शुद्धस्यैवाज्ञत्वे..

शुद्धस्याज्ञानाश्रयत्वेऽज्ञानस्य स्वाभाविकत्वापत्त्याऽनिवृत्त्यापादनम्

मूलम्

- शुद्धस्यैवाज्ञत्वे मुक्तस्याप्यज्ञत्वप्रसक्तेः । स्वाभाविकत्वात् सत्यत्वात् सद्वितीयत्वप्रसक्तेश्च । स्वाभाविकस्य चानिवृत्त्यङ्गीकारादनिवृत्तिप्रसक्तेश्च । सत्यस्य च अनिवृत्तिरिति हि तत्पक्षः ।।

तत्त्वमञ्जरी

अविद्याविजृम्भितं हि मिथ्या नाम । तस्मादज्ञानं विना मिथ्यात्वासिद्धिः । अज्ञानस्य मोक्षेऽनुवृत्तत्वात् स्वाभाविकत्वम् । सत्यस्य चानिवृत्तिरिति तत्पक्षः । ततः सत्यत्वाच्चा-निवृत्तिप्रसक्तेः ।

टीका 

ननु शुद्धस्य ब्रह्मण एव अज्ञानाश्रयत्वं न तु जीवस्य । अतो मिथ्योपाधेः अज्ञानाधीनत्वेऽपि न अज्ञानस्य मिथ्योपाध्यधीनत्वं, निरुपाधिकब्रह्माश्रयत्वादित्यत आह- शुद्धस्यैवेति ।। ततश्च ‘अविद्यास्तमयो मोक्षः’ इत्युक्तत्वान्मुक्तत्वव्याघातप्रसक्तेरिति शेषः । प्रसक्तेरिति हेतोः मिथ्योपाधिभिन्नस्यैवाज्ञत्वमिति साध्येनान्वयः ।

ननु न मुक्तस्याज्ञानं दृश्यते । नापि कल्प्यं कल्पकाभावादिति कश्चित्  । तदसत्  । भावानव-बोधेनासङ्गतत्वात् । न ह्यस्माभिः मुक्तस्य अज्ञानं साधितम् । किन्तु अज्ञानसम्बन्धस्य अन्यनिमित्तत्वे मुक्तस्य च निमित्तापायेऽज्ञानाभावः सिद्ध्येत् । यथाऽऽर्द्रेन्धननिबन्धनस्य धूमस्य तदभावेऽभावः । शुद्धस्यैवाज्ञत्वे स्वरूपातिरिक्तस्य अज्ञानसम्बन्धे  निमित्तस्याभावाद् यावत्स्वरूप-मवस्थानावश्यम्भावान्मुक्तस्यापि  तदापादनं कृतम् । तत्र मुक्तस्य न दृश्यत इत्यादेः का सङ्गतिः। अत एव ब्रह्मण एवेति वक्तव्ये शुद्धस्यैवेत्युक्तम् ।

एतेन न ब्रह्मणो नापि जीवस्य अज्ञानम् । किन्तु चैतन्यस्वरूपमात्रस्य इत्यपि परास्तम् । तस्यापि शुद्धोपहितान्यतरत्वस्य अवश्यं वक्तव्यत्वात् ।

न केवलं शुद्धस्याज्ञत्वे मुक्तस्यापि अज्ञत्वप्रसक्तेः मिथ्योपाधिभिन्नस्य जीवस्यैव अज्ञत्व-मङ्गीकर्तव्यम् । किं तर्हीत्यत आह- स्वाभाविकत्वादिति ।। यदि केवलस्यैव ब्रह्मणोऽज्ञानं स्यात्तदा निमित्तान्तराभावात् स्वाभाविकमेव तत् स्यात् । यच्च तस्य स्वाभाविकमानन्दादिकं तत्सत्यं दृष्टमिति अज्ञानमपि स्वाभाविकत्वात् सत्यं स्यात् । ततश्च अज्ञानस्यापि सत्यत्वाद् ब्रह्मणः सद्वितीयत्वं प्रसज्येत । न ह्यानन्दादिवदज्ञानस्यापि ज्ञानात्मकेन ब्रह्मणाऽभेदो युज्यते । अतो जीवस्यैव अज्ञानमङ्गीकार्यम् । इतश्चैवमित्याह- स्वाभाविकस्येति ।। शुद्धस्यैव ब्रह्मणोऽज्ञानाङ्गीकारे स्वाभाविकमेव तत्स्यादिति तावदुक्तम् । यच्च ब्रह्मणः स्वाभाविकमानन्दादिकं तस्यानिवृत्तिः परेणाङ्गीकृता । तद्वद् अज्ञानस्यापि स्वाभाविकत्वादनिवृत्तिः प्रसज्येत । ततश्च तन्निवृत्त्यर्थं ज्ञानार्थस्य तत्त्वमसीत्याद्युपदेशस्य वैयर्थ्यं स्यात् । पूर्वत्र मुक्तस्याज्ञत्वापादनेन व्याहतौ तात्पर्यम् । इह त्वैकात्म्योपदेशवैयर्थ्य इति भेदः ।

