न च प्रत्यक्षदृष्टस्य ..
सकलप्रत्यक्षाणामपि प्रबलप्रत्यक्षान्तरेणैव वाध्यत्वस्योपपादनम्
मूलम्
- न च प्रत्यक्षदृष्टस्य ततो बलवत्प्रत्यक्षमागमं विना अनुमानादिनैव बाधो दृष्टः। दूरस्थवृक्षह्रस्वत्वादौ प्रत्यक्षापटुत्वस्य निश्चितत्वद्युक्त्या तत्र दीर्घत्वनिश्चयः । प्रत्यक्षस्य हि दूरे मन्दग्राहित्वं परिमाणादावन्यथात्वं च ततो बलवत्प्रत्यक्षेणैव निश्चितम् ।।
तत्त्वमञ्जरी
ननु अस्ति बलवदनुमानादि । तथाहि । भेदो मिथ्या भेदत्वात् चन्द्रभेदवदित्यादि । असतः ख्यात्ययोगात् इत्याद्यर्थापत्तिश्चेत्यत आह- न च प्रत्यक्षेति ।। तादृशानुमानस्य प्रत्यक्षेणैव कालात्ययापदिष्टत्वात् इत्याशयः । यथा दूरस्थवृक्षह्रस्वत्वादौ युक्त्या प्रत्यक्षं बाध्यते तथा अत्रापि इत्यत आह- दूरेति ।। आदिशब्दाद् दूरस्थवाक्यस्याव्यक्तत्वम् ।
टीका
सत्यं, प्रत्यक्षदृष्टस्य मिथ्यात्वकल्पनं बाधकप्रमाणाधीनमिति । तथाऽप्युपपद्यते जगतो मिथ्यात्वकल्पनम् । दृश्यत्वाद्यनुमानस्य ज्ञाननिवर्त्यत्वानुपपत्तेश्च बाधकस्य सत्त्वादित्यत आह- न चेति ।। अनुमानादिनेत्यादिपदेन अर्थापत्तेर्ग्रहणम् । अर्थापत्तेरनुमानत्वेऽपि ‘व्यवहारे भट्टनयः’ इति वदता परेणानुमानात् पृथक्त्वेनाङ्गीकृतत्वात्तदनुसारेणाऽदिशब्दप्रयोगः । अयमभिप्रायः- प्रबलं हि विरोधि बाधकं भवति । न च प्रत्यक्षादनुमानार्थापत्त्योर्बलवत्त्वमस्तीत्युक्तम् । अतोऽनु-मानादिना प्रत्यक्षदृष्टस्य जगत्सत्यत्वस्य बाधो न युक्त इति । न दृष्ट इति वदताऽन्यथा अदृष्टकल्पनं स्यादिति सूचितम् । उपलक्षणं चैतत् । अन्यथा कालात्ययापदिष्टोच्छेदप्रसङ्गश्चेत्यपि द्रष्टव्यम् । एवं तर्हि शुक्तिरजतादेरपि सत्यत्वं ग्राह्यं स्यात् । दाहाद्यनुमानमेव हि तत्र बाधकमित्यत उक्तम्- ततो बलवत्प्रत्यक्षमागमं विनेति ।। इदं रजतमिति प्रत्यक्षस्य नेदं रजतं किन्तु शुक्तिकैवेति प्रत्यक्षं बाधकं भवति । प्रथमस्यापरीक्षितत्वेन दुर्बलत्वाद् द्वितीयस्य परीक्षितत्वेन बलवत्त्वात् । यद्यपि परीक्षाऽनुमानमेव । तथाऽपि तस्य केवलस्याबाधकत्वेऽपि प्रत्यक्षसाहाय्येन सामर्थ्यात् । प्रकृते च तदभावात् । अत एवोक्तम्- अनुमानादिनैवेति ।। प्राक्च प्रमाणयुक्त्यपेक्षत्वादिति । भगवदवतारेषु च्छेदभेदादि प्रत्यक्षस्य ‘निरनिष्टः’ इत्यादिरागमो बाधकः । विष्णुर्दोषवानिति प्रत्क्षस्योपजीवकस्य दुर्बलत्वात् । आगमस्य तूपजीव्यस्य प्रबलत्वात् । प्राबल्याभावापेक्षया आगमोऽपि वाऽदिशब्दोक्तः । यद्यपीदं प्रागुक्तम् । दूषितं चानुमानादिकम् । तथाऽपि प्रसङ्गादागतं पुनः सङ्क्षेपेणोक्तमित्यदोषः । उत्तरप्रमेयप्रसञ्जनार्थं चेति ।
