्च

इतिहासादिप्रामाण्यसमर्थनम् ।

मूलम्

- ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति तद्गृहीतत्वाच्च ।।

तत्त्वमञ्जरी

तद्गृहीतत्वात् तेन वेदेनैव साधितप्रामाण्येन वेदसमत्वेनैव परिगृहीतत्वात् स्मृति-वचनानामपि नाप्रामाण्यम् । एवं सप्रतिसाधनं तदनुमानम् । तस्य हेतुरप्यसिद्धः । न हि प्रमाणान्त-रायोग्यार्थत्वमीश्वरवादिवेदस्य । क्षित्यादिकं सकर्तृकम्, कार्यत्वात्, घटवदित्यनुमानयोग्यार्थ-त्वात् ।

टीका  

अस्त्वेवं वेदस्यापौरुषेयत्वेनाप्रामाण्यकारणदोषाभावादप्रामाण्याभावनिश्चयः प्रामाण्य-निश्चयश्च । तत एव फलविसंवादादेरवश्यं वैगुण्यादिनिमित्तत्वस्य कल्पनीयत्वेन परोक्तहेतूना-मसिद्धत्वनिश्चयोऽपि । पुराणवाक्यस्य तु कथम्? नहि तदप्यपौरुषेयतयाऽङ्गीक्रियते । तथात्वे पूर्ववाक्ये वेदस्येति नोच्येतेत्यत आह- इतिहासेति ।। इतिहासश्च पुराणं चेति द्वन्द्वैकवद्भावः । नपुंसकत्वं तु नाऽश्रितम् । पुराणशब्दस्य विशेष्यलिङ्गत्वाद्ग्रन्थविशेषणत्वेन पुंलिङ्गत्वमेवाऽश्रि-तम् । इतिहासपुराणो वेदो, वेदानाम् ऋगादीनां, पञ्चमः पञ्चत्वसङ्ख्यापूर(को)णो वेद इति । तेन अप्रामाण्यशङ्काशून्येन प्रमाणतया निश्चितेन वेदेन वेदसमानतया गृहीतत्वात् पुराणवचनस्या-प्यप्रामाण्याभावादिनिश्चयाद् युक्तं तदुदाहरणमिति । अत्र यद्यपि सामान्येनोक्तम्, तथाऽपि प्रमाणान्तरबलाद् वेदानुकूलयोरेवेतिहासपुराणयोर्ग्रहणमिति ज्ञातव्यम् । ननु आप्तोक्तत्वेनैव पुराणस्याप्रामाण्याभावादिनिश्चयः किं न क्रियत इति चेन्न । आप्तिनिश्चयस्याप्यन्ततो वेदानुसरण-मन्तरेणाशक्यत्वात् । एतेन वेदादिभिर्विष्णोर्निर्दोषत्वादिसिद्धिरपि समाहिता ।

इति वेदादेः प्रामाण्यसमर्थनम् ।

भावबोधः

नन्वितिहासपुराणलक्षणे ग्रन्थे वेदत्वेन प्राथमिको वेत्यादिरूपेण कतमत्वशङ्काभावात् किमर्थं तस्य वेदानां मध्ये पञ्चमवेदत्वविधानमित्यत आह- इतिहासपुराणो वेद इति ।। नैवमर्थो वाक्यस्य । किन्तु ‘पञ्चभिर्वेदैः’ इत्यादौ ऋगादिवेदानां पञ्च(म)त्वसङ्ख्योक्ता । तत्र ऋगादयश्चत्वारो वेदाः सुप्रसिद्धाः अपर-स्त्वेकस्तत्सङ्ख्यापूरको न च दृश्यते इत्याशङ्क्य परिहारार्थमितिहासपुराणलक्षणग्रन्थस्य ऋगादीनां सम्बन्धिना-मुक्तसङ्ख्यापूरकवेदत्वमेव वाक्यार्थ इत्यर्थः । अनेन वेदशब्दस्याऽऽवृत्तिः, तत्र प्राथमिकस्य ग्रन्थपरत्वं चोक्तं भवति । आवृत्तिसूचनार्थमेव पूर्वं ‘ग्रन्थविशेषणत्वेन’ इत्युक्त्वा इदानी वेद इत्युक्तम् ।