ननु स्वाभाविकस्याऽनन्दादेरनिवृत्तिरङ्गीकृतैव । किन्तु न सा स्वाभाविकत्वप्रयुक्ता । अपि तु निवर्तकाभावप्रयुक्ता । अतः स्वाभाविकत्वेऽपि निवर्तकाभावादानन्दादेः अनिवृत्तिः । अज्ञानस्य तु तद्भावान्निवृत्तिर्भविष्यति को दोष इत्यत आह- सत्यस्य चेति ।। यद्ब्रह्मणः स्वाभाविकं तत्सत्यमिति व्याप्तेरज्ञानस्यापि स्वाभाविकत्वात् सत्यत्वमापन्नम् । सत्यस्य च अनिवृत्तिरिति तावत्परस्य सिद्धान्तः । सत्यमबाध्यमिति अङ्गीकारात् । बाधस्यैव अत्र निवृत्तिशब्देन विवक्षित-त्वात् । तत्कथमज्ञानस्य स्वाभाविकत्वात् सत्यस्य निवृत्तिः स्यात् । व्याघातापातात् । सत्यत्वादेव निवर्तकाभावोऽपि अनुमीयत इति भावः ।

एतेन स्वाभाविकस्यापि सत्यत्वं मा भूत् को दोष इत्यपि परास्तम् । ब्रह्मणा निरुपाधिक-सम्बन्धवतोऽज्ञानस्य निवर्तकस्य निवृत्तेर्वा भावे ब्रह्मणोऽपि तत्प्रसङ्गात् । अनिवृत्तौ प्राप्तायां सत्यत्वमेव प्राप्तम् । अनिवृत्तिव्यतिरिक्तस्य तस्याभावात् । ब्रह्मत्वमेवानिवृत्त्यादौ प्रयोजकं न तु स्वाभाविकत्वमित्येतदपि अनेनैव प्रत्युक्तम् । अब्रह्मणोऽपि अज्ञानस्य अनिवृत्त्यादेरुपपत्ति-सिद्धत्वात् । निरुपाधिकसम्बन्धवतोऽपि प्रतिसम्बन्धिव्यभिचारेऽनुमानमात्रविलोपप्रसङ्ग इति ।

भावबोधः

का सङ्गतिरिति ।। आपादने प्रत्यक्षबाधो न दूषणं प्रत्युतानुगुण एव । आपादकं चाज्ञानसम्बन्ध-स्यान्यनिबन्धत्वमेवेति भावः । एतदापादकं मूले कथमुक्तमित्यत आह- अत एवेति ।। व्याहतौ तात्पर्य-मिति ।। अज्ञाननिवृत्तेरेव मुक्तित्वाद्व्याहतिरित्यर्थः । अत एव विरोधस्फोरणार्थं मुक्तस्यापीत्यपिपदप्रयोग इति भावः । सत्यस्य कुतो न निवृत्तिरित्यत आह- सत्यमबाध्यमिति ।। अबाध्यस्यापि निवृत्त्यङ्गीकारे किं बाधकमित्यत आह- बाधस्यैवेति ।। ननु ‘सत्यस्य च’ इति वाक्येन निवर्तकाभावलक्षणोपाधौ को दोष उक्त इत्यत आह- सत्यत्वादेवेति ।। तथा च सत्यत्वहेतोरुपाधित्वाभिमतेन व्याप्तिमुपपादयितुमेतद्वाक्यमिति भावः। अनिवृत्तिव्यतिरिक्तस्येति ।। अबाधव्यतिरिक्तस्येत्यर्थः । अनेन ‘सत्यस्य चानिवृत्तिः’ इति वाक्यं चशब्दस्या-वधारणार्थत्वमङ्गीकृत्य प्रकारान्तरेण व्याख्यातं भवति । अब्रह्मणोऽप्यज्ञानस्येति ।। तथा च ब्रह्मत्वस्य पक्ष एवानिवृत्त्यादिरूपसाध्याव्यापकत्वान्नोपाधित्वमिति भावः । नन्वेवमन्योन्याश्रयः । स्वाभाविकत्वस्यानिवृत्ति-व्याप्यत्वसिद्धौ ब्रह्मत्वस्यानुपाधित्वसिद्धिः । तत्सिद्धौ च व्याप्यत्वसिद्धिरिति चेन्न । ब्रह्मस्वाभाविकस्याप्य-ज्ञाननिवृत्तौ ब्रह्मणोऽपि निवृत्तिः स्यादित्यनुकूलतर्केण स्वाभाविकस्यानिवृत्तिव्याप्यत्वनिश्चयात् । अत एव पूर्वं तर्कं व्युत्पाद्य ‘एतदप्यनेनैव प्रत्युक्तम्’ इत्युक्तम् । ननु निरुपाधिकसम्बन्धवतोऽप्यज्ञानस्य निवृत्त्यादि-युक्तत्वेऽपि मास्तु ब्रह्मणो निवृत्त्यादिकं, विपक्षे बाधकाभावात् । तथा च तर्कस्य प्रशिथिलमूलकत्वान्न तेन स्वाभाविकत्वस्यानिवृत्तिव्याप्यत्वनिश्चय इत्यत आह- निरुपाधिकसम्बन्धवतोऽपीति ।।

