न च ज्ञाननिवृत्तस्य ..

एकीभवतीत्यस्य निवृत्यर्थत्व निरासेन सिद्धान्तितार्थस्य दृढीकरणम्

मूलम्

- न च ज्ञाननिवृत्तस्य रजतस्य शुक्त्यैकीभावव्यवहारोऽस्ति । ‘परेऽव्यये’ इत्यधिकरणत्वकथनञ्च भेदज्ञापकम् । अन्यथा पर एव भवन्तीति निर्देशः स्यात् ।

जीवस्य परमैक्यन्तु बुद्धिसारूप्यमेव तु ।

एकस्थाननिवासो वा व्यक्तिस्थानमपेक्ष्य सः ।

न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः ।

स्वातन्त्र्यपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपते ।।’ इति परमश्रुतिः ।

तत्त्वमञ्जरी

ननु अध्यस्तस्य बाधे अधिष्ठानाद्यतिरेकेणाभाव एवैकीभावो विवक्षित इत्यत आह- न च ज्ञानेति ।।

सर्वगतेन परमेण स विशेषत एकस्थाननिवासः कथमित्यत आह- व्यक्तीति ।।

टीका 

किञ्चैकीभवन्तीत्यस्य निवर्तन्त इत्यर्थः किं वचनवृत्त्या लभ्यते उत यथैकीभूतं पृथङ् नास्ति तथा निवृत्तमपीति गौण्या वृत्त्या । नाऽद्य इत्याह- न चेति ।। द्वितीये तु किमस्मदुक्तलक्षणायां प्रद्वेष इति भावः । विज्ञानात्मनि मुख्यार्थलाभ इति चेन्न । तत्रापि च्विप्रत्ययस्य गौणत्वात् । इतश्चात्र न स्वरूपैक्यमर्थ इत्याह- पर इति ।। परमात्मनो विज्ञानात्मानं प्रत्यधिकरणत्वकथनञ्चे-त्यर्थः । न चात्र सप्तम्या अर्थान्तरमस्ति । अधिकरणाधिकर्तव्ययोश्च लोके भेदो दृष्टः । अधिकरणत्व-कथनमुपचरितमिति चेन्न । मुख्ययैव वृत्त्या अभिप्रेतार्थे वक्तुं शक्ये प्रयोजनेन विना उपचरित-प्रयोगायोगादिति भावेनाऽह- अन्यथेति ।। स्वरूपैक्ये विवक्षित इत्यर्थः । पुरुष एव स्वायत्ते प्रयोगे किमित्यवाचकं पदं प्रयुञ्जीतेति पर्यनुयोगमर्हति । वेदे तु न पुरुषोऽस्तीति चेत्, तर्हि पुरुष एव पूर्वोत्तरानुसन्धानेन वदेदित्युपक्रमाद्यानुगुण्यमपि वेदे नानुसरणीयं स्यादिति गतं मीमांसा-व्यसनेन । अथ पुरुषारोपणेन तदनुसरणं, तत्प्रकृतेऽपि सममिति ।

एवमान्तरानुपपत्तिमुक्त्वा बाह्यामपि वदंस्तद्व्याख्यानरूपां श्रुतिं पठति- जीवस्येति ।। बुद्धिसारूप्यम् एकविषयबुद्धित्वम् । तच्च यद् बुध्यते तत् परमेश्वरबुद्ध्यनुसारेणैवेत्येव । न तु परमेश्वरबुद्धं सर्वमिति विशेषद्योतनार्थो द्वितीयस्तुशब्दः । एकस्थाननिवासो वेति वक्ष्यमाणत्वात् अनभिमतव्यावृत्त्यर्थमेवशब्दः । ‘नरं च नारायणमेव चाऽदौ ततस्सुतौ द्वौ जनयाम्बभूव’ इति यथा  । स चैकस्थाननिवासो भगवतो व्यक्तिस्थानमपेक्ष्यैवोक्तः  । एकस्थाननिवासमात्रस्य सर्वदा सत्त्वात् । एवशब्दस्य व्यावर्त्यमाह- नेति ।। तस्य जीवस्य परमेश्वरेणेति शेषः । संसारे जीवेश्वरयोर्वैरूप्यान्माभूदैक्यम् । मुक्तौ तु तदभावात्किं न स्यादित्यत आह- मुक्तस्यापीति ।। विरूपतो विरुद्धधर्मत्वतः । द्वयोरपि निर्दुःखत्वादिसाम्यात् का विरूपतेत्यत आह- स्वातन्त्र्ये-ति ।। पूर्णता निरवरधिकत्वम् । यथायोगमत्र सम्बन्धो न यथाक्रमम् । रोदसीव दम्पतीवेतिवत् प्रगृह्याश्रयः प्रकृतिभावो न कृतः ।।