ननु दूरस्थे वृक्षे दीर्घेऽपि ह्रस्वोऽयमिति, तथा चन्द्रे प्रादेशपरिमित इति च जायमानं प्रत्यक्षं दूरतोऽप्येवं दृश्यमानत्वादित्यनुमानेन अनुपजीव्येनाप्यागमेन च बाध्यं दृष्टम् । न हि तत्र प्रत्यक्षमेव बाधकम् । प्रत्यासत्तेः प्रागेव दीर्घत्वादिनिश्चयात् । तत्कथमेवमुच्यत इत्यत आह- दूरस्थेति ।। विषयसप्तम्येषा । निश्चितत्वात् ह्रस्वत्वादिप्रत्यक्षोत्पत्तेः प्रागेवेति शेषः । युक्त्येत्यागमस्याप्युप-लक्षणम् । दीर्घत्वनिश्चयो दीर्घत्वादिनिश्चयः । केन कारणेन प्रत्यक्षस्यापटुत्वमित्यत आह- प्रत्यक्षस्य हीति ।। मन्दग्राहित्वं रेखोपरेखाद्यविषयीकरणेनार्थग्राहित्वम् । परिमाणादौ परिमाण-पृथक्त्वादिविषये । अन्यथात्वम् अयथार्थत्वम् । मन्दग्राहित्वमन्यथात्वे हेतुः । बलवत्प्रत्यक्षेण साक्षिणा ।
इदमुक्तं भवति- द्विविधं ज्ञानं दो(डो)लायमानमेकाकारविषयं च । तत्राऽद्यं सन्देह इत्युच्यते । द्वितीयमपि द्विविधम् । किञ्चित्स्वार्थस्य निश्चायकं- यथा भवत्येवायं स्तम्भ इति । किञ्चित्स्वार्थ-मेकाकारतयोल्लिखदपि नावधारयति- यथा सवितरि सुषिरमित्यादि । स चायं भेदः क्वचित्सम्भा-वनाऽसम्भावानाभ्यां भवति । क्वचित्परीक्षापेक्षायामपि तत्प्रवृत्त्यप्रवृत्तिभ्याम् । क्वचित्प्रागेव विपरीतसंस्कारभावाभावाभ्याम् । तत्राऽद्यं निश्शङ्कप्रवृत्तिहेतुत्वात्पटुशब्देनोच्यते । द्वितीयं तु तदहेतुत्वादपटुशब्देन । दूरस्थवृक्षह्रस्वत्वादिविषयं च, यद्दूरस्थत्वादिदोषयुक्तं तन्मन्दग्राहि । तत एव परिमाणादावयथार्थमित्यन्वयव्यतिरेकानुगृहीतेन साक्षिणा सामान्यतो निश्चितत्वाद्विपरीत-संस्कारसद्भावादेकाकारविषयतया जायमानमप्यनिश्चाययदेव निश्शङ्कप्रवृत्त्यकारणं बाधितप्रायं जायते । ततः परञ्च नाप्रवर्तमानावनुमानागमौ तेन दत्तावकाशौ दीर्घत्वादिनिश्चयं कुर्वाणौ तद्बाधकाविवोच्येते । अतो नैतत् प्रत्यक्षस्यानुमानागमबाध्यत्वे निदर्शनमिति ।
भावबोधः
ननु प्रत्यक्षस्यानुमानादिकमेव बाधकमिति वदन्तं प्रत्यनुमानादिकं बाधकं भवतीत्येवोक्तं न तु तत्र हेतुरुक्त इत्यत आह- अयमभिप्राय इति ।। अनुमानस्य प्रत्यक्षादिराहित्यलक्षणदौर्बल्यद्योतकमनुमानादि-नैवेत्येवकारं प्रयुञ्जानस्यायमभिप्राय इत्यर्थः । प्राक्चेति ।। प्रकारद्वयेन तत्र युक्तेरपि बाधकत्वाङ्गीकारादिति भावः । आगममिति ।। प्रत्यक्षसमानयोगक्षेमत्वेन तद्रीत्यैव परिहारोपपत्तेरस्य पृथक्करणं न स्यात् । उत्पत्त्यनन्तरं प्रबलबाधकदर्शनाच्चेति भावः । ह्रस्वत्वादावित्यादिपदेन ‘आगमं विना’ इत्यादिप्रकारान्तरानुसारेण चन्द्र-प्रादेशत्वादेरेव विवक्षितत्वात्तदनुरोधादाह- आगमस्याप्युपलक्षणमिति ।। दीर्घत्वादिनिश्चय इति च ।।
भावदीपः