भावदीपः

अस्तु को दोष इत्यत आह- ततश्चेति ।। अज्ञत्वप्रसक्तितश्चेत्यर्थः । असङ्गतत्वादिति ।। अज्ञान-सम्बन्धस्यास्माभिरापाद्यत्वेन  तत्र  तदभावोक्तिरसङ्गतैवेत्यर्थः । असङ्गतिमेव व्यनक्ति-न हीति ।। अत एवेति ।। अनन्यनिमित्तकत्वसूचनार्थत्वादेवेत्यर्थः । यदि शुद्धस्यैवाज्ञानं तस्य यावत्स्वरूपमवस्थानात् तद्भावमापन्नस्य मुक्तस्याज्ञत्वमापद्येत । ततश्च मुक्तत्वव्याघात इति द्योतनाय शुद्धस्यैवेत्युक्तम् । ब्रह्मण इत्युक्तौ तु मायाशबलस्य ब्रह्मणो निवृत्त्या शुद्धत्वसम्भवेन न मुक्तत्वव्याघात इति भावः । निमित्तान्तराभावा-दिति ।। ब्रह्मणोऽज्ञानस्येति योज्यम् । स्वाभाविकमज्ञानमित्यनुषङ्गः । अज्ञानस्य ब्रह्मस्वरूपत्वान्न सद्वितीयत्वप्रसङ्ग इत्यत आह- न ह्यानन्दादिवदिति ।। विरोधद्योतनाय ज्ञानात्मकेनेत्युक्तम् । सत्यस्य कुतो न निवृत्तिरित्यत आह- सत्यमबाध्यमिति ।। सत्यस्य निवृत्तिः स्यादिति ।। अबाध्यस्य बाधः कथं स्यात् तथोक्तौ व्याघातापातादित्यर्थः । ननु निवर्तकभावाभावप्रयुक्ते एव निवृत्त्यनिवृत्ती इति कृतचोद्यस्य किमुत्तर-मित्यत आह- सत्यत्वादेवेति ।।  अबाध्यत्वादेव  बाधकाभावोऽनुमीयत इत्यर्थः । अनिवृत्तौ प्राप्ताया-मिति ।। अज्ञानस्येति योज्यम् । तस्याभावादिति ।। सत्यत्वस्याभावादित्यर्थः । सत्यमबाध्यं निवृत्तिर्बाध इति तु प्रागेव व्यक्तम् । उपपत्तिसिद्धत्वादिति ।। ‘स्वाभाविकत्वात्सत्यत्वम्’ इत्यादिनोक्तोपपत्तीत्यर्थः । अनुमानमात्रेति ।। धूमादेरपि वह्न्यादिव्यभिचारापत्तेरिति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