भावबोधः

च्विप्रत्ययस्य गौणत्वादिति ।। विज्ञानात्मनः संसारदशायामपि ब्रह्मणैकत्वादभूततद्भावार्थत्वाभावेन च्विप्रत्ययस्य संसा(रि)रदशायामपि ब्रह्मैक्येनादृष्टस्य जीवस्य मुक्तौ तदैक्येन दर्शनमित्येव गौणत्वादित्यर्थः । नरं चेति ।। अत्र एवकारेणाऽदावुत्पाद्यत्वेन हरिकृष्णयोरेव व्यावृत्तिः । न तु नारायणव्यतिरिक्तस्य सर्वस्य, नरस्याप्यादावुदितत्वादित्यर्थः । मुक्तानां स्वरूपानुसारेण पूर्णत्वादाह- निरवधिकमिति ।।

भावदीपः

शङ्कते- पुरुष एवेति ।। पर्यनुयोगमिति ।। प्रश्नमित्यर्थः । तत्प्रकृतेऽपि सममिति ।। वेदे पुरुषाऽरोपेण पर्यनुयोग इति सममित्यर्थः । आन्तरानुपपत्तिमिति ।। वाक्यमध्यगतपदास्वारस्यरूपानुपपत्तिमित्यर्थः । बुद्धिसारूप्यमेवेत्येवकारव्यावर्त्यमाह- अनभिमतव्यावृत्त्यर्थमेवशब्द इति ।। न स्वरूपेति वक्ष्यमाणस्वरूपैक्य-व्यावृत्त्यर्थमित्यर्थः । स्थानैक्यव्यावृत्त्यर्थमस्त्वित्यत उक्तम्- एकस्थाननिवासो वेति ।। वक्ष्यमाणत्वा-दिति ।। अतो न तद्व्यावृत्तिरभिमतेति भावः । तत्रानुरूपं दृष्टान्तमाह- नरं चेति ।। ‘नारायणमेव’ इत्येवकारेण पूर्वोपात्तनरस्य यथा न व्यावृत्तिस्तथेत्यर्थः । श्रौततच्छब्दस्यानुवादः- स चेति ।। तस्य व्याख्या- एकस्थाननिवास इति ।।  कुतो व्यक्तिस्थानमपेक्ष्येत्युक्तिरित्यत आह- एकस्थानेति ।। सर्वगतेनेश्वरेणेति योज्यम् । एव-कारेति ।। बुद्धिसारूप्यमेवेत्यत्रत्यैवकारेत्यर्थः । एतेन प्रागनभिमतेत्युक्तं विवृतम् । करककटाहतटाकादीनामिव मुक्तानामपि स्वस्वयोग्यताऽनुरोधेन पूर्णता तुल्येत्यतो व्याचष्टे- निरवधिकत्वमिति ।। यथायोगमिति ।। स्वातन्त्र्यपूर्णतयोः प्रतिद्वन्द्वितयोपात्तयोः पारतन्त्र्याल्पत्वयोः श्रुत्युक्तक्रमविपरीतक्रमेणान्वय इत्यर्थः । ‘ईदूदेद् द्विवचनं प्रगृह्यम्’ इत्येकारान्तद्विवचनान्तस्य प्रगृह्यसंज्ञायां ‘प्लुतप्रगृह्या अचि’ इति प्रकृतिभावे सति ‘गङ्गे अमू’ इत्यत्रेव स्वातन्त्र्यपूर्णते अल्पेति विश्लिष्टनिर्देशेन भाव्यम् । कथम् ‘एङः पदान्तादति’ इति पूर्वरूपेण निर्देश इत्यत आह- रोदसीवेति ।। ‘मणीवादेर्न’ इति वार्तिकेन प्रगृह्यसंज्ञाया निषेधान्मणीवादेरा-कृतिगणत्वान्मणीव रोदसीव दम्पतीवेत्यादावीकारद्विवचनान्ते रोदसी इवेति निर्देष्टव्ये रोदसीवेति निर्देश-वत्प्रगृह्यसंज्ञानिमित्तकः प्रकृतिभावः एकारद्विवचनान्तेऽपि न कृत इत्यर्थः । मणीवेत्यत्र द्विवचनान्तत्व-स्यास्फुटत्वाद्रोदसीवेत्यादेरुक्तिः ।

वाक्यार्थदीपिका

(श्री.टि.)