भावदीपः

।। अस्त्विति ।। एतच्च प्रामाण्यनिश्चयश्चेत्यत्रासिद्धत्वनिश्चयोऽपीत्यत्र चान्वेति- द्वन्द्वेति ।। ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इत्युक्तेरिति भावः । ननु द्वन्द्वैकवद्भावे ‘स नपुंसकम्’ इति नपुंसकेन भाव्यमित्यत आह- नपुंसकमिति ।। विशेष्यलिङ्गत्वादिति ।। पुराणशब्दस्य पुरातनशब्दपर्यायत्वात् ‘पुराणः पुरातनो ग्रन्थः’ इति द्वन्द्वात् प्रागपि पुंलिङ्गत्वात्तदेव समासेऽप्याश्रितमित्यर्थः । एतेन पुराणपदस्य प्रागपि नपुंसकत्वाद् द्वन्द्वे पुंलिङ्गप्राप्तेरभावात् कथं पुंलिङ्गतेति निरस्तम् । प्रागपि पुंलिङ्गत्वादिति । वेदशब्दस्याऽवृत्तिमुपेत्य वाक्यं योजयति- इतिहासेति ।। ‘तस्य पूरणे डट्’, ‘नान्तादसङ्ख्यादेर्मट्’ इति पूरणार्थे मट्प्रत्ययविधानादाह- पञ्च-त्वेति ।। नन्वेवं वेदविरुद्धेतिहासादेरपि प्रामाण्याद्यापत्तिरित्यत आह- अत्रेति ।। इतिहासपुराण इति श्रुतावि-त्यर्थः ।। प्रमाणान्तरेति ।। प्रागुदाहृतप्रमाणान्तरेत्यर्थः । एवमेव वेदादिभिर्निर्दोषत्वादिसिद्धिरपि परास्ता वेदितव्येति प्रागुक्तं निराह- एतेनेति ।। अप्रामाण्याभावप्रामाण्ययोः समर्थनेनेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

परोक्तहेतूनाम् अप्रामाण्यसाधकानामनृतत्वादिहेतूनाम् । असिद्धत्वनिश्चयोऽप्यस्त्वित्यनुवर्तते । नन्वितिहासश्च पुराणं चेतिहासपुराणे इति द्विवचनं स्यादित्यत आह- द्वन्द्वैकवद्भाव इति ।। ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति वचनादिति भावः । ननु तर्हि ‘स नपुंसकम्’ यस्यैकवद्भावः स नपुंसकं स्यादित्येकवद्भावे  नपुंसकत्वविधानादितिहासपुराणमिति स्यादित्यत आह- नपुंसकत्वं त्विति ।। ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति वचनादिति भावः । नपुंसकत्वं नाऽश्रितमित्येव न भवति । प्रत्युत पुराणशब्दस्य विशेष्यलिङ्गत्वाद्विशेष्यभूत-वेदशब्दोक्तग्रन्थविशेषणत्वेन पुंलिङ्गत्वमेवाऽश्रितमित्याह- पुराणशब्दस्येति ।। अत्र वेदशब्दस्याऽवृत्तिः । तत्र प्राथमिकस्य  ग्रन्थपरत्वमङ्गीकृत्य  व्याचष्टे- इतिहासपुराणो वेद इति  ।।  इतिहासपुराणाख्यो ग्रन्थ (श्री.टि.) इत्यर्थः । अत एव पूर्वं ग्रन्थविशेषणत्वेनेत्युक्तम्- पञ्चत्वसङ्ख्यापूरण इति ।। ‘तस्य पूरणे डट्’ इति सूत्रेण पूरणार्थे डट्प्रत्ययविधानात् पञ्चमशब्दस्यापि डट्प्रत्ययान्तस्य पूरणार्थत्वादित्थं व्याख्यातमित्यव-गन्तव्यम् । तथा च ‘अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन’ इत्यादौ ऋगादिवेदानां पञ्चत्वसङ्ख्योक्ता । तत्र ऋगादयश्चत्वारो वेदाः प्रसिद्धाः । अपरस्त्वेको वेदस्तेषां पञ्चत्वसङ्ख्यापूरको न दृश्यते; स क इति शङ्काया-मितिहासपुराणलक्षणग्रन्थस्य ऋगादीनां पञ्चत्वसङ्ख्यापूरकवेदत्वमेव विधीयत इति भावः । तद्गृहीतत्वादित्यत्र मध्यमपदलोपी समास इत्याशयेन वेदसमानतयेत्युक्तम् ।

नन्वत्र पुराणशब्दस्य सामान्यशब्दत्वात् तेन शैवपुराणादीनामपि ग्रहणे तेषामपि प्रामाण्यमुक्तं स्यात् । तथा चापसिद्धान्त इत्यत आह- अत्र यद्यपीति ।। सामान्येनेति ।। इतिहासपुराण इति सामान्येनोक्तमित्यर्थः ।। प्रमाणान्तरबलादिति ।।

अविरुद्धं तु यत्त्वस्य प्रमाणं तच्च नान्यथा ।

एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन ।।’