निरुपाधिकेति ।। जीवब्रह्मोभयानुस्यूतचिन्मात्रेत्यर्थः । ‘आश्रयत्वविषयत्वभागिनी निर्विशेष-चितिरेव केवला’ इति वचनादिति भावः । प्रसक्तेरिति पञ्चम्या अन्वयाप्रतीतेराह- प्रसक्तेरिति हेतोरिति ।। न मुक्तस्याज्ञानं दृश्यत इति ।। तथा च तत्साधने प्रत्यक्षादिप्रमाणबाध इति भावः । मुक्तस्याज्ञानं साधित-मिति ।। येन प्रमाणबाधस्स्यादिति भावः । किन्त्वापादनं कृतमित्यन्वयः । आपादकप्रदर्शनपूर्वकमापादनप्रकारं दर्शयति- अज्ञानसम्बन्धस्येत्यादिना ।। अन्यनिमित्तत्व इति ।। स्वरूपातिरिक्तोपाधिनिमित्तत्व इत्यर्थः । शुद्धस्यैवाज्ञत्व इति ।। स्वरूपमात्रनिमित्तकत्वे त्वित्यर्थः । यावत्स्वरूपमिति ।। स्वरूपप्रयुक्तधर्माणां स्वरूपनिवृत्तिं विना निवृत्त्यभावेन यावत्स्वरूपमवस्थानमावश्यकमित्यर्थः । का सङ्गतिरिति ।। आपादने प्रमाणबाधादेरलङ्कारत्वेनादूषणत्वादिति भावः । अत एवेति ।। शुद्धस्यैवाज्ञत्वे त्वित्यादिनोक्तापादनप्रकार-सूचनार्थमेवेत्यर्थः । चैतन्यस्वरूपमात्रस्येति ।। उभयानुस्यूतचिन्मात्रस्येत्यर्थः । तस्यापि उभयानुस्यूत-चिन्मात्रस्यापि । शुद्धोपहितान्यतरत्वेति ।। शुद्धत्वे तत्राज्ञानोक्तौ मुक्तस्यापि तदापत्तिः । उपहितत्वे उपाधिविशिष्टत्वे। तत्राज्ञानोक्तौ मिथ्योपाधिभिन्नस्यैवाज्ञत्वादित्युक्तत्वेनान्योन्याश्रयः स्यादिति भावः । नन्वज्ञानस्य  सत्यत्वेऽप्यानन्दादिवद्  ब्रह्मणाऽभिन्नत्वान्न  सद्वितीयत्वप्रसक्त्याऽद्वैतहानिरित्यत आह- न हीति ।। अभेदाभावोपपादनायैव ज्ञानात्मकेनेत्युक्तम् । तन्निवृत्त्यर्थं ज्ञानार्थस्येति । अज्ञाननिवृत्तिप्रयोजकं यदैक्यज्ञानं तदर्थस्येत्यर्थः । गतार्थतापरिहारायाऽह-पूर्वत्रेति ।। अज्ञाननिवृत्तेरेव मुक्तित्वाद्व्याहतिरित्यर्थः । अत एव विरोधस्फोरणार्थं मुक्तस्यापीत्यपिशब्दप्रयोग इति भावः । अत एव पूर्वं ‘मुक्तत्वव्याघातप्रसक्तेरिति शेषः’ इत्युक्तमिति ज्ञातव्यम् ।