वचनवृत्त्या रूढ्या । गौण्या वृत्त्येति ।। एकीभूते निवृत्ते च पृथगभावरूपगुणयोगेनेत्यर्थः । अस्मदुक्तलक्षणायामिति ।। मत्यैक्यादिरूपायामित्यर्थः । उपलक्षणागौण्योरुभयोरप्यमुख्यवृत्तित्वेन मुख्यार्थपरित्यागेन व्याख्यानस्य मतद्वयेऽपि समत्वादिति भावः । ननु भवन्मत एकीभवन्तीत्यस्य कलादिषु (श्री.टि.) सर्वत्रापि लक्षणैव । मन्मते तु कर्मपक्षे गौण्या वृत्त्या निवृत्त्यर्थकत्वेऽपि विज्ञानात्मनि जीवे स्वरूपैक्यरूपमुख्यार्थलाभ इत्याशङ्कते- विज्ञानात्मनीति ।। च्विप्रत्ययस्येति ।। त्वन्मते विज्ञानात्मनो ब्रह्मैक्यस्य संसारदशायामपि सत्त्वेनाभूततद्भावरूपच्विप्रत्ययमुख्यार्थस्यासम्भवेन संसारदशायामनाविर्भूत-ब्रह्मैक्यो विज्ञानमयो मुक्तावाविर्भूतब्रह्मैक्यो भवतीत्येवं च्विप्रत्ययस्य गौणार्थत्वं त्वयाऽपि वाच्यमित्यर्थः । एवं चैकीभवन्तीत्यस्य सर्वत्रापि गौणत्वमेव प्राप्तमिति नास्मन्मतवैषम्यमिति भावः । अधिकरणेति ।। आधारा-धेययोरित्यर्थः । मुख्ययैव वृत्त्येति ।। उपचारं विहाय पर एव भवन्तीति मुख्ययैव वृत्त्येत्यर्थः । अभिप्रेतार्थे ऐक्यरूपे । उपचरितप्रयोगेति ।। अधिकरणत्वप्रयोगेत्यर्थः । न पुरुषोऽस्तीति ।। तथा च पर एव भवन्तीति निर्देशः स्यादिति पर्यनुयोगो न युक्त इति भावः । पुरुष एवेति ।। पौरुषेयग्रन्थे पुरुष एव पूर्वोत्तरानुसन्धानेन पूर्वोत्तरविरोधो यथा न स्यात् तथा वाक्यार्थं वदेत् । तथाचोपक्रमाद्यनुसरणं पौरुषेयग्रन्थ एव वाक्यार्थनिर्णयाय कर्तव्यम् । वेदे तु पुरुषस्यैवाभावादुपक्रमाद्यानुगुण्यमपि नानुसरणीयं स्यादित्यर्थः । इष्टापत्तिरिति चेत्तत्राऽह- गतं मीमांसाव्यसनेनेति ।। ‘ज्योतिरुपक्रमात्’ इत्यादिरूपमीमांसाशास्त्रस्योपक्रमाद्यानुगुण्येन वेदार्थ-निर्णयपरत्वादिति भावः । पुरुषारोपणेनेति ।। स्वाभिप्रायप्रवेशकर्तारं पुरुषं वेदकर्तृतयाऽऽरोपणेनेत्यर्थः । तथा च स्वतन्त्रपुरुषपूर्वकत्वाभावेनाऽपौरुषेयत्वेऽपि पुरुषाभिप्रायप्रवेशसद्भावेन पौरुषेयतुल्यत्वादिति भावः । तदनुसरणमिति ।। उपक्रमाद्यानुगुण्यानुसरणमित्यर्थः । सममिति ।। तथा च वेदे पुरुषाभिप्रायप्रवेशसद्भावेन पौरुषेयवाक्यतुल्यतया पर एव भवन्तीति मुख्यप्रयोगं विना ‘परेऽव्यये’ इत्यधिकरणत्ववाचिसप्तम्यन्तोप-चरितप्रयोगकरणं न युक्तमिति पर्यनुयोगः सम्भवत्येवेत्यर्थः ।