इत्यादि प्रमाणान्तरबलादित्यर्थः ।। किं न क्रियत इति ।। तथा च वेदवाक्येन किमर्थमप्रामाण्याभावादिनिश्चयः पुराणस्य क्रियत इत्यर्थः ।। आप्तीति ।। पुराणकर्तुर्व्यासस्येति शेषः    अतः ‘तद्धेतोरेवास्तु तद्धेतुत्वं किं तेन’ इति न्यायेन वेदेनैव तन्निश्चयः कृत इति भावः ।। एतेनेति ।। अपौरुषेयत्वेन वेदानां, वेदेन तत्समानतया गृहीतत्वेन पुराणानां चाप्रामाण्याभावात् तैर्विष्णोर्निर्दोषत्वादिसिद्धिर्या तृतीयपरिच्छेदे द्वितीयपरिच्छेदे च क्रियमाणा साऽपि समाहितेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु इतिहासपुराण इत्यत्र न तावदव्ययीभावसमासः । अव्ययाभावात् । उत्तरपदार्थस्याप्राधान्य-प्रसङ्गाच्च    नापीतिहाससहितं पुराणमिति तत्पुरुषः    तत्पुरुषस्योत्तरपदार्थप्रधानत्वेनेतिहासस्याप्राधान्य-प्रसङ्गात् । नापि द्विगुः । सङ्ख्यापूर्वकत्वाभावात् । नापि कर्मधारयः । इतिहासपुराणयोर्भिन्नत्वेन तत्प्रतिपाद्य-पदार्थाभेदस्य तत्र बाधितत्वात् । नापीतिहासश्च पुराणं च यस्मिन्निति बहुव्रीहिः । तथा सतीतिहासपुराणयोः पञ्चमवेदत्वाभावप्रसङ्गात् । तादृशान्यपदार्थाभावेनासम्भवदुक्तिकत्वाच्च । नापि समाहारद्वन्द्वः । तथा सति समाहारस्यैकत्वादेकवचनं क्लीबता चेति क्लीबत्वप्रसक्त्या पुंलिङ्गानुपपत्तिप्रसङ्गात् । नापीतिहासश्च पुराणं चेति इतरेतरयोगः । तथा सति धवखदिरावितिवद् द्विवचनप्रसक्त्या एकवचनानुपपत्तिप्रसङ्गात् । तस्मादत्र कः समास इत्याशङ्क्य इतरेतरद्वन्द्व एवात्र समासः । इतिहासपुराणयोर्वर्णरूपशब्दरूपतया, तद्द्रव्यत्वपक्षे ‘जातिरप्राणि-नाम्’ इत्यनेनैकवद्भावविधानाद्, गुणत्वपक्षे च ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति तद्विधानाद् द्विवचना-प्रसक्त्या  नैकवचनानुपपत्तिप्रसङ्ग  इत्याशयेनाऽह-  द्वन्द्वैकवद्भाव इति ।।  नन्वेवमपि ‘स नपुंसकम्’ इत्येकवद्भावप्रयुक्तनपुंसकत्वेनेतिहासपुराणमिति प्रसक्त्या इतिहासपुराण इति पुंलिङ्गानुपपत्तिरित्यतः ‘सर्वे (पां.टि.) विधयश्छन्दसि विकल्प्यन्ते’ इत्यभियुक्तोक्त्या तत्प्रयुक्तक्लीबत्ववैकल्पिकत्वान्न पुंलिङ्गानुपपत्ति-रित्याशयेनाह- नपुंसकत्वं त्विति ।। नन्वेकवद्भावप्रयुक्तनपुंसकत्वाप्रसङ्गेऽपि ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति द्वन्द्वतत्पुरुषयोः परवल्लिङ्गविधानात् पुराणशब्दलिङ्गस्य नपुंसकस्यैव प्रसक्त्या पुंलिङ्गानुपपत्तिस्तदवस्थैवेत्यतो नियतलिङ्गानां विशेषणानां विशेष्यनिघ्नत्वाभावेऽप्यनियतलिङ्गानां विशेषणानां विशेष्यनिघ्नत्वेन तल्लिङ्गत्व-नियमात्, ल्युडन्तपुराणशब्दस्यानियतलिङ्गत्वेन विशेष्यभूतग्रन्थलिङ्गपुंलिङ्गवत्त्वस्याऽवश्यकत्वात् ‘पुराणप्रतन-प्रत्नपुरातनचिरन्तनाः’ इति विशेष्यनिघ्नत्वस्मरणाच्च न तदनुपपत्तिरित्याह- पुराणशब्दस्येति ।।

लघुप्रभा

(व्या.टि.)