अज्ञानं    निवर्तते  स्वाभाविकत्वादानन्दादिवदित्यभिप्रेतानुमाने  निवर्तकाभाव  उपाधिरित्याशङ्कते - (श्री.टि.) नन्विति ।। साध्यव्यापकत्वमुपपादयति- निवर्तकाभावादिति ।। साधनाव्यापकतामुपपादयति- अज्ञानस्य त्विति ।। तद्भावादिति ।। ज्ञानरूपनिवर्तकसद्भावादित्यर्थः । यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तकमिति परैरुक्तत्वादिति भावः । सत्यत्वादेव निवर्तकाभावोऽप्यनुमीयत इति साधनाव्यापकत्वं वक्तुं निवर्तकाभावसाधकं सत्यत्वमेवासिद्धमिति शङ्कायां तत्साधयति- यद्ब्रह्मण इत्यादिना ।। स्वाभाविकत्वा-दिति ।। शुद्धस्यैव ब्रह्मणोऽज्ञानाङ्गीकारे तस्य स्वरूपमात्रप्रयुक्तत्वेनान्यनिमित्तकत्वाभावात् स्वाभाविकत्वमेव प्राप्तमित्युक्तत्वादिति भावः । सत्यस्य कुतो न निवृत्तिरित्यत आह- सत्यमबाध्यमिति ।। अबाध्यस्यापि निवृत्त्यङ्गीकारे किं बाधकमित्यत आह- बाधस्यैवेति ।। स्वाभाविकत्वात्सत्यस्येति ।। स्वाभाविकत्वहेतुसिद्ध-सत्यत्वोपेतस्येत्यर्थः । व्याघातापातादिति ।। सत्यमबाध्यं निवृत्त्यप्रतियोगि, तन्निवर्तत इत्यङ्गीकारे व्याघात-प्रसङ्गादित्यर्थः । किमनेनोपाधेर्दूषणमुक्तमित्यत आह- सत्यत्वादेवेति ।। ततश्च साधनव्यापकत्वमुपपाद-यितुमेतद्वाक्यमिति भावः । निवर्तकाभावसाधकं यत् सत्यत्वं तत्साधके स्वाभाविकत्वानुमानेऽप्रयोजकतां आशङ्कते- स्वाभाविकस्यापीति ।। सत्यत्वमनिवर्त्यत्वम् । माभूदिति ।। तथा च निवर्तकसद्भाव एवास्त्विति भावः । एतेनेत्युक्तं विशदयति- ब्रह्मणेति ।। निरुपाधिकसम्बन्धवत इति ।। स्वाभाविकसम्बन्धवत इत्यर्थः। शुद्धस्यैवाज्ञानाङ्गीकारे तस्य शुद्धब्रह्मस्वरूपमात्रप्रयुक्तत्वेन तत्सम्बन्धस्यान्यप्रयुक्तत्वाभावादिति भावः । तत्प्रसङ्गादिति ।। निवर्तकस्य निवृत्तेर्वा प्रसङ्गादित्यर्थः । स्वाभाविकत्वाविशेषादिति भावः । सत्यत्वमेवा-बाध्यत्वमेव । तस्य सत्यत्वस्य । अज्ञानं न निवर्तते स्वाभाविकत्वादानन्दादिवदित्यनुमाने निवर्तकाभावस्यानु-पाधित्वेऽपि ब्रह्मत्वमेवोपाधिर्भविष्यति । अनिवृत्त्युपेते आनन्दादौ दृष्टान्ते ‘विज्ञानमानन्दं ब्रह्म’ इत्यादि-श्रुतेर्ब्रह्मत्वसद्भावेन साध्यव्यापकत्वात् । साधनवतः पक्षाद्व्यावृत्तत्वेन साधनाव्यापकत्वाच्चेत्येतदप्यनेनैव प्रत्युक्त-मित्याह-ब्रह्मत्वमेवेति ।। आदिपदेन निवर्तकाभावो ग्राह्यः । अनेनैवेत्युक्तं विशदयति-अब्रह्मणोऽपीति ।। ब्रह्मवत्स्वाभाविकस्याप्यज्ञानस्य निवृत्तौ ब्रह्मणोऽपि निवृत्तिः स्यादित्यनुकूलतर्केण स्वाभाविकत्वहेतोरनिवृत्ति-व्याप्यत्वनिश्चयेन पक्षेऽनिवृत्तिरूपसाध्यनिश्चयाद् ब्रह्मत्वरूपोपाधेः पक्ष एव साध्यव्यापकत्वभङ्गान्न तस्योपाधि-त्वमिति भावः । ननु ब्रह्मणा निरुपाधिकसम्बन्धवतोऽप्यज्ञानस्य निवृत्तिरस्तु ब्रह्मणो निवृत्तिर्मास्त्विति विपक्षे बाधकाभावेन तर्कस्याप्रयोजकत्वान्न तेन स्वाभाविकत्वस्यानिवृत्तिव्याप्यत्वनिश्चय इत्यत आह- निरुपाधिक-सम्बन्धवत इति ।। अनुमानमात्रेति ।। धूमस्यापि प्रति-सम्बन्धिरूपवह्निव्यभिचारप्रसङ्ग इति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