ननु परमात्मबुद्धिसारूप्यस्य मुक्तजीवेऽभावादाह- बुद्धिसारूप्यमिति ।। ननु जीवस्य कथं भगवद्वुद्धि-विषयविषयकत्वं सारूप्यम् । तथात्वे भगवद्बुद्धसमस्तविषयकत्वप्रसङ्गादित्यत आह-तच्चेति ।। बुद्धिसारूप्य-मित्यर्थः । बुध्यते मुक्तजीवेन । ननु बुद्धिसारूप्यमेवेत्येवकारेण स्थानैक्यस्यापि व्यवच्छेदे एकस्थाननिवासो वेति वक्ष्यमाणगत्यन्तरस्यायोगादाह- अनभिमतेति ।। तथा च स्वरूपैक्यरूपं यदस्मदनभिमतं तद्व्यावृत्त्यर्थ-मेवायमेवकारो, न स्थानैक्यव्यावृत्त्यर्थ इत्यर्थः । तत्र हेतुः-एकस्थाननिवासो वेति ।। वक्ष्यमाणत्वादिति ।। अन्यथा तद्विरोधाऽपत्तेरिति भावः । एवकारस्यानभिमतव्यावृत्त्यर्थकत्वे दृष्टान्तमाह- नरं चेति ।। यमधर्मस्य नरनारायणहरिकृष्णसंज्ञाश्चत्वारः सुताः । तत्र नरनारायणौ यमलौ । ततश्च नरं च नारायणमेवेत्यत्रैवकारो न सुतान्तरव्यवच्छेदार्थः । हरिकृष्णयोरपि सुतयोः सद्भावात् । किं नाम अनभिमतस्य हरिकृष्णयोरादावुत्पन्नत्वस्य व्यवच्छेदार्थः । आदावुत्पन्नौ नरनारायणावेव नान्याविति । एवं प्रकृतेऽपीत्यर्थः । सर्वदेति ।। भगवतो व्याप्तत्वा-दिति भावः । व्यावर्त्यमाहेति ।। अनभिमतरूपं व्यावर्त्यमाहेत्यर्थः । वैरूप्यादिति ।। दुःखादिसुखादि-रूपविरुद्धधर्माधिकरणत्वादित्यर्थः । तदभावादिति ।। मायानिवृत्तिरूपायां मुक्तौ मायाकल्पितदुःखादेर्विरुद्ध-धर्मस्य निवृत्तत्वादैक्यमुपपद्यत इत्यर्थः । विरूपत इति भावप्रधानमित्याशयेनाऽह- विरुद्धधर्मत्वत इति ।। (श्री.टि.) द्वयोरपि मुक्तेश्वरयोरपि । मुक्तानामपि स्वयोग्यतानुसारेण पूर्णत्वादाह- निरवधिकत्वमिति ।। निरवधिकपूर्णत्वमित्यर्थः । यथाक्रमं सम्बन्धेऽल्पत्वस्य स्वातन्त्र्यविरोधित्वाभावात् पारन्त्र्यस्य च पूर्णत्व-विरोधित्वाभावादाह- यथायोगमिति ।। ननु स्वातन्त्र्यपूर्णतेऽल्पत्वेत्यत्र ‘ईदूदेद् द्विवचनं प्रगृह्यम्’ ईदूदेदन्तं द्विवचनान्तं प्रगृह्यं स्यादिति सूत्रेण एदन्तत्वात्प्रगृह्यसंज्ञायां ‘प्लुतप्रगृह्या अचि’ प्लुताः प्रगृह्याश्चाचि परे प्रकृत्या स्युः, न सन्धिं यान्तीति यावत् इति सूत्रेण सन्ध्यभावे ‘गङ्गे अमू’ इत्यादिवत् स्वातन्त्र्यपूर्णते अल्पत्वेति वक्तव्यम् । पूर्णतेऽल्पत्वेति कथं सन्धिकरणमित्यत आह- रोदसीवेति ।। प्रकृतिभावः सन्ध्यकरणम् । यथा ‘ईदूदेत्’ इति सूत्रेण ईदन्तस्य प्रगृह्याश्रयप्रकृतिभावोक्तावपि ‘मणीवादेर्न’ इति वार्तिकेन मणीव रोदसीव दम्पतीवेति प्रकृत्यभाव उक्तः । एवमेवैदन्तस्यापि न प्रकृतिभावः । मणीवादेराकृतिगणत्वात् । एवं च पूर्णतेऽल्पत्वेति प्रकृत्यभावो युक्त इत्याशयः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