प्रत्यक्षदृष्टस्याप्यनुमानादिना कुतो न बाध इत्यतोऽभिप्रायमाह- अयमभिप्राय इति ।। इत्युक्त-मिति ।। ‘नहि प्रमाणदृष्टस्य तर्कबाध्यत्वम् । प्रत्यक्षादिविरुद्धस्य तर्काभासत्वनियमात्’ इत्यादिनोक्तमि-त्यर्थः । दाहादीति ।। नेदं रजतं दह्यमानत्वात् पाट्यमानत्वादित्याद्यनुमानमित्यर्थः । अपरीक्षितत्वेनेति ।। सजातीयविजातीयसंवादतद्विसंवादाभावरूपपरीक्षाशून्यत्वेनेत्यर्थः । प्रकृते चेति ।। शुक्तिरूप्यदौ चेत्यर्थः । प्राक्च प्रमाणेति ।। प्रमाणमूलयुक्तीति व्याख्यानादिति भावः । भगवदवतारेष्विति ।। रामकृष्णादौ अयं कश्चिन्मनुष्य इति ज्ञात्वा इन्द्रजिदादिनिर्मितनागास्त्रादिना च्छेदभेदादिमानयमिति ज्ञानं न विष्णुत्वसामानाधि-करण्येन दोषवत्त्वप्रत्यक्षज्ञानम् । किन्तु विष्ण्ववतारत्वं रामादेरागमाज्ज्ञात्वा विष्णुरयं दोषीति प्रत्यक्षमेव विष्णोर्दोषित्वज्ञानम् । तच्च येनाऽगमेन विष्णुत्वं ज्ञायते तेनैव तस्य निर्दोषत्वाज्ञानेऽपि तज्जातीयेन निरनिष्ट इत्याद्यागमेन तज्ज्ञानात् स बाधक इत्यर्थः । नरशिरःकपालं शुचि प्राण्यङ्गत्वादित्यादौ
‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेत्’
इत्यादावुपजीव्यजातीयस्य बाधकत्वदृष्टेरिति भावः । उपजीव्यस्येति ।। उपजीव्यजातीयस्येत्यर्थः । अनुमानादि-नेत्यादिपदेनैव प्रागर्थापत्तिग्रह उक्तः । उपजीव्यत्वादिहीनदुर्बलागमो वा ग्राह्य इत्याह- प्राबल्याभावेति ।। यद्यपीदमिति ।। अनुमानादि न प्रत्यक्षबाधकमिति प्रमेयम् । ‘न हि प्रमाणदृष्टस्य’ इत्यादिनेति भावः । अनुमानादिकमिति ।। दृश्यत्वाद्यनुमानमर्थापत्तिश्चेत्यर्थः । उत्तरप्रमेयेति ।। प्रत्यक्षदृष्टमप्यनुमानागमे-नाप्रबलेनापि बाधितं दृष्टमिति चोद्यनिरासकप्रमेयप्रसक्त्यर्थमित्यर्थः । न च प्रत्यक्षेत्याद्यनुक्तौ तच्छङ्काऽनुदयेन तन्निरासाप्रसक्तेरिति भावः । आगमेनेति ।।
‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु’
इत्यागमेनेत्यर्थः । युक्त्या दीर्घत्वनिश्चय इत्यस्य घटनाय निश्चितत्वादित्यनूद्य शेषमाह- निश्चितत्वादिति ।। दीर्घत्वादिनिश्चय इति ।। अप्रादेशिकत्वनिश्चय आदिपदार्थः । पृथक्त्वादीत्यादिपदेन द्रुतत्वादिः । मन्दग्राहित्वं रेखाद्यविषयीकारित्वम् । तात्पर्यस्यास्फुटत्वादाह- इदमुक्तं भवतीति ।। सम्भवनासम्भा-वनाऽभ्यामिति ।। स्तम्भादौ स्तम्भत्वादिसम्भावना सवितृसुषिरत्वादावसम्भावना, ताभ्याम् । तत्रार्थसत्ता-निर्धारकत्वानिर्धारकत्वरूपो भेदो भवतीत्यर्थः । तत्प्रवृत्त्यप्रवृत्तिभ्यामिति ।। सजातीयसंवादरूपपरीक्षा प्रवृत्तिर्नेदं रूप्यमित्यादिज्ञाने, इदं रूप्यमित्यादौ तु तद प्रवृत्तिर्ज्ञेया । क्वचिद्विपरीतेति ।। समीपस्थदूरस्थवृक्षादौ दीर्घह्रस्वत्वज्ञानादावित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