तत एव प्रामाण्यनिश्चयादेव ।। नोच्येतेति ।। अपौरुषेयत्वहेतोर्भागासिद्ध्यभावादिति भावः । इतिहासश्चेति ।। यद्यपि ‘अल्पाच्तरं पूर्वम्’ इति द्वन्द्वे पुराणशब्दः पूर्वं निपातनीयः । तथाऽपि ‘अजाद्यदन्तम् इति इतिहासशब्दस्य पूर्वनिपातो युक्तः ।। द्वन्द्वैकवद्भाव इति ।। ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति एकवद्भावः । तेन नैकवचनानुपपत्तिरित्याशयः । तथाऽपि ‘स नपुंसकम्’ इति नपुंसकत्वं स्यादत आह- नपुंसकत्वं त्विति ।। सर्वविधीनां छन्दसि वैकल्पिकत्वेन ‘स नपुंसकम्’ इति न प्रवृत्तमिति भावः । तथाऽपि पुराणशब्दस्य नियतनपुंसकत्वेन ‘परवल्लिङ्गम्’ इति नपुंसकत्वं स्यादित्यस्याप्येतदेवोत्तरम्- नपुंसकत्वं त्विति ।। उक्तविधया परवल्लिङ्गमित्येतदपि न प्रवृत्तमित्यर्थः। व्यत्ययेन पुंस्त्वमप्याश्रितमित्यवधेयम् । समाधानान्तरमाह- पुराण-शब्दस्येति ।। एतत्पक्षेऽप्युक्तविधया ‘स नपुंसकम्’ इति नाऽश्रितमिति ध्येयम् । परवल्लिङ्गमित्यनेन तु पुंलिङ्ग-मेव । ग्रन्थविशेषे रूढस्य लोकप्रसिद्धनियतनपुंसकत्वस्वारस्याय विधिद्वयानाश्रयणं व्यत्ययेन पुंस्त्वाश्रयणं च पूर्वसमाधाने । एतत्समाधाने तु व्यत्ययानाश्रयणपरवल्लिङ्गत्वस्वारस्याय ग्रन्थविशेषे रूढस्यापि विशेष्यनिघ्नत्वमेक-वद्भावप्रयुक्तनपुंसकत्वानाश्रयणं च स्वीकृतमित्यवधेयम् । द्वितीयसमाधाने विग्रहोऽपि पुंलिङ्गेन कर्तव्यः ।

केचित्तु परवल्लिङ्गमित्यनेन प्राप्तनपुंसकत्वपरिहाराय पुराणशब्दस्य विशेष्यवचनतयेति योजयित्वा ‘पुराण-प्रतनप्रत्नपुरातनचिरन्तनाः’ इति कोशानुसारेण पुरातनपर्यायस्य पुराणशब्दस्य विशेष्यनिघ्नत्वमित्येकवाक्यता-माहुः । तेषां नपुंसकेन विग्रहप्रदर्शनम्, इतिहासस्यापि पुरातनग्रन्थत्वेन पृथक्कथनं, भागवतादिग्रन्थविशेषोपस्थानं च कथमिति चिन्त्यम् । अधिकं तु गुरुप्रभायां द्रष्टव्यम् ।

विशेषणविशेष्यभावेनान्वयं दर्शयति - इतिहासपुराणो वेद इति ।।  इतिहासपुराणोभयात्मको ग्रन्थ इत्यर्थः । सङ्ख्यापूरक इति ।। ‘तस्य पूरणे डट्’ इति पञ्चन्शब्दात् डटि तस्य ‘नान्तादसङ्ख्यादेर्मट्’ इति मडागमे तस्याभत्वान्न टिलोपः । किन्तु ‘नलोपः प्रातिपदिकान्तस्य’ इति नलोप इति भावः । केषाञ्चिद्व्याख्याने तस्य पूरणे मडिति पाठः, तेषां लेखकस्य वा प्रमादात् । वेदेनेत्यन्तं तच्छब्दस्य व्याख्यानम् । वेदसमानतयेति तु गृहीतिप्रकारप्रदर्शनम्    तद्गृहीतत्वादित्यत्र  मध्यमपदलोपी  समास  इत्याशयेन  वेदसमानतयेत्युक्तमिति केचित् ।  तन्न    शाकपदस्य पार्थिवपदेनेव तेनेत्यस्य गृहीतपदेन सामर्थ्याभावात् । वेदसमानतयेत्यनेनासा-(व्या.टि.) मर्थ्याच्च । सामान्यनिर्देशजनितसदसत्साधारणप्रतीतिं वारयति- तथाऽपीति ।। प्रमाणान्त-रेति ।। ‘ये चानुयायिनः’ इति, ‘पुराणानि च यानीह’ इति च प्रमाणान्तरेत्यर्थः ।। अशक्यत्वादिति ।। अज्ञानविप्रलम्भयोः प्राप्तेरिति वक्ष्यमाणदिशेति भावः ।। एतेनेति ।। वेदादिप्रामाण्यसमर्थनेनेत्यर्थः