गौणत्वादिति ।। विज्ञानात्मनः पूर्वमपि तद्रूपत्वस्य भूतत्वेन अभूतत्वाभावादभूतस्य तद्भवनरूप-च्विप्रत्ययार्थस्य बाधितत्वेन मुख्यत्वासम्भवादिति भावः । नन्वपौरुषेयेऽपि वेदे पुरुषाभिप्रायप्रवेशोऽस्त्येव । अन्यथा सङ्कल्पप्रार्थनावाक्यानामसङ्गतिप्रसङ्गात् । तथा च नोक्तदोष इत्याशङ्क्य तथा सति तत एव प्रयोजन-पर्यनुयोगोऽप्यपरिहार्य एवेति अस्मदुक्तदूषणतादवस्थ्यमित्याह- अथ पुरुषारोपणेनेत्यादिना ।। नन्वेवं सर्वज्ञत्वप्रसङ्ग इत्यतोऽभिप्रायमाह- तच्चेति ।। सारूप्यमेवेत्यत्र एवकारस्य निरर्थकत्वमित्याशङ्क्य परिहरति- अनभिमतेति ।। स्वरूपैक्यव्यावर्तक इत्यर्थः । किमनभिमतव्यावृत्त्यर्थकत्वकल्पनया बुद्धिसारूप्याति-रिक्तार्थमात्रव्यावर्तकत्वे एकस्थाननिवासव्यावर्तकत्वमपि वाच्यम् । न च तत्सम्भवति । तस्य स्वयमेव वक्ष्यमाणत्वेन  तद्व्यावर्तने वाक्यस्य परस्परव्याहतार्थप्रतिपादकत्वेनोन्मत्तवाक्यतया अप्रामाण्यप्रसङ्गादिति भावः । उक्तमर्थमनुरूपदृष्टान्तोक्त्या सम्भावयति- नरं चेति ।। यथा नारायणमेवेत्येवकारो न नरनारायण-व्यतिरिक्तसुतमात्रव्यावृत्त्यर्थकः । तथा सति आदावुत्पादितस्य नरस्यापि व्यावर्तनीयत्वापत्त्या वाक्यस्य व्याहतार्थप्रतिपादकत्वेन उन्मत्तवाक्यतयाऽप्रामाण्यप्रसङ्गात् । किन्तु आदावुत्पाद्यत्वेनानभिप्रेतहरिकृष्णयोरेव व्यावृत्त्यर्थ इत्यर्थः । सर्वदा सत्त्वादिति ।। हरेः सर्वगतत्वेन तेन सह एकस्थाननिवासस्य सर्वदा सत्त्वादि-त्यर्थः । एवकारेति ।। बुद्धिसारूप्यमेवेत्येवकारेत्यर्थः । अनेन कोऽसावनभिमतोऽर्थः यद्व्यावृत्त्यर्थ एवकार इत्यतस्तमाहेति ग्रन्थावतारः सूचितो भवति । वैरूप्यादिति ।। निर्दुःखत्वसदुःखत्वादिरूपविरुद्धधर्माधि-करणत्वादिति भावः । तदभावादिति ।। उभयोरपि निर्दुःखत्वेन निर्दुःखत्वसदुःखत्वाभ्यां वैरूप्याभावादि-त्यर्थः । मुक्तानामपि स्वस्वरूपानुसारेण पूर्णत्वादाह- निरवधिकत्वमिति ।। स्वातन्त्र्यपारतन्त्र्ययोरेव परस्परविरुद्धतया पूर्णत्वाल्पत्वयोरेव च परस्परविरुद्धत्वात् स्वातन्त्र्यपूर्णते पारतन्त्र्याल्पत्वे इति प्रतिद्वन्द्वितया निर्देश उचितः । न तु स्वातन्त्र्यपूर्णते अल्पत्वपारतन्त्र्ये इत्यप्रतिद्वन्द्वितया निर्देश इत्यतः, यथायोग्यतया सम्बन्धाङ्गीकारेण यथाक्रमं सम्बन्धानङ्गीकारेणास्यापि निर्देशस्य प्रतिद्वन्द्वितया निर्देशत्वान्नानुपपत्तिरित्याह- (पां.टि.) यथायोगमित्यादिना ।। ‘स्वातन्त्र्यपूर्णतेऽल्पत्व’ इत्यत्र ‘ईदूदेद् द्विवचनं प्रगृह्यम्’ इति एदन्ततया प्रगृह्यसंज्ञायाम् ‘प्लुतप्रगृह्या अचि’ इति प्रकृतिभावेन स्वातन्त्र्यपूर्णते अल्पत्वपारतन्त्र्ये इत्येव भवितव्यत्वेन पूर्णतेऽल्पत्वेति कथं सन्धिरित्यत आह- रोदसीवेति ।। यथा हि रोदसीवेत्यत्र ईदन्तरोदसी इति द्विवचनस्य ‘ईदूदेद्द्विवचनम्’ इति प्रगृह्यत्वेऽपि ‘प्लुतप्रगृह्या अचि’ इति प्रकृतिभावाभावाद् रोदसीवेतिसन्धिः तथा स्वातन्त्र्यपूर्णते इत्यस्य प्रगृह्यत्वेऽपि ‘प्लुतप्रगृह्या अचि’ इति प्रकृतिभावानाश्रयणाद्युक्तः स्वातन्त्र्यपूर्णतेऽल्प-त्वेत्यत्र सन्धिः । न च ‘मणीवादेर्न’ इति वार्तिकेन प्रकृतिभावनिषेधात्तत्र सन्धिसम्भवेऽपि प्रकृते तदनिषेधात् कथं सन्धिः स्यादिति वाच्यम् । वैदिकप्रयोगानुसारेण तत्रास्याप्युपसंख्येयत्वेन तेनैव प्रकृतिभावनिषेधेन सन्धेरुपपन्नत्वादित्याशयात् ।।