शङ्कते- सत्यमिति ।। ज्ञाननिवर्त्यत्वानुपपत्तेरिति ।। ‘तरति शोकमात्मवित्’ इति श्रुत्या दुःखादेर्जगतो ज्ञाननिवर्त्यत्वं तावच्छ्रूयते । न च सत्यत्वे निवृत्तिः सम्भवति आत्मवत् । अतो यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तकमिति वचनादज्ञानकल्पितत्वरूपमिथ्यात्वं विनाऽनुपपद्यमानं तदाक्षिपतीति भावः । ननु प्रत्यक्षस्यानुमानादिकमेव बाधकमिति वदन्तं प्रति प्रत्यक्षस्यानुमानादिकं बाधकं न भवतीत्येवोक्तम् । न तत्र कश्चिद्धेतुरुक्त इत्याशङ्कायामाह- अयमभिप्राय इति ।। अनुमानादिनैवेत्येवकारं प्रयुञ्जानस्यायमभिप्रायो यद्धेतुसूचनमित्यर्थः । तमेव दर्शयति- प्रबलं हीति ।। अन्यथेति ।। प्रत्यक्षदृष्टस्यानुमानादिना बाधाङ्गीकार इत्यर्थः । एवमेवोत्तरत्राप्यन्यथेत्यस्यार्थो द्रष्टव्यः । दाहाद्यनुमानमेवेति ।। नेदं रजतं दाहच्छेदादिमत्त्वादित्यनु-मानमेवेत्यर्थः । अनुमानविरोधश्च प्रबलप्रत्यक्षस्याकिञ्चित्कर इत्यङ्गीकृतत्वादिति भावः । परीक्षितत्वेनेति ।। दाहच्छेदादिरूपविजातीयसंवादेनाप्रामाण्यशङ्काशून्यतया निश्चितत्वेनेत्यर्थः । परीक्षा नामेति ।। द्वितीयस्य प्रत्यक्षस्य बाधकत्वोपयोगिबलवत्त्वसम्पादिका परीक्षा नामानुमानमेवेति तद्विरोधोऽकिञ्चित्कर इति भावः । तस्य परीक्षारूपानुमानस्य । प्रत्यक्षसाहाय्येन सामर्थ्यादिति ।। प्रत्यक्षरूपसाहाय्यसामर्थ्यात् । तदानुकूल्य-सद्भावाद्बाधकत्वं युक्तमिति शेषः । तर्ह्येवमेवास्तु प्रकृत इत्यत आह- प्रकृते चेति ।। दृश्यत्वाद्यनुमानादेः प्रत्यक्षसाहाय्याभावादित्यर्थः । अनुमानादिनैवेतीति ।। प्रत्यक्षसाहाय्यरहितेन केवलानुमानादिनैवेत्यर्थः । प्राक्चेति ।। प्रत्यक्षागमरूपप्रमाणबलवत्त्वार्थं युक्तेरपेक्षितत्वात् तथा बलवत्प्रमाणमूलकयुक्त्यपेक्षत्वादित्येवं प्रकारद्वयेन तत्र युक्तेरपि बाधकत्वस्योक्तत्वेन केवलयुक्तेरप्रयोजकताया उक्तत्वादिति भावः । आगमं विनेत्या-गमग्रहणस्य प्रयोजनमाह- भगवदवतारेष्विति ।। रामकृष्णादिष्वित्यर्थः । छेदभेदादिप्रत्यक्षस्येति ।। तत्कालीनानामिति शेषः । ननु तत्र प्रत्यक्षस्य दौर्बल्यमागमस्य प्राबल्यं च कथमित्यत आह- विष्णुर्दोषवानिति प्रत्यक्षस्येति ।।
अयं भावः । कृष्णादीनां विष्ण्ववतारत्वाज्ञाने येषां केषाञ्चित्कृष्णादीनां दोषवत्त्वेन विष्णोस्तदभावप्राप्तेः कृष्णादीनां
‘देवक्यां देवरूपिण्यां विष्णुस्सर्वगुहाशयः । आविरासीत्’
इत्याद्यागमेन विष्णुत्वं ज्ञात्वा कृष्णादिर्दोषी ततश्च तदभिन्नो विष्णुरपि दोषीति प्रत्यक्षेणोत्पत्तव्यम् । तथा च (श्री.टि.) सर्वस्याप्यागमस्यैकवाक्यत्वादुपजीव्यभूतो निर्दोषत्वग्राही यः प्रबलागमस्स एव विष्णुर्दोष-वानित्युपजीवकस्य दुर्बलस्य प्रत्यक्षस्य बाधक इति । यथोक्तमनुव्याख्याने-
‘आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते ।
न चेत्स्याद्दोषवानन्यः’ इत्यादि ।