यावदिति ।। स्वरूपप्रयुक्तधर्मस्य स्वरूपनिवृत्तिं विना निवृत्तौ स्वरूपप्रयुक्तताया व्याहतत्वादिति भावः । का सङ्गतिरिति ।। आपादने प्रमाणबाधस्यादूषणत्वात् । अन्यथाऽऽपादनमात्रोच्छेदप्रसङ्गादिति भावः। तस्यापीति ।। चैतन्यमात्रस्यापीत्यर्थः । तदुभयान्यतरत्वव्यतिरेके तद्रूपत्वानिर्वाहादिति भावः । व्याहता-विति ।। अज्ञाननिवृत्तेरेव मुक्तित्वादिति भावः । अज्ञानं न निवर्तते स्वाभाविकत्वाद् आनन्दादिवदित्यभि-मतानुमाने निवर्तकाभाव उपाधिरित्याशङ्कते- नन्विति ।। सत्यस्यानिवृत्तिरिति तत्सिद्धान्त इति भवद्भिः (पां.टि.) कुतोऽवगम्यत इत्यत आह- सत्यमिति ।। ननु तदङ्गीकारेणाबाध्यत्वप्राप्त्या बाधासम्भवेऽप्य-निवृत्त्यप्राप्तेः निवृत्त्यङ्गीकारे को दोष इत्यत आह- बाधस्यैवेति ।। ‘न हि विनाशो बाधः’ इति पूर्वग्रन्थानुरोधेन विनाशरूपताया असम्भवादिति भावः । व्याघातेति ।। अज्ञानस्य सत्यत्वेन अबाध्यतया निवृत्त्यप्रति-योगित्वसिद्ध्या निवृत्त्यप्रतियोगिनोऽज्ञानस्य निवृत्त्युक्तेर्व्याहतत्वादिति भावः । किमनेनोक्तोपाधेर्दूषणमुक्तं भवतीत्यत आह- सत्यत्वादेवेति ।। तथा च साधनव्यापकत्वान्न निवर्तकाभाव उपाधिरिति भावः । स्वाभाविकत्वमस्तु सत्यत्वं मास्तु, विपक्षे बाधकाभावादप्रयोजकत्वमित्याशङ्क्याऽह- एतेनेति ।। एतेनेत्युक्तमेव विवृणोति- ब्रह्मणेत्यादि ।। ब्रह्मणा निरुपाधिकसम्बन्धवतोऽप्यज्ञानस्य निवृत्त्याद्यङ्गीकारेऽविशेषेण ब्रह्मणोऽपि तदापत्त्या निवृत्त्यादेरनङ्गीकर्तव्यतया अनिवृत्तत्वे च तन्मात्रस्वरूपत्वे सत्यत्वस्यापि प्राप्त्या स्वाभाविकं सत्यं मा भूदिति शङ्कायाः सत्यं सत्यं माभूदित्यत्र पर्यवसन्नतया व्याहतत्वेनानुपपन्नतयाऽनुदयेन तत्परिहारार्थं विपक्षे बाधकस्यावक्तव्यत्वाद्युक्तं स्वाभाविकत्वेन सत्यत्वापादनमिति भावः । अनिवृत्तिव्यतिरिक्तस्येति ।। अबाध्यत्वव्यतिरिक्तस्य सत्यत्वस्याभावादित्यर्थः । ननु ब्रह्मत्वस्यैवानिवृत्त्यादौ प्रयोजकत्वेनाज्ञानस्य तदभावेना-निवृत्त्याद्यप्रसङ्गान्न शङ्कायाः व्याहतत्वेनापरिहार्यत्वमित्यत आह- ब्रह्मत्वमेवेति ।। यद्वा स्वाभाविकत्वादज्ञान-स्यानिवृत्तिरित्यस्योपाध्यन्तरमाशङ्क्य निराकरोति- ब्रह्मत्वमेवेति ।। अनेनैवेत्युक्तमेव हेतुं प्रथयति- अब्रह्मणोऽपीति ।। तथा च ब्रह्मत्वस्य पक्षे एव निवृत्त्यादिरूपसाध्याव्यापकत्वान्नोपाधित्वमिति भावः । नचैवमप्यन्योन्याश्रयः । स्वाभाविकत्वस्यानिवृत्तिव्याप्यत्वसिद्धौ ब्रह्मत्वस्यानुपाधित्वसिद्धिः, तत्सिद्धौ च व्याप्यत्वसिद्धिरिति वाच्यम् । ब्रह्मस्वाभाविकस्याप्यज्ञानस्य निवृत्तौ ब्रह्मणोऽपि निवृत्तिः स्यादित्यनुकूलतर्केण स्वाभाविकत्वस्यानिवृत्तिव्याप्यत्वनिश्चयात् । अत एव पूर्वं तर्कं व्युत्पाद्यैतदप्यनेनैव प्रत्युक्तमित्युक्तम् । ननु निरुपाधिकसम्बन्धवतोऽप्यज्ञानस्य निवृत्त्यादियुक्तत्वेऽपि मास्तु ब्रह्मणो निवृत्त्यादिकं विपक्षे बाधकाभावात् । तथा च प्रशिथिलमूलत्वान्न तेन स्वाभाविकत्वस्य अनिवृत्तिव्याप्यत्वनिश्चय इत्यत आह- निरुपाधिक-सम्बन्धवतोऽपीति ।।

लघुप्रभा

(व्या.टि.)