लघुप्रभा

(व्या.टि.)

एवम् ‘एकीभवन्ति’ इत्यस्य निवृत्त्यर्थत्वमुपेत्य दूषितम् । अधुना तदर्थत्वमेव दूषयितुं विकल्पेन पृच्छति- किञ्चेति ।। गुणं वर्णयति- यथैकीभूतमिति ।। व्यवहारातिरिक्तशक्तिग्राहकाभाववति तस्याप्यभावे ग्राहकाभावेन तदभाव एव सेत्स्यतीति भावः । अस्मदुक्तेति ।। स्थानैक्यमत्यैक्ययोरित्यर्थः । अमुख्यवृत्तित्व-साम्यादिति भावः । वैषम्यमाशङ्कते- विज्ञानात्मनीति ।। जहल्लक्षणायां सर्वथा मुख्यार्थत्यागो, गौण्यान्तु समभिव्याहृतैकदेशे मुख्यार्थलाभ इति विशेष इति भावः । तत्रापीति ।। अङ्गीकृतैकदेशेऽपीत्यर्थः । चिदैक्यस्य त्वन्मते सर्वदा सत्त्वेनाभूतभावाभावादिति भावः । अन्यच्चाऽह- इतश्चेति ।। अनेन परो विज्ञानात्मनो भिद्यते तं प्रत्यधिकरणत्वात्, विज्ञानात्मा पराद्भिद्यते तदधिकर्तव्यत्वाद् इति प्रयोगद्वयसूचकपरोपदेशरूपं मूलमि-त्यर्थः । सूचितहेत्वोः स्वरूपं दर्शयति- अधिकरणेति ।। स्वायत्तन्यायविरोधमाह- मुख्ययैवेति ।। अपौरुषेयत्वान्न तद्विरोध इति शङ्कते- पुरुष एवेति ।। अनिष्टप्रसङ्गेन पराचष्टे- तर्हीति ।। आरोपणेनेति ।। पुरुषाभिप्रायप्रवेशे-नेत्यर्थः । वदन्निति शत्रन्तम् । द्वितीयतुशब्दलब्धविशेषमाह- न त्विति ।। जनयाम्बभूवेत्यामन्तादनुप्रयोगः । मूर्तिदेवीति  प्रकृतेनान्वयः    विरूपत इति बहुव्रीहेर्भावप्रधानात्तसिल्प्रत्यय इत्युपेत्याऽह- विरुद्धधर्मत्वत इति ।। यथायोगमिति ।। पाठक्रमादार्थस्य बलीयस्त्वादित्यर्थः । ननु स्वातन्त्र्यपूर्णते इत्यस्य एदन्तद्विवचनान्त-त्वेन ‘ईदूदेद् द्विवचनं प्रगृह्यम्’ इति प्रगृह्यसंज्ञानिबन्धनः प्रकृतिभावो भाव्य इत्यत आह- रोदसीवेति ।। मणीवादेराकृतिगणत्वादिति भावः ।