नन्वनुमानादिनैवेत्यादिपदेनार्थापत्तिमगृहीत्वा आगमग्रहणे ‘आगमं विना बाधो न दृष्टः’ इत्यागमस्य बाधकताया उक्तत्वात्पुनरागमेन बाधो न दृष्ट इत्युक्ते व्याघात इत्यत उक्तम्- प्राबल्याभावापेक्षयेति ।। तथा चोपजीव्यतया बलवदागमं विनाऽनुपजीव्येन दुर्बलेनाऽगमेन बाधो न दृष्ट इति व्याख्यानान्न दोष इति भावः । प्रागुक्तमिति ।। ‘तर्कमात्रतः प्रत्यक्षबाधने’ इत्यादिनेत्यर्थः । दूषितं चेति ।। दृश्यत्वाद्यनमानादिकं ‘यच्च प्रमाणदृष्टानामपि पदर्थानां मिथ्यात्वकल्पनम्’ इत्यादिनोपजीव्यप्रमाणबाधादिना दूषितं चेत्यर्थः । प्रसञ्जनार्थम् उपक्षेपार्थम् । तदेव दर्शयति- नन्वित्यादिना ।। दूरतोऽप्येवमिति ।। अपिशब्दोऽवधारणे । अयं वृक्षो वस्तुगत्या दीर्घो भवितुमर्हति दूरस्थत्वादिदोषादेव एवं ह्रस्वतया दृश्यमानत्वादित्यनुमानेन बाध्यमित्यर्थः । केचित्तु यद्दूरत एवं दृश्यते तत्तत्परिमाणादावयथार्थमिति व्याप्तिसमुच्चायकोऽपिशब्द इत्याहुः । आगमेनेति ।। प्रादेश-परिमितश्चन्द्रमा इति प्रत्यक्षम्
‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु ।।’
इत्यनुपजीव्येनाप्यागमेन बाध्यं दृष्टमित्यर्थः । प्रत्यासत्तेः प्रागेवेति ।। समीपगमनात्प्रागेवेत्यर्थः । एवमुच्यत इति ।। प्रत्यक्षदृष्टस्यानुमानेन, अनुपजीव्येन केवलागमेन वा बाधो न दृष्ट इति कथमुच्यत इत्यर्थः । प्रागेवेति शेष इति ।। उत्पत्त्यनन्तरं बाधे इदं रजतमिति प्रत्यक्षसमानयोगक्षेमत्वेन तद्रीत्यैव परिहारोपपत्तेरस्य पृथक्करणं न स्यादिति भावः । वृक्षह्रस्वत्वादावित्यत्राऽदिपदेन चन्द्रप्रादेशत्वस्य विवक्षितत्वात्तदनुसारेणाऽह- आगमस्या-प्युपलक्षणमिति ।। तर्हि दीर्घत्वनिश्चय इत्ययुक्तमित्यतस्तदनूद्याऽदिपदाध्याहारेण व्याख्याति- दीर्घत्वनिश्चयो दीर्घत्वादिनिश्चय इति ।। अर्थमात्रेति ।। पदार्थस्वरूपमात्रेत्यर्थः । अन्यथात्वे प्रत्यक्षस्य परिमाणादि-विषयेऽयथार्थत्वे ।
ननु चन्द्रप्रादेशत्वादिप्रत्यक्षस्यापि स्तम्भोऽयमित्यादिप्रत्यक्षवदेकाकारविषयत्वेन स्वार्थे पुरुषप्रवर्तकत्व-सम्भवात्कथमपटुत्वमित्याशङ्कायामेकाकारविषयकत्वाविशेषेऽप्यस्य दोषजन्यतया निश्चितत्वात् स्तम्भोऽय-मित्यादिज्ञानवैलक्षण्यमिति प्रदर्शयितुमुत्तरत्र जगत्प्रत्यक्षस्य सर्वापटुप्रत्यक्षवैलक्षण्यं चोपपादयितुं ज्ञानप्रभेदं तावदाह- इदमुक्तं भवतीत्यादिना ।। सुषिरं छिद्रम् । नन्वेकाकारविषयेऽपि ज्ञाने स्वार्थनिश्चायकत्वादिरूपो विशेष एवायं किन्निबन्धन इति जिज्ञासायामाह- स चायं भेद इति ।। क्वचिदिति ।। स्तम्भोऽयमिति ज्ञाने (श्री.