परस्पराश्रयभिया जीवाश्रयत्वपक्षं परित्यज्य शुद्धाश्रयत्वं शङ्कते-नन्विति ।। आहेति ।। अनिश्व्ं प्रसञ्जयतीत्यर्थः । नाज्ञानवत्त्वमेवानिष्टमित्यतस्तत्तात्पर्यमाह- ततश्चेति ।। प्रसक्तेरिति पञ्चम्या अन्वयाप्रतीतेस्तं दर्शयति- अज्ञत्वमिति साध्येनेति ।। अज्ञत्वमङ्गीकार्यमिति फलेनेत्यर्थः । यद्वक्ष्यति ‘जीवस्यैवाज्ञानमङ्गीकार्यम्’ इति । यत्तु कश्चित्साधनपरतया व्याचश्व्े, तद्वैयात्यात् । नह्येवं कुलधर्मः, यदनिश्व्ं प्रसञ्जयता प्रसक्त्यैव साधनं कार्यमिति । उपाधिभिन्नस्य विशिष्टस्य संसारिणोऽज्ञानापादनेन स्वरूपासिद्धेश्च । किमत्र मुक्तस्याज्ञानं साध्यत उतापाद्यत इति विकल्पं मनसि निधाय कश्चिच्छङ्कते- नन्विति ।। आद्यं निराह- न मुक्तस्येति ।। बाधादिति भावः । द्वितीयं पराचष्टे- नापीति ।। कल्पकाभावादिति ।। निमित्तापाये नैमित्तिकाज्ञानापादकाभावादि-त्यर्थः । असदिति ।। अभद्रमित्यर्थः । द्वितीयं कल्पमुपेत्य तद्दोषमुद्धरति- न ह्यस्माभिरिति ।। एवमेवेति ।। (व्या.टि.) अविचार्यैवेत्यर्थः । अभावादिति ।। ल्यब्लोपनिमित्ता पञ्चमी । अभावमप्यापाद्येत्यर्थः । इत्यादे-रिति ।। चोद्यस्येति भावः । एतावदापादनतात्पर्यलिङ्गमाह-अत एवेति ।। एतदेव मूलं पक्षान्तरप्रतिक्षेपेऽप्यति-दिशति- एतेनेति ।। तस्यापीति ।। चैतन्यस्वरूपस्येत्यर्थः । सामान्यस्य विशेषे पर्यवसानीयत्वेनेति भावः । चशब्दसमुच्चयं दर्शयति- न केवलमिति ।। अनिश्व्ं प्रसञ्जयितुमापादकस्य व्याप्तिं दर्शयति- यच्चेति ।। अनृत-स्वाभावस्याप्यनृतत्वाद्व्यभिचारपरिहाराय तस्येति विशेषितम् । तथा च यत्तदीयं स्वाभाविकं तत्सत्यमित्यन्वयं दर्शयति- आनन्दादिकमिति ।। न ब्रह्मणः सद्वितीयत्वं सतोऽप्यज्ञानस्य ब्रह्मस्वरूपत्वादित्याशङ्क्य निराकरोति- न हीति ।। ज्ञानात्मकेनेति हेतुगर्भं विशेषणम् । ब्रह्मण इत्यापादकविशेषणम् । तत्तात्पर्यमाह- तत्र चेति ।। नन्वनेनापि पर्यायेण मुक्तस्याज्ञानवत्त्वमेवाऽपादितमिति पुनरुक्तिमाशङ्क्य तात्पर्यभेदान्नेत्याह- पूर्वत्रेति ।।