टि.) सवितृसुषिरज्ञाने चेत्यर्थः । सम्भावना अर्थाभावानिश्चयः । तथा च स्तम्भोऽयमिति ज्ञानमर्था-भावानिश्चयरूपसम्भावनासद्भावात् स्वार्थनिश्चायकं, सवितृसुषिरज्ञानं तु प्रागेवार्थाभावनिश्चयरूपासम्भा-वनासद्भावान्न स्वार्थनिश्चायकमिति भावः । क्वचिदिति ।। सत्यरजतज्ञाने शुक्तिरजतज्ञाने चेत्यर्थः । रजत-मिदमिति ज्ञानानन्तरं तस्मिन् ज्ञाने प्रामाण्याप्रामाण्यसंशयेन प्रामाण्यग्राहके साक्षिणि प्रतिबद्धे सति तन्निरासाय सजातीयविजातीयसंवादरूपपरीक्षाऽपेक्षायां यत्र सत्यरजतज्ञाने तत्प्रवृत्तिस्तत्स्वार्थनिश्चायकं, परीक्षया शङ्काप-गमेऽप्रतिबद्धसाक्षिणा तत्प्रामाण्यनिश्चयात् । यत्र च शुक्तिरजतादिज्ञाने परीक्षापेक्षायामपि सा परीक्षा न प्रवर्तते तत् स्वार्थानिश्चायकमिति तयोर्भेदो द्रष्टव्यः । क्वचिच्चेति ।। शैलाग्रस्थतरुपरिमाणादिज्ञाने सन्निहिततरुपरिमाण-ज्ञाने चेत्यर्थः । विपरीतसंस्कारो दोषनिश्चयः । तत्र दूरस्थत्वादिदोषस्य प्रागेव निश्चितत्वेन शैलाग्रस्थतरु-परिमाणज्ञानं न स्वार्थनिश्चायकम् । सन्निहिततरुपरिमाणादिज्ञानं तु प्राग्दोषनिश्चयाभावात्स्वार्थनिश्चायकमिति तयोर्भेद इति भावः । तत्राऽद्यमिति ।। यत्र सम्भावना, यत्र परीक्षापेक्षायां तत्प्रवृत्तिः, यत्र च प्रागेव विपरीत-संस्काराभावश्च, तदित्यर्थः । द्वितीयमिति ।। यत्रासम्भावनापरीक्षापेक्षायां तदप्रवृत्तिः प्रागेव विपरीत-संस्कारभावश्च तदित्यर्थः । मन्दग्राहीति ।। रेखोपरेखाद्यविषयीकरणेन पदार्थस्वरूपमात्रग्राहीत्यर्थः । अनुमानागमाविति ।। दूरतोऽप्येवं दृश्यमानत्वादित्यनुमानं ‘अष्टाशीतिसहस्राणि’ इत्यागमश्चेत्यर्थः । तेन साक्षिप्रत्यक्षेण । बाधकाविवेति ।। राजगौरवेण राजभृत्येनामात्य इवेति भावः । यथाऽऽहुः
‘दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ।।’ इति ।
अस्य जगत्प्रत्यक्षस्य ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
प्रत्यक्षस्यानुमानादिकं बाधकं न भवतीति प्रतिज्ञामात्रं तत्र हेत्वनुक्तेरयुक्तमित्यतोऽनुमानादि-नैवेत्येवकारेणैव तत्सूचनेन प्रतिज्ञामात्रत्वाभावान्नानुपपत्तिरिति भावेनाऽह- अयमभिप्राय इति ।। ननु प्रत्यक्षत्वाविशेषादिदं रजतमित्येतदेव प्रत्यक्षं नेदं रजतमिति प्रत्यक्षस्य बाधकं किन्न स्यादित्यतोऽविशेषोऽसिद्ध इति भावेन विशेषमुपदर्शयति- प्रथमस्येति ।। प्रत्यक्षसाहाय्येति ।। नेदं रजतमिति प्रत्यक्षसाहाय्येत्यर्थः । अस्तु तर्हि जगत्प्रत्यक्षस्यापि तत्साहाय्यवताऽनुमानेनैव बाध इत्यत आह- प्रकृते चेति ।। अत एवेति ।। यतः प्रत्यक्षादिसाहाय्यरहितमबाधकमत एवेत्यर्थः । मूल आगमग्रहणप्रयोजनमाह- भगवदवतारेष्विति ।। आगमस्य प्रत्यक्षबाधकताप्रयोजकं प्राबल्यमुपपादयति- विष्णुर्दोषवानिति ।। आदिशब्देनोक्त इति ।। अनुमानादि-नेत्यादिशब्देनोक्त इत्यर्थः । ननु प्रत्यक्षबाधकस्याऽगमस्य कथं तदबाधकत्वोक्तिरित्यतः प्रबलस्य बाधकत्वेऽपि दुर्बलस्याबाधकत्वात्तदभिप्रायकत्वात्तदुक्तेर्नानुपपत्तिरित्याह- प्राबल्याभावापेक्षयेति ।। प्रागेवेति शेष इति ।। उत्पत्त्यनन्तरं बाध इदं रजतमिति प्रत्यक्षसमानयोगक्षेमत्वेन तद्रीत्यैव परिहारोपपत्तेरस्य पृथक्करणं न स्यात् । उत्पत्त्यनन्तरं प्रबलबाधकदर्शनाच्चेति भावः । आगमस्याप्युपलक्षणमिति ।। अनुपजीव्यानुमानस्येवा-(पां.