तर्कमूलभूतव्याप्तावुपाधिमाशङ्कते- नन्विति ।। निवर्तकाभावप्रयुक्तेति ।। प्रयोजकत्वान्निवर्तकाभाव उपाधिरित्यर्थः । उपाधेः पक्षाद्व्यावृत्तिं दर्शयति- तद्भावादिति ।। ‘उपाधिः प्रतिरूपं हि साधनं तत्र चापरम्’ इत्यनुभाष्योक्तिदिशा साध्यव्यापकस्योपाधेः पक्षव्यावृत्तौ व्यापकनिवृत्तिन्यायेनोपाध्युन्नीतेऽज्ञानं निवर्तते निवर्तकभावादिति प्रतिपक्षे बाधमुद्भावयति- यद्ब्रह्मण इत्यादिना ।। आपन्नं तर्कितमित्यर्थः । व्याघाता-वधित्वाद्बाधशङ्कायाः सत्यत्वेऽपि निवृत्तिःकिन्न स्यादिति शङ्का समूलघातं हतेत्याह-सत्यस्य चेति ।। सिद्धान्तेऽपि न व्याप्यव्यापकभावेन, किं त्वैकार्थ्येनेत्याह- सत्यमबाध्यमिति ।।  बाधस्यैवेति च ।। अत्र तर्के । निवृत्ति-शब्देनेति ।। प्रसञ्जनीयप्रतियोगिशब्देनेत्यर्थः । कथमित्याक्षेपे । निवृत्तिः स्यादिति ।। प्रतिपक्षेणानुमिता स्यादित्यर्थः    कुत इत्यत आह- व्याघातापातादिति ।।  एवमुपाध्युन्नीतप्रतिपक्षे बाधमभिधायासिद्धि-मप्याह- सत्यत्वादेवेति ।। कश्चित्त्वत्र अज्ञानं न निवर्तते सत्यत्वादित्यनुमानं फलितमित्याह । तन्न । साध्या-वैशिष्ट्यात् । किन्तु अज्ञानं निवर्तकशून्यमनिवर्त्यत्वादित्यनुमानप्रकारो द्रष्टव्यः । इदं मूलं स्वाभाविकत्वात् सत्यत्वादिति पूर्वोक्ततर्केऽप्रयोजकताशङ्कानिरासेऽपि योजयति- एतेनेति ।। तत्परतया मूलं योजयति- ब्रह्म-णेति ।। निवर्तकस्य बाधकस्य निवृत्तेर्वा बाधस्य वेत्यर्थः । ब्रह्मणोऽपीति ।। तत्प्रतिसम्बन्धिनोऽपीत्यर्थः । तत्प्रसङ्गादिति ।। तयोर्बाधकबाधयोरित्यर्थः । निरुपाधिकसम्बन्धे सम्बन्धिनोः समसत्ताकत्वनियमेन बाध्या-बाध्ययोरबाध्यस्वाभाविकसम्बन्धबाधादित्यर्थः । प्राप्तायामिति ।। तर्कस्य विपर्ययपर्यवसानेनोपपत्तिसिद्धा-यामित्यर्थः । प्राप्तं सिद्धमित्यर्थः । किं व्याप्यव्यापकभावेनेत्यतो न, किन्त्वैकार्थ्येनेत्याह- अनिवृत्तीति ।। अनेन सत्यस्य सत्यपदस्य अनिवृत्तिः प्रवृत्तिनिमित्तमित्यर्थं सूचयति । एवं चानिवृत्तिमुपेत्य सत्यत्वप्रतिक्षेपो व्याहत इति भावः । स्वाभाविकस्य चानिवृत्त्यङ्गीकारादनिवृत्तिप्रसक्तेश्चेति पूर्वोक्ते ब्रह्मीयस्वाभाविकत्वेऽनिवृत्तिः स्यादिति तर्के, सत्यस्येत्यत्रोक्ते सत्यत्वेन निवर्तकाभावानुमाने चोपाधिं शङ्कते- ब्रह्मत्वमेवेति ।। अनिवृत्त्या-दावित्यादिपदेन निवर्तकाभावग्रहः । स्वाभाविकत्वमिति ।। उपलक्षणमेतत् । सत्यत्वं चेत्यपि ग्राह्यम् । उक्तदोषनिरासप्रकारमत्राप्यतिदिशति- अनेनैवेति ।। अब्रह्मणोऽपीति पक्षे उपाधेः साध्यव्यभिचारप्रदर्शनम् । (व्या.टि.)ननु ‘न हि पक्षे पक्षतुल्ये वा व्यभिचारः’ इति सकलतान्त्रिकव्यवहारात्कथं पक्षे तदुद्भावनमित्यत आह- उपपत्तीति ।। ब्रह्मणा निरुपाधिकसम्बन्धवतोऽज्ञानस्य निवर्तकस्य निवृत्तेर्भावे ब्रह्मणोऽपि तत्प्रसङ्गात् अनुपाधिकसम्बन्धसम्बन्धित्वसाम्याद् विनिगमकाभावादित्यनिष्टप्रसङ्गरूपोपपत्तिसिद्धत्वादित्यर्थः । तथा च ‘अनुकूलेन तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः’ इति भावः । प्रतिकूल-तर्कपराहतत्वेन व्यभिचारोन्नयनासम्भवाच्च नास्योपाधित्वमित्याह- निरुपाधिकसम्बन्धवतोऽपीति ।। अनिवृत्त्यविनाभूतब्रह्मस्वाभाविकत्वस्य निवर्तकाभावाविनाभूतसत्यत्वस्य चेत्यर्थः । प्रतिसम्बन्धिव्यभिचार इति ।। स्वाभाविकत्वमनिवृत्तिव्यभिचारि ब्रह्मत्वव्यभिचारित्वात् । तथा सत्यत्वं निवर्तकाभावव्यभिचारि ब्रह्मत्वव्यभिचारित्वात् इति साध्यव्यभिचारेऽनुमिते इत्यर्थः । अनेन सत्यस्य चकारात्स्वाभाविकस्य, अनिवृत्तिः उपलक्षणया निवर्तकाभावश्चेति संयोज्य यथायथं सत्य(त्व)स्य निवर्तकाभावः स्वाभाविकस्यानिवृत्तिरिति तत्पक्ष इति विवृतं भवति । अथ वा चोऽवधारणे । सत्यस्य च सत्यस्यैव न तु ब्रह्मत्वविशेषितस्येति । अनुमान-मात्रेति ।। सर्वस्यापि व्याप्यस्य व्यापकव्यभिचारप्रसङ्गेनानुमानमात्रोच्छेदापात इति मायिनां वज्रपातः ।