टि.) नुपजीव्यागमस्यापि प्रत्यक्षबाधकत्वेन शङ्कितत्वात्तत्परित्यागेन मूले युक्त्येत्यनेन युक्तिमात्रग्रहणस्या-युक्तत्वादिति भावः । तर्ह्यनुपजीव्यानुमानागमाभ्यां दीर्घत्वस्यानिश्चयान्मूले तदुक्तेरस्वारस्यमित्यतोऽन्यथा व्याचष्टे- दीर्घत्वनिश्चय इति ।। परिमाणपृथक्त्वविषय इति ।। अनेन परिमाणादाविति विषयसप्तमीत्युक्तं भवति । अन्यथात्वे हेतुरिति ।। अनेन मन्दग्राहित्वं तत एवान्यथात्वं चेति मूलयोजनोक्ता भवति । द्विविधं हि ज्ञानं भवतीत्यादिको ग्रन्थस्तत्त्वोद्योतटीकायाम् अस्माभिरेव विवृतत्वान्न पृथगत्र विवृतः ।
लघुप्रभा
उक्तं व्यक्तीकृत्य चोदयति- सत्यमिति ।। बाधकस्येति ।। दृढभक्तिरित्यादिवत्सामान्ये नपुंसकमिति भावः । आदिपदेनेति ।। यद्यपि समासेनान्यपदार्थग्रहणं नाऽदिपदेन । तथाऽप्यादिपदेनेत्यस्याऽदिपदान्तेन समासेनेत्यत्र निरूढलक्षणा । अन्यपदार्थनिरूपितप्राथम्यवाचिपूर्वप्रभृतिप्रमुखादिशब्दान्तबहुव्रीहौ सर्वत्र पूर्वपदेन प्रभृतिपदेनान्येषां ग्रहणमित्यादितान्त्रिकव्यवहारात् । पूर्वपदस्य तात्पर्यग्राहकतामाश्रित्यैवेत्थं व्यवहारा इत्यव-धेयम् । ननु तथाऽप्यर्थापत्तेरनुमानत्वेन तद्भेदाभावात्कथमादिपदेन ग्रहणमित्यत आह- अर्थापत्तेरिति ।। इति वदतेति ।। ‘अभावषष्ठान्येतानि’ इत्युक्त्या मानषट्कस्य भट्टनयत्वात्तदनुयायित्वं स्वस्य वदता मायिने-त्यर्थः । अङ्गीकृतत्वादिति । अभ्युपगमसिद्धान्तत्वात्तस्येति भावः । तदनुसारेणेति । पुरोवादानुरूपत्वादनुवाद-स्येत्यर्थः । नन्वदर्शनं न साधकं, विपक्षे बाधकानुपन्यासादित्यत आह- न दृष्ट इति वदतेति ।। एतदिति ।। दूषणसूचनमित्यर्थः । द्रष्टव्यमिति ।। उत्प्रेक्षितव्यमित्यर्थः । सामर्थ्यादिति ।। बाधनसामर्थ्यादित्यर्थः । यथोक्तम्-
‘दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदा तु विपरीतत्वं शिष्टाकोपे यथोदितम् ।।’ इति ।
‘शिष्टाकोपे विरुद्धमिति चेत् । न , शास्त्रपरिमाणत्वात्’ इति शिष्टाकोपाधिकरणेऽतिदुर्बलाया अपि ‘क्षुत आचा-मेत्’ इति स्मृतेः प्रबलपदार्थाश्रितत्वेन प्रबलाया ‘वेदं कृत्वा वेदिं करोति’ इति क्त्वाश्रुतिबाधकत्वमुक्तम् । उक्तमिति ।। एवेति केवलानुमानार्थापत्त्योर्दौर्बल्यमित्यर्थः । प्रमाणयुक्तीति ।। बाधकयुक्तेः प्रमाणमूलक-त्वेन प्राबल्यमुक्तमित्यर्थः । प्रत्यक्षस्य बलवत्प्रत्यक्षबाधमुदाहृत्य प्रबलागमबाधमुदाहरति- भगवदवतारे-ष्विति ।। उपजीव्यस्येति ।। ‘यः सर्वज्ञः’ इत्यादेर्विष्णुत्वग्राहकस्येत्यर्थः । आदिपदस्यार्थान्तरमाह- आगमोऽपि वेति ।। इदं प्रागुक्तमिति ।। ‘यच्च प्रमाणदृष्टानामपि मिथ्यात्वकल्पनम्’ इत्यत्रेत्यर्थः । दूषितञ्चानुमानादिक-मिति ।। ‘तर्कमात्रतः प्रत्यक्षबाधने’ इत्यादिनेति शेषः । सङ्क्षेपेणेति पुनरुक्तिं प्रतिचिक्षेप । ‘सङ्क्षेपविस्तराभ्यान्तु कथयन्ति मनीषिणः’ इति स्मृतेरित्यर्थः । उक्तं प्रत्युक्तम् । अदोषः दोषाभावः । उत्तरप्रमेयेति ।। प्रत्यक्ष-पटुत्वापटुत्वादिरूपप्रमेयेत्यर्थः । न दुष्ट इति रिक्तं वचः । बहुस्थलेषु दुष्टत्वादित्याशङ्कते- नन्विति ।। दूरस्थ इति ।। तथेत्युदाहरणान्तरसमुच्चये । उपमायां वा । दिक्कृतपरत्ववतीत्यर्थः । अनुमानेनेति ।। दूरस्थोऽयं वृक्षः दीर्घः दूरतोऽप्येवं दृश्यमानत्वादिति प्रयोगो द्रष्टव्यः । अनुपजीव्येनेति पूर्वोत्तरान्वयि । धर्माग्राहकेणेत्यर्थः । आगमेनेति ।। ‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु’ इत्यनेनेत्यर्थः । उभयोः परिमाणभ्रमत्वेऽपि लघुप्रभा
भौमान्तरिक्षभेदेन पृथगुक्तिः । अनुमानेनाऽगमेनेति च यथाक्रममन्वयः । बाध्यमिति ।। अपहार्य-विषयमित्यर्थः । प्रत्यक्षमेवेति ।। भ्रमानन्तरं दीर्घत्वादिप्रत्यक्षमित्यर्थः । प्रत्यासत्तेः प्रागेवेति । वृक्षं प्रत्यासाद्य हि दीर्घत्वं निश्चेयम् । ततः प्रागेव साक्षिणा ज्ञानाप्रामाण्यनिश्चयाहितार्थाभावनिश्चयात्तद्विपरीतदीर्घत्वादिरपि निश्चित एवेति । ततः प्रवर्तमानप्रत्यक्षमपहृतापहारायोगादबाधकमित्यर्थः । निश्चितत्वादिति ।। साक्षिणा सामान्यतो निश्चितत्वात् । विशेषतश्च विपरीतसंस्कारलक्षणकारणेनानुमितत्वादित्यर्थः । अस्यावधिमुद्भावयति- ह्रस्वत्वादीति ।। चन्द्रमहत्त्वे प्रमाणसङ्ग्रहायाऽह- युक्त्येति ।। महत्त्वसङ्ग्रहायाऽह- आदीति ।। मान्द्यं च विशेषाग्रहणमित्याह- रेखोपरेखादीति ।। परिमाणादावित्यादिपदसङ्ग्राह्यं दर्शयन् विभक्त्यर्थमाह- पृथक्त्वादि-विषय इति ।। आदिपदेन संयोगग्रहः । चशब्दसमुच्चेयं हेतुं दर्शयति- मन्दग्राहित्वमिति ।। नन्वपटुत्व-कारणप्रश्नस्य नेदमुत्तरं, तदनुक्तेरित्यत आह- इदमुक्तं भवतीति ।। डोलायमानमिति ।। डोलेवाऽचरतीत्या-चारक्यङन्ताच्छानच् । आद्यमिति ।। एकस्मिन् धर्मिणि विरुद्धानेकाकारावगाहीत्यर्थः । निश्चायकमिति ।। अर्थतथात्वाश्वासहेतुरित्यर्थः । (नावधारयतीति ।। अर्थतथात्वाश्वासाहेतुरित्यर्थः) नावधारयतीति ।। अर्थतथात्वाश्वासनं न करोतीत्यर्थः । एतद्वाक्याऽपातप्रतीत्या नावधारणत्वादेककोटिकोऽपि संशय इत्यङ्गीकुर्वाणा निरस्ताः । एतद्वाक्यतात्पर्यस्य सुधायामुक्तेः । उक्तं हि सुधायाम्-‘न स्तम्भोऽयमित्याद्येकाकारनियतं ज्ञानमिह निर्णयपदेनोच्यते । किन्तु तदनन्तरभावि वस्तुतथात्वाश्वासः’ इति । नन्वेकाकारनैयत्ये समाने कुतोऽय-मवधारणभेद इत्यत आह- स चायमिति ।। अपटुत्वं प्रकृतोदाहरणे प्रदर्शयति- दूरस्थेति ।। बाधकावि-वेति ।। न तु बाधकावेवेत्यर्थः । निगमयति- अत इति ।। एतदिति ।। दूरस्थह्रस्वत्वप्रत्यक्षमित्यर